#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00074 Uniform title: rudrayamalatantra uttarakāṇḍa Editor : Malaviya S. Description: This e-text was created from electronic typesetting files in devanagari of Dr. S. Malaviya and converted into roman transliteration by programs written by the staff of Muktabodha. Notes: Licenced for non-commercial use under the Creative Commons Licence. Revision 1: June 14, 2007 (this is a reformatted version of revision 0). Publisher : Internet publisher: Muktabodha Indological Research Institut Publication year : 2007 Publication city : Publication country : United States #################################################### * अथ प्रथमः पटलः भैरव उवाच परा श्रीपरमेशानीवदनाम्भोजनिःसृतम् | श्रीयामलं महातन्त्रं स्वतन्त्रं विष्णुयामलम् || १-१ || शक्तियामलमाख्यातं ब्रह्मणः स्तुतिहेतुना | ब्रह्मयामलवेदाङ्गं सर्वञ्च कथितं प्रिये || १-२ || इदानीमुत्तराकाण्डं वद श्रीरुद्रयामलम् | यदि भाग्यवशाद् देवि! तव श्रीमुखपङ्कजे || १-३ || यानि यानि स्वतन्त्राणि संदत्तानि महीतले | प्रकाशय महातन्त्रं नान्यतन्त्रेषु तृप्तिमान् || १-४ || सर्ववेदान्तवेदेषु कथितव्यं ततः परम् | तदा ते भक्तवर्गाणां सिद्धिः सञ्चरते ध्रुवम् || १-५ || यदि भक्ते दया भद्रे ! वद त्रिपुरसुन्दरि महाभैरववाक्यञ्च पङ्कजायतलोचना || १-६ || श्रुत्वोवाच महाकाली कथयामास भैरवम् | भैरवी उवाच शम्भो महात्मदर्पघ्न कामहीन कुलाकुल || १-७ || चन्द्रमण्डलशीर्षाक्ष हालाहलनिषेवक | अद्वितीयाघोरमूर्त्ते रक्तवर्णशिखोज्ज्वल || १-८ || महाऋषिपते देव सर्वेषाञ्च नमो नमः | सर्वेषां प्राणमथन शृणु आनन्दभैरव || १-९ || आदौ बालाभैरवीणां साधनं षट्कलात्मकम् | पश्चात् कुमारीललितासाधनं परमाद्भुतम् || १-१० || कुरुकुल्लाविप्रचित्तासाधनं शक्तिसाधनम् | योगिनीखेचरीयक्षकन्यकासाधनं ततः || १-११ || उन्मत्तभैरवीविद्या--कालीविद्यादिसाधनम् | पञ्चमुद्रासाधनञ्च पञ्चबाणादिसाधनम् || १-१२ || प्रत्यङ्गिरासाधनञ्च कलौ साक्षात्करं परम् | हरितालिकास्वर्णविद्याधूम्रविद्यादिसाधनम् || १-१३ || आकाशगङ्गा विविधा कन्यकासाधनं ततः | भ्रूलतासाधनं सिद्धसाधनं तदनन्तरम् || १-१४ || उल्काविद्यासाधनं च पञ्चतारादिसाधनम् | अपराजितापुरुहूताचामुण्डासाधनं ततः || १-१५ || कालिकासाधनं कौलसाधनं घनसाधनम् | चचीकासाधनं पश्चात् घर्घरासाधनं ततः || १-१६ || विमलासाधनं रौद्रीत्रिपुरासाधनं ततः | सम्पत्प्रदासप्तकूटासाधनंचेटीसाधनम् | शक्तिकूटादिषट्कूटानवकूटादिसाधनम् || १-१७ || कनकाभाकाञ्चनाभावह्न्याभासाधनं ततः | वज्रकूटापञ्चकूटासकलासाधनं ततः || १-१८ || तारिणीसाधनं पश्चात् षोडशीसाधनं स्मृतम् | छिन्नादि--उग्रप्रचण्ड्यादिसाधनं सुमनोहरम् || १-१९ || उल्कामुखीरक्तमुखीसाधनं वीरसाधनम् | नानाविधाननिर्माणशवसाधनमेव च || १-२० || कृत्वा देवीसाधनञ्च कृत्वाहिसाधनं ततः | नक्षत्रविद्यापटलं कालीपटलमेव च || १-२१ || श्मशानकालिकादेवीसाधनं भूतसाधनम् | रतिक्रीडासाधनञ्च सुन्दरीसाधनं तथा || १-२२ || महामालासाधनञ्च महामायादिसाधनम् | भद्रकालीसाधनञ्च नीलासाधनमेव च || १-२३ || भुवनेशीसाधनञ्च दुर्गासाधनमेव च | वाराहीगारुडीचान्द्रीसाधनं परमाद्भुतम् || १-२४ || ब्रह्माणीसाधनं पश्चाद् हंसीसाधनमुत्तमम् | माहेश्वरीसाधनञ्च कौमारीसाधनं तथा || १-२५ || वैष्णवीसाधनं धात्रीधनदारतिसाधनम् | पञ्चाभ्राबलिपूर्णास्या नारसिंहीसुसाधनम् || १-२६ || कालिन्दीरुक्मिणीविद्याराधाविद्यादिसाधनम् | गोपीश्वरीपद्मनेत्रापद्ममालादिसाधनम् || १-२७ || मुण्डमालासाधनञ्च भृङ्गारीसाधनं ततः | सकलाकर्षणीविद्याकपालिन्यादिसाधनम् || १-२८ || गुह्यकालीसाधनञ्च बगलामुखीसाधनम् | महाबालासाधनञ्च कलावत्यादिसाधनम् || १-२९ || कुलजाकलिकाकक्षाकुक्कुटीसाधनं महत् | चिञ्चादेवीसाधनञ्च शाङ्करीगूढसाधनम् || १-३० || प्रफुल्लाब्जमुखीविद्याकाकिनीसाधनं ततः | कुब्जिकासाधनं नित्यासरस्वत्यादिसाधनम् || १-३१ || भूर्लेखाशशिमुकुटा--उग्रकाल्यादिसाधनम् | मणिद्वीपेश्वरीधात्रीसाधनं यक्षसाधनम् || १-३२ || केतकीकमलाकान्तिप्रदाभेद्यादिसाधनम् | वागीश्वरीमहाविद्या अन्नपूर्णादिसाधनम् || १-३३ || वज्रदण्डारक्तमयीमन्वारीसाधनं तथा | हस्तिनीहस्तिकर्णाद्यामातङ्गीसाधनं ततः || १-३४ || परानन्दानन्दमयीसाधनं गतिसाधनम् | कामेश्वरीमहालज्जाज्वालिनीसाधनं वसोः || १-३५ || गौरीवेतालकङ्कालीवासवीसाधनं तथा | चन्द्रास्यासूर्यकिरणारटन्तीसाधनं ततः || १-३६ || किङ्गिनी पावनीविद्या अवधूतेश्वरीति च | एतासां सिद्धविद्यानां साधनाद्रुद्र एव सः || १-३७ || अलकाकलियुगस्थाशक्तिटङ्कारसाधनम् | हरिणीमोहिनीक्षिप्रातृष्यादिसाधनं तथा || १-३८ || अट्टहासाघोरनादामहामेघादिसाधनम् | वल्लरीकौरविण्यादिसाधनं परमाद्भुतम् || १-३९ || रङ्किणीसाधनं पश्चाद् नन्दकन्यादिसाधनम् | मन्दिरासाधनं कात्यायनीसाधनमेव च || १-४० || रजनीराजतीघोनासाधनं तालसाधनम् | पादुकासाधनं चित्तासाधनं रविसाधनम् || १-४१ || मुनिनाथेश्वरीशान्तिवल्लभासाधनं तथा | मदिरासाधनं वीरभद्रासाधनमेव हि || १-४२ || मुण्डालीकालिनीदैत्यदंशिनीसाधनं ततः | प्रविष्टवर्णालघिमामीनादिसाधनं महत् || १-४३ || फेत्कारीसाधनं भल्लातकीसाधनमद्भुतम् | उड्डीयानेश्वरीपूर्णागिरिजासाधनं तथा || १-४४ || सौकरीराजवशिनीदीर्घजङ्घादिसाधनम् | अयोध्यापूजितादेवीद्राविणीसाधनाद्भुतम् || १-४५ || ज्वालामुखीसाधनञ्च कृष्णजिह्वादिसाधनम् | पञ्चवक्त्रप्रियाविद्यानन्तविद्यादिसाधनम् || १-४६ || श्रीविद्याभुवनेशानीसाधनं कायसाधनम् | रक्तमालामहाचण्डीमहाज्वालादिसाधनम् || १-४७ || प्रक्षिप्तामन्त्रिकाकामपूजिताभक्तिसाधनम् | श्वासस्थावायवीप्राप्तालेलिहानादिसाधनम् || १-४८ || भैरवीलसितापृथ्वीवाटुकीसाधनं तथा | अगम्या--आकुलीमौलीन्द्राञ्जनमन्त्रसाधनम् || १-४९ || कुलावतीकुलक्षिप्तारतिचीनादिसाधनम् | शिवाक्रोडादितरुणीनायिकामन्त्रसाधनम् || १-५० || साधनं शैलवासिन्या अकस्मात् सिद्धिवर्धनम् | मन्त्रयन्त्रस्वतन्त्रादिपूज्यमानाः परात्पराः || १-५१ || एताः सर्वाः कलियुगे कालिका हरकोमलाः | मन्त्राद्या येन सिद्धयन्ति सत्यं सत्यं न संशयः || १-५२ || महाकाल शिवानन्द परमानन्दपारग | भक्तानामनुरागेण विद्यारत्नं पुनः शृणु || १-५३ || आदौ वैष्णवदेवस्य मन्त्राणां नित्यसाधनम् | ततस्ते मङ्गलं मन्त्रसाधनं परमाद्भुतम् || १-५४ || अकस्माद्विहिता सिद्धिर्येन सिद्ध्यति भूतले | बालभैरवयोगेन्द्रसाधनं शिवसाधनम् || १-५५ || महाकालसाधनञ्च तथा रामेश्वरस्य च | अघोरमूर्त्ते रमणासाधनं शृणु यत्नतः || १-५६ || क्रोधराजभूतराजएकचक्रादिसाधनम् | गिरीन्द्रसाधनं पश्चात् कुलनाथस्य साधनम् || १-५७ || बटुकेशादिश्रीकण्ठेशादिसाधनमेव च | मृत्युञ्जयस्य रौद्रस्य कालान्तकहरस्य च || १-५८ || उन्मत्तभैरवस्यापि तथा पञ्चास्यकस्य च | कैलासेशस्य शम्भोश्च तथा शूलिन एव च || १-५९ || भार्गवेशस्य सर्वस्य महाकालस्य साधनम् | सुरान्तकस्य पूर्णस्य तथा देवस्य शङ्कर || १-६० || हरिद्रागणनाथस्य वरदेश्वरमालिनः | ऊर्ध्वकेशस्य धूम्रस्य जटिलस्यापि साधनम् || १-६१ || आनन्दभैरवस्यापि बाणनाथस्य साधनम् | करीन्द्रस्य शुभाङ्गस्य हिल्लोलमर्दकस्य च || १-६२ || पुष्पनाथेश्वरस्यापि वृषनाथस्य साधनम् | अष्टमूर्त्तेः कालमूर्त्तेश्चन्द्रशेखरसाधनम् || १-६३ || क्रमुकस्यापि घोरस्य कुबेराराधितस्य च | त्रिपुरान्तकमन्त्रस्य कमलाक्षस्य साधनम् || १-६४ || इत्यादिसिद्धमन्त्राणां मन्त्रार्थं विविधं मुदा | उदितं तद्विशेषेण सुविस्तार्य शृणुष्व तत् || १-६५ || इन्द्रादिदेवता सर्वा येन सिद्ध्यन्ति भूतले | तत्प्रकारं महादेव सावधानोऽवधारय || १-६६ || उपविद्यासाधनञ्च मन्त्राणि विविधानि च | नानाकर्माणि धर्माणि षट्कर्मसाधनानि च || १-६७ || श्रीरामसाधनं यक्षसाधनं योगसाधनम् | सर्वविद्यासाधनञ्च राजज्वालादिसाधनम् || १-६८ || मन्त्रसिद्धिप्रकारञ्च हनुमत्साधनादिकम् | विषज्वालासाधनञ्च पाताललोकसाधनम् || १-६९ || भूतलिपिप्रकारञ्च तत्तत्साधनमेव च | नवकन्यासाधनञ्च अष्टसिद्धिप्रकारकम् || १-७० || आसनानि च अङ्गानि साधनानि बहूनि च | कात्यायनीसाधनानि चेटीसाधनमेव च || १-७१ || कृष्णमार्जारसिद्धिश्च खड्गसिद्धिस्ततः परम् | पादुकाजङ्घसिद्धिश्च निजजिह्वादिसाधनम् || १-७२ || संस्कारगुटिकासिद्धिः खेचरीसिद्धिरेव च | भूप्रवेशप्रकारत्वं नित्यतुङ्गादिसाधनम् || १-७३ || स्तम्भनं दारुणं पश्चादाकर्षणं मुनेरपि | नानाविधानि देवेश औषधादीनि यानि च || १-७४ || हरितालादिसिद्धिश्च रसपारदसाधनम् | नानारससमुद्भूतं रसभस्मादिसाधनम् || १-७५ || वृद्धस्य तरुणाकारं साधनं परमाद्भुतम् | वैजयन्तीसाधनञ्च चरित्रं वासकस्य च || १-७६ || शिवाचरित्रमश्वस्य चरित्रं वायसस्य च | कुमारीणां प्रकारं तु वज्राणां वारणं तथा || १-७७ || सम्पत्तिसाधनं देशसाधनं कामसाधनम् | गुरुपूजाविधानञ्च गुरूसन्तोषसाधनम् || १-७८ || निजदेवाराधनञ्च निजसाधनमेव च | वारुणीपैष्टिकीगौडीकैतकीमाध्विसाधनम् || १-७९ || स्वदेहगमनं स्वर्गे मर्त्ये मर्त्यैश्च दुर्लभम् | शरीरवर्धनञ्चैव कृष्णभावस्य साधनम् || १-८० || नयनाकर्षणञ्चैव कालसर्पस्य दर्शनम् | रणक्षोभप्रकारञ्च पञ्चेन्द्रियनिवारणम् || १-८१ || योगविद्यासाधनञ्च भक्षप्रस्थनिरूपणम् | चान्द्रायणव्रतञ्चैव शृणु तद्योगसिद्धये || १-८२ || यामलाग्रेण शंसन्ति यानि सर्वाणि कानि च | ब्रह्माण्डे यानि वस्तूनि सर्वत्र दुर्लभं शिवम् || १-८३ || येऽभ्यस्यन्ति महातन्त्रं बालाद्वा मन्त्रतोपि वा | यामलं मम वक्त्राम्भोरुहसुन्दरसंभवम् || १-८४ || अतिगुह्यं महागुह्यं शब्दगुह्यं निराकुलम् | नानासिद्धिसमुद्राणां गृहं योगमयं शुभम् || १-८५ || शास्त्रजालस्य सारं हि नानामन्त्रमयं प्रियम् | वाराणसीपुरपतेः सदामोदं सुखास्पदम् || १-८६ || सरस्वतीदैवतं यत् कालीषु शिखरे वृतम् | महामोक्षं द्वारमोक्षं सर्वसंकेतशोभितम् || १-८७ || वाञ्छाकल्पद्रुमं तन्त्रं शिवसंस्कारसंस्कृतम् | अप्रकाश्यं क्रियासारं सहस्रस्तुतिराजितम् || १-८८ || अष्टोत्तरशतं नाम सहस्रनाममङ्गलम् | नानाद्रव्यसाधनादिविधृताञ्जनरञ्जितम् || १-८९ || कालीप्रत्यक्षकथनं कालीषोढादिसंपुटम् | महाचमत्कारकरं स्थितिसंहारपालकम् || १-९० || अष्टादशप्रकारञ्च षोढायाः सौख्यमुक्तये | ये जानन्ति महाकालं यामलं कलिपावनम् || १-९१ || आब्रह्मस्तम्बपर्यन्तं करे तस्य न संशयः | तत्प्रकारमहं वक्ष्ये निगमागममङ्गलम् || १-९२ || यस्माद्रुद्रो भवेज्ज्ञानी नानातन्त्रार्थपारगः | यामिनीविहितं कर्म कुलतन्त्राभिसाधनम् || १-९३ || महावीरहितं यस्मात् पञ्चतत्त्वस्वरूपकम् | लंघनं नास्ति मे नाथ अस्मिन् तन्त्रे सुगोपनम् || १-९४ || ततो यामलमाख्यातं चन्द्रशेखर शङ्कर | रुद्राक्षं साधनोत्कृष्टं शतयागफलप्रदम् || १-९५ || मनःसन्तोषविपुलं यामलं परिकीत्तीतम् | रुरुकादिभैरवाणां ब्राह्मीदेव्याश्च साधनम् || १-९६ || जाम्बूनदलताकोटिहेमदासाधनं यतः | मनसासाधनं यत्र लङ्कालक्ष्मीप्रसाधनम् || १-९७ || देवतानाञ्च कवचं नानाध्यानव्रतं महत् | अन्तर्यागविधानानि कलिकालफलानि च || १-९८ || भाति यत्नप्रभाकारं प्रायश्चित्तविमर्षणम् | पटलं त्रिंशता व्याप्तं ये पठन्ति निरन्तरम् || १-९९ || अवश्यं सिद्धिमाप्नोति यद्यदिच्छति भूतले | कर्मणा मनसा वाचा महातन्त्रस्य साधनम् || १-१०० || करोति कमलानाथकरपद्मनिषेवितम् | ज्ञात्वा सर्वधरं तन्त्रं सम्पूर्णं लोकमण्डले || १-१०१ || प्राप्नोति साधकः सिद्धिं मासादेव न संशयः | नानाचक्रस्य माहात्म्यं नानाङ्कमण्डलावृतम् || १-१०२ || सर्वज्ञसिद्धिशतकं खण्डकालीकुलालयम् | तरुणादित्यसंकाशं वनमालाविभूषितम् || १-१०३ || दैवतं परमं हंसं कालकूटाशिनं प्रभुम् | आदौ ध्यात्वा पूजयित्वा नमस्कुर्याद् महेश्वरम् | प्रथमारुणसङ्काशं रत्नालङ्कारभूषितम् | वरदं वारुणीमत्तं परमहंसं नमाम्यहम् || १-१०४ || भैरव उवाच यदि न पठ्यते तन्त्रं यामलं सर्वशङ्करम् | तदा केन प्रकारेण साधकः सिद्धिभाग्भवेत् || १-१०५ || केचिच्च बुद्धिहीनाश्च मेधाहीनाश्च ये जनाः मन्दभाग्याश्च धूर्ताश्च मूढाः सर्वापदावृताः || १-१०६ || प्राप्नुवन्ति कथं सिद्धिं दया जाता कथं वद | तेषु मूर्खेषु हीनेषु शास्त्रार्थवजीतेषु च || १-१०७ || ज्ञानं भवति केनैव निर्मलं द्वैतवजीतम् | तत्प्रकारं वद स्नेहाद् लोकानां पुण्यवृद्धये || १-१०८ || भैरवी उवाच कर्मसूत्रं यश्छिनत्ति प्रत्यहं तनुसंस्थितः | स पश्यति जगन्नाथ मम श्रीचरणाम्बुजम् || १-१०९ || विश्वमावेशसंस्कारभिन्नबुद्धिक्रियान्विताः अतो मां नहि जानन्ति नानाकार्योत्कटावृताः || १-११० || तेषां शरीरं गृह्णाति कालदूतो भयानकः यः करोति महायोगं त्यागसन्न्यासधर्मवान् || १-१११ || मन्दभाग्यः पशोर्योनिं प्राप्नोति मां विहाय सः | मयि भावं यः करोति दुर्लभो जनवल्लभः || १-११२ || भावेन लभ्यते सर्वं भावेन देवदर्शनम् | भावेन परमं ज्ञानं तस्माद् भावावलम्बनम् || १-११३ || भावञ्च सर्वशास्त्राणां गूढं सर्वेन्द्रियस्थितम् | सर्वेषां मूलभूतञ्च देवीभावं यदा लभेत् || १-११४ || तदैव सर्वसिद्धिश्च तदा ध्यानदृढो भवेत् | अकलङ्की निराहारी निवासधृतमानसः || १-११५ || नित्यस्नानाभिपूजाङ्गो भावी भावं यदा लभेत् | क्रियादक्षो महाशिक्षानिपुणोऽपि जितेन्द्रियः || १-११६ || सर्वशास्त्रनिगूढार्थवेत्ता न्यासविवजीतः | तेषां हस्तगतं भावं वद भावं यथा तनौ || १-११७ || भावात् परतरं नास्ति येनानुग्रहवान् भवेत् | भावादनुग्रहप्राप्तिरनुग्रहान् महासुखी || १-११८ || सुखात् पुण्यप्रभावः स्यात् पुण्यादच्युतदर्शनम् | यदा कृतस्य दर्शनाम्भोजदर्शनमङ्गलम् || १-११९ || योगी भूत्त्वा सूक्ष्मपदं योगिनामप्यदर्शनम् | पश्यत्येव महाविद्यापादाम्भोरुहपावनम् || १-१२० || गुरूणां परमहंसानां वाक्यं त्रैलोक्यपावनम् | श्रुत्वा साधकसिद्ध्यर्थं योगी योगमवाप्नुयात् || १-१२१ || पञ्जरे शुकसारी च पतगाः पक्षियोनयः | गृह्णाति साधकः स्वर्गान् मन्नामविमलं महत् || १-१२२ || यावत् ज्ञानस्य सञ्चारं तावत् कालं कुलेश्वर | साधकानाञ्च साधूनां निकटस्थो भवेन्नरः || १-१२३ || विद्याभ्यासी न पतति यदि बुद्धिपरो भवेत् | नहि चेज्जन्म व्याख्यार्थं नानाशास्त्रार्थभाषणम् || १-१२४ || सुरज्ञानं बिना किञ्चिन्नहि सिद्ध्यति भूतले | मन्त्रं श्रीकायसिद्धिश्च कथं भवति भैरव || १-१२५ || सांख्यज्ञानं वेदभाषाविधिज्ञानं तथा समम् | शक्तिं बिना यथा शाक्तं सुरज्ञानं बिना हि सः || १-१२६ || अहिताचारसम्पत्तिर्दरिद्रस्य गृहे यथा | साधकस्य गृहे शक्तिर्ज्ञानाचारविवेचना || १-१२७ || जायते यदि सायुज्यपदनाशाय केवलम् | यद्यज्ञानविशिष्टा सा स्वशक्तिः शिवकामिनी || १-१२८ || तदा न कुर्याद् ग्रहणा शक्तिसाधनमेव च | यदि कुर्यादसंस्कारात् संसर्गं साधकोत्तमः || १-१२९ || असंस्कृत्यादिदोषेण सिद्धिहानिः प्रजायते | शक्तिप्रधानं भावानां त्रयाणां साधकस्य च || १-१३० || दिव्यवीरपशूनाञ्च भावत्रयमुदाहृतम् | पशुभावे ज्ञानसिद्धिः पश्वाचारनिरूपणम् || १-१३१ || वीरभावे क्रियासिद्धिः साक्षाद्रुद्रो न संशयः | दिव्यभावे वीरभावे विभिन्नमेकभावतः || १-१३२ || अण्डः पूर्वः सर्वगतं दिव्यभावस्य लक्षणम् | दिव्यभावे देवताया दर्शनं परिकीतीतम् || १-१३३ || वीरभावे मन्त्रसिद्धिरद्वैताचारलक्षणम् | आदौ भावं पशोः प्राप्य रात्रिकर्मविवर्जयेत् || १-१३४ || दिवसे दिवसे स्नानं पूजानित्यक्रियान्वितः | पुरश्चरणवत् कार्यं शुचिभावेन सिद्ध्यति || १-१३५ || पशुभावं विना वीरः को वशी भवति ध्रुवम् | इन्द्रियाणाञ्च दमनं दमनं शमनस्य च || १-१३६ || योगशिक्षानिविष्टाङ्गो यतिर्योगपरायणः | सर्वक्षणादभ्यसतः प्रभातावधि रात्रिषु || १-१३७ || सर्वकालं च कर्तव्यो योगः सर्वसुखप्रदः | वाञ्छाकल्पतरुं नित्यं तरुणं पातकापहम् || १-१३८ || साधयेदवहितं मन्त्री पशुभावस्थितो यदि | योगभाषाविधिज्ञानं सर्वभावेषु दुर्लभम् || १-१३९ || तथापि पशुभावेन शीघ्रं सिद्ध्यति निश्चितम् | गुरूणां श्रीपदाम्भोजे यस्य भक्तिर्दृढा भवेत् || १-१४० || स भवेत् कामनात्यागी भावमात्रोपलक्षणम् | वीरभावो महाभावो न भावं दुष्टचेतसाम् || १-१४१ || भावं मन्दगतं सूक्ष्मं रुद्रमूर्त्याः प्रसिद्ध्यति | भ्रष्टाचारं महागूढं त्रैलोक्यमङ्गलं शुभम् || १-१४२ || पञ्चतत्त्वादिसिद्ध्यर्थं महामोहमदोद्भवम् | सर्वपीठकुलाचारं हठादानन्दसागरम् || १-१४३ || कारुण्यवारिधिं वीरसाधने भक्तिकेवलम् | ज्ञानीभूत्त्वा पशोर्भावे वीराचारं ततः परम् || १-१४४ || वीराचाराद् भवेद्रुद्रोऽन्यथा नैव च नैव च | भावद्वयस्थितो मन्त्री दिव्यभावं विचारयेत् || १-१४५ || सदा शुचिदीव्यभावमाचरेत् सुसमाहितः | देवतायाः प्रियार्थञ्च सर्वकर्मकुलेश्वर || १-१४६ || यद्यत्तत् सकलं सिद्ध्यत्यस्माद् धर्मोदयं शुभम् | देवतातुल्यभावश्च देवतायाः क्रियापरः || १-१४७ || तद् विद्धि देवताभावं सुदिव्यभाक्प्रकीतीतम् | सर्वेषां भाववर्गाणां शक्तिमूलं न संशयः || १-१४८ || भक्तिं केन प्रकारेण प्राप्नोति साधकोत्तमः | ज्ञात्त्वा देवशरीरस्य निजकार्यानुशासनात् || १-१४९ || ज्ञानश्च त्रिविधं प्रोक्तमागमाचारसम्भवम् | शब्दब्रह्ममयं तद्धि ज्ञानमार्गेण पश्यति || १-१५० || पठित्वा सर्वशास्त्राणि स्वकर्मगायनानि च | कृशे विवेकमालम्ब्य नित्यं ज्ञानी च साधकः || १-१५१ || विवेकसंभवं ज्ञानं शिवज्ञानप्रकाशकम् | लोचनद्वयहीनञ्च बाह्यभावविवजीतम् || १-१५२ || लोकानां परिनिर्मुक्तं कालाकालविलोडनम् | नित्यज्ञानं परं ज्ञानं तं विद्धि प्राणगोचरम् || १-१५३ || मानुषं सफलं जन्म सर्वशास्त्रेषु गोचरम् | चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् || १-१५४ || न मानुष्यं विनान्यत्र तत्त्वज्ञानं तु विद्यते | कदाचिल्लभ्यते जन्म मानुष्यं पुण्यसञ्चयात् || १-१५५ || सोपानीभूतमोक्षस्य मानुष्यं जन्म दुर्लभम् | मानुषेषु च शंसन्ति सिद्धयः स्युः प्रधानिकाः || १-१५६ || अणिमादिगुणोपेतास्तस्माद् देवो नरोत्तमः | विना देहेन कस्यापि पुरुषार्थो न लभ्यते || १-१५७ || तस्माच्छरीरं संरक्ष्य नित्यं ज्ञानं प्रसाधय | मानुषं ज्ञाननिकरं ज्ञानात्मानं परं विदुः || १-१५८ || मुनयो मौनशीलाश्च मुनितन्त्रादिगोचरम् | मानुषः सर्वगामी च नित्यस्थाननिराकुलः || १-१५९ || (मित्र)मन्त्रजापं योगजापं कृत्वा पापनिवारणम् | परं मोक्षमवाप्नोति मानुषो नात्र संशयः || १-१६० || मयोक्तानि च तन्त्राणि मद्भक्ता ये पठन्ति च | पठित्वा कुरुते कर्म कृत्वा मत्सन्निधिं व्रजेत् || १-१६१ || मदुक्तानि च शास्त्राणि न ज्ञात्वा साधको यदि | अन्यशास्त्राणि सम्बोध्य कोटिवर्षेण सिद्ध्यति || १-१६२ || शुक्तौ रजतविभ्रान्तिर्यथा भवति भैरव | तथान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति || १-१६३ || यत्र भोगस्तत्र मोक्षो द्वयं कुत्र न सिद्ध्यति | मम श्रीपादुकाम्भोजे सेवको मोक्षभोगगः || १-१६४ || बाह्यद्रष्टा प्रगृह्णाति आकाशस्थिततेजसम् | ब्रह्माण्डज्ञानद्रष्टा च देशाण्डस्थं प्रपश्यति || १-१६५ || घटप्रत्यक्षसमये आलोको व्यञ्जको यथा | बिना घटत्त्वयोगेन न प्रत्यक्षो यथा घटः || १-१६६ || इतराद् भिद्यमानोऽपि न भेदमुपगच्छति | पुरुषे नैव भेदोऽस्ति विना शक्तिं कथञ्चन || १-१६७ || शक्तिहीनो यथा देही निर्बलो योगविवजीतः | ज्ञानहीनस्तथात्मानं न पश्यति पदद्वयम् || १-१६८ || स्वभावं नाधिगच्छन्ति संसारज्ञानमोहिताः | अभिपश्यति सश्लोको यद्भावं परिभाव्यते || १-१६९ || ईश्वरस्यापि दूतस्य यमराजस्य बन्धनम् | निधनं चानुगच्छन्ति दृष्ट्वा च तनुजं धनम् || १-१७० || लोको मोहसुरां पीत्त्वा न वेत्ति हितमात्मनः | सम्पदः स्वप्नमेव स्याद् यौवनं कुसुमोपमम् || १-१७१ || तडिच्चपलमायुष्यं कस्याप्यज्ञानतो धृतिः | शतं जीवति मर्त्यश्च निद्रा स्यादर्धहारिणी || १-१७२ || अर्धं हरति कामिन्याः शक्तिबुद्धिप्रतापिनी | असद्वृत्तिश्च मूढानां हन्त्यायुषमहनीशम् || १-१७३ || बाल्यरोगजरादुःखैः सर्वं तदपि निष्फलम् | स्त्रीपुत्रपितृमात्रादिसम्बन्धः केन हेतुना || १-१७४ || दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः | अस्य त्यागः कृतो येन स सुखी नात्र संशयः || १-१७५ || सुखदुःखपरित्यागी कर्मणा किं न लभ्यते | लोकाचारभयार्थं हि यः करोति क्रियाविधिम् || १-१७६ || ब्रह्मज्ञाताहमखिले ये जपन्ति निरादराः | सांसारिकसुखासक्तं ब्रह्मज्ञोस्मीति वादिनम् || १-१७७ || त्यजेत् तं सततं धीरश्चाण्डालमिव दूरतः | गृहारण्यसमालोके गतव्रीडा दिगम्बराः || १-१७८ || चरन्ति गर्दभाद्याश्च व्रतिनस्ते भवन्ति किम् | तृणपर्णोदकाहाराः सततं वनवासिनः || १-१७९ || हरिणादिमृगाश्चैव तापसास्ते भवन्ति किम् | शीतवातातपसहा भक्ष्याभक्ष्यसमा अपि || १-१८० || चरन्ति शूकराद्याश्च व्रतिनस्ते भवन्ति किम् | आकाशे पक्षिणः सर्वे भूतप्रेतादयोऽपि च || १-१८१ || चरन्ति रात्रिगाः सर्वे खेचराः किं महेश्वराः | आजन्ममरणान्तञ्च गङ्गादितटनीस्थिताः || १-१८२ || मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् | एतज्ज्ञाननिविष्टाङ्गाः यदि गच्छन्ति पण्डिताः || १-१८३ || तथापि कर्मदोषेण नरकस्था भवन्ति हि | कौटिल्यालससंसर्गवजीता ये भवन्ति हि || १-१८४ || प्राप्नुवन्ति मम स्थानं मम भक्तिपरायणाः | ऊद्र्ध्वं व्रजन्ति भूतानि शरीरमतिवाहिकम् || १-१८५ || निजदेहाभिशापेन नानारूपो भवेन्नरः | शरीरजैः कर्मदोषैर्याति स्थावरतां नरः || १-१८६ || इह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा | प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् || १-१८७ || गुरुपादविहीना ये ते नश्यन्ति ममाज्ञया | गुरुर्मूलं हि मन्त्राणां गुरुर्मूलं परन्तपः || १-१८८ || गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः | अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः || १-१८९ || भेदका नरकं यान्ति नानाशास्त्रार्थवजीताः | सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो || १-१९० || गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः || १-१९१ || आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् | हीनाङ्गी कपटी रोगी बह्वाशी शीलवजीतः || १-१९२ || मययुपासनमास्थाय उपविद्यां सदाभ्यसेत् | धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् || १-१९३ || शुभार्थं सम्प्रयोक्तव्यं नान्यचिन्ता वृथाफलम् | नित्यश्राद्धरतो मर्त्यो धर्मशीलो नरोत्तमः || १-१९४ || महीपालः प्रियाचारः पीठभ्रमणतत्परः | पीठे पीठे महाविद्यादर्शनं यदि लभ्यते || १-१९५ || तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः | अकस्माज्जायते सिद्धिर्महामायाप्रसादतः || १-१९६ || महावीरो महाधीरो दिव्यभावस्थितोऽपि वा | अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् || १-१९७ || क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम् | तथा च युगभावेन दिव्यवीरेण भैरव || १-१९८ || प्रपश्यन्ति महावीराः पशवो हीनजातयः | न पश्यन्ति कलियुगे शास्त्राभिभूतचेतसः || १-१९९ || अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति | तर्काद्यनेकशास्त्राणि अल्पायुवीघ्नकोटयः || १-२०० || तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि | कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः || १-२०१ || महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् | साधवो मौनशीलाश्च सदा साधनतत्पराः || १-२०२ || दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् | भावद्वयं ब्राह्मणानां महासत्फलकाङ्क्षिणाम् || १-२०३ || अथवा चावधूतानां भावद्वयमुदाहृतम् | भावद्वयप्रभावेण महायोगी भवेन्नरः || १-२०४ || मूर्खोऽपि वाक्पतिः श्रेष्ठो भावद्वयप्रसादतः | ये जानन्ति महादेव मम तन्त्रार्थसाधनम् || १-२०५ || भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः | भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः || १-२०६ || उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः | वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका || १-२०७ || पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः | प्र्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् || १-२०८ || प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते | तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः || १-२०९ || अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः | मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः || १-२१० || सौदामिनीतेजसो वा सहस्रवर्षकं यदा | प्रपश्यति महाज्ञानी एकचन्द्रं सहस्रकम् || १-२११ || कोटिवर्षशतेनापि यत्फलं लभते नरः | एकक्षणमङ्घिररजो ध्यात्वा तत्फलमश्नुते || १-२१२ || विचरेद्यदि सर्वत्र केवलानन्दवर्धनम् | कामरूपं महापीठं त्रिकोणाधारतैजसम् || १-२१३ || जलबुद्बुद्शब्दान्तमनन्तमङ्गलात्मकम् | स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः || १-२१४ || कंकालाख्या--साट्टहासा--विकटाक्षोपपीठकम् | विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति || १-२१५ || ज्वालामुखीमहापीठं मम प्रियमतर्कवित् | यो भ्रमेन्मम तुष्ट्यर्थं स योगी भवति ध्रुवम् || १-२१६ || भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् | भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः || १-२१७ || भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छताम् | भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् || १-२१८ || कोटिकन्याप्रदानेन वाराणस्यां शताटनैः | किं कुरुक्षेत्रगमने यदि भावो न लभ्यते || १-२१९ || गयायां श्राद्धदानेन नानापीठाटनेन किम् | नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते || १-२२० || भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् | आत्मनो मनसा देव्यागुरोरीश्वरमुच्यते || १-२२१ || ध्यानं संयोजनं प्रोक्तं मोक्षमात्ममनोलयम् | गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् || १-२२२ || शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः | गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः || १-२२३ || गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी | न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा || १-२२४ || दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् | उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः || १-२२५ || गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्घयेत् | न शृणोति गुरोर्वाक्यं शृणुयाद् वा पराङ्मुखः || १-२२६ || अहितं वा हितं वापि रौरवं नरकं व्रजेत् | आज्ञाभङ्गं गुरोर्दैवाद् यः करोति विबुद्धिमान् || १-२२७ || प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् | आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्तनम् || १-२२८ || गुरुद्रोहञ्च यः कुर्यात् तत्संसर्गं न कारयेत् | गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनानि च || १-२२९ || पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् | गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः || १-२३० || अरण्ये निर्जने देशे स भवेद् ब्रह्मराक्षसः | पादुकाम् आसनं वस्त्रं शयनं भूषणानि च || १-२३१ || दृष्ट्वा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् | सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्तते || १-२३२ || अनायासेन धर्मार्थकाममोक्षं लभेन्नरः | श्रीगुरोश्चरणाम्भोजं ध्यायेच्चैव सदैव तम् || १-२३३ || भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् | एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा || १-२३४ || एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा | सप्तयोजनविस्तीर्णं मासैकं प्रणमेद् गुरुम् || १-२३५ || श्रीगुरोश्चरणाम्भोजं यस्यां दिशि विराजते | तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया || १-२३६ || विद्याङ्गमासनं मन्त्रं मुद्रां तन्त्रादिकं प्रभो | सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् || १-२३७ || कम्बले कोमले वापि प्रासादे संस्थिते तथा | दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् || १-२३८ || श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् | शिष्याय नैव देवेश प्रवदेद् यस्य कस्यचित् || १-२३९ || यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् | गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत || १-२४० || भक्ष्यं वित्तानुसारेण गुरुमुद्दश्य यत्कृतम् | स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् || १-२४१ || सर्वस्वमपि यो दद्याद् गुरुभक्तिविवजीतः | नरकान्तमवाप्नोति भक्तिरेव हि कारणम् || १-२४२ || गुरुभक्त्या च शक्रत्वमभक्त्या शूकरो भवेत् | गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः || १-२४३ || गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् || १-२४४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः || १ || अथ द्वितीयः पटलः अथातः सम्प्रवक्ष्यामि सर्वदर्शनविद्यया | सर्वज्ञ परमानन्दो दयाबीज भयङ्कर || २-१ || शृणुष्वैकमनाः शम्भो कुलाचारविधिं शृणु | पशूनां व्रतभङ्गादौ विधिं प्रथमतः प्रभो || २-२ || व्रतभङ्गे नित्यभङ्गे नित्यपूजादिकर्मणि | सहस्रं प्रजपेन्मन्त्री व्रतदोषोपशान्तये || २-३ || नित्यश्राद्धं तथा सन्ध्यावन्दनं पितृतर्पणम् | देवतादर्शनं पीठदर्शनं तीर्थदर्शनम् || २-४ || गुरोराज्ञापालनञ्च देवतानित्यपूजनम् | पशुभावस्थितो मर्त्यो महासिद्धिं लभेद् ध्रुवम् || २-५ || पशूनां प्रथमो भावो वीरस्य वीरभावनम् | दिव्यानां दिव्यभावस्तु तेषां भावास्त्रयः स्मृताः || २-६ || स्वकुलाचारहीनो यः साधकः स्थिरमानसः | निष्फलार्थी भवेत् क्षिप्रं कुलाचारप्रभावतः || २-७ || भैरव उवाच केनोपायेन भगवतीचरणाम्भोजदर्शनम् | प्राप्नोति पद्मवदने पशुभावस्थितो नरः || २-८ || तत्प्रकारं सुविस्तार्य कथ्यतां कुलकामिनि | यदि भक्तिर्दृढा मेऽस्ति यदि स्नेहोऽस्ति मां प्रति || २-९ || महाभैरवी उवाच प्रभाते च समुत्थाय अरुणोदयकालतः | निशाष्टदण्डपर्यन्तं पशूनां भाव ईरितः || २-१० || प्रातः शययादिकं कृत्वा पुनः शययास्थितः पशुः | गुरुं सञ्चिन्तयेच्छीर्षाम्भोजे साहस्रके दले || २-११ || तरुणादित्यसङ्काशं तेजोबिम्बं महागुरुम् | अनन्तानन्तमहिमासागरं शशिशेखरम् || २-१२ || महाशुभ्रं भासुराङ्गं द्विनेत्रं द्विभुजं विभुम् | आत्मोपलब्धिवीषमं तेजसा शुक्लवाससम् || २-१३ || आज्ञाचक्रोद्र्ध्वनिकरं कारणं जगतां मुखम् | धर्मार्थकाममोक्षाङ्गं वराभयकरं विभुम् || २-१४ || प्रफुल्लकमलारूढं सर्वज्ञं जगदीश्वरम् | अन्तःप्रकाशचपलं वनमालाविभूषितम् || २-१५ || रत्नालङ्कारभूषाढ्यं देवदेवं सदा भजेत् | अन्तर्यागक्रमेणैव पद्मपुष्पैः समर्चयेत् || २-१६ || एकान्तभक्त्या प्रणमेदायुरारोग्यवृद्धये | अथ मध्ये जपेन्मन्त्रमाद्यन्तप्रणवेन च || २-१७ || मध्ये वाग्भवमायोज्य गुरुनाम ततः परम् | आनन्दनाथशब्दान्ते गुरुं ङेऽन्तं समुद्धरेत् || २-१८ || नमः शब्दं ततो ब्रूयात् प्रणवं सर्वसिद्धिदम् | महागुरोर्मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् || २-१९ || वाक्सिद्धिर्वदनाम्भोजे गुरुमन्त्रप्रभावतः | शतमष्टोत्तरं नित्यं सहस्रं वा तथाष्टकम् || २-२० || प्रजप्यार्पणमाकृत्य प्राणायामत्रयञ्चरेत् | वाग्भवेन ततः कुर्यात् प्राणायामविधिं मुदा || २-२१ || अखण्डमण्डलाकारं व्याप्तं येन चराचरम् | तत्पदं दशीतं येन तस्मै श्रीगुरवे नमः || २-२२ || अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया | चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः || २-२३ || देवतायाः दर्शनस्य कारणं करुणानिधिम् | सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् || २-२४ || वराभयकरं नित्यं श्वेतपद्मनिवासिनम् | महाभयनिहन्तारं गुरुदेवं नमाम्यहम् || २-२५ || महाज्ञानाच्छापिताङ्गं नराकारं वरप्रदम् | चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् || २-२६ || सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् | शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् || २-२७ || ब्रह्मरन्ध्रे महापद्मे तेजोबिम्बे निराकुले | योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते || २-२८ || सहस्रदलसङ्काशे कणीकामध्यमध्यके | महाशुक्लभासुरार्ककोटिकोटिमहौजसम् || २-२९ || सर्वपीठस्थममलं परं हंसं परात्परम् | वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् || २-३० || सदा मनःशक्तिमायालयस्थानं पदद्वयम् | शरज्ज्योत्स्नाजालमालाभिरिन्दुकोटिवन्मुखम् || २-३१ || वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् | भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि || २-३२ || आत्मानं च निराकारं साकारं ब्रह्मरूपिणम् | महाविद्यामहामन्त्रदातारं परमेश्वरम् || २-३३ || सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् | कायेन मनसा वाचा ये नमन्ति निरन्तरम् || २-३४ || अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि | प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः || २-३५ || मध्याह्ने दशलक्षञ्च सायाह्ने कोटिपुण्यदम् | प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः || २-३६ || तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा || २-३७ || शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभ| वराभयकराम्बुजं सकलदेवतारूपिणम् | भजामि वरदं गुरुं किरणचारुशोभाकुल| प्रकाशितपदद्वयाम्बुजमलक्तकोटिप्रभम् || २-३८ || जगद्भयनिवारणं भुवनभोगमोक्षप्रदम् | गुरोः पादयुगाम्बुजं जयति यत्र योगे जयम् | भजामि परमं गुरुं नयनपद्ममध्यस्थित| भवाब्धिभयनाशनं शमनरोगकायक्षयम् || २-३९ || प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभु| परापरगुरुं भजे सकलबाह्यभोगप्रदम् | विशालनयनाम्बुजद्वयतडित्प्रभामण्डल| कडारमणिपाटलेन्दुबिन्दुबिन्दुकम् || २-४० || चलाचलकलेवरं प्रचपलदले द्वादशे | महौजसमुमापतेवीगतदक्षभागे हृदि | प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्यानन| भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् || २-४१ || गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसार| नानाशब्दाद्भुताह्लादितपरिजनाच्चारुचक्रत्रिभङ्गम् | नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्य| नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् || २-४२ || या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे | स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया | जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते | कन्दर्पापीतशान्तियोनिजननी विष्णुप्रिया शाङ्करी || २-४३ || या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी | मूले पद्मचतुर्दले कुलवती निःश्वासदेशाश्रिता | साक्षात्काङ्क्षितकल्पवृक्षलतिका सूद्भाषयन्ती प्रिया | नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते || २-४४ || ऊद्र्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता | गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती | सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे | पूर्णा चेतसि भाव्यते भुवि कदा माता सदोद्ध्र्वामगा || २-४५ || स्थितिपालनयोगेन ध्यानेन पूजनेन वा | यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः || २-४६ || कल्याणं धनधान्यं च कीतीमायुर्यशःश्रियम् | सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् || २-४७ || स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः | स्तवस्यास्य प्रसादेन वागीशत्वमवाप्नुयात् || २-४८ || पशुभावस्थिता ये तु तेऽपि सिद्धाः न संशयः | आदौ साधकदेवश्च सदाचारमतिः सदा || २-४९ || पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् | एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः || २-५० || शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेषवान् | शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् || २-५१ || आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः | निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः || २-५२ || निरोगी निरहङ्कारो विकाररहितो महान् | पण्डितो वाक्पतिः श्रीमान् सदा यज्ञविधानकृत् || २-५३ || पुरश्चरणकृत् सिद्धो हिताहितविवजीतः | सर्वलक्षणसंयुक्तो महाजनगणादृतः || २-५४ || प्राणायामादिसिद्धान्तो ज्ञानी मौनी विरागवान् | तपस्वी सत्यवादी च सदा ध्यानपरायणः || २-५५ || आगमार्थविशिष्टज्ञो निजधर्मपरायणः | अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् || २-५६ || लक्ष्मीवान् धृतिमान्नाथो गुरुरित्यभिधीयते | शिष्यस्तु तादृशो भूत्त्वा सद्गुरुं पर्युपाश्रयेत् || २-५७ || वर्जयेच्च परानन्दरहितं रूपवजीतम् | कुष्ठिनं क्रूरकर्माणं निन्दितं रोगिणं गुरुम् || २-५८ || अष्टप्रकारकुष्ठेन गलत्कुष्ठिनमेव च | श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा || २-५९ || स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वकम् | श्यावदन्तं कुलाचाररहितं शान्तिवजीतम् || २-६० || सकलङ्कं नेत्ररोगैः पीडितं परदारगम् | असंस्कारं प्रवक्तारं स्त्रीजितं चाधिकाङ्गकम् || २-६१ || कपटात्मानकं हिंसाविशिष्टं बहुजल्पकम् | बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च || २-६२ || अशान्तं भावहीनं च पञ्चाचारविवजीतम् | दोषजालैः पूरिताङ्गं पूजयेन्न गुरुं बिना || २-६३ || गुरौ मानुषबुद्धिं तु मन्त्रेषु लिपिभावनम् | प्रतिमासु शिलारूपं विभाव्य नरकं व्रजेत् || २-६४ || जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः | गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः || २-६५ || गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः | शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन || २-६६ || गुरोहीतं प्रकर्तव्यं वाङ्मनःकायकर्मभिः | अहिताचरणाद् देव विष्ठायां जायते कृमिः || २-६७ || मन्त्रत्यागाद् भवेन्मृत्युर्गुरुत्यागाद् दरिद्रता | गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् || २-६८ || गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् | प्रयाति नरकं घोरं सा पूजा विफला भवेत् || २-६९ || गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु | अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् || २-७० || अमार्गस्थोऽपि मार्गस्थो गुरुरेव तु दैवतम् | उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदो गुरुः || २-७१ || तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् | गुरुदेवाधीनश्चास्मि शास्त्रे मन्त्रे कुलाकुले || २-७२ || नाधिकारी भवेन्नाथ श्रीगुरोः पदभावकः | गुरुर्माता पिता स्वामी बान्धवः सुहृत् शिवः || २-७३ || इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् | एकमेव परं ब्रह्म स्थूलशुक्लमणिप्रभम् || २-७४ || सर्वकर्मनियन्तारं गुरुमात्मानमाश्रयेत् | गुरुश्च सर्वभावानां भावमेकं न संशयः || २-७५ || निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति निःसंशयी गुरुपदे सर्वत्यागी पदं व्रजेत् || २-७६ || खेचरत्वमवाप्नोति मासादेव न संशयः | सद्गुरुमाश्रितं शिष्यं वर्षमेकं प्रतीक्षयेत् || २-७७ || सगुणं निर्गुणं वापि ज्ञात्वा मन्त्रं प्रदापयेत् | शिष्यस्य लक्षणं सर्वं शुभाशुभविवेचनम् || २-७८ || अन्यथा विप्रदोषेण सिद्धिपूजाफलं दहेत् | कामुकं कुटिलं लोकनिन्दितं सत्यवजीतम् || २-७९ || अविनीतमसमर्थं प्रज्ञाहीनं रिपुप्रियम् | सदापापक्रियायुक्तं विद्याशून्यं जडात्मकम् || २-८० || कलिदोषसमूहाङ्गं वेदक्रियाविवजीतम् | आश्रमाचारहीनं चाशुद्धान्तःकरणोद्यतम् || २-८१ || सदा श्रद्धाविरहितमधैर्यं क्रोधिनं भ्रमम् | असच्चरित्रं विगुणं परदारातुरं सदा || २-८२ || असद्बुद्धिसमूहोत्थमभक्तं द्वैतचेतसम् | नानानिन्दावृताङ्गं च तं शिष्यं वर्जयेद् गुरुः || २-८३ || यदि न त्यज्यते वीर धनादिदानहेतुना | नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् || २-८४ || क्षणादसिद्धः स भवेत् शिष्यासादितपातकैः | अकस्मान्नरकं प्राप्य कार्यनाशाय केवलम् || २-८५ || विचार्य यत्नात् विधिवत् शिष्यसंग्रहमाचरेत् | अन्यथा शिष्यदोषेण नरकस्थो भवेद् गुरुः || २-८६ || न पत्नीं दीक्षयेद् भर्ता न पिता दीक्षयेत् सुताम् | न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत् || २-८७ || सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् | शक्तित्त्वेन भैरवस्तु न च सा पुत्रिका भवेत् | मन्त्राणां देवता ज्ञेया देवता गुरुरूपिणी || २-८८ || तेषां भेदो न कर्तव्यो यदीच्छेच्छुभमात्मनः | एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् || २-८९ || क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् | अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु || २-९० || एकयोजनमारभ्य योजनद्वादशावधिः | दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः || २-९१ || तन्त्रयोजनसंख्योक्तमासेन प्रणमेद् गुरुम् | वर्षैकेण भवेद् योग्यो विप्रो हि गुरुभावतः || २-९२ || वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः | चतुभिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता || २-९३ || यदि भाग्यवशेनैव सिद्धमन्त्रं लभेत् प्रभो | महाविद्या त्रिशक्त्याश्च गृह्णीयात् तत्कुलाद्ध्रुवम् || २-९४ || गुरोवीचारं सर्वत्र तातमातामहं विना | प्रमादाच्च तथाज्ञानान् एभ्यो मन्त्रं समाचरन् || २-९५ || प्रायश्चित्तं ततः कृत्वा पुनर्दीक्षां समाचरेत् | सावित्रीमन्त्रजापञ्च लक्ष्यं जाप्यं जगत्पतेः || २-९६ || विष्णोर्वा प्रणवं लक्ष्यं प्रायश्चित्तमिति स्मृतम् | अशक्तश्चेन्महादेव चायुतं प्रजपेन्मनुम् || २-९७ || दशसाहस्रजाप्येन सर्वकल्मषनाशिनी | गायत्रीच्छन्दसां माता पापराशितुलानला || २-९८ || मम मूत्तीप्रकाशा च पशुभावविवजीता | फलोद्भवप्रकरणे ब्रह्मणापद्यते निशि || २-९९ || यदि भाग्यवशाद् देव सिद्धमन्त्रं गुरुं तथा | तदैव तान्तु दीक्षेत अष्टैश्वर्याय केवलम् || २-१०० || निर्बीजञ्च पितुर्मन्त्रं शैवे शाक्ते न दुष्यति | ज्येष्ठपुत्राय दातव्यं कुलीनैः कुलपण्डितैः || २-१०१ || कुलयुक्ताय दान्ताय महामन्त्रं कुलेश्वरम् | तदैव मुक्तिमाप्नोति सत्यं सत्यं न संशयः || २-१०२ || कनिष्ठञ्च रिपुं चापि सोदरं वैरिपक्षगम् | मातामहञ्च पितरं यतिञ्च वनवासिनम् || २-१०३ || अनाश्रमं कुसंसर्गं स्वकुलत्यागिनं तथा | वर्जयित्वा च शिष्यांस्तान् दीक्षाविधिमुपाचरेत् || २-१०४ || अन्यथा तद्विरोधेन कामनाभोगनाशनम् | सिद्धमन्त्रञ्च गृह्णीयाद् दुष्कुलादपि भैरव || २-१०५ || सद्गुरोर्भावनेच्छन्नरूपे रूपे धरे शुभे | तत्र दीक्षां समाकुर्वन् अष्टैश्वर्यजयं लभेत् || २-१०६ || स्वप्ने तु नियमो नास्ति दीक्षासु गुरुशिष्ययोः | स्वप्नलब्धे स्त्रिया दत्ते संस्कारेणैव शुद्ध्यति || २-१०७ || साध्वी चैव सदाचारा गुरुभक्ता जितेन्द्रिया | सर्वमन्त्रार्थ तत्त्वज्ञा सुशीला पूजने रता || २-१०८ || सर्वलक्षणसम्पन्ना जापिका पद्मलोचना | रत्नालङ्कारसंयुक्ता वर्णाभूवनभूषिता || २-१०९ || शान्ता कुलीना कुलजा चन्द्रास्या सर्ववृद्धिगा | अनन्तगुणसम्पन्ना रुद्रत्वदायिनी प्रिया || २-११० || गुरुरूपा मुक्तिदात्री शिवज्ञाननिरूपिणी | गुरुयोग्या भवेत् सा हि विधवा परिवजीता || २-१११ || स्त्रिया दीक्षा शुभा प्रोक्ता मन्त्रश्चाष्टगुणा स्मृता | पुत्रिणी विधवा ग्राह्या केवला ऋणकारिणी || २-११२ || सिद्धमन्त्रो यदि भवेद् गृह्णीयाद् विधवामुखात् | केवलं सुफलं तत्र मातुरष्टगुणं ध्रुवम् || २-११३ || सधवा स्वप्रकृत्या च ददाति यदि तन्मनुम् | ततोऽष्टगुणमाप्नोति यदि सा पुत्रिणी सती || २-११४ || यदि माता स्वकं मन्त्रं ददाति स्वसुताय च | तदाष्टसिद्धिमाप्नोति भक्तिमार्गे न संशयः || २-११५ || तदैव दुर्लभं देव यदि मात्रा प्रदीयते | आदौ भक्तिं ततो मुक्तिं सम्प्राप्य कालरूपधृक् || २-११६ || सहस्रकोटिविद्यार्थं जानाति नात्र संशयः | स्वप्ने तु माता यदि वा ददाति शुद्धमन्त्रकम् || २-११७ || पुनर्दीक्षां सोऽपि कृत्वा दानवत्त्वमवाप्नुयात् | यदि भाग्यवशेनैव जननी दानवतीनी || २-११८ || तदा सिद्धिमवाप्नोति तत्र मन्त्रं विचारयेत् | स्वीयमन्त्रोपदेशेन न कुर्याद् गुरुचिन्तनम् || २-११९ || तथा श्रीललिता काली महाविद्या महामनोः सर्वसिद्धियुतो भूत्त्वा वत्सरात् तां प्रपश्यति || २-१२० || कालीकल्पलता देवी महाविद्यादिसाधने | गुरुचिन्ता न कर्तव्या ये जानन्ति गुरोर्वचः || २-१२१ || यदि मन्त्रं विचार्याशु गृह्णाति साधकोत्तमः | अनन्तकोटिपुण्यस्य द्विगुणं भवति ध्रुवम् || २-१२२ || विचार्य चक्रसारञ्च मन्त्रं गृह्णाति यो नरः | वैकुण्ठनगरे वासस्तेषां जन्मशतैरपि || २-१२३ || इति श्रुत्वा महादेवो महादेव्याः सरस्वतीम् | उवाच पुनरानन्दपुलकोल्लासविग्रहः || २-१२४ || ज्ञातुं चक्रं षोडशञ्च चक्रहस्तवरप्रदम् | अत्यद्भुतफलोपेतं धर्मार्थकाममोक्षदम् || २-१२५ || श्री भैरव उवाच कथयस्व महादेवि कुलसद्भावप्राप्तये | यदि मे सुकृपादृष्टिः वर्तते स्नेहसागरे || २-१२६ || त्वत्प्रसादाद् भैरवोऽहं कालोऽहं जगदीश्वरः | भुक्तिमुक्तिप्रदाता च योगयोग्यो दिगम्बरः || २-१२७ || इदानीं सर्वविद्यानां दीक्षाद्यं चक्रमण्डलम् | अकालकुलहीनञ्चाकडमञ्च कुलाकुलम् || २-१२८ || श्रीभैरवी उवाच ताराचक्रं राशिचक्रं कूर्मचक्रं तथापरम् | शिवचक्रं विष्णुचक्रं ब्रह्मचक्रं विलक्षणम् || २-१२९ || देवचक्रं ऋणिधनि उल्काचक्रं ततः परम् | वामाचक्रं चतुश्चक्रं सूक्ष्मचक्रं ततो वदेत् || २-१३० || तथा कथहचक्रञ्च कथितं षोडशं प्रभो | एतदुत्तीर्णमन्त्रञ्च यं गृह्णन्ति नरोत्तमाः || २-१३१ || तेषामसाध्यं जगति न किमपि वर्तते ध्रुवम् | किमन्यत् कथयामीह देवतादर्शनं लभेत् || २-१३२ || सर्वत्रगामी स भवेत् चक्रराजप्रसादतः | सर्वचक्रविचारञ्च न जानाति द्विजोत्तमः || २-१३३ || यज्जानाति तद्विचार्यं देवताप्रीतिकारकम् | ताराशुद्धिं वैष्णवानां कोष्ठशुद्धिं शिवस्य च || २-१३४ || राशिशुद्धिं त्रैपुरस्य गोपालेऽकडमः स्मृतः | अकडमो वामने च गणेशे हरचक्रतः || २-१३५ || कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् | नामादिचक्रे सर्वेषां भूतचक्रे तथैव च || २-१३६ || त्रैपुरं तारचक्रे च शुद्धं मन्त्रं भजेद् बुधः | वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् || २-१३७ || कालिकायाश्च तारायाः हरचक्रं शुभं भवेत् | चण्डिकाया भवेत् कोष्ठे गोपाले ऋक्षचक्रकम् || २-१३८ || हरचक्रे सर्वमन्त्रान् ऋणाधिक्येन चाश्रयेत् | ऋणाधिक्ये शुभं विद्याद् धनाधिक्ये च नो विधिः || २-१३९ || दोषान् संशोध्य गृह्णीयान्मध्यदेशे तु साधकः | पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् || २-१४० || श्रीवर्णञ्च ततो विद्याचक्रेषु योजयेत् क्रमात् | क्रमेण शृणु तत्सर्वं शुभाशुभफलप्रदम् || २-१४१ || जापकानां भावुकानां शुद्धं सिद्ध्यति तत्क्षणात् | मन्त्रमात्रं प्रसिद्ध्येत भक्तानामिति निश्चयः || २-१४२ || कुलीनकुलजातानां ध्यानमार्गार्थगामिनाम् | महाविद्या महाज्ञानं संशुद्धमपि सिध्यति || २-१४३ || सिद्धमन्त्रप्रकरणे यदुक्तञ्च महेश्वर | अष्टसिद्धिकरे तस्य सायुज्यपदमाप्नुयात् || २-१४४ || चक्रं षोडशसारञ्च सर्वेषां मन्त्रसिद्धये || २-१४५ || विचार्य सर्वमन्त्रञ्च यन्मया गदितं हितम् | आदौ बालाभैरवीणामकडमान्मतं मया || २-१४६ || कुमारीललितादेव्याः कुरुकुल्लादिसाधने | श्रीचक्रं फलदं प्रोक्तं सर्वचक्रफलप्रदम् || २-१४७ || योगिन्यादिसाधने च ताराचक्रं महत्फलम् | उन्मत्तभैरवीविद्याद्यादिसाधननिर्मले || २-१४८ || राशिचक्रं कोटिफलं नानारत्नप्रदं शुभम् | प्रत्यङ्गिरासाधने च उल्काविद्यादिसाधने || २-१४९ || शिवचक्रं महापुण्यं सर्वचक्रफलप्रदम् | कालिकाचचीकामन्त्रे विमलाद्यादिसाधने || २-१५० || सम्पत्प्रदाभैरवीणां मन्त्रग्रहणकर्मणि | विष्णुचक्रे कोटिशतं पुण्यं प्राप्नोति मानवः || २-१५१ || छिन्नादिश्रीविद्यायाः कृत्यादेव्याश्च साधने | नक्षत्रविद्याकामाख्या ब्रह्माण्यादि सुसाधने || २-१५२ || ब्रह्मचक्रं महापुण्यं सर्वविद्याफलं लभेत् | कोटिजाप्येन यत्पुण्यं ग्रहणात् तत्फलं लभेत् || २-१५३ || वज्रज्वालामहाविद्यासाधने मन्त्रजापने | गुह्यकालीसाधने च कुब्जिकामन्त्रसाधने || २-१५४ || देवचक्रं शुभं प्रोक्तं वाक्यसिद्धिप्रदायकम् | कामेश्वरीअट्टहासामन्त्रसाधनकर्मणि || २-१५५ || राकिणीमन्दिरादेवी मन्दिरामन्त्रसाधने | ऋणिधनिमहाचक्रं विचार्य सर्वसिद्धिदम् || २-१५६ || श्रीविद्याभुवनेशानीभैरवीसाधने तथा | पृथ्वीकुलावतीवीणासाधने वामनीमनोः || २-१५७ || उल्काचक्रं महापुण्यं राजत्वफलदं शुभम् | शिवादिनायिकामन्त्रे बालाचक्रं सुखप्रदम् || २-१५८ || फेत्कारीमन्त्रजाप्ये च उड्डीयानेश्वरी मनोः | चतुश्चक्रं शतफलं महामन्त्रफलप्रदम् || २-१५९ || द्राविणीदीर्घजङ्घादि ज्वालामुख्यादिसाधने | नारसिंहीसाधने च सूक्ष्मचक्रं फलोद्भवम् || २-१६० || हरिणी मोहिनी कात्यायनीसाधनकर्मणि | वैष्णवे च तथा शैवे देवीमन्त्रे च भैरव || २-१६१ || अकथहं महाचक्रं विचार्य यत्नपूर्वकम् | यो गृह्णाति महामन्त्रं स शिवो नात्र संशयः || २-१६२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महायन्त्रोद्दीपने सर्वचक्रानुष्ठाने महागुरुप्रकरणे भावनिर्णये भैरवीभैरवसंवादे द्वितीयः पटलः || २ || अथ तृतीयः पटलः भैरवी उवाच अथ चक्रं प्रवक्ष्यामि कालाकालविचारकम् | यदाश्रितो महावीरो दीव्यो वा पशुभाववान् || ३-१ || चक्रराजं प्रविचार्य सिद्धमन्त्रं न चालयेत् | प्रबलस्य प्रचण्डस्य प्रासादस्य महामनोः || ३-२ || शक्तिकूटादिमन्त्राणां सिद्धादीन्नैव शोधयेत् | वराहार्कनृसिंहस्य तथा पञ्चाक्षरस्य च || ३-३ || महामन्त्रस्य कालस्य चन्द्रचूडस्य सन्मनोः | नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् || ३-४ || विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीतीताः | सूर्यमन्त्रस्य योगस्य कृत्यामन्त्रस्य शङ्कर || ३-५ || शंभुबीजस्य देवस्य सिद्धादीन्नैव शोधयेत् | चक्रेश्वरस्य चन्द्रस्य वरुणस्य महामनोः || ३-६ || कालीतारादिमन्त्रस्य सिद्धादीन्नैव शोधयेत् | तथापि शोधयेन्मन्त्रं प्रशंसापरमेव तत् || ३-७ || यत्र प्रशंसापरमं तत्कार्यं दैवतं स्मृतम् | प्रशंसा यत्र नास्त्येव तत्कार्यं नापि कारयेत् || ३-८ || अत्यन्तफलदं मन्त्रं गृह्णीयात् कुलरक्षणात् | धनिमन्त्रं न गृह्णीयाद् अकूलञ्च तथैव च || ३-९ || गृहीत्वा निधनं याति कोटिजाप्येन सिद्ध्यति | मननं विश्वविज्ञानं त्राणं संसारबन्धनात् || ३-१० || यतः करोति संसिद्धौ मन्त्र इत्यभिधीयते | प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्वथा || ३-११ || आत्ममन्त्रं गुरोर्मन्त्रं मन्त्रं चानपसंज्ञकम् | पितुर्मन्त्रं तथा मातुर्मन्त्रसिद्धिप्रदं शुभम् || ३-१२ || शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम् | अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः || ३-१३ || न भवन्ति श्रिये तेषां शिलायामुप्तबीजवत् | देवीदीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः || ३-१४ || तस्मात्सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् | विचारं चक्रसारस्य करणीयमवश्यकम् || ३-१५ || अदीक्षितोऽपि मरणे रौरवं नरकं व्रजेत् | तस्माद्दीक्षा प्रयत्नेन सदा कार्या च तान्त्रिकात् || ३-१६ || दीक्षापूर्वदिने कुर्यात् सुविचारं प्रयत्नतः | तत्प्रकारं प्रयत्नेन कार्यं पर्वतपूजित || ३-१७ || आदावकडमे सिद्धिर्मन्त्रं सञ्चारयेद् बुधः | रेखाद्वयं पूर्वपरे मध्ये रेखाद्वयं लिखेत् || ३-१८ || चतुष्कोणे चतूरेखाकडमं चक्रमण्डलम् | भ्रामयित्वा महावृत्तं निर्माय वर्णमालिखेत् || ३-१९ || अकारादिक्षकारान्तान् क्लीबहीनान् लिखेत्ततः | एकैकमतो लेख्यान् मेषादिषु (वृषा?)मीनान्तकान् || ३-२० || वामावर्तेन गणयेत् क्रमशो वीरवल्लभ | तन्त्रमार्गेण गणयेन्नामादिवर्णकादिमान् || ३-२१ || मेषादितोऽपि मीनान्तं क्रमशः शास्त्रपण्डितः | सिद्धसाध्यसुसिद्धादीन् पुनः सिद्धादयः पुनः || ३-२२ || नवैकपञ्चमे सिद्धः साध्यः षड्दशयुग्मके | सुसिद्धस्त्रिसप्तके रुद्रे वेदाष्टद्वादशे रिपुः || ३-२३ || एतत्ते कथितं नाथ अकडमादिकमुत्तमम् | पद्माकारं महाचक्रं दलाष्टकसमन्वितम् || ३-२४ || अ आ वर्णद्वयं पूर्वे द्वितीये च द्वितीयकम् | तृतीये कर्णयुग्मञ्च चतुर्थे नासिकाद्वयम् || ३-२५ || पञ्चमे नयनं प्रोक्तं षष्ठे ओष्ठाधरं तथा | सप्तमे दन्तयुग्मञ्च अष्टमे षोडशस्वरम् || ३-२६ || कवर्गञ्च पूर्वदले द्वितीये च चवर्गक | तृतीये च टवर्गञ्च चतुर्थे च तवर्गकम् || ३-२७ || पवर्गं पञ्चमे प्रोक्तं यवान्तं षष्ठपत्रके | सप्तमे शषसान् लिख्य (ल?)हक्षमष्टमके पदे || ३-२८ || सुखं राज्यं धनं विद्यां यौवनायुषमेव च | विचार्य चक्रमाप्नोति पुत्रत्त्वञ्च स्वजीवनम् || ३-२९ || स्वीय--नामाक्षरं तत्र देवनामाक्षरं तथा | एकस्थानं युगस्थानं विरोधं द्विविधं स्मृतम् || ३-३० || जीवनं मरणं तत्र अकारादिसु पत्रके | लिखित्वा गणयेन्मन्त्री मरणं वर्जयेत् सदा || ३-३१ || यत्रास्ति मरणं तत्र जीवनं नास्ति निश्चितम् | परस्परविरोधेन सिद्धमन्त्रञ्च मूलदम् || ३-३२ || जीवने जीवनं ग्राह्यं सर्वत्र मरणं त्यजेत् | कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह || ३-३३ || वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् | पञ्चह्रस्वाः पञ्चदीर्घाः बिन्द्वन्ताः सन्धिसम्भवाः || ३-३४ || कादयः पञ्चशः (षक्ष)यादिलसहक्षान्ताः प्रकीतीताः | साधकस्याक्षरं पूर्वं मन्त्रस्यापि तदक्षरम् || ३-३५ || यद्येकभूतदैवत्यं जानीयात्सकुलं हितम् | भौमस्य वारुणं मित्रमाग्नेयस्यापि मारुतम् || ३-३६ || पाथीवाणाञ्च सर्वेषां शत्रुराग्नेयमम्भसाम् | एन्द्रवारुणयोः शत्रुर्मारुतः परिकीतीतः || ३-३७ || पाथीवे वारुणं मित्रं तैजसं शत्रुरीरितः | नाभसं सर्वमित्रं स्याद्विरुद्धं नैव शीलयेत् || ३-३८ || रेखाष्टकं हि पूर्वाग्रं रेखैकादशमध्यतः | दक्षिणोत्तरभागेन दक्षिणावधिमालिखेत् || ३-३९ || कुलाकुलञ्च कथितं ताराचक्रं पुनः शृणु | दक्षिणोत्तरदेशे तु रेखाचतुष्टयं लिखेत् || ३-४० || दशरेखाः पश्चिमाग्राः कर्तव्याः वीरवन्दित | अश्विन्यादिक्रमेणैव विलिखेत्तारकाः पुनः || ३-४१ || वक्ष्यमाणक्रमेणैव तन्मध्ये वर्णकान् लिखेत् | युग्ममेकं तृतीयञ्च वेदमेकैकयुग्मकम् || ३-४२ || एकयुग्मं तथैकञ्च युगलं युगलं युगम् | एकं युग्मं तृतीयञ्च चन्द्रनेत्रं विविधं विधुम् || ३-४३ || चन्द्रयुग्मं चन्द्रयुग्मं रामवेदं गृहे शुभे | वर्णाः क्रमाः स्वराण्येव रेवत्यश्विगतावुभौ || ३-४४ || अकारद्वयमश्विन्यां देवतागणसम्भवाः | इकारं भरणी सत्यां कृत्स्नमुस्वरकृत्तिका || ३-४५ || राक्षसी कृत्तिका भूमौ सर्वविध्नविनाशिनी | नासिकागण्डमन्त्रञ्च रोहिणीशवरूपिणी || ३-४६ || ओष्ठमध्ये मृगशिरा देवता परिकीतीता | अधरान्तमार्द्रया च मानुषं सर्वलक्षणम् || ३-४७ || दन्तयुग्मं पुनर्वस्वाच्छादितं मानुषं प्रियम् | कः पुष्या देवता ज्ञेया खगाश्लेषा च राक्षसी || ३-४८ || मघावक्षे घङान्ता च तथा च पूर्वफाल्गुनी | छजोत्तरा--फल्गुनी च मनुष्याः परिकीतीताः || ३-४९ || झञहस्ता देवगणा टठचित्रा च राक्षसी | डस्वाती देवरमणी विशाखा ढणराक्षसी || ३-५० || तथदानुराधया च शोभिता देवनायिका | ध ज्येष्ठा राक्षसी ज्ञेया मूलानपफराक्षसी || ३-५१ || पूर्वाषाढा मानुसानी बकाराक्षयमालिनी | भोत्तराषाढया मर्त्यो मकारः श्रवणः मतः || ३-५२ || धनिष्ठा यररक्षः स्त्रीलस्था शतभिषा तथा | वशपूर्वभाद्रपदा मनुजाः परिकीतीताः || ३-५३ || तथोत्तराभाद्रपदा मानुषी--मङ्गलोद्भवा | अं अः ऌहक्षरेवती च देवकन्याः प्रकीतीताः || ३-५४ || स्वजातौ परमा प्रीतिर्मध्यमा भिन्नजातिषु | रक्षोमानुषयोर्नाशो वैरं दानवदेवयोः || ३-५५ || जन्मसम्पत् विपत् क्षेमप्रत्यरिः साधको वधः | मित्रं परममित्रञ्च गणयेच्च पुनः पुनः || ३-५६ || वर्जयेज्जन्मनक्षत्रं तृतीयं पञ्चसप्तकम् | षडष्टनवभद्राणि युगञ्च युग्मकं तथा || ३-५७ || यदीह निजनक्षत्रं न जानाति द्विजोत्तमः | नामाद्यक्षरसम्भूतं स्वतारमविरोधकम् || ३-५८ || विनीय गणयेन्मन्त्री शुभाशुभविचारवान् | प्रादक्षिण्येन गणयेत् साधकाद्यक्षरात् सुधीः || ३-५९ || इत्येतत् कथितं नाथ ममात्मा पुरुषेश्वर | कुलाकुलमनन्ताख्यं ताराचक्रं मनोर्गुण || ३-६० || तारामन्त्रं प्रदीपाभं रत्नभाण्डस्थितामृतम् | एतद्विचारे महतीं सिद्धिमाप्नोति मानवः || ३-६१ || राशिचक्रं प्रवक्ष्यामि सिद्धिलक्षणमुत्तमम् | क्रमेण देया युगला रेखा पूर्वापरोद्गमा || ३-६२ || तन्मध्यतो द्वयं दद्याद् रेखाग्निदक्षिणे ततः | अग्निनैरृतिवायवीशक्रमेण रेखयेत् तथा || ३-६३ || विलिखेन्मेषराश्यादि मीनान्तं सर्ववर्णकान् | कन्यागृहगतान् शादिवर्णानालिख्य यत्नतः || ३-६४ || गणयेत्साधकश्रेष्ठो लग्नाद्यामव्ययान्तकान् | स्वराशिदेवकोष्ठानामनुकूलान् भजेन्मनून् || ३-६५ || राशीनां शुद्धता ज्ञेया त्यजेत् शत्रुमृतिं व्ययम् | स्वराशेर्मन्त्रराश्यन्तं गणनीयं विचक्षणैः || ३-६६ || साध्याद्यक्षरराश्यन्तं गणयेत् साधकाक्षरात् | एकं वा पञ्च नवमं बान्धवं परिकीतीतम् || ३-६७ || द्विषड्दशमसंस्थाश्च सेवकाः परिकीतीताः | रामरुद्राश्च मुनयः पोषकाः परिकीतीताः || ३-६८ || सूर्याष्टवेदयुक्तास्तु घातकाः सर्वदोषदाः | शक्त्यादौ तु महादेव कुलचूडामणिर्यतिः || ३-६९ || वर्जयेत् षष्ठगेहञ्च अष्टमं द्वादशं तथा | लग्नं धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः || ३-७० || मरणं धर्मकर्मायव्यया द्वादशराशयः | नामानुरूपमेतेषां शुभाशुभफलं दिशेत् || ३-७१ || वैष्णवे तु महाशत्रोः स्थाने बन्धुः प्रकीतीतः | कूर्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् || ३-७२ || यज्ज्ञात्वा सर्वशास्त्राणि जानाति पण्डितोत्तमः | अभेद्यभेदकं चक्रं शृणुष्वादरपूर्वकम् || ३-७३ || कूर्माकारं महाचक्रं चतुष्पादसमावृतम् | मुण्डे स्वरा दक्षपादे कवर्गं वामपादके || ३-७४ || चवर्गं कीतीतं पश्चाद् अधःपादे टवर्गकम् | तदधस्तु तवर्गं स्यादुदरे च पवर्गकम् || ३-७५ || यवान्तं हृदये प्रोक्तं सहान्तं पृष्ठमध्यके | लाङ्गूले शत्रुबीजञ्च क्षकारं लिङ्गमध्यके || ३-७६ || लिखित्वा गणयेन्मन्त्री चक्रं कलिमलापहम् | स्वरे लाभं कवर्गे श्रीश्चवर्गे च विवेकदम् || ३-७७ || टवर्गे राजपदवीं तवर्गे धनवान् भवेत् | उदरे सर्वनाशः स्याद् हृदये बहुदुःखदम् || ३-७८ || पृष्ठे च सर्वसन्तोषं लाङ्गूले मरणं ध्रुवम् | वैभवं (पृष्ठ?)लिङ्गदेशे तु दुःखञ्च वामपादके || ३-७९ || विरुद्धद्वयलाभे तु न कुर्याच्चक्रचिन्तनम् | विरुद्धैके धर्मनाशो युग्मदोषे च मारणम् || ३-८० || यत्र देवाक्षरञ्चास्ति तत्र चेन्निजवर्णकम् | विरुद्धञ्चेत्त्यजेत् शत्रुमन्यमन्त्रं विचारयेत् || ३-८१ || पृथक्स्थाने यदि भवेद्वर्णमाला महेश्वर | यदि तत् सौख्यभावः स्यात् सौख्यं नापि विवर्जयेत् || ३-८२ || विभिन्नगेहे दोषश्चेत् शुभमन्त्रञ्च सन्त्यजेत् | इति ते कथितं देवि(देव) दृष्टादृष्टफलप्रदम् || ३-८३ || यः शोधयेच्चरेद् वर्णं मन्त्रमालामहेश्वरः | यदि शुध्यति चक्रेन्द्रं मन्त्रसिद्धिप्रदं शुभम् || ३-८४ || शिवचक्रं प्रवक्ष्यामि महाकालकुलेश्वर | अवश्यं सिद्धिमाप्नोति शिवचक्रप्रभावतः || ३-८५ || षट्कोणमध्यदेशे तु चतुरस्रं लिखेद् बुधः | तन्मध्ये विलिखेच्चारु चतुरस्रं सवर्णकम् || ३-८६ || मस्तकस्थत्रिकोणे तु शिवसंस्थानमन्त्रकम् | दक्षिणावर्तमानेन गणयेत् सर्वमन्त्रकम् || ३-८७ || विष्णुस्थाने स्वमन्त्रञ्च द्वितीये च त्रिकोणके | त्रिकोणे च तृतीये च ब्रह्मसंस्थानमन्त्रकम् || ३-८८ || शक्तिमन्त्रादिसंस्थानं त्रिकोणाधो मुखे तथा | नायिकामन्त्रसंस्थानं त्रिकोणाधो मुखे तथा || ३-८९ || नायिकामन्त्रसंस्थानं तद्वामे दुर्लभं शुभम् | तदूद्र्ध्वे च त्रिकोणे च भूतसंस्थानमन्त्रकम् || ३-९० || शिवाधो यक्षमन्त्रस्य संस्थानमतिदुर्लभम् | विष्णुब्रह्मसन्धिदेशे महाविद्यापदं ध्रुवम् || ३-९१ || स्वरस्थानं तथा वर्णस्थानं शृणु महाप्रभो | अ--आवर्णंद्वयं शैवे कवर्गञ्च सबिन्दुकम् || ३-९२ || विष्णौ नेत्रं चवर्गञ्च टवर्गं ब्रह्मणि श्रुतम् | तवर्गं नासिकाशक्तौ सर्वमन्त्रार्थचेतनम् || ३-९३ || नायिकायां पवर्गञ्च न युगं परिकीतीतम् | भूते यवान्तं विलिखेदोष्ठाधरसमन्वितम् || ३-९४ || प्रणवं यक्षमन्त्रे च शकारं परिकीतीतम् | अधोदन्तं पिशाचे च षयुक्तं बिन्दुभूषितम् || ३-९५ || शिवो बीजं देवमन्त्रे सकारञ्च सबिन्दुकम् | महाविद्यादिसंस्थाने लक्षवर्णं प्रकीतीतम् || ३-९६ || इति ते कथितं शम्भो शृणु वर्णाङ्क(ङ्ग)वर्णनम् | शिवे एकविंशतिश्च द्वात्रिंशद्विष्णुकोणके || ३-९७ || ब्रह्मणे षोडशाद्यञ्च शक्तिकूटे युगाष्टकम् | नायिकायां वह्निबाणं भूते सप्ताङ्कमेव च || ३-९८ || यक्षे च चन्द्रवेदञ्च पिशाचेऽष्टवसुः स्मृतः | सर्वदेवे बाणवेदं कृत्यायां षष्ठषष्ठकम् || ३-९९ || मध्ये षष्ठे हुताशञ्च महाविद्यागृहे शुभे | साधकस्य च साध्यस्यैकाङ्कं साध्यमन्दिरे || ३-१०० || साधकाङ्कमूर्ध्वदेशे साध्याङ्कं गणयेदधः | भुजयुग्मं शिवे प्रोक्तं विष्णौ वामाष्टकं तथा || ३-१०१ || ऋषिचन्द्रं विधौ प्रोक्तं शक्तौ रामाष्टकं तथा | नायिकायां वेदबाणं भूतेऽष्टनवमं तथा || ३-१०२ || यक्षे युग्मं चतुर्थं च पिशाचे वज्रकाष्टकम् | शक्तौ वशकृतौ ज्ञेयौ कृत्या(ल)यां मुनिषष्ठकम् || ३-१०३ || यस्मिन् यस्मिन् गृहस्था ये देवतास्तु महाफलाः | क० | अनामाक्षरदेहस्थमक्षरं द्विगुणं स्मृतम् | साध्याङ्केन योजयित्वा पूरयेत्षष्ठपञ्चमैः || ३-१०४ || तद्गेहं ग्राहयेद् यत्नात् देवताद्यक्षरं यथा | एकशेषस्थितं वर्णं कुर्यान्नापि विवेचनम् || ३-१०५ || शुद्धं तद्धि विजानीयाद्विचारमन्यतोऽपि च | षष्ठाङ्केन च वेदाङ्कं तथा च देववर्णकम् || ३-१०६ || शशाङ्कं मिश्रितं चाङ्कं द्विगुणं देवतार्णकम् | क० | पश्चात् कृत्वा तदङ्कञ्च हरेद्रामेण वल्लभ | यदि साध्याङ्कं विस्तीर्णं तदा नैव शुभं भवेत् || ३-१०७ || साधकाङ्कञ्च विस्तीर्णं यदि स्याज्जायते गृहे | तदा सर्वकुलेशः स्याद् रुद्रश्रवणसंशयः || ३-१०८ || द्विगुणं देवतावर्णं साधकाङ्केन योजयेत् | वर्णसंख्याङ्कमालिख्य गणयेत् साधकोत्तमः || ३-१०९ || रसबाणेन सम्पूर्य संहरेत् रससंख्यया | आत्माङ्कमिश्रितं पश्चाद् यदि किञ्चिन्न तिष्ठति || ३-११० || स्वीयाभिधानकाङ्कस्य द्विगुणञ्चापि योजयेत् | पश्चादनलसंख्याभिर्हरेत् सौख्याथीमुक्तये || ३-१११ || अङ्कं बहुतरं ग्राह्यं साधकस्य सुखावहम् | न ग्राह्यं साध्यविस्तीर्णमि(म?)तिशास्त्रार्थनिश्चयम् || ३-११२ || विचारादस्य चक्रस्य राजत्वं लभते ध्रुवम् | समानाङ्केन गृह्णीयाद् गुण्याङ्कं वर्जयेदिह || ३-११३ || अवश्यं चक्रमेवं हि गोपनीयं सुरासुरैः | विष्णुचक्रं प्रवक्ष्यामि चक्राकारं सुगोपनम् || ३-११४ || सर्वसिद्धिप्रदं शुद्धं चक्रं कृत्वा फलप्रदम् | शृणु नाथ महाविष्णोः स्थानं मङ्गलदायकम् || ३-११५ || लक्ष्मीप्रियमङ्कमयं नवकोणं महाप्रभम् | तदूर्ध्वे च तमालिख्य तदूद्र्ध्वेऽष्टग्रहं शुभम् || ३-११६ || चतुष्कोणाकारगेहं सन्धौ शून्याष्टकं लिखेत् | तदूर्ध्वे च तमालिख्य चक्रमेतद्धनेश्वर || ३-११७ || पूर्वे महेन्द्राभरणमूद्र्ध्वदेशोल्लसत्करम् | मुनिरामखचन्द्राद्यमङ्कं सर्वसमृद्धिदम् || ३-११८ || दक्षिणे वह्निभरणं रसवेदे खयुग्मकम् | तदधो रामचक्रञ्च सप्तषट्सु च रामकम् || ३-११९ || तदधो निरृते स्वर्गे युगाङ्कशून्यवेदकम् | केवलाधो जलेशस्य मन्दिरं सुमनोहरम् || ३-१२० || रामेषु शून्यबाणाढ्यं तस्यामेवायुमन्दिरम् | भुजहस्तखरसाढ्यं चक्रेदमीश्वरात्मकम् || ३-१२१ || नवकोणं मध्यदेशे पञ्चाङ्गभागमालिखेत् | तन्मध्ये रचयेद्वर्णं पञ्चकोणे त्रिकोणके || ३-१२२ || इन्द्राधो विलिखेद् धीरो वर्णमाद्यञ्च सप्तकम् | भागे दक्षिणकोणेषु ऋकारादङ्ककं लिखेत् || ३-१२३ || ककारादिटकारान्तं तदधो विलिखेद् बुधः | तद्वामे ठादिमान्तञ्च वर्णलक्षणकारणम् || ३-१२४ || तदूद्र्ध्वे यादिवर्णञ्च चक्रञ्च गणयेत्ततः | पूर्वकोणपतिः शक्रो द्वितीयेशौ यमानलौ || ३-१२५ || निरृतिर्वरुणश्चैव तृतीयमन्दिरेश्वरः | चतुर्थाधिपतिर्वायुः कुबेरो नाथ इत्यपि || ३-१२६ || पञ्चगेहस्याधिपतिरीशो विश्वविदाम्बरः | पञ्चकोणे प्रतिष्ठन्ति पञ्चभूताशयस्थिताः || ३-१२७ || प्राणे सिद्धिमवाप्नोति चापाने व्याधिपीडनम् | समाने सर्वसम्पत्तिरुदाने निर्धनं भवेत् || ३-१२८ || व्याने च ईश्वरप्राप्तिरेतस्मिन् लक्षणं शुभम् | पूर्वगेहे महामन्त्रं मन्त्रत्यागं करोति यः || ३-१२९ || स तावत् साधकश्रेष्ठो विष्णुमार्गेण शङ्कर | विशेषं शृणु यत्नेन सावधानावधारय || ३-१३० || सप्ताक्षरं त्र्यक्षरं च दशमाक्षरमेव च | पूर्वगेहे यदि भवेदाद्याक्षरसमन्वितम् || ३-१३१ || तदा भवति सिद्धिश्च सर्वमेवंप्रकारकम् | षष्ठाक्षरं वेदवर्णं विंशत्यर्णं महामनुम् || ३-१३२ || आम्नायाद्यक्षरं व्याप्तं सफलं गणयेद् बुधः | तथास्मिन् मम गेहे च मन्त्रं सप्ताक्षरं शुभम् || ३-१३३ || षष्ठाक्षरञ्च गणयेत्त्रिंशदक्षरमेव च | आद्याक्षरसमायुक्तं साध्यसाधकयोरपि || ३-१३४ || एकस्यापि च लाभे च मन्त्रसिद्धिरखण्डिता | मन्त्राक्षरादिलाभञ्च अवश्यं गणयेदिह || ३-१३५ || नैरृते च जलेशस्य द्वयक्षरञ्च नवाक्षरम् | शून्यदेवाक्षरं नाथ गणनीयं विचक्षणैः || ३-१३६ || तथात्र अक्षरं मन्त्रं पञ्चाक्षरमनं तथा | पञ्चाशदक्षरं मन्त्रं मन्दिरे गणयेत् शुभम् || ३-१३७ || वायुकोणे कुबेरस्य मन्दिरे गणयेत्तथा | द्वाविंशत्यक्षरं मन्त्रं शून्यषष्ठमनुं तथा || ३-१३८ || पञ्चाक्षरं तारिकायाः शिवे पञ्चाक्षरं तथा | सुसप्तमन्त्रग्रहणे सफलं परिकीतीतम् || ३-१३९ || ईशानपञ्चकोणे च सफलञ्च नवाक्षरम् | अष्टाक्षरं हि विद्याया गणयेत् सहितं सुधीः || ३-१४० || एतदुक्तञ्च गणयेद्विरुद्धं नैव शीलयेत् | प्राणमित्रं समानञ्च समानो व्यानबान्धवः || ३-१४१ || एतत्स्थितञ्च गृह्णीयाद् दोषभाक् स भवेत् क्वचित् | एकदैव प्रिये प्रीतिरेकगेहे तथा प्रियम् || ३-१४२ || गृहीत्वा विष्णुपदवीं प्राप्नोति मानवः क्षणात् | यदि चक्रं न विचार्य रिपुमन्त्रं सदा न्यसेत् || ३-१४३ || निजायुषं छिनत्त्येव मूको भवति निश्चितम् | विचार्य यदि यत्नेन सर्वचक्रे प्रियं हितम् || ३-१४४ || महामन्त्रं महादेव लघु सिद्ध्यति भूतले || ३-१४५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरवभैरवीसंवादे तृतीयः पटलः || ३ || अथ चतुर्थः पटलः श्रीभैरवी उवाच अथ वक्ष्यामि चक्रान्यत् शृणु भैरव सादरम् | येन हीना न सिद्ध्यन्ति महाविद्या वरप्रदाः || ४-१ || तव चक्रं ब्रह्मणा व्यक्तं ब्रह्मचक्रमुदाहृतम् | यस्य ज्ञानात् स्वयं ब्रह्मा स्वबलेन भवं सृजेत् || ४-२ || अकालमृत्युहरणं परं ब्रह्मपदं व्रजे | चतुष्कोणे चतुष्कोणं तन्मध्ये च चतुश्चतुः || ४-३ || मध्यगेहं वेष्टयित्वा इष्टं मन्दिरमुत्तमम् | अष्टकोणे महादेव षोडशस्वरमालिखेत् || ४-४ || अष्टकोणं वेष्टयित्त्वा वृत्तयुग्मं लिखेत् सुधीः | मध्यगेहे चतुष्कोणे कादिक्षान्तञ्च वर्णकम् || ४-५ || दक्षिणावर्त्तयोगेन विलिखेत् साधकोत्तमः | तदूद्र्ध्वे स्वगृहे चाङ्कं विलिख्य गणयेत् सुधीः || ४-६ || चतुर्गेहस्योद्र्ध्वदेशे युग्मगेहे क्रमाल्लिखेत् | साध्यस्य साधकस्यापि मेषादिकन्यकान्तकम् || ४-७ || अधो लिखेत्तुलाद्यन्तमिति राश्यादिकं शुभम् | ततो लिखेद् गेहदक्षे युग्मगेहे महेश्वर || ४-८ || तारकानश्विनी ताराद्यन्तान् दक्षिणतो लिखेत् | वर्णक्रमेण विलिखेद् वेदमन्दिरमण्डले || ४-९ || ऊद्र्ध्वाधः क्रमशो लेख्यमङ्गतारं सुरेश्वर | ततो हि गणयेन्मन्त्री योजयित्वा क्रमेण तु || ४-१० || सुखं राज्यं धनं वृद्धिं कलहं कालदर्शनम् | सिद्धिमृद्धिमष्टकोणे विदित्वा च शुभाशुभम् || ४-११ || गणयेद्राशिनक्षत्रं मनुचाहं विवर्जयेत् | सुखे सुखमवाप्नोति राज्ये राज्यमवाप्नुयात् || ४-१२ || धने धनमवाप्नोति वृद्धौ वृद्धिमवाप्नुयात् | मेषो वृषमिथुनश्च कर्कटः सिंह एव च | कन्यका देवता ज्ञेया नक्षत्राणि पुनः शृणु || ४-१३ || ऊद्र्ध्वयुग्मगृहस्यापि दक्षवामे च भागके | नक्षत्राणि सन्ति यानि तानि शृणु महाप्रभो || ४-१४ || अश्विनी मृगशिराश्लेषा हस्तानुराधिका तथा | उत्तराषाढिकार्द्रा वा पूर्वभाद्रपदा तथा || ४-१५ || दक्षाग्रहस्तितास्ताराः स्पष्टीभूताश्च देवताः | एतासामधिपा एते राशयो ग्रहरूपिणः || ४-१६ || कर्कटकेशरी कन्यादेवताः परिकीतीताः | एतेषाञ्चापि वर्णानामधिपाश्चेति राशयः || ४-१७ || ककारस्य(ढ?) खकारस्य ञकारस्य टकारपः | दकारस्य फकारस्य यकारस्य सकारपः || ४-१८ || नकारस्यापि पतयो ज्ञेयाश्च क्रमशः प्रभो | संशृणु रोहिणीपुष्या तथा चोत्तरफाल्गुनी || ४-१९ || विशाखा च तथा ज्ञेया पूर्वाषाढा च तारका | तथा शतभिषातारा वाममन्दिरपर्वगाः || ४-२० || एतासामधिपा एते राशयो ग्रहरूपिणः | मेषो वृषो मिथुनश्च ईश्वराः परिकीतीताः || ४-२१ || एतद्गेहस्थितं वर्णमेते रक्षन्त्यनित्यशः | ककारस्य नकारस्य ऋकारस्य उकारपः || ४-२२ || अकारस्य पकारस्य मकारस्य वकारपः | हकारस्याधिपा एते ऋद्धिमोक्षफलप्रदाः || ४-२३ || दक्षिणाधोगृहस्यापि देवता इति राशयः | तुला च वृश्चिकश्चैव धनुश्चैव ग्रहेश्वरः || ४-२४ || एतासां तारकाणाञ्च पतयो गदिता मया | भरण्यार्द्रमघाचित्राज्येष्ठाश्रवणवल्लभाः || ४-२५ || तथोत्तरभाद्रपदा वल्लभाः राशयो मताः | अथ गेहस्थितं वर्णं शृणु नाथ भयापह || ४-२६ || यकारस्य दकारस्य टकारस्य नकारपः | धकारस्य वकारस्य चकारस्य यकारपः || ४-२७ || क्षकारपणका एते राशयः परिकीतीताः | धनवृत्तिप्रदा नित्या नित्यस्थाननिवासिनः || ४-२८ || वामाधोमन्दिरस्यापि वल्लभा इति राशयः | मकराधस्तु कोष्ठेषु मीनो राशिफलस्थिताः || ४-२९ || एतानि भानि रक्षन्ति शूलपाशासिधारकाः | पुनर्वसुः कृत्तिका च तथाभंपूर्वफल्गुनी || ४-३० || स्वाती मूला धनिष्ठा च रेवती वामगेहगाः | एतासामधिपा एते जलस्था ग्रहदेवताः || ४-३१ || एतान् वर्णान् प्ररक्षन्ति गृहस्था नव राशयः | धकारस्य जकारस्य टकारस्य तकारपः || ४-३२ || नकारस्य भकारस्य लकारस्य तकारपः | कलहादिमहादोषकालदर्शनकारकाः || ४-३३ || राशयो लोकहा नाथ तन्मन्त्रं परिवर्जयेत् | यद्येकदेवतागेहं विभिन्नञ्च सुशोभनम् || ४-३४ || चतुः स्थानं युगस्थानं सर्वत्रापि निषेधकम् | एकगेहस्थितं मन्त्रं बहुसौख्यप्रदायकम् || ४-३५ || नाम्न आद्यक्षरं नीत्वा राशिनक्षत्रविस्मृतौ | सभावं साधकश्रेष्ठः कलहे कलहं भवेत् || ४-३६ || रिपुश्चेन्मूलनाशः स्यात् कलहोऽपि सुरेश्वर | नेत्रयुग्मं स्वरं पाति सिंहो हि कन्यकां तथा || ४-३७ || कर्णयुग्मं तुला पाति संयुगं वृश्चिको धनुः | चयुगं मकरः पाति कुम्भो मीनश्च पाति हि || ४-३८ || ओष्ठञ्च पाति च तथा अधरं मेष एव च | दन्तयुग्मं वृषः पाति मिथुनः शेषगोऽक्षरः || ४-३९ || यस्य ये ये राशयः स्युस्तस्य तत्तच्छुभं स्मृतम् | एकराशिः शुभं नित्यं ददाति च मनोरथम् || ४-४० || अन्यत्र दुखदं प्रोक्तं साधकः सिद्धिभाग् भवेत् | भिन्नराशौ वर्जनीयं कलहं कालदर्शनम् || ४-४१ || श्रूयतां शैलजानाथ चक्रं श्रीत्रिदशात्मकम् | पूर्वपश्चिमभेदेन षट् च रेखाः समालिखेत् || ४-४२ || वामादि दक्षिणान्तञ्च रेखा दश समालिखेत् | पञ्चगेहे पूरकाङ्कं सर्वाधोहारकाङ्ककम् || ४-४३ || तन्मध्ये रचयेदक्षं देवताग्रहसंयुतम् | पूरकाङ्कं मध्यगेहे सप्तषीयुक्तमालिखेत् || ४-४४ || तद्दक्षिणे द्वादशञ्च तद्दक्षेण रसं तथा | तद्दक्षे अष्टदशके तद्दक्षे षोडशस्मृतम् || ४-४५ || पूरकाङ्कं ततो लेख्यं इन्द्राद्यङ्काश्च दक्षतः | इन्द्रगेहे च शतकं विधिविद्याफलप्रदम् || ४-४६ || धर्मगेहे शून्यसप्त युगलं विलिखेद् बुधः | अनन्तमन्दिरे नाथ शून्याष्टवसुरेव च || ४-४७ || कालीगृहे शून्यवेदवामाद्याङ्कं विलिखेत्ततः | धूमावतीमन्दिरे च शून्यखेषु निशापतिम् || ४-४८ || इन्द्राद्या दक्षतो लेख्या अङ्काश्चन्द्राधिदेवताः | शून्याष्टचन्द्रयुक्तञ्च सर्वत्र देवता लिखेत् || ४-४९ || तथाश्विनीकुमारौ च शून्यानलयुगायुगौ | तत्पश्चात् पूर्वगेहञ्च सहस्रार्कसमन्वितम् || ४-५० || तारिणीमन्दिरस्थाङ्कं शून्यवेदं तथैव च | बगलामुखीगेहस्थं शून्याष्टचन्द्रसंयुतम् || ४-५१ || ततश्चन्द्रगृहस्याधो वायुर्गेहं मनोरमम् | रन्ध्रवेदात्मकं गेहं सर्वसिद्धिप्रदायकम् || ४-५२ || राहुगेहं महापापं शून्यशून्यमुनिप्रियम् | पश्चादेकत्र हस्तञ्च खशून्ययुगलात्मकम् || ४-५३ || षोडशीमन्दिरे शून्यमष्टचन्द्रसमन्वितम् | मातङ्गीमन्दिरे शून्यरुद्रचन्द्रसमन्वितम् || ४-५४ || वायोरधोवरुणस्य गृहं सप्तशशिप्रियम् | तरुणी गेहमध्ये च शून्याष्टकसमन्वितम् || ४-५५ || बुधगेहस्थिताङ्कञ्च शून्यचन्द्रयुगात्मकम् | भुवनेशीमन्दिरस्थं शून्याष्टकशशिप्रियम् || ४-५६ || वरुणाधः कुबेरस्य गृहस्थं षट् च युग्मकम् | आनन्तभैरवी गेहे दशकं परिकीतीतम् || ४-५७ || धरणीगृहमध्ये च शून्ययुग्मेन्दुसंयुतम् | भैरवी गृहमध्यस्थं शून्ययुगलचन्द्रकम् || ४-५८ || राशिगृहस्थितं शून्यषीचन्द्रमण्डलसंयुतम् | कुबेराधः स्वकं चक्रस्थिताङ्कं सर्वसिद्धिदम् || ४-५९ || ईश्वरस्य गृहस्थञ्च सप्तशून्ययुगात्मकम् | तिरस्करिण्या गेहस्थं सहस्राङ्कसमन्वितम् || ४-६० || किङ्किणीमन्दिरं पश्चादष्टचन्द्रसमन्वितम् | छिन्नमस्तागृहं पश्चाच्छून्याष्टचन्द्रमण्डलम् || ४-६१ || वागीश्वरीगृहं पश्चात् सप्तमं चन्द्रमण्डलम् | महाफलप्रदातारं धर्मो रक्षति तं पुनः || ४-६२ || ईश्वरस्य अधोगेहे बटुकस्य गृहं ततः | शून्याष्टमाद्यं स्वगृहं धर्मार्थकाममोक्षदम् || ४-६३ || तत्पश्चात् डाकिनीगेहं खशून्यमुनिसंयुतम् | हन्ति साधकसौख्यं हि क्षणादेव न संशयः || ४-६४ || स्वगृहे स्वीयमन्त्रस्य फलदं परिकीतीतम् | भीमादेवीगृहं पश्चात् खसप्तचन्द्रमण्डलम् || ४-६५ || भयदं सर्वदेशे तु वर्जयेद् गृहान्तरम् | लक्षवर्णं लिखेत् शेषगृहे द्वे पण्डितोत्तमः || ४-६६ || इन्द्रगेहावधिं धीरो वकारादिकवर्णकम् | क्षकारान्तं लिखेत्तत्र गणयेत् साधकस्ततः || ४-६७ || पूरकाङ्कमूद्र्ध्वदेशे हारकाङ्कमधो लिखेत् | निजनामाक्षरं यत्र तत्कोष्ठाङ्कं महेश्वर || ४-६८ || नीत्त्वा च पूजयेद्विद्वान् स्वस्वगेहोर्ध्वदेशगैः | अङ्कैस्ततो हरेर्नाथ अधोऽङ्के हार्यशेषकम् || ४-६९ || विस्तारञ्चेद्देवताङ्गस्तदङ्गः शुभदः स्मृतः | अल्पाङ्गः शुभदः प्रोक्तः साधकस्य सुखावहः || ४-७० || एकाक्षरे महासौख्यं तत्रापि गणयेद् वचः | धीराङ्कः शून्यगामी च देवताङ्कस्तथा विभो || ४-७१ || तदा नैव शुभं विद्यादशुभाय प्रकल्प्यते | एके धनमवाप्नोति द्वितीये राजवल्लभः || ४-७२ || तृतीये जाप्यसिद्धिः स्याच्चतुर्थे मरणं ध्रुवम् | पञ्चमे पञ्चमानः स्यात् षष्ठे दुःखोत्कटानि च || ४-७३ || शैवानां शाक्तवर्णानामित्यङ्कः परिगृह्यते | वैष्णवानां निषेधे च पञ्चमाङ्को निषेधकः || ४-७४ || यासां यासां देवतानां हिंसा तिष्ठति चेतसि | तन्मन्त्रग्रहणादेवाष्टैश्वर्ययुतो भवेत् || ४-७५ || यद्देवस्याश्रिता ये तु तद्गृहाङ्कं हरन्ति ते | ऊद्र्ध्वाङ्केन पूरयित्त्वा अधोऽङ्केन हरेत्सदा || ४-७६ || ऋणिधनिमहाचक्रं वक्ष्यामि शृणु तत्त्वतः | दर्शनादेव कोष्ठस्य जानाति पूर्वजन्मगम् || ४-७७ || देवं बहुतराङ्गेषु ज्ञात्वा सिद्धीश्वरो भवेत् | निजसेव्यां महाविद्यां गृहीत्वा मुक्तिमाप्नुयात् || ४-७८ || कोष्ठशुद्धञ्च मन्त्रञ्च ये गृह्णन्ति द्विजोत्तमाः | तेषां दुःखानि नश्यन्ति ममाज्ञा बलवत्तरा || ४-७९ || कोष्ठशुद्धं महामन्त्रं फलदं रुद्रभैरव | न हातव्यं महामन्त्रं सद्गुरुप्रियदर्शनात् || ४-८० || तत्र कोष्ठं न विचार्यं चेज्जानाति विचार्यकम् | महाविद्या महामन्त्रे विचार्यकोटिपुण्यभाक् || ४-८१ || अविचारे चोक्तफलं ददाति कामसुन्दरी | कोष्ठान्येकादशान्येव देवेन पूरितानि च || ४-८२ || अकारादिहकारान्तं लिखेत् कोष्ठेषु तत्त्ववित् | प्रथमं पञ्चकोष्ठेषु ह्रस्वदीर्घक्रमेण तु || ४-८३ || द्वयं द्वयं लिखेत्तत्र विचारे खलु साधकः | शेषेष्वेकैकशो वर्णान् क्रमशस्तु लिखेत्सुधीः || ४-८४ || अमावर्ण द्वयस्यार्द्धावधिस्तु क्रमशोऽङ्ककम् | आद्यमन्दिरमध्ये तु षष्ठाङ्कं विलिखेद् बुधः || ४-८५ || द्वितीये षष्ठचिन्हञ्च तृतीये च गृहे तथा | चतुर्थे गगनाङ्कञ्च पञ्चमे चक्रत्रयं तथा || ४-८६ || षष्ठचापे चतुर्थञ्च सप्तमे च चतुर्थकम् | अष्टमे गगनाङ्कञ्च नवमे दशमं तथा || ४-८७ || शेषमन्दिरमध्ये तु त्रयाङ्कं विलिखेत्ततः | एते नाथ साध्यवर्णाः कथिताः क्रमशो ध्रुवम् || ४-८८ || कथयामि साधकार्णं सकलार्थनिरूपणम् | आद्यगेहे द्वितीयञ्च द्वितीये च तृतीयकम् || ४-८९ || तृतीये पञ्चमं प्रोक्तं गगनं वेदपञ्चके | षष्ठे युगलमेवं हि सप्तमे चन्द्रमण्डलम् || ४-९० || अष्टमे गगनं प्रोक्तं नवमे च चतुर्थकम् | वेदञ्च दशमे प्रोक्तं चन्द्रमेकादशे तथा || ४-९१ || साधकार्णाः स्मृताः त्वेते वर्णमण्डलमध्यगाः | साध्यवर्णान् महादेव स्वरव्यञ्जनभेदकान् || ४-९२ || एवं हि सर्वमन्त्रार्णानमष्टाद्यङ्कैः प्रपूरयेत् | एकीकृत्य हरेदष्टसंख्याभिः क्षणवल्लभे || ४-९३ || यस्यापहस्थितं वर्णं तन्नेभव्यं मनौ शुभे | साधकाभिधानवर्णा स्वरव्यञ्जनभेदकान् || ४-९४ || पृथक् पृथक् संस्थितांश्च व्यक्तं शृणु पुनः पुनः | द्वितीयाद्यङ्कचन्द्रान्ते संपूर्वाष्टभिराहरेत् || ४-९५ || मन्त्रो यस्त्वधिकाङ्कः स्यात्तदा मन्त्रं जपेत् सुधीः | समेऽपि च जपेन्मन्त्रं न जपेत्तु ऋणाधिके || ४-९६ || शून्ये मृत्युं विजानीयात्तस्माच्छून्यं विवर्जयेत् | द्वितीयाद्यङ्कजालञ्च वैष्णवे सुखदं स्मृतम् || ४-९७ || द्वितीयाद्यङ्कजालञ्च वैष्णवे सुखदं स्मृतम् | द्वितीयाद्यङ्कजालञ्च तथा वै परिकीतीतम् || ४-९८ || इन्द्राद्यङ्कं तथा नाथ सौरे शाक्ते शुभप्रदम् | तथा दिक्संख्यकाङ्कञ्च साधकस्य शुभप्रदम् || ४-९९ || तदङ्कं शृणु यत्नेन पूर्ववत् सकलं स्मृतम् | स्थलञ्चैव विभिन्नाङ्कमूद्र्ध्वाधश्च क्रमेण तु || ४-१०० || साध्याङ्कान् साधकाङ्काश्च पूरयेद् गृहसंख्यया | गुणिते तु हृते चापि यच्छेषं जायते स्फुटम् || ४-१०१ || तदङ्कं कथयाम्यत्र एकादशगृहे स्थितम् | इन्द्रतारास्वर्गरवितिथिषड्वेददाहनाः || ४-१०२ || अष्टवसु नवाङ्कस्थाः साध्यार्णगुणिता इति | दिग्भूगिरिश्रुतिगजवह्निपर्वतपञ्चमाः || ४-१०३ || वेदषष्ठानलाङ्कञ्च गणयेत् साधकाक्षरान् | नामाद्यक्षरमारभ्य यावन्मन्त्राक्षरं भवेत् || ४-१०४ || तत्संख्याञ्च त्रिधा कृत्वा सप्तभिः संहरेद् बुधः | अधिकं च ऋणं प्रोक्तं तच्छेषं धनमुच्यते || ४-१०५ || अथवान्यप्रकारञ्च कृत्वा मन्त्रं समाश्रयेत् | नामाद्यक्षरमारभ्य यावत् साधकवर्णकम् || ४-१०६ || तावत्संख्यां सप्तगुणं कृत्वा वामैर्हरेद् बुधः | श्रीविद्येतरविद्यायां गणना परिकीतीता || ४-१०७ || अथवान्यप्रकारञ्च सकलान् साधकाक्षरान् | स्वरव्यञ्जनभेदेन द्विगुणीकृत्य साधकः || ४-१०८ || साध्ययुक्तं ततः कृत्वा स्वरव्यञ्जनभेदकम् | अष्टाभिः संहरेदङ्कं शृणु संहारविग्रहम् || ४-१०९ || पूर्वचारक्रमं सम्यक् सर्वत्रापि शुभाशुभम् | अस्य विचारमात्रेण सिद्धिः सर्वार्थसाधिका || ४-११० || पूर्वजन्माराधितायां तां प्राप्नोति हि देवताम् | अथान्यत् सम्प्रवक्ष्यामि सावधानावधारय || ४-१११ || उल्काचक्रं सर्वसारं मन्त्रदोषादिनिर्णयम् | मत्स्याकारमूर्ध्वमुखं सर्वमन्त्रादि विग्रहम् || ४-११२ || स्कन्धदेशावधिर्नाथ पुच्छपर्यन्तमेव च | एकाक्षरादिमन्त्रादिद्वादशान्ताक्षरात्मकम् || ४-११३ || विलिखेत् पृष्ठदेशे तु शुभाशुभविशुद्धये | त्रयोदशाक्षरान् वाथ एकविंशाक्षरान्तकम् || ४-११४ || नेतव्यं साधकैर्मन्त्रं पृष्ठस्थमुदरस्थकम् | तथा श्रीशुभदं प्रोक्तं कण्ठादिपुच्छकान्तकम् || ४-११५ || द्वाविंशादि चतुस्त्रिशदक्षरान्तमनुं शुभम् | पुच्छस्थं नापि गृह्णीयात् मुखस्थञ्च तथा ध्रुवम् || ४-११६ || शीर्षस्थञ्चापि गृह्णीयात् तदक्षरं शृणु प्रभो | पञ्चत्रिंशादि द्विचतुर्द्वाविंशदन्तमेव च || ४-११७ || मस्तकस्थं शुभं प्रोक्तं मुखवर्णान् शृणु प्रभो | त्रिचत्वारिंशदर्णादि एकपञ्चाशदन्तकम् || ४-११८ || मुखस्थमन्तमशुभं न गृह्णीयात् कदाचन | पृष्ठस्थं शृणु यत्नेन निरर्थकमहाश्रमम् || ४-११९ || श्रमगात्रस्य पीडाभिर्देवता कुप्यतेऽनिशम् | द्विपञ्चाशदक्षरादि एकषष्टितमान्तकान् || ४-१२० || वर्णान् पुच्छस्थितानेतान् नेत्रस्थान् शृणु वल्लभ | द्विषष्टितमवर्णादि चतुःषष्ट्यक्षरान्तकान् || ४-१२१ || अङ्कं लोचनसंस्थं च ततोऽन्यं रसनास्थितम् | तत्सर्वं शुभदं प्रोक्तमेतदन्यतमं स्मृतम् || ४-१२२ || वैष्णवानाञ्च शैवानां शाक्तानां मन्त्रजापने | ततोऽन्यदेवभक्तानां भुक्तिमुक्तिप्रदं नृणाम् || ४-१२३ || अथ वक्ष्ये महादेव चक्रसारं सुदुर्लभम् | रामचक्रं महाविद्या सर्वमन्दिरमेव च || ४-१२४ || सर्वसिद्धिप्रदं मन्त्रं निजनामस्थमाश्रयेत् | तदैव सिद्धिमाप्नोति सत्यं सत्यं महेश्वर || ४-१२५ || तत्प्रकारं शृणु क्रोधभैरव प्रियवल्लभ | नवाङ्कान् प्रलिखेद् विद्वान् वामदक्षिणभागतः || ४-१२६ || तन्मध्ये क्रमशो दद्यात् तथा सप्तदशाङ्ककान् | दक्षिणादिक्रमेणैवमुक्तविद्याः समालिखेत् || ४-१२७ || अकारादिक्षकारान्तं सर्वस्मिन् मन्दिरे लिखेत् | बालादिदेवताः सर्वा भ्रामर्यन्ताश्च देवताः || ४-१२८ || अस्याकाशविधे गेहे सान्तनित्यं फलप्रदम् | पुनवीलोममार्गेण आदिक्षान्तार्णमन्दिरे || ४-१२९ || रक्तदन्तादि श्रीविद्या मन्त्रान्तं विलिखेद् बुधः | क्षकाराद्यनुलोमेन अकारान्तं लिखेत् ततः || ४-१३० || पुनस्तच्छेषविद्याश्च शेषगेहे लिखेत् सदा | कायशोधनमुख्यादि शैलवासिनि मन्त्रकम् || ४-१३१ || पञ्चविंशतिगेहस्थं गणयेत् साधकस्ततः | गृहस्थमङ्कं वक्ष्यामि शृणु योगीशवल्लभ || ४-१३२ || बालागृहादिशेषान्तं मुनिहस्तविधौ गृहे | क्रमेण शृणु तत्सर्वं सावधानावधारय || ४-१३३ || दक्षिणावर्तयोगेन गणयेत् क्रमशो बुधः | वसुसप्तपञ्चमेषुवह्निवेदानलस्तथा || ४-१३४ || मुनिषष्ठाद्यवेदाश्च सप्तेषुमुनयस्तथा | पञ्चवेदेषुवसवो वेदेषुवह्नयस्तथा || ४-१३५ || वह्निवेदाश्च सम्प्रोक्ता आकाशं तदनन्तरम् | आकाशानन्तरे गेहे अनलं परिकीतीतम् || ४-१३६ || तत्पश्चात् सर्वगेहेषु सर्वाङ्कं दक्षतः शृणु | वह्नि वह्निवेदवह्नि वेदवह्नय एव च || ४-१३७ || श्रवणाक्षिवेदबाण वेदेषु सप्तकस्तथा | षष्ठाष्टसप्तमाः प्रोक्ता वह्न्यग्नीषु मुनिस्तथा || ४-१३८ || मुनीषु बाणवेदाश्च मुन्यग्निवह्नयस्तथा | वह्निवेदबाणसप्त अष्टाङ्कवेदबाणकाः || ४-१३९ || पञ्चसप्तानलाग्निश्च वह्नीषुबाणबाणकाः | बाणवेदकान्तवेदकान्तश्रुतिचतुर्थकाः || ४-१४० || रामषीमुनिषष्ठाश्च सप्तेषु रामवेदकाः | वेदसप्ताष्टवसवो नवमाष्टमसप्तमाः || ४-१४१ || वह्न्यग्निवेदबाणाश्च वस्वष्टानलवेदकाः | सप्ताष्टमाश्च सम्प्रोक्ता गृहाङ्काः परिकीतीताः || ४-१४२ || येषां मनसि या विद्या सदा तिष्ठति भावने | तामाश्रित्य जपेद्विद्वान् तदा सिध्यति निश्चितम् || ४-१४३ || स्वनाम देवतानाम पूरयेत् षोडशाङ्ककैः | हरेन्निजगृहस्थेन चाङ्केन साधकोत्तमः || ४-१४४ || कृतशेषं बहुतरं शुभं देवस्य निश्चितम् | अल्पाङ्कसाधकस्यापि सौख्यमेव न संशयः || ४-१४५ || उक्तक्रमेण गणयेत् साधकः स्थिरमानसः | महाविद्यानायिकादियज्ञभूतादिसाधने || ४-१४६ || सम्प्रोक्तं चक्रसारञ्च सर्वतन्त्रेषु गोपितम् | ततश्चक्रविचारेण सिद्धिमाप्नोति साधकः || ४-१४७ || चतुश्चक्रं प्रवक्ष्यामि शृणुष्व पार्वतीपते | वामदक्षिणयोगेन रेखापञ्चकमालिखेत् || ४-१४८ || पूर्वपश्चिमभेदेन रेखाः पञ्च समालिखेत् | चतुष्कोष्ठे दक्षभागे चतुष्कोष्ठे च मन्त्रवित् || ४-१४९ || तदधश्च चतुष्कोष्ठे तद्वामस्थे चतुर्गृहे | प्रलिखेत् क्रमशश्चाद्ये चतुर्मन्दिरमध्यके || ४-१५० || शीघ्रञ्च शीतलं जप्तं सिद्धञ्चापि ततः परम् | अकारञ्च उकारञ्च ऌसोकारं ततः परम् || ४-१५१ || ऊद्र्ध्वस्थमिति वर्णं तु शीतलस्थं शृणु प्रभो | अकारञ्च उकारञ्च(ऌ ॡ)सौकारञ्च ततः परम् || ४-१५२ || तदधो जपगेहस्थं वर्णं शृणु महाप्रभो | इकारञ्च ऋकारञ्च एकारञ्च ततः परम् || ४-१५३ || सिद्धगेहस्थितं वर्णं शृणु सर्वसुखप्रदम् | तद्दक्षिणचतुर्गेहे स्थितान् वर्णान् वदामि तान् || ४-१५४ || आह्लादञ्च प्रत्ययञ्च मुखञ्च शुद्धमित्यपि | एतत्कुलस्थान् सर्वार्णान् शुभाशुभफलप्रदान् || ४-१५५ || ककारञ्च ऋकारञ्च ॠकारञ्च ञकारकम् | आह्लादस्थमिति प्रोक्तं प्राप्तिमात्रेण सिद्धिदम् || ४-१५६ || प्रत्ययस्थं गकारञ्च घकारं टठमित्यपि | मुखस्थं हि ङकारञ्च चकारं डढमित्यपि || ४-१५७ || शुद्धस्थञ्च उकारञ्च जकारं णतमित्यपि | तदधःस्थं चतुर्गेहं लौकिकं सात्त्विकं तथा || ४-१५८ || मानसिकं राजसिकं चतुर्गेहस्थितं त्विमम् | लौकिकस्थं थकारञ्च दकारञ्च मकारकम् || ४-१५९ || सात्त्विकस्थं धकारञ्च लकारञ्च यकारकम् | मानसिकञ्च शृणु भो पकारञ्च फमित्यपि || ४-१६० || शृणु राजसिकत्वञ्च भकारं वनमित्यपि | तन्नामस्थं चतुर्गेहं शृणु पञ्चानन प्रभो || ४-१६१ || सुप्तं क्षिप्तञ्च लिप्तञ्च दुष्टमन्त्रं प्रकीतीतम् | ऊद्र्ध्वगेहस्थिता वर्णमन्त्रान् गृह्णाति यो नरः || ४-१६२ || वर्जयित्वा सुप्तमन्त्रं क्षिप्तं लिप्तञ्च दुष्टकम् | एहिके सिद्धिमाप्नोति परे मुक्तिमवाप्नुयात् || ४-१६३ || यद्यभाग्यवशात्सुप्तादिषु गेहेषु लभ्यते | तदा मन्त्रं शोधयेद् वै सुप्तस्तम्भितकीलितैः || ४-१६४ || वद्धीतैर्दोषजालस्थैरशुभं भूतशुद्धये | भूतलिप्या पुटीकृत्या जप्त्वा सिद्धिं ततो लभेत् || ४-१६५ || न तु वा वर्जयेद् गेहं चतुष्कं वर्णवेष्टितम् | सुप्तगेहस्थितं वर्णं शृणु पञ्चानन प्रभो || ४-१६६ || वकारञ्च हकारञ्च ततोऽन्यद्गृहसंस्थितम् | शकारञ्च लकारञ्च क्षिप्तगेहस्थितद्वयम् || ४-१६७ || धकारञ्च क्षकारञ्च लिप्तगेहस्थितं द्वयम् | दुष्टगेहस्थितं नाथ शकारगगनं तथा || ४-१६८ || निजं सौभाग्ययुक्तं यत्तन्मन्त्रं तदुपाश्रयेत् | सूक्ष्मचक्रं प्रवक्ष्यामि हिताहितफलप्रदम् || ४-१६९ || एतदुक्ताक्षरं शम्भो गृहीत्वा जपमाचरेत् | वामदक्षिणमारभ्य सप्तरेखाः समालिखेत् || ४-१७० || भित्वा तदङ्कान् मन्त्री च रेखाचतुष्टयं लिखेत् | दक्षिणादिक्रमेणैव बद्धमन्दिरमध्यके || ४-१७१ || मन्त्राक्षराणि विलिखेदङ्काचारेण साधकः | तदङ्कं शृणु यत्नेन नराणां भुक्तिमुक्तिदम् || ४-१७२ || प्रथमे मन्दिरे नाथ भुजाङ्कं विलिखेत्ततः | विष्णुमन्त्रादिगेहे च वेदाङ्कं विलिखेद् बुधः || ४-१७३ || तत्पश्चादष्टमाङ्कं च भुजाधः षष्ठमेव च | तद्गेहं शङ्करस्यापि तत्पश्चाद्दशमं गृहे || ४-१७४ || तत्पश्चाद्द्वादशाङ्कञ्च नायिकास्थानमेव च | षष्ठाधोयुगलाङ्कञ्च तत्पश्चादष्टमं तथा || ४-१७५ || तद्गृहं शम्भुना व्यस्तं तत्पश्चादष्टमं तथा | युगलाधोगृहे चापि चतुर्दशाक्षरं तथा || ४-१७६ || तद्दक्षिणे सूर्यगेहं चतुद्र्दशाक्षरान्वितम् | तत्पश्चात् षोडशाङ्कञ्च पुनरङ्कं लिखेत्ततः || ४-१७७ || तद्दक्षिणे वेदवर्णं तत्पश्चादष्टमाक्षरम् | ब्रह्ममन्दिरमेवं तत् षोडशाधः पुनः शृणु || ४-१७८ || अष्टमाङ्कं ततो युग्ममष्टादशाक्षरं ततः | प्रथमस्थं द्वितीयस्थं गृह्णीयाद् शुभदं स्मृतम् || ४-१७९ || तृतीयस्थं महापापं सर्वमन्त्रेषु कीतीतम् | द्वितीयं प्रथमं दुःखं तृतीयं सर्वभाग्यदम् || ४-१८० || तृतीयञ्च तथा नाथ गृह्णीयान्निजसिद्धये | तृतीये प्रथमं भद्रं द्वितीयं दुःखदायकम् || ४-१८१ || तृतीयञ्च तथा प्रोक्तमष्टाक्षरगृहं भयम् | चतुर्दशाक्षरं भद्रं सूर्यमन्त्रं द्वितीयकम् || ४-१८२ || तृतीयस्थं षोडशाङ्के महाकल्याणदायकम् | अष्टमूतीः षोडशाङ्के चतुर्थे शत्रुमारणम् || ४-१८३ || तृतीयगृहमध्यस्थं ब्रह्मकल्याणदायकम् | वस्वक्षरं सर्वशेषगृहमध्यस्थमेव च || ४-१८४ || अष्टमञ्च महाभद्रं क्षमं चित्तभयप्रदम् | अष्टादशाङ्कं शुभदं शेषगेहत्रये तथा || ४-१८५ || येषां यदक्षराणाञ्च मन्त्रं चेतसि वर्तते | एतत् शुभाशुभं ज्ञात्वा मन्त्रवर्णं तदाभ्यसेत् || ४-१८६ || विष्णुमन्त्रस्थितं मन्त्रं नायिकास्थं शिवस्थकम् | सूर्यस्थं ब्रह्मसंस्थञ्च गृह्णीयात् शाक्त एव च || ४-१८७ || वैष्णवो विष्णुमन्त्रार्थं शैवः शिवमुपाश्रयेत् | नायिकामन्त्रजापी च नायिकार्णं सदाभ्यसेत् || ४-१८८ || सूर्यमन्त्रविचारार्थी सूर्यमन्त्रं समाश्रयेत् | एकस्थं युगलस्थानं तृतीयस्थानमेव च || ४-१८९ || ज्ञात्त्वा मन्त्रं प्रगृह्णीयात् अन्यथा चाशुभं भवेत् | एतदन्यतमं मन्त्रं दिव्यवीरेषु गीयते || ४-१९० || ततश्चक्रं पशोरुक्तं सर्वसिद्धिप्रदं ध्रुवम् | एतच्चक्रप्रभावेण पशुर्वीरोपमः स्मृतः || ४-१९१ || सर्वसिद्धियुतो भूत्वा वत्सरात्तां प्रपश्यति || ४-१९२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महामन्त्रोद्दीपने सर्वचक्रानुष्ठाने सिद्धमन्त्रप्रकरणे भावनिर्णये भैरवीभैरवसंवादे चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः महाकथहचक्रार्थं सर्वचक्रोत्तमोत्तमम् | यस्य विचारमात्रेण कामरूपी भवेन्नरः || १ || ततः प्रकारं वीराणां नाथः त्वं क्रमशः शृणु | चतुरस्रे लिखेत् वर्णांश्चतुःकोष्ठसमन्विते || ५-२ || चतुःकोष्ठे चतुःकोष्ठे चतुश्चतुर्गृहान्वितम् | मन्दिरं षोडशं प्रोक्तं सर्वकामार्थसिद्धिदम् || ५-३ || चतुरस्रं लिखेत्कोष्ठं चतुःकोष्ठसमन्वितम् | पुनश्चतुष्कं तत्रापि लिखेद्धीमान् क्रमेण तु || ५-४ || सर्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु | अकारादिक्षकारान्तं लिखित्वा गणयेत्ततः || ५-५ || चन्द्रमग्ंनि रुद्रवर्णं नवमं युगलं तथा | वेदमर्कं दशरसं वसुं षोडशमेव च || ५-६ || चतुर्दशं भौतिकञ्च सप्तपञ्चदशेति च | वह्नीन्दुकोष्ठगं वर्णं सङ्केताङ्कैः मयोदितम् || ५-७ || एतदङ्कस्थितं वर्णं गणयेत्तदनन्तरम् | नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् || ५-८ || चतुभीः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् | पुनः कोष्ठगकोष्ठेषु सत्यतो नाम्न आदितः || ५-९ || सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत्सुधीः | सिद्धः सिद्ध्यति कालेन साध्यस्तु जपहोमतः || ५-१० || सुसिद्धोऽग्रहणाज्ज्ञानी शत्रुर्हन्ति स्वमायुषम् | सिद्धार्णो बान्धवः प्रोक्तः साध्यः सेवक उच्यते || ५-११ || सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः | जपेन बहुसिद्धिः स्यात् सेवकोऽधिकसेवया || ५-१२ || पुष्णाति पोषकोऽभीष्टो घातको नाशयेद् ध्रुवम् | सिद्धः सिद्धो यथोक्तेन द्विगुणः सिद्धसाधकः || ५-१३ || सिद्धः सुसिद्धोद्र्ध्वजपात् सिद्धारिर्हन्ति बान्धवान् | साध्यः सिद्धो द्विगुणकः साध्ये साध्यो निरर्थकः || ५-१४ || तत्सुसिद्धो द्विगुणजपात् साध्यारिर्हन्ति गोत्रजान् | सुसिद्धसिद्धोद्र्ध्वजपात्तत्साध्यो द्विगुणाधिकात् || ५-१५ || तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा | अरिः सिद्धः सुतान् हन्यादरिसाध्यस्तु कन्यकाः || ५-१६ || तत्सुसिद्धिस्तु पत्नीघ्नस्तदरिर्हन्ति गोत्रजान् | यदि वैरिमनोर्हस्तस्थितः स्यात् साधको भुवि || ५-१७ || तदन्ते रक्षणार्थं हि कुर्यादेवं क्रियादिकम् | तत्प्रकारं महावीर शृणुष्व गिरिजापते || ५-१८ || वटपत्रे लिखित्वारिमन्त्रं स्रोतसि निक्षिपेत् | एवं मन्त्रविमुक्तः स्यान्ममाज्ञावशहेतुना || ५-१९ || पुनः प्रकारं विप्रस्तु गवां क्षीरे मुदान्वितः | द्रोणमिते जपेन्मन्त्रमष्टोत्तरसमन्वितम् || ५-२० || पीत्वा क्षीरं मनोमध्ये ध्यात्वा मन्त्रं समुच्चरन् | सन्त्यजन्नीरमध्ये तु वैरिमन्त्रप्रमुक्तये || ५-२१ || पुनः प्रकारं वक्ष्यामि त्रिरात्रमेकवासरम् | उपोष्य विधिनानेन पूजां कृत्वा शनौ कुजे || ५-२२ || सहस्रं वा शतं वापि अष्टोत्तरसमन्वितम् | जपित्वा सन्त्यजेन्मन्त्रं क्षीरसागरमण्डले || ५-२३ || अथवा तद्गुरोः स्थाने चान्यस्थाने च वा पुनः | विचार्य मन्त्रवर्णञ्च गृहीत्वा मोक्षमाप्नुयात् || ५-२४ || स्वप्ने यदि महामन्त्रं प्राप्नोति साधकोत्तमः | तदा सिद्धिमवाप्नोति सत्यं सत्यं कुलेश्वर || ५-२५ || तन्मन्त्रं कौलिके नाथ गुरोर्यत्नेन सङ्ग्रही | यदा भवति सिद्धिः स्यात्तत्क्षणान्नात्र संशयः || ५-२६ || अरिं वा देवदेवेश यदि विग्राहयेन्मनुम् | अन्यमन्त्रं विचार्यैव विष्णोश्चैव शिवस्य च || ५-२७ || शक्तिमन्त्रं यदि रिपुं तदा एवं प्रकारकम् | आदावन्ते च मध्ये च ओं वौषट् स्वाहयान्वितम् || ५-२८ || कृत्वा जप्त्वा महासिद्धिं कामरूपस्थितामिव | प्राप्नोति नात्र सन्देहो ममाज्ञा वरवणीनी || ५-२९ || शृणु चक्रफलं नाथ विचाराचारमङ्गलम् | प्रासादञ्च महामन्त्रं सद्गुरोर्मुखपङ्कजात् || ५-३० || लभ्यते यदि भाग्येन सिद्धिरेव न संशयः | तदभावे सिद्धिमन्त्रं दृष्टादृष्टफलोन्मुखम् || ५-३१ || महाचमत्कारकरं हृदयोल्लासवर्द्धनम् | स्वप्ने वा सद्गुरोः स्थाने प्राप्तिमात्रेण मुक्तिदम् || ५-३२ || तन्मन्त्रं वर्जयित्वा च घोरान्धकाररौरवे | वसन्ति सर्वकालं च ममाज्ञावशभागिनी || ५-३३ || तत्रैव चक्रसारादि विचारं व्यर्थभाषणम् | अरिमन्त्रं महापुण्यं सर्वमन्त्रोत्तमोत्तमम् || ५-३४ || कोटिजन्माजीतैः पुण्यैर्महाविद्याश्रयी भवेत् | स्वप्ने कोटिकुलोत्पन्नैः पुण्यकोटिफलैरपि || ५-३५ || प्राप्नोति साधको मन्त्रं भुक्तये मुक्तये ध्रुवम् | ततश्चक्रं न विचार्यं विचार्य मरणं भवेत् || ५-३६ || किन्तु चक्रविचारञ्च यदि स्वप्ने चमत्कृतम् | एतेषां चक्रवर्णानां विचारादष्टसिद्धिदम् || ५-३७ || वायुं मुक्तिं धनं योगसिद्धिमृद्धिं धनं शुभम् | धर्मदेहपवित्रञ्च अकाले मृत्युनाशनम् || ५-३८ || वाञ्छाफलप्रदं गौरीचरणाम्भोजदर्शनम् | भुक्तिं मुक्तिं हरस्थानं प्राप्नोति नात्र संशयः || ५-३९ || एषां चक्रादिकालञ्च क्रमशो गणितं फलम् | यदि सर्वविचारञ्च करोति साधकोत्तमः || ५-४० || तदा सर्वफलं नित्यं प्राप्नोति नात्र संशयः | महाव्रतं विवेकञ्च विचाराल्लभते ध्रुवम् || ५-४१ || अकस्मात् सिद्धिमाप्नोति चक्रराजं विचारतः | सर्वे देवाः प्रशंसन्ति चक्रमन्त्राश्रितं जलम् || ५-४२ || वाक्यसिद्धिर्भवेत् क्षिप्रं प्राणायामादिसिद्धिभाक् | सर्वेषां प्रणमेद् भूमौ विचरेत् साधको बली || ५-४३ || इति ते कथितं नाथ चक्रं षोडशमङ्गलम् | चक्राणां लोकनादेव सायुज्यपदमाप्नुयात् || ५-४४ || अतो विचारं सर्वत्र सर्वचक्रादिमङ्गलम् || ५-४५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वचक्रानुष्ठाने | सिद्धितन्त्रप्रकरणे पञ्चम पटलः || ५ || अथ षष्ठः पटलः भैरव उवाच अथ भावं वद श्रीदे दिव्यवीरपशुक्रमात् | पशूनां परमाश्चर्यभावं श्रोतुं समुत्सुकः || ६-१ || इच्छाम्याह्लादजलधौ स्थितोऽहं जगदीश्वरि | यदि भाग्यवशादाज्ञासारं चिन्तय सिद्धये || ६-२ || महाभैरव्युवाच पशुनाथ वीरनाथ दिव्यनाथ कृपानिधे | प्रकाशहृदयोल्लास चन्द्रशेखर तच्छृणु || ६-३ || काली कलालताकारं तपस्याद्वयसङ्गतिम् | पशुभावस्थितां नाथ देवतां शृणु विस्तरात् || ६-४ || दुर्गापूजां शिवपूजां यः करोति पशूत्तमः | अवश्यं हि यः करोति पशुरुत्तमः स्मृतः || ६-५ || केवलं शिवपूजाञ्च करोति यदि साधकः | पशूनां मध्यमः श्रीमान् शिवया सह चोत्तमः || ६-६ || केवलं वैष्णवोऽधीशः पशूनां मध्यमः स्मृतः | भूतानां देवतानाञ्च सेवां कुर्वन्ति ये सदा || ६-७ || पशूनां मध्यमाः प्रोक्तं नरकस्था न संशयः | त्वत्सेवां मम सेवाञ्च विष्णुब्रह्मादिसेवनम् || ६-८ || कृत्वान्यसर्वभूतानां नायिकानां महाप्रभो | यक्षिणीनां भूतिनीनां ततः सेवा शुभप्रदा || ६-९ || यः पशुर्ब्रह्मकृष्णादि सेवां कुर्वन्ति ये सदा | तथा श्रीतारकब्रह्म सेवाद्वये नरोत्तमाः || ६-१० || तेषामसाध्या भूतादिदेवताः सर्वकामदाः | वर्जयेत् पशुमार्गेण विष्णुसेवापरो जनः || ६-११ || प्रवक्तव्यञ्च पटले तेषां तेषां ततस्ततः | विधिना विधिना नाथ क्रमशः शृणु वल्लभ || ६-१२ || अतः प्रातः समुत्त्थाय पशुरुत्तमपण्डितः | गुरूणां चरणाम्भोजमङ्गलं शीर्षपङ्कजे || ६-१३ || विभाव्य पुनरेकं हि श्रीपादं भावयेद् यदि | पूजयित्वा च वीरं वै उपहारैर्न मे स्तवैः || ६-१४ || त्रैलोक्यं तेजसा व्याप्तं मण्डलस्थां महोत्सवाम् | तडित्कोटिप्रभादीप्तिं चन्द्रकोटिसुशीतलाम् || ६-१५ || सार्द्धत्रिवलयाकारां स्वयम्भूलिङ्गवेष्टिताम् | उत्त्थापयेन्महादेवीं महारक्तां मनोन्मयीम् || ६-१६ || श्वासोच्छ्वासद्वयावृत्तिं द्वादशाङ्गुलरूपिणीम् | योगिनीं खेचरीं वायुरूपां मूलाम्बुजस्थिताम् || ६-१७ || चतुर्वर्णस्वरूपान्तां वकारादिषसान्तकाम् | कोटिकोटिसहस्रार्ककिरणां कुलमोहिनीम् || ६-१८ || महासूक्ष्मपथप्रान्तवान्तरान्तरगामिनीम् | त्रैलोक्यरक्षितां वाक्यदेवतां शम्भुरूपिणीम् || ६-१९ || महाबुद्धिप्रदां देवीं सहस्रदलगामिनीम् | महासूक्ष्मपथे तेजोमयीं मृत्युस्वरूपिणीम् || ६-२० || कालरूपां सर्वरूपां सर्वत्र सर्वचिन्मयीम् | ध्यात्वा पुनः पुनः शीर्षे सुधाब्धौ विनिवेष्टिताम् || ६-२१ || सुधापानं कारयित्वा पुनः स्थाने समानयेत् | समानयनकाले तु सुषुम्नामध्यमध्यके || ६-२२ || अमृताभिप्लुतां कृत्वा पुनः स्थानेषु पूजयेत् | ऊद्र्ध्वोद्गमनकाले तु महातेजोमयीं स्मरेत् || ६-२३ || प्रतिप्रयाणकाले तु सुधाधाराभिराप्लुताम् | महाकुलकुण्डलिनीममृतानन्दविग्रहाम् || ६-२४ || ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्वसिद्धिश्वरो भवेत् | तस्मिन्स्थाने महादेवीं विभाव्य किरणोज्ज्वलाम् || ६-२५ || अमृतानन्दमुक्तिं तां पूजयित्वा शुभां मुदा | मानसोच्चारबीजेन मायां वा कामबीजकम् || ६-२६ || पञ्चाशद्वर्णमालाभिर्ज्जप्त्वानुलोमसत्पथा | विलोमेन पुनर्जप्त्वा सर्वत्र जयदं स्तवम् || ६-२७ || पठित्वा सिद्धिमाप्नोति तत्स्तोत्रं शृणु भैरव || ६-२८ || जन्मोद्धारनिरक्षिणीहतरुणी वेदादिबीजादिमा | नित्यं चेतसि भाव्यते भुवि कदा सद्वाक्यसञ्चारिणी | मां पातु प्रियदा स विपदं संहारयित्रि धरे | धात्रि त्वं स्वयमादिदेववनितादीनातिदीनं पशुम् || ६-२९ || रक्ताभामृतचन्द्रिकालिपिमयी सर्पाकृतिनीद्रिता | जाग्रत्कूर्मसमाश्रिता भगवती त्वं मां समालोकय | मांसोद्गन्धकुगन्धदोषजडितं वेदादिकार्यान्वित| स्वल्पान्यामलचन्द्रकोटिकिरणैनीत्यं शरीरं कुरु || ६-३० || सिद्धार्थी निजदोषवित् स्थलगतिर्व्याजीयते विद्यया | कुण्डल्याकुलमार्गमुक्तनगरीमायाकुमार्गः श्रिया | यद्येवं भजति प्रभातसमये मध्याह्नकालेऽथवा | नित्यं यः कुलकुण्डलीजपपदाम्भोजं स सिद्धो भवेत् || ६-३१ || वायवाकाशचतुर्दलेऽतिविमले वाञ्छाफलान्यालके | नित्यं सम्प्रति नित्यदेहघटिता शाङ्केतिताभाविता | विद्याकुण्डलमानिनी स्वजननी मायाक्रिया भाव्यते यैस्तैः सिद्धकुलोद्भवैः प्रणतिभिः सत्स्तोत्रकैः शंभुभिः || ६-३२ || धाताशङ्कर मोहिनीत्रिभुवनच्छायापटोद्गामिनी | संसारादिमहासुखप्रहरणी तत्रस्थिता योगिनी | सर्वग्रन्थिविभेदिनी स्वभुजगा सूक्ष्मातिसूक्ष्मापरा | ब्रह्मज्ञानविनोदिनी कुलकुटी व्याघातिनी भाव्यते || ६-३३ || वन्दे श्रीकुलकुण्डलीत्रिवलिभिः साङ्गैः स्वयम्भूं प्रिय| प्रावेष्ट्याम्बरमारचित्तचपला बालाबलानिष्कला | या देवी परिभाति वेदवदना संभाविनी तापिनी | इष्टानां शिरसि स्वयम्भुवनितां संभावयामि क्रियाम् || ६-३४ || वाणीकोटिमृदङ्गनादमदनानिश्रेणिकोटिध्वनिः | प्राणेशीरसराशमूलकमलोल्लासैकपूर्णानना | आषाढोद्भवमेघवाजनियुतध्वान्ताननास्थायिनी | माता सा परिपातु सूक्ष्मपथगे मां योगिनां शङ्करः || ६-३५ || त्वामाश्रित्य नरा व्रजन्ति सहसा वैकुण्ठकैलासयोः | आनन्दैकविलासिनीं शशिशतानन्दाननां कारणाम् | मातः श्रीकुलकुण्डली प्रियकरे काली कुलोद्दीपने | तत्स्थानं प्रणमामि भद्रवनिते मामुद्धर त्वं पशुम् || ६-३६ || कुण्डलीशक्तिमार्गस्थं स्तोत्राष्टकमहाफलम् | यतः पठेत् प्रातरुत्थाय स योगी भवति ध्रुवम् || ६-३७ || क्षणादेव हि पाठेन कविनाथो भवेदिह | पठेत् श्रीकुण्डलो योगो ब्रह्मलीनो भवेत् महान् || ६-३८ || इति ते कथितं नाथ कुण्डलीकोमलं स्तवम् | एतत्स्तोत्रप्रसादेन देवेषु गुरुगीष्पतिः || ६-३९ || सर्वे देवाः सिद्धियुताः अस्याः स्तोत्रप्रसादतः | द्विपरार्द्धं चिरंजीवी ब्रह्मा सर्वसुरेश्वरः || ६-४० || त्वष्टापि मम निकटे स्थितो भगवतीपतिः | मां विद्धि परमां शक्तिं स्थूलसूक्ष्मस्वरूपिणीम् || ६-४१ || सर्वप्रकाशकरणीं विन्ध्यपर्वतवासिनीम् | हिमालयसुतां सिद्धां सिद्धमन्त्रस्वरूपिणीम् || ६-४२ || वेदान्तशक्तितन्त्रस्थां कुलतन्त्रार्थगामिनीम् | रुद्रयामलमध्यस्थां स्थितिस्थापकभाविनीम् || ६-४३ || पञ्चमुद्रास्वरूपाञ्च शक्तियामलमालिनीम् | रत्नमालावलाकोट्यां चन्द्रसूर्यप्रकाशिनीम् || ६-४४ || सर्वभूतमहाबुद्धिदायिनीं दानवापहाम् | स्थित्युत्पत्तिलयकारीं करुणासागरस्थिताम् || ६-४५ || महामोहनिवासाढ्यां दामोदरशरीरगाम् | छत्रचामररत्नाढ्य महाशूलकरां पराम् || ६-४६ || ज्ञानदां वृद्धिदां ज्ञानरत्नमालाकलापदाम् | सर्वतेजःस्वरूपाभामनन्तकोटिविग्रहाम् || ६-४७ || दरिद्रधनदां लक्ष्मीं नारायणमनोरमाम् | सदा भावय शम्भो त्वं योगनायकपण्डित || ६-४८ || पुनर्भावं पशोरेव शृणु सादरपूर्वकम् | अकस्मात् सिद्धिमाप्नोति पशुर्नारायणोपमः || ६-४९ || वैकुण्ठनगरे याति चतुर्भुजकलेवरः | शङ्खचक्रगदापद्महस्तो गरुडवाहनः || ६-५० || महाधर्मस्वरूपोऽसौ महाविद्याप्रसादतः | पशुभावं महाभावं भावानां सिद्धिदं पुनः || ६-५१ || आदौ भावं पशोः कृत्वा पश्चात् कुर्यादवश्यकम् | वीरभावं महाभावं सर्वभावोत्तमोत्तमम् || ६-५२ || तत्पश्चादतिसौन्दर्यं दिव्यभावं महाफलम् | फलाकाङ्क्षी मोक्षगश्च सर्वभूतहिते रतः || ६-५३ || विद्याकाङ्क्षी धनाकाङ्क्षी रत्नाकाङ्क्षी च यो नरः | कुर्याद् भावत्रयं दिव्यं भावसाधनमुत्तमम् || ६-५४ || भावेन लभते वाद्यं धनं रत्नं महाफलम् | कोटिगोदानजैः पुण्यैः कोटिशालग्रामदानजैः || ६-५५ || वाराणस्यां कोटिलिङ्गपूजनेन च यत्फलम् | तत्फलं लभते मर्त्यः क्षणादेव न संशयः || ६-५६ || आदौ दशमदण्डे तु पशुभावमथापि वा | मध्याह्ने दशदण्डे तु वीरभावमुदाहृतम् || ६-५७ || सायाह्नदशदण्डे तु दिव्यभावं शुभप्रदम् | अथवा पशुभावस्थो यजेदिष्टादिदेवताम् || ६-५८ || जन्मावधि यजेन्मन्त्री महासिद्धिमवाप्नुयात् | सर्वेषां गुरुरूपः स्यादैश्वर्यञ्च दिने दिने || ६-५९ || यदि गुरुस्वभावः स्यात्तदा मधुमतीं लभेत् | यदि विवेकी निर्याति महावननिवासवान् || ६-६० || ब्रह्मचर्यव्रतस्थो वा अथवा स्वपुरे वसन् | पीठब्राह्मणमात्रेण महाषोढाश्रमेण च || ६-६१ || पशुभावस्थितो मन्त्री सिद्धविद्यामवाप्नुयात् | यदि पूर्वापरस्थाञ्च महाकौलिकदेवताम् || ६-६२ || कुलमार्गस्थितो मन्त्री सिद्धिमाप्नोति निश्चितम् | यदि विद्याः प्रसीदन्ति वीरभावं तदा लभेत् || ६-६३ || वीरभावप्रसादेन दिव्यभावमवाप्नुयात् | दिव्यभावं वीरभावं ये गृह्णन्ति नरोत्तमाः || ६-६४ || वाञ्छाकल्पद्रुमलतापतयस्ते न संशयः | आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः || ६-६५ || भूत्वा वसेन्महापीठं सदा ज्ञानी भवेद् यतिः | किमन्येन फलेनापि यदि भावादिकं लभेत् || ६-६६ || भावग्रहणमात्रेण मम ज्ञानी भवेन्नरः | वाक्यसिद्धिर्भवेत् क्षिप्रं वाणी हृदयगामिनी || ६-६७ || नारायणं परिहाय लक्ष्मीस्तिष्ठति मन्दिरे | मम पूर्णं तु मादृष्टी तस्य देहे न संशयः || ६-६८ || अवश्यं सिद्धिमाप्नोति सत्यं सत्यं न संशयः | महाभैरव उवाच सूचितं तु महादेवि कथयस्वानुकम्पया || ६-६९ || सर्वतन्त्रेषु विद्यासु भावसङ्केतमेव हि | तथापि शक्तितन्त्रेषु विशेषात् सर्वसिद्धिदम् || ६-७० || भावविद्याविधिं विद्ये विस्तार्य भावसाधनम् | आनन्दभैरव उवाच भावस्तु त्रिविधो देव दिव्यवीरपशुक्रमात् || ६-७१ || गुरुरस्य त्रिधा चात्र तथैव मन्त्रदेवताः | दिव्यभावो महादेव श्रेयसां सर्वसिद्धिदम् || ६-७२ || द्वितीयो मध्यमः प्रोक्तस्तृतीयः सर्वनिन्दितः | बहुजपात्तथाहोमात् कायक्लेशादिविस्तरैः || ६-७३ || न भावेन बिना देवि तन्त्रमन्त्राः फलप्रदाः | किं वीरसाधनेनैव मोक्षविद्याकुलेन किम् || ६-७४ || किं पीठपूजनेनैव किं कन्याभोजनादिभिः | स्वयोषित्प्रीतिदानेन किं परेषां तथैव च || ६-७५ || किं जितेन्द्रियभावेन किं कुलाचारकर्मणा | यदि भावो विशुद्धार्थो न स्यात् कुलपरायणः || ६-७६ || भावेन लभते मुक्तिं भावेन कुलवर्द्धनम् | भावेन गोत्रवृद्धिः स्याद् भावेन कुलशोधनम् || ६-७७ || किं तथा पूजनेनैव यदि भावो न जायते | केन वा पूज्यते विद्या केन वा पूज्यते मनुः || ६-७८ || फलाभावश्च देवेश भावाभावात् प्रजायते | एतन्मन्त्रस्य कथने शङ्कते मम मानसः || ६-७९ || त्रिलोकं सञ्जयेत् प्रायः सर्वरत्नसमागमः | नावीक्ष्य निर्जनं कुर्यात् कथं तत् कथयामि ते || ६-८० || श्रीआनन्दभैरव उवाच त्वत्प्रसादान्महादेवि ! विद्यास्वप्नप्रबोधिनि | सर्वपञ्चप्रपञ्चानां दीक्षा देया महेश्वरि || ६-८१ || यद्यतो देव सर्वेषां भूतानां स्वापकारणम् | करोमि कथय त्वं मां भावमार्गोत्तमोत्तमम् || ६-८२ || श्रीमहाभैरव्युवाच प्रथमं दिव्यभावस्तु कौलिके शृणु यत्नतः | सर्वदेवाचीतां विद्यां तेजःपुञ्जप्रपूरिताम् || ६-८३ || तेजोमयीं जगत्सर्वां विभाव्य मूतीकल्पनाम् | तत्तन्मूतीमयैः रूपैः स्नेहशून्ये न वा पुनः || ६-८४ || आत्मानं तन्मयं कृत्वा सर्वभावं तथैव च | तत्सर्वां योषितं ध्यात्वा पूजयेद्यतमानसः || ६-८५ || अशेषकुलसम्पन्नां नानाजातिसमुद्भवाम् | नानादेशोद्भवां वापि सद्गुणालस्य संयुताम् || ६-८६ || द्वितीयवत्सरादूर्ध्वं यावत् स्यादष्टमाब्दकम् | तावज्जप्त्वा पूजयित्वा कन्यां सुन्दरमोहिनीम् || ६-८७ || दिव्यभावः स्थितः साक्षात्तन्त्रमन्त्रफलं लभेत् | कुमारीपूजनादेव कुमारीभोजनादिभिः || ६-८८ || एकद्वित्र्यादिबीजानां फलदा नात्र संशयः | ताभ्यः पुष्पफलं दत्त्वा अनुलेपादिकं तथा || ६-८९ || बलिप्रियञ्च नैवेद्यं दत्त्वा तद्भावभावितः | मुदा तदङ्गमाल्यानां बालभावविचेष्टितः || ६-९० || जातिप्रिय कथालापक्रीडाकौतूहलान्वितः | यथार्थं तत् प्रियं तत्र कृत्त्वा सिद्धीश्वरो भवेत् || ६-९१ || कन्या सर्वसमृद्धिः स्यात् कन्या सर्वपरन्तपः | होमं मन्त्रार्चनं नित्यक्रियां कौलिकसत्क्रियाम् || ६-९२ || नानाफलं महाधर्मं कुमारीपूजनं बिना | तत्तदर्द्धफलं नाथ प्राप्नोति साधकोत्तमः || ६-९३ || फलं कोटिगुणं वीरः कुमारीपूजया लभेत् | कुसुमाञ्जलिपूर्णञ्च कन्यायां कुलपण्डितः || ६-९४ || ददाति यदि तत्पुष्पं कोटिमेरुप्रदो भवेत् | तज्ज्ञानजं महापुण्यं क्षणादेव समालभेत् || ६-९५ || कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम् | एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती || ६-९६ || त्रिवर्षा च त्रिधामूतीश्चतुर्वर्षा च कालिका | सूर्यगा पञ्चवर्षा च षड्वर्षा चैव रोहिणी || ६-९७ || सप्तभिर्मालिनी साक्षादष्टवर्षा च कुब्जिका | नवभिः कालसन्दात्री दशभिश्चापराजिता || ६-९८ || एकादशे च रुद्राणी द्वादशेऽब्दे तु भैरवी | त्रयोदशे महालक्ष्मीद्वीसप्तपीठनायिका || ६-९९ || क्षेत्रज्ञा पञ्चदशभिः षोडशे चाम्बिका मता | एवं क्रमेण सम्पूज्य यावत् पुष्पं न विद्यते || ६-१०० || प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् | महापर्वसु सर्वेषु विशेषाञ्च पवित्रके || ६-१०१ || महानवम्यां देवेश कुमारीश्च प्रपूजयेत् | तस्मात् षोडशपर्यन्तं युवतीति प्रचक्षते || ६-१०२ || तत्र भावप्रकाशः स्यात्स भावः परमो मतः | रक्षितव्यं प्रयत्नेन रक्षितास्ताः प्रकाशयेत् || ६-१०३ || महापूजादिकं कृत्वा वस्त्रालङ्कारभोजनैः | पूजयेन्मन्दभाग्योऽपि लभते जयमङ्गलम् || ६-१०४ || अन्येषां कथनेनाथ प्रयोजनमहाफलम् | विधिना पूजयेद् यस्तु दिव्यवीरपशुस्थितः || ६-१०५ || भावत्रये महासौख्यं दिव्ये सत्कर्म सत्फलम् || ६-१०६ || इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविलासे सिद्धमन्त्रप्रकरणे भावनिर्णये षष्ठः पटलः || ६ || अथ सप्तमः पटलः आनन्दभैरवी उवाच अथ पूजां प्रवक्ष्यामि कुमार्याश्चातिदुर्लभाम् | व्याधिवर्गविहीनानां शीघ्रं सिद्ध्यति भूतले || ७-१ || तत्प्रकारं महादेव वीराणामधिपाधिप | पूजास्थानं महापीठं देवालयमथापि वा || ७-२ || सुन्दरीं परमानन्दवर्द्धनीं जयदायिनीम् | कालरात्रिस्वरूपां श्रीं गौरीं रक्ताङ्गरागिणीम् || ७-३ || कन्यां देवकुलोद्भूतां राक्षसीं वा नरोत्तमाम् | नटीकन्यां हीनकन्यां तथा कापालिकन्यकाम् || ७-४ || रजकस्यापि कन्यां ते तथा नापितकन्यकाम् | गोपालकन्यकाञ्चैव तथा ब्राह्मणकन्यकाम् || ७-५ || शूद्रकन्यां वैश्यकन्यां तथा वैद्यकन्यकाम् चण्डालकन्यकां वापि यत्र कुत्राश्रमे स्थिताम् || ७-६ || सुहृद्वर्गस्य कन्यां च समानीय प्रयत्नतः | पूजयेत् परमानन्दैरात्मध्यानपरायणः || ७-७ || क्रमशः शृणु देवेन्द्र वरहस्तनिषेवित | परमानन्दसौन्दर्य कारणानन्दविग्रहः || ७-८ || मम पूजां यः करोति प्रत्यहं शुद्धभक्तितः | तस्यावश्यं कुमारीणां पूजनं भोजनं रवेः || ७-९ || तेजोरूपं विधोश्चाग्नेः सर्वभावे प्रशस्यते | तत्पूजनात् तदालापाद् भोजनादपि तत् शुभम् || ७-१० || मम प्रीतिर्भवेत्साक्षाद् देवतागुप्तिसंस्थिता | बालभैरवदेवस्य कामिनीवटुकस्य च || ७-११ || मत्पुत्रस्य सर्वलोकपूजितस्य महौजसः | पूजाभिवीविधैदीव्यैः कुमारी देव पूजिता || ७-१२ || कुमारी कन्यका प्रोक्ता सर्वज्ञा जगदीश्वरी | पूजार्थं सर्वलोकस्य समानीय सुरेश्वराः || ७-१३ || पूजयन्ति महादेवीं गुप्तभावनिवासिनीम् | सदा भोजनवाञ्छार्घ्यां माल्यसन्तुष्टहासिनीम् || ७-१४ || वृथा न रौति सा देवी कुमारी देवनायिका | सरस्वतीस्वरूपा च पूज्यते सर्वनायकैः || ७-१५ || शिवभक्तैवीष्णुभक्तैस्तथान्यदेवपूजितैः | सर्वलोकैः पूजिता सा चावश्यं पूज्यते बुधैः || ७-१६ || पूजया लभते पूजां पूजया लभते श्रियम् | पूजया धनमाप्नोति पूजया लभते महीम् || ७-१७ || पूजया लभते लक्ष्मीं सरस्वतीं महौजसम् | महाविद्याः प्रसीदन्ति सर्वे देवा न संशयः || ७-१८ || बालभैरवब्रह्मेन्द्रा ब्राह्मणा ब्रह्मवादिनः | रुद्राश्च देववर्गाश्च वैष्णवा विष्णुरूपिणः || ७-१९ || अवताराश्च द्विभुजा विष्णवो मनुशोभिताः | अन्ये दिक्पालदेवाश्च चराचरगुरुस्तथा || ७-२० || नानाविद्यायुतास्सर्वे दानवा कूटशालिनः | अपवर्गस्थिता ये ये ते ते तुष्टा न संशयः || ७-२१ || यद्यहं तुष्टिरूपा हि अन्ये लोके च का कथा | कुमारी पूजनं कृत्वा त्रैलोक्यं वशमानयेत् || ७-२२ || महाशान्तिर्भवेत् क्षिप्रं सर्वपुण्यं फलप्रदम् | तत्तन्मन्त्रसदुल्लेखात् क्षणात् पुण्ययुतं भवेत् || ७-२३ || मन्त्रेण पुटितं कृत्वा जप्त्वा सिद्धीश्वरो भवेत् | यद्यत् प्रकारमुच्चार्य वदामि सुरसुन्दर || ७-२४ || तत्तत् कार्यमवश्यं च भिन्नबुद्धिं न कारयेत् | भैरव उवाच अथ बीजप्रभेदञ्च वद शङ्करपूजिते || ७-२५ || यदि मां स्नेहपुञ्जोऽस्ति मत्कुलार्थप्रवेशिनि | वदस्व परमानन्द भैरवि प्राणवल्लभे || ७-२६ || आनन्दभैरवी उवाच शृणु नाथ कुलार्थं मे कुमारीपूजने मनुम् | महामन्त्रं महामन्त्रं सिद्धमन्त्रं न संशयः || ७-२७ || एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेत् सुधीः | अन्ते देवीपदं याति सत्यमानन्दभैरव || ७-२८ || एहिकसुखसम्पत्तिर्मधुमत्याः प्रसादकम् | अवश्यं प्राप्नुयान्मर्त्यो विश्वासं कुरु शङ्कर || ७-२९ || वाग्भवेन पुरः क्षोभं मायाबीजे गुणाष्टकम् | श्रियोबीजे श्रियोलाभो मायाबीजे रिपुक्षयः || ७-३० || भैरवेण तु बीजेन खेचरत्वं सुरादिभिः | कुमारिका ह्यहं नाथ सदा त्वं हि कुमारकः || ७-३१ || अष्टोत्तरशतं वापि एकां वा परिपूजयेत् | पूजिताः प्रतिपद्यन्ते निर्दहन्त्यवमानिताः || ७-३२ || कुमारी योगिनी साक्षात् कुमारी परदेवता | असुरा अष्टनागाश्च ये ये दुष्टग्रहा अपि || ७-३३ || भूतवेतालगन्धर्वा डाकिनीयक्षराक्षसाः | याश्चान्या देवताः सर्वाः भूर्भुवः स्वश्च भैरव || ७-३४ || पृथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ७-३५ || ते तुष्टाः सर्वतुष्टाश्च यस्तु कन्यां प्रपूजयेत् | निधियुक्तां कुमारीं तु पूजयेच्चैव भैरव || ७-३६ || पाद्यमर्घ्यं तथा धूपं कुङ्कुमं चन्दनं शुभम् | भक्तिभावेन सम्पूज्य कुमारीभ्यो निवेदयेत् || ७-३७ || प्रदक्षिणत्रयं कुर्यादादौ मध्ये तथान्ततः | पश्चाच्च दक्षिणा देया रजतस्वर्णमौक्तिकैः || ७-३८ || दक्षिणां विधिवद्दत्वा कुमारीभ्यः क्रमेण तु | विवाहयेत् स्वयं कन्यां ब्रह्महत्यां व्यपोहति || ७-३९ || यावच्च पुण्यकाले तु कन्यादानं प्रकल्पयेत् | भुक्तिमुक्तिफलं तस्य सौभाग्यं सर्वसम्पदः || ७-४० || रुद्रलोके वसेन्नित्यं त्रिनेत्रो भगवान् हरः | तीर्थकोटिसहस्राणि अश्वमेधशतानि च || ७-४१ || तत्फलं लभते सद्यो यस्तु कन्यां विवाहयेत् | बालुकासागरे ज्ञेया तावदब्दसहस्रकम् || ७-४२ || एकैकं कुलमुद्धृत्य रुद्रलोके महीयते | तत्तदिष्टदेवानां प्रीतये तुष्टये सुधी || ७-४३ || कन्यादानं समाहृत्य मुक्तिमाप्नोति भैरव | तत्तद्वर्षीयकन्यायास्तत्तद्बुद्ध्या च साधकः || ७-४४ || विभाव्य शिवरूपत्वं सम्प्रदानीयकारके | पूर्णरूपं शिवं ध्यात्वा वरं सर्वाङ्गसुन्दरम् || ७-४५ || तेजोमयं यशःकान्तं बालभैरवरूपिणम् | बटुकेशं महादेवं वरयेत् साधकाग्रणीः || ७-४६ || बालरूपां भैरवीं च त्रैलोक्यसुन्दरीं वराम् | नानालङ्कारनम्राङ्गीं भद्रविद्याप्रकाशिनीम् || ७-४७ || चारुहास्यां महानन्दहृदयां शुभदां शुभाम् | ध्यात्वा द्वादशपत्राब्जे पूर्णचन्द्रनिभाननाम् || ७-४८ || सम्प्रदाने समानीय तत्तन्मन्त्रेण दापयेत् | एतत् श्रुत्वा महावीरो बाल(बल)रूपी निरञ्जनः || ७-४९ || पुनजीज्ञासयामास परमानन्दभैरवीम् | आनन्दभैरव उवाच कुमारीकुलतत्त्वार्थं मन्त्रार्थं जपनक्रमम् || ७-५० || यजनादिप्रकारञ्च भोजनादिक्रमं तथा | होमादिप्रकियां तस्याः स्तोत्रं प्रत्येकमेव हि || ७-५१ || कवचं च कुमारीणां वदस्व क्रमशः प्रिये | येन क्रमेण सा विद्या कुमारी परदेवता || ७-५२ || निर्जने साधकस्याग्रे महावाक्यं स्वयं वदेत् | बालिका चारुनयना केन हेतोः प्रसीदति || ७-५३ || तत्प्रकारं वद स्नेहादानन्दभैरवप्रिये | आनन्दभैरवी उवाच शृणु शम्भो प्रवक्ष्यामि कुमारी कुलमन्त्रकान् || ७-५४ || येन विज्ञानमात्रेण धरणीशो नरोत्तमः | सर्वेषां गुरुरूपः स्यात् कुमारीयजनेन च || ७-५५ || एकवर्षा वरा सन्ध्यादिकानां मनुमुत्तमम् | षोडशाच्छान्तरूपाणां मन्त्रं शृणु महाप्रभो || ७-५६ || क्रमादिकञ्च सर्वेषां चैतन्यसिद्धिसत्क्रियाम् | आनीय सुन्दरीं नारीं कुमारीं वरनायिकाम् || ७-५७ || रत्नालङ्कारसंयुक्तां शङ्खवस्त्रादिशोभिताम् | वाग्भवेन जलं नाथ तन्नाम्ना परिदापयेत् || ७-५८ || देवीबुद्ध्या सदा ध्यात्वा पूजयेत् साधकोत्तमः | मायाबीजेन तन्नाम्ना पाद्यं दद्यात् तथा प्रभो || ७-५९ || लक्ष्मीबीजेन चार्घ्यं तु कुर्याद् बीजेन चन्दनम् | मायाबीजेन पुष्पाणि कुमार्यै दापयेत् सुधीः || ७-६० || सदाशिवेन मन्त्रेण धूपदीपौ महोत्तमौ | दत्वा षडङ्गमन्त्रेण पूजयेद् देवनायकः || ७-६१ || तत्प्रकारं महादेव शृणुष्वानन्दरूपधृक् | महातेजोमयं शुभ्रं हृदयं हस्तदक्षिणैः || ७-६२ || विभाव्य प्रपठेद् धीमान् तन्मन्त्रं शृणु शङ्कर | आदौ वाग्भवमुच्चार्य मायां लक्ष्मीं तु कूर्चकम् || ७-६३ || प्रेतबीजं ततो ब्रूयात् सविसर्गेन्दुबिन्दुकम् | कुलशब्दं समुच्चार्य कुमारिके ततो वदेत् || ७-६४ || हृदयायः नमः प्रोच्य ततः शिरसि भावयेत् | शुक्लवर्णं सर्वमयं बीजमुच्चार्य संन्यसेत् || ७-६५ || हकारं वाग्भवाढ्यञ्च वकारं वाग्भवार्थकम् | मायां लक्ष्मीं वाग्भवं च द्विठान्ते शिरसे पदम् || ७-६६ || वह्निजायावधिर्मन्त्रो न्यसेत् शिरसि साधकः | शिखामध्ये कृष्णवर्णं नीलाञ्जनचयप्रभम् || ७-६७ || विभाव्य संन्यसेन्मन्त्री कुमारीकुलसिद्धये | आदौ प्रणवमुद्धृत्व तदन्ते वह्निसुन्दरी || ७-६८ || शिखायै च समुद्धृत्य वषट्कारं ततो वदेत् | ततः कवचमध्ये च बलवन्तं सुतेजसम् || ७-६९ || प्रथमारुणसङ्काशं ध्यात्वा चारुकलेवरम् | वाग्भवञ्च समुच्चार्य कुलशब्दं ततो वदेत् || ७-७० || वागीश्वरीपदं पश्चात् कवचाय ततो वदेत् | तारकब्रह्मशब्दञ्च कवचन्यासजालकम् || ७-७१ || ततो नेत्रत्रयं ध्यात्वा महाबीजं महाप्रभम् | रक्तवर्ण कोटिकोटिवामण्डल मण्डितम् || ७-७२ || विराजितं कोटिपुण्याजीततेजसि भास्करे | वाग्भवं च समुच्चार्य कुलेश्वरिपदं ततः || ७-७३ || नेत्रत्रयाय शब्दान्ते वौषट् लोचनमन्त्रकम् | ततः साधकमन्त्री च वामहस्ततले तथा || ७-७४ || मध्यमातर्जनीभ्यां च तालद्वयमुपाचरेत् | तन्मन्त्रं कोटिसूर्योग्रज्योत्स्नाजालसमप्रभम् || ७-७५ || महाकाशोद्भवं शब्दं महोग्रपरिपीडनम् | मायाबीजं तथास्त्राय पदमुद्धृत्य यत्नतः || ७-७६ || पान्तठान्तं समुद्धृत्य महामन्त्रं प्रकीतीतम् | ततस्तस्या हृन्निलये ध्यात्वा च परिवारकान् || ७-७७ || पूजयेद् यत्नतो मन्त्री भेषजामृतधारया | तर्पयेत् पूजयेद् भक्त्या भैरवं बालभैरवम् || ७-७८ || देवताभिः पूजयित्वा परिवारान् क्रमेण वै | ततो वाग्भवमुच्चार्य सिद्धजयाय शब्दतः || ७-७९ || पूर्वं पदं समुच्चार्य वक्त्राय नम ईरितः | ततो वाग्भवमुच्चार्य जयाय शब्दमुद्धरेत् || ७-८० || उत्तरवक्त्रमुद्धृत्य चतुर्थ्यन्तं नमःपदम् | ततो वाग्भवमाया श्री बीजमुच्चार्य यत्नतः || ७-८१ || कुब्जिके पश्चिमान्ते च वक्त्राय नम इत्यपि | ततो वाग्भवमुच्चार्य कालिके पदमुच्चरेत् || ७-८२ || दक्षवक्त्राय शब्दान्ते नानामन्त्रं प्रकीतीतम् एतन्मन्त्राक्षरं नाथ समुच्चार्य कुलेश्वर || ७-८३ || पूजयित्वा क्रमेणैव भास्करं परिपूजयेत् | चन्द्रं दिक्पालदेवञ्च सन्ध्यादीन् परिपूजयेत् || ७-८४ || वीरभद्रां महाकालीं कौलिनीं कुलगामिनीम् | अष्टादशभुजां कालीं चतुर्वर्गा प्रपूजयेत् || ७-८५ || नैवेद्यादीन् समानीय नानाभोज्यादिसंयुतम् | दुग्धं घनावृतं क्षीरं पक्वान्नं पक्वसत्फलम् || ७-८६ || यद्यत्कालोपयोग्यञ्च शर्करामधुमिश्रितम् | पञ्चतत्त्वं कुलद्रव्यं निजकल्याणवर्धनम् || ७-८७ || नानाद्रव्यञ्च नैवेद्यं स्वस्वकल्पोक्तसाधितम् | कुमारीभ्यो निवेद्यैवं नानासौरभशोभितम् || ७-८८ || शीतलं जलमानीय दद्यात्ताभ्यो महासुधीः | ततो हितं महामन्त्रं कुमार्याश्चातिदुर्लभम् || ७-८९ || अथवा स्वीयमूलञ्च जप्त्वा सिद्धीश्वरो भवेत् || ७-९० || समर्थप्राणवायूनां धारयेत्कारयेत् स्वयम् | अष्टाङ्गादिप्रणामं च कुर्वन् स्तोत्रं पठन् दिशेत् || ७-९१ || नमामि कुलकामिनीं परमभाग्यसन्दायिनीम् | कुमाररतिचातुरीं सकलसिद्धिमानन्दिनीम् || ७-९२ || प्रवालगुटिकामृजां रजतरागवस्त्रान्विताम् | हिरण्यकुलभूषणां भुवनवाक्कुमारीं भजे || ७-९३ || इति मन्त्रेण संन्यस्य तारिणीं परिपूजयेत् | शिवं गणेशं सम्पूज्य प्रणमेत् साधकोत्तमः || ७-९४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्र-- प्रकरणे दिव्यभावनिर्णये सप्तम पटलः || ७ || अथाष्टमः पटलः श्रीआनन्दभैरवी उवाच अथ वक्ष्ये महादेव कुमार्या जपहोमकम् | लक्षसंख्यजपं कृत्वा मायां वा वाग्भवं रमाम् || ८-१ || कालीबीजं वापि नाथ मायां वा कामबीजकम् | सदाशिवेन पुटितं बिन्दुचन्द्रविभूषितम् || ८-२ || अथवा प्रणवेनापि पुटितं त्रिदशेश्वर | जपित्वा मूलमन्त्रञ्च लक्षसंख्याविधानतः || ८-३ || तद्दशांशं महाहोमं घृताक्तबिल्वपत्रकैः | अथवा श्वेतपुष्पैश्च कुन्दपुष्पैर्महाफलम् || ८-४ || एवं क्रमेण जुहुयात् करवीरप्रसूनकैः | घृताक्तैः कैवलैर्वापि चन्दनागुरुमिश्रितैः || ८-५ || हविष्याशी दिवाभागे रात्रौ पूजापरो भवेत् | निजपूजावशेषैस्तु कुलद्रव्यैः प्रपूजयेत् || ८-६ || दिवासंख्यं जपेत्तत्र परमानन्दरूपधृक् | जपान्ते जुहुयान्मन्त्री मदुक्तद्रव्यसंयुतैः || ८-७ || ततः प्राणात्मकं वायुं शोधयित्वा पुनः पुनः | प्राणायामत्रयं कृत्वा चाष्टाङ्गं प्रणमेन्मुदा || ८-८ || प्रणामसमये नाथ इदं स्तोत्रं पठेत् यतिः | कवचञ्च तथा पाठ्यं कुमारीणामथापि वा || ८-९ || निजदेव्या महास्तोत्रं पठेद्धि कवचं ततः | कुमारीणां महादेव सहस्रनाम साष्टकम् || ८-१० || पठित्वा सिद्धिमाप्नोति पठित्वा साधकोत्तमः | अग्रे संस्थाप्य ताः सर्वा रत्नकोटिसुशीतलाः || ८-११ || ततः स्तोत्रं पठेद्धीमान् समाहितमना वशी | महादिव्याचाररतो वीरभावोल्बणोऽपि वा || ८-१२ || एवं क्रमेण प्रपठेद् भक्तिभावपरायणः | महाविद्या महासेवा भक्तिश्रद्धाप्लुतापीतः || ८-१३ || महाज्ञानी भवेत् क्षिप्रं वाञ्छासिद्धिमवाप्नुयात् || ८-१४ || आनन्दभैरव उवाच देवेन्द्रादय इन्दुकोटिकिरणां वाराणसीवासिनी | विद्यां वाग्भवकामिनीं त्रिनयनां सूक्ष्मक्रियाज्वालिनीम् | चण्डोद्योगनिकृन्तिनीं त्रिजगतां धात्रीं कुमारीं वरा | मूलाम्भोरुहवासिनीं शशिमुखीं सम्पूजयामि श्रिये || ८-१५ || भाव्यां देवगणैः शिवेन्द्रयतिभिर्मोक्षाथीभिर्बालिका | सन्ध्यां नित्यगुणोदयां द्विजगणे श्रेष्ठोदयां सारुणाम् | शुक्लाभां परमेश्वरीं शुभकरीं भद्रां विशालानना | गायत्रीं गणमातरं दिनगतिं कृष्णाञ्च वृद्धां भजे || ८-१६ || बालां बालकपूजितां गणभृतां विद्यावतां मोक्षदा | धात्रीं शुक्लसरस्वतीं नववरां वाग्वादिनीं चण्डिकाम् | स्वाधिष्ठानहरिप्रियां प्रियकरीं वेदान्तविद्याप्रदा | नित्यं मोक्षहिताय योगवपुषा चैतन्यरूपां भजे || ८-१७ || नानारत्नसमूहनिमीतगृहे पूज्यां सूरैर्बालिका | वन्दे नन्दनकानने मनसिजे सिद्धान्तबीजानने | अर्थं देहि निरर्थकाय पुरुषे हित्वा कुमारीं कलाम् | सत्यं पातु कुमारिके त्रिविधमूर्त्या च तेजोमयीम् || ८-१८ || वरानने सकलिकां कुलपथोल्लासैकबीजोद्वहा | मांसामोदकरालिनीं हि भजतां कामातिरिक्तप्रदाम् | बालोऽहं वटुकेश्वरस्य चरणाम्भोजाश्रितोऽहं सदा | हित्वा बालकुमारिके शिरसि शुक्लाम्भोरुहेशं भजे || ८-१९ || सूर्याह्लादवलाकिनीं कलिमहापापादितापापहा | तेजोऽङ्गां भुवि सूर्यगां भयहरां तेजोमयीं बालिकाम् | वन्दे हृत्कमले सदा रविदले वालेन्द्रविद्यां सती | साक्षात् सिद्धिकरीं कुमारि विमलेऽन्वासाद्य रूपेश्वरीम् || ८-२० || नित्यं श्रीकुलकामिनीं कुलवतीं कोलामुमामम्बिका | नानायोगनिवासिनीं सुरमणीं नित्यां तपस्यान्विताम् | वेदान्तार्थविशेषदेशवसना भाषाविशेषस्थितां वन्दे पर्वतराजराजतनयां कालप्रियो त्वामहम् || ८-२१ || कौमारीं कुलकामिनीं रिपुगणक्षोभाग्निसन्दोहिनी | रक्ताभानयनां शुभां परममार्गमुक्तिसंज्ञाप्रदाम् | भार्या भागवतीं मतिं भुवनमामोदपञ्चानना | पञ्चास्यप्रियकामिनीं भयहरां सर्पादिहारां भजे || ८-२२ || चन्द्रास्यां चरणद्वयाम्बुजमहाशोभाविनोदीं नदी | मोहादिक्षयकारिणीं वरकरां श्रीकुब्जिकां सुन्दरीम् | ये नित्यं परिपूजयन्ति सहसा राजेन्द्रचूडामणि | सम्पादं धनमायुषो जनयतो व्याप्येश्वरत्वं जगुः || ८-२३ || योगीशं भुवनेश्वरं प्रियकरं श्रीकालसन्दर्भया | शोभासागरगामिनं हरभवं वाञ्छाफलोद्दीपनम् | लोकानामघनाशनाय शिवया श्रीसंज्ञया विद्यया | धर्मप्राणसदैवतां प्रणमतां कल्पद्रुमं भावये || ८-२४ || विद्यां तामपराजितां मदनभावामोदमत्ताननां हृत्पद्मस्थितपादुकां कुलकलां कात्यायनीं भैरवीम् | ये ये पुण्यधियो भजन्ति परमानन्दाब्धिमध्ये मुदा सर्व्वाच्छापिततेजसा भयकरीं मोक्षाय सङ्कीर्तये || ८-२५ || रुद्राणीं प्रणमामि पद्मवदनां कोट्यर्कतेजोमयीं नानालङ्कृतभूषणां कुलभुजामानन्दसन्दायिनीम् | श्री मायाकमलान्वितां हृदिगतां सन्तानबीजक्रियां आनन्दैकनिकेतनां हृदि भजे साक्षादलब्धामहम् || ८-२६ || नमामि वरभैरवीं क्षितितलाद्यकालानला | मृणालसुकुमारारुणां भुवनदोषसंशोधिनीम् | जगद्भयहरां हरां हरति या च योगेश्वरी | महापदसहस्रकम् सकलभोगदान्तामहम् || ८-२७ || साम्राज्यं प्रददाति याचितवती विद्या महालक्षणा | साक्षादष्टसमृद्धिदातरि महालक्ष्मीः कुलक्षोभहा | स्वाधिष्ठानसुपङ्कजे विवसितां विष्णोरनन्तप्रिये | वन्दे राजपदप्रदां शुभकरीं कौलेश्वरीं कौलिकीम् || ८-२८ || पीठानामधिपाधिपाम् असुवहां विद्यां शुभां नायिका | सर्वालङ्करणान्वितां त्रिजगतां क्षोभापहां वारुणीं | वन्दे पीठगनायिकां त्रिभुवनच्छायाभिराच्छादिता | सर्वेषां हितकारिणीं जयवतामानन्दरूपेश्वरीम् || ८-२९ || क्षेत्रज्ञां मदविह्वलां कुलवतीं सिद्धिप्रियां प्रेयसीम् | शम्भोः श्री वटुकेश्वरस्य महतामानन्दसञ्चारिणीम् || ८-३० || साक्षादात्मपरोद्गमां कमलमध्यसंभाविनी | शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् | निजमनः क्षोभापहां शाकिनीम् | बाह्यार्थ प्रकटामहं रजतभां वन्दे महाभैरवीम् || ८-३१ || प्रणामफलदायिनीं सकलबाह्यवश्यां गुणा | नमामि परमम्बिकां विषयदोषसंहारिणीम् | सम्पूर्णाविधुवन्मुखीं कमलमध्यसम्भाविनीं | शिरो दशशते दलेऽमृतमहाब्धिधाराधराम् || ८-३२ || साक्षादहं त्रिभुवनामृतपूर्णदेहां सन्ध्यादि देवकमलां कुलपण्डितेन्द्राम् | नत्वा भजे दशशते दलमध्यमध्ये | कौलेश्वरीं सकलदिव्यजनाश्रयां ताम् || ८-३३ || विश्वेश्वरीं स्वरकुले वरबालिके त्वां सिद्धासने प्रतिदिनं प्रणमामि भक्त्या | भक्तिं धनं जयपदं यदि देहि दास्य| तस्मिन् महामधुमतीं लघुनाहताः स्यात् || ८-३४ || एतत्स्तोत्रप्रसादेन कविता वाक्पतिर्भवेत् | महासिद्धीश्वरो दिव्यो वीरभावपरायणः || ८-३५ || सर्वत्र जयमाप्नोति स हि स्याद् देववल्लभः | वाचामीशो भवेत् क्षिप्रं कामरूपो भवेन्नरः || ८-३६ || पशुरेव महावीरो दिव्यो भवति निश्चितम् | सर्वविद्याः प्रसीदन्ति तुष्टाः सर्वे दिगीश्वराः || ८-३७ || वह्निः शीतलतां याति जलस्तम्भं स कारयेत् | धनवान् पुत्रवान् राजा इह काले भवेन्नरः || ८-३८ || परे च याति वैकुण्ठे कैलासे शिवसन्निधौ | मुक्तिरेव महादेव यो नित्यं सर्वदा पठेत् || ८-३९ || महाविद्यापदाम्भोजं स हि पश्यति निश्चितम् | शृणु नाथ प्रवक्ष्यामि कुमारीतर्पणादिकम् || ८-४० || यासां तर्पणमात्रेण कुलसिद्धिर्भवेद् ध्रुवम् | कुलबालां मूलपद्मस्थितां कामविहारिणीम् || ८-४१ || शतधा मूलमन्त्रेण तर्पयामि तव प्रिये | मूलाधारमहातेजो जटामण्डलमण्डिताम् || ८-४२ || सन्ध्यादेवीं तर्पयामि कामबीजेन मे शुभे | मूलपङ्कजयोगाङ्गी कुमारीं श्रीसरस्वतीम् || ८-४३ || तर्पयामि कुलद्रव्यैस्तव सन्तोषहेतुना | चक्रे मूलाधारपद्मे त्रिमूतीबालनायिकाम् || ८-४४ || सर्वकल्याणदां देवीं तर्पयामि परामृतैः | स्वाधिष्ठाने महापद्मे षड्दलान्तःप्रकाशिनीम् || ८-४५ || श्रीबीजेन तर्पयामि भोगमोक्षाय केवलम् | स्वाधिष्ठानकुलोल्लास विष्णुसङ्केतगामिनीम् || ८-४६ || कालिकां निजबीजेन तर्पयामि कुलामृतैः | स्वाधिष्ठानाख्यपद्मस्थां महातेजोमयीं शिवाम् || ८-४७ || सूर्यगां शीर्षमधुना तर्पयामि कुलेश्वरीम् | मणिपूराब्धिमध्ये तु मनोहरकलेवराम् || ८-४८ || उमादेवीं तर्पयामि मायाबीजेन पार्वतीम् | मणिपूराम्भोजमध्ये त्रैलोक्यपरिपूजिताम् || ८-४९ || मालिनीं मलचित्तस्य सद्बुद्धिं तर्पयाम्यहम् | मणिपूरस्थितां रौद्रीं परमानन्दवधीनीम् || ८-५० || आकाशगामिनीं देवीं कुब्जिकां तर्पयाम्यहम् | तर्पयामि महादेवीं महासाधनतत्पराम् || ८-५१ || योगिनीं कालसन्दर्भां तर्पयामि कुलाननाम् | शक्तिमन्त्रप्रदां रौद्रीं लोलजिह्वासमाकुलाम् || ८-५२ || अपराजितां महादेवीं तर्पयामि कुलेश्वरीम् | महाकौलप्रियां सिद्धां रुद्रलोकसुखप्रदाम् || ८-५३ || रुद्राणीं रौद्रकिरणां तर्पयामि वधूप्रियाम् | षोडशस्वरसंसिद्धिं महारौरवनाशिनीम् || ८-५४ || महामद्यपानचित्तां भैरवीं तर्पयाम्यहम् | त्रैलोक्यवरदां देवीं श्रीबीजमालयावृताम् || ८-५५ || महालक्ष्मीं भवैश्वर्यदायिनीं तर्पयाम्यहम् | लोकानां हितकर्त्रीञ्च हिताहितजनप्रियाम् || ८-५६ || तर्पयामि रमाबीजां पीठाद्यां पीठनायिकाम् | जयन्तीं वेदवेदाङ्गमातरं सूर्यमातरम् || ८-५७ || तर्पयामि सुधाभिश्च क्षेत्रज्ञां माययावृताम् | तर्पयामि कुलानन्दपरमां परमाननाम् || ८-५८ || तर्पयाम्यम्बिकादेवीं मायालक्ष्मीहृदिस्थिताम् || ८-५९ || सर्वासां चरणद्वयाम्बुजतनुं चैतन्यविद्यावती | सौख्यार्थं शुभषोडशस्वरयुतां श्रीषोडशीसङ्कुलाम् | आनन्दार्णवपद्मरागखचिते सिंहासने शोभिते | नित्यं तत् परितर्पयामि सकलं श्वेताब्जमध्यासने || ८-६० || ये नित्यं प्रपठन्ति चारुसफलस्तोत्रार्द्धसन्तर्पण| विद्यादाननिदानमोक्षपरमां मायामयं यान्ति ते | नश्यन्ति क्षितिमण्डलेश्वरगणाः सर्वाविपत्कारका | राजानं वशयन्ति योगसकलं नित्या भवन्ति क्षणात् || ८-६१ || तर्पणात्मकमोक्षाख्यं पठन्ति यदि मानुषाः | अष्टैश्वर्ययुतो भूत्वा वत्सरात्तां प्रपश्यति || ८-६२ || महायोगी भवेन्नाथ मासादभ्यासतः प्रभो | त्रैलोक्यं क्षोभयेत्क्षिप्रं वाञ्छाफलमवाप्नुयात् || ८-६३ || भूमध्ये राजराजेशो लभते वरमङ्गलम् | शत्रुनाशे तथोच्चाटे बन्धने व्याधिसङ्कटे || ८-६४ || चातुरङ्गे तथा घोरे भये दूरस्य प्रेषणे | महायुद्धे नरेन्द्राणां पठित्वा सिद्धिमाप्नुयात् || ८-६५ || यः पठेदेकभावेन सन्तर्पणफलं लभेत् | पूजासाफल्यमाप्नोति कुमारीस्तोत्रपाठतः || ८-६६ || यो न कुर्यात्कुमार्यर्चां स्तोत्रञ्च नित्यमङ्गलम् | स भवेत् पाशवः कल्पो मृत्युस्तस्य पदे पदे || ८-६७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविलासे सिद्धमन्त्र-- प्रकरणे दिव्यभावनिर्णये अष्टमः पटलः || ८ || अथ नवमः पटलः आनन्दभैरव उवाच अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् | त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् || ९-१ || पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः | शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः || ९-२ || महातेजोमयो वह्निर्धर्म्मराजो भयानकः | वरुणो देवपूज्यो हि जलानामधिपः स्वयम् || ९-३ || सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः | धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः || ९-४ || न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः | एतत्कवचपाठेन सर्वे भूपा धनाधिपाः || ९-५ || प्रणवो मे शिरः पातु माया सन्दायिका सती | ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती || ९-६ || कामाक्षा वटुकेशानी त्रिमूत्तिर्भालमेव मे | चामुण्डा बीजरूपा च वदनं कालिका मम || ९-७ || पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम | कर्णयुग्मं कामबीजं स्वरूपोमातपस्विनी || ९-८ || रसनाग्रं तथा पातु वाग्देवी मालिनी मम | डामरस्था कामरूपा दन्ताग्रं कुञ्जिका मम || ९-९ || देवी प्रणवरूपाऽसौ पातु नित्यं शिवा मम | ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी || ९-१० || पायान्मे कालसन्दष्टा पञ्चवायुस्वरूपिणी | गलदेशं महारौद्री पातु मे चापराजिता || ९-११ || क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता | हृदयं भैरवी विद्या पातु षोडश सुस्वरा || ९-१२ || द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका | सर्वमन्त्रस्वरूपं मे चोदरं पीठनायिका || ९-१३ || पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका | कैशोरी कटिदेशं मे मायाबीजस्वरूपिणी || ९-१४ || जङ्घायुग्मं जयन्ती मे योगिनी कुल्लुकायुता | सर्वाङ्गमम्बिकादेवी पातु मन्त्रार्थगामिनी || ९-१५ || केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी | चिबुकं चण्डिका देवी कुमारी पातु मे सदा || ९-१६ || हृदयं ललिता देवी पृष्ठं पर्वतवासिनी | त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदावतु || ९-१७ || श्मशाने चाम्बिका देवी गङ्गागर्भे च वैष्णवी | शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी || ९-१८ || चतुष्पथे तथा पातु मामेव वज्रधारिणी | शवासनगता चण्डा मुण्डमालाविभूषिता || ९-१९ || पातु माने कलिङ्गे च वैखरी शक्तिरूपिणी | वने पातु महाबाला महारण्ये रणप्रिया || ९-२० || महाजले तडागे च शत्रुमध्ये सरस्वती | महाकाशपथे पृथ्वी पातु मां शीतला सदा || ९-२१ || रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी | अर्द्धनारीश्वरा पातु मम पादतलं मही || ९-२२ || नवलक्षमहाविद्या कुमारी रूपधारिणी | कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला || ९-२३ || पातु मां वरदा वाणी वटुकेश्वरकामिनी इति ते कथितं नाथ कवचं परमाद्भुतम् || ९-२४ || कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारग यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च || ९-२५ || आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः || ९-२६ || वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः | सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् || ९-२७ || विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले | महापथे श्मशाने च योगसिद्धो भवेत् स च || ९-२८ || पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर वशीकरणकवचं सर्वत्र जयदं शुभम् || ९-२९ || पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम् सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् || ९-३० || पठेद्यः शृणुयाद्वापि स भवेत्कल्पपादपः | भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् || ९-३१ || प्राप्नोति साधकश्रेष्ठो धारयित्वा जपेद्यदि | असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् || ९-३२ || धनिनाञ्च महासौख्यधर्म्मार्थकाममोक्षदम् | यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि || ९-३३ || उपचारविशेषेण त्रैलोक्यं वशमानयेत् | पललेनासवेनापि मत्स्येन मुद्रया सह || ९-३४ || नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः | माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः || ९-३५ || पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् | यज्ञदानतपस्याभिः प्रयोगेण महेश्वर || ९-३६ || स्तुत्वा कुमारीकवचं यः पठेदेकभावतः | तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् || ९-३७ || वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते | भूर्जपत्रे लिखित्वा स कवचं धारयेद् हृदि || ९-३८ || शनिमङ्गलवारे च नवम्यामष्टमीदिने | चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः || ९-३९ || लिखित्वा धारयेद् विद्वान् उत्तराभिमुखो भवन् | महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः || ९-४० || योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् | बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता || ९-४१ || तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे | एहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः || ९-४२ || शिवलोके परे याति वायुवेगी निरामयः | सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् || ९-४३ || लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रद | मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् | पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जय | ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् || ९-४४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे कुमारी-- कवचोल्लासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये नवमः पटलः || ९ || अथ दशमः पटलः आनन्दभैरव उवाच वद कान्ते सदानन्दस्वरूपानन्दवल्लभे | कुमार्या देवतामुख्याः परमानन्दवर्धनम् || १०-१ || अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् | यदि मे वर्तते विद्ये यदि स्नेहकलामला || १०-२ || तदा वदस्व कौमारीकृतकर्मफलप्रदम् | महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् || १०-३ || आनन्दभैरवी उवाच महापुण्यप्रदं नाथ शृणु सर्वेश्वरप्रिय | अष्टोत्तरसहस्राख्यं कुमार्याः परमाद्भुतम् || १०-४ || पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् | सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् || १०-५ || अणिमाद्यष्टसिद्ध्यङ्गं सर्वानन्दकरं परम् | मायामन्त्रनिरस्ताङ्गं मन्त्रसिद्धिप्रदे नृणाम् || १०-६ || न पूजा न जपं स्नानं पुरश्चर्याविधिश्च न | अकस्मात् सिद्धिमवाप्नोति सहस्रनामपाठतः || १०-७ || सर्वयज्ञफलं नाथ प्राप्नोति साधकः क्षणात् | मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रास्वरूपकम् || १०-८ || कोटिवर्षशतेनापि फलं वक्तुं न शक्यते | तथापि वक्तुमिच्छामि हिताय जगतां प्रभो || १०-९ || अस्याः श्रीकुमार्याः सहस्रनामकवचस्य | वटुकभैरवऋषिरनुष्टुप्छन्दः, कुमारीदेवता, सर्वमन्त्रसिद्धिसमृद्धये विनियोगः || १०-१० || ओं कुमारी कौशिकी काली कुरुकुल्ला कुलेश्वरी | कनकाभा काञ्चनाभा कमला कालकामिनी || १०-११ || कपालिनी कालरूपा कौमारी कुलपालिका | कान्ता कुमारकान्ता च कारणा करिगामिनी || १०-१२ || कन्धकान्ता कौलकान्ता कृतकर्मफलप्रदा | कार्याकार्यप्रिया कक्षा कंसहन्त्री कुरुक्षया || १०-१३ || कृष्णकान्ता कालरात्रिः कर्णेषुधारिणीकरा | कामहा कपिला काला कालिका कुरुकामिनी || १०-१४ || कुरुक्षेत्रप्रिया कौला कुन्ती कामातुरा कचा | कलञ्जभक्षा कैकेयी काकपुच्छध्वजा कला || १०-१५ || कमला कामलक्ष्मी च कमलाननकामिनी | कामधेनुस्वरूपा च कामहा काममदीनी || १०-१६ || कामदा कामपूज्या च कामातीता कलावती | भैरवी कारणाढ्या च कैशोरी कुशलाङ्गला || १०-१७ || कम्बुग्रीवा कृष्णनिभा कामराजप्रियाकृतिः | कङ्कणालङ्कृता कङ्का केवला काकिनी किरा || १०-१८ || किरातिनी काकभक्षा करालवदना कृशा | केशिनी केशिहा केशा कासाम्बष्ठा करिप्रिया || १०-१९ || कविनाथस्वरूपा च कटुवाणी कटुस्थिता | कोटरा कोटराक्षी च करनाटकवासिनी || १०-२० || कटकस्था काष्ठसंस्था कन्दर्पा केतकी प्रिया | केलिप्रिया कम्बलस्था कालदैत्यविनाशिनी || १०-२१ || केतकीपुष्पशोभाढ्या कर्पूरपूर्णजिह्विका | कर्पूराकरकाकोला कैलासगिरिवासिनी || १०-२२ || कुशासनस्था कादम्बा कुञ्जरेशी कुलानना | खर्बा खड्गधरा खड्गा खलहा खलबुद्धिदा || १०-२३ || खञ्जना खररूपा च क्षाराम्लतिक्तमध्यगा | खेलना खेटककरा खरवाक्या खरोत्कटा || १०-२४ || खद्योतचञ्चला खेला खद्योता खगवाहिनी | खेटकस्था खलाखस्था खेचरी खेचरप्रिया || १०-२५ || खचरा खरप्रेमा खलाढ्या खचरानना | खेचरेशी खरोग्रा च खेचरप्रियभाषिणी || १०-२६ || खर्जूरासवसंमत्ता खर्जूरफलभोगिनी | खातमध्यस्थिता खाता खाताम्बुपरिपूरिणी || १०-२७ || ख्यातिः ख्यातजलानन्दा खुलना खञ्जनागतिः | खल्वा खलतरा खारी खरोद्वेगनिकृन्तनी || १०-२८ || गगनस्था च भीता च गभीरनादिनी गया | गङ्गा गभीरा गौरी च गणनाथ प्रिया गतिः || १०-२९ || गुरुभक्ता ग्वालिहीना गेहिनी गोपिनी गिरा | गोगणस्था गाणपत्या गिरिजा गिरिपूजिता || १०-३० || गिरिकान्ता गणस्था च गिरिकन्या गणेश्वरी | गाधिराजसुता ग्रीवा गुर्वी गुर्व्यम्बशाङ्करी || १०-३१ || गन्धर्व्वकामिनी गीता गायत्री गुणदा गुणा | गुग्गुलुस्था गुरोः पूज्या गीतानन्दप्रकाशिनी || १०-३२ || गयासुरप्रियागेहा गवाक्षजालमध्यगा | गुरुकन्या गुरोः पत्नी गहना गुरुनागिनी || १०-३३ || गुल्फवायुस्थिता गुल्फा गर्द्दभा गर्द्दभप्रिया | गुह्या गुह्यगणस्था च गरिमा गौरिका गुदा || १०-३४ || गुदोर्ध्वस्था च गलिता गणिका गोलका गला | गान्धर्वी गाननगरी गन्धर्वगणपूजिता || १०-३५ || घोरनादा घोरमुखी घोरा घर्मनिवारिणी | घनदा घनवर्णा च घनवाहनवाहना || १०-३६ || घर्घरध्वनिचपला घटाघटपटाघटा | घटिता घटना घोना घनरुप घनेश्वरी || १०-३७ || घुण्यातीता घर्घरा च घोराननविमोहिनी | घोरनेत्रा घनरुचा घोरभैरव कन्यका || १०-३८ || घाताघातकहा घात्या घ्राणाघ्राणेशवायवी | घोरान्धकारसंस्था च घसना घस्वरा घरा || १०-३९ || घोटकेस्था घोटका च घोटकेश्वरवाहना | घननीलमणिश्यामा घर्घरेश्वरकामिनी || १०-४० || ङकारकूटसम्पन्ना ङकारचक्रगामिनी | ङकारी ङसंशा चैव ङीपनीता ङकारिणी || १०-४१ || चन्द्रमण्डलमध्यस्था चतुरा चारुहासिनी | चारुचन्द्रमुखी चैव चलङ्गमगतिप्रिया || १०-४२ || चञ्चला चपला चण्डी चेकिताना चरुस्थिता | चलिता चानना चार्व्वो चारुभ्रमरनादिनी || १०-४३ || चौरहा चन्द्रनिलया चैन्द्री चन्द्रपुरस्थिता | चक्रकौला चक्ररूपा चक्रस्था चक्रसिद्धिदा || १०-४४ || चक्रिणी चक्रहस्ता च चक्रनाथकुलप्रिया | चक्राभेद्या चक्रकुला चक्रमण्डलशोभिता || १०-४५ || चक्रेश्वरप्रिया चेला चेलाजिनकुशोत्तरा | चतुर्वेदस्थिता चण्डा चन्द्रकोटिसुशीतला || १०-४६ || चतुर्गुणा चन्द्रवर्णा चातुरी चतुरप्रिया | चक्षुःस्था चक्षुवसतिश्चणका चणकप्रिया || १०-४७ || चार्व्वङ्गी चन्द्रनिलया चलदम्बुजलोचना | चर्व्वरीशा चारुमुखी चारुदन्ता चरस्थिता || १०-४८ || चसकस्थासवा चेता चेतःस्था चैत्रपूजिता | चाक्षुषी चन्द्रमलिनी चन्द्रहासमणिप्रभा || १०-४९ || छलस्था छुद्ररूपा च छत्रच्छायाछलस्थिता | छलज्ञा छेश्वराछाया छाया छिन्नशिवा छला || ५० || छत्राचामरशोभाढ्या छत्रिणां छत्रधारिणी | छिन्नातीता छिन्नमस्ता छिन्नकेशा छलोद्भवा || १०-५१ || छलहा छलदा छाया छन्ना छन्नजनप्रिया | छलछिन्ना छद्मवती छद्मसद्मनिवासिनी || १०-५२ || छद्मगन्धा छदाछन्ना छद्मवेशी छकारिका | छगला रक्तभक्षा च छगलामोदरक्तपा || १०-५३ || छगलण्डेशकन्या च छगलण्डकुमारिका | छुरिका छुरिककरा छुरिकारिनिवाशिनी || १०-५४ || छिन्ननाशा छिन्नहस्ता छोणलोला छलोदरी | छलोद्वेगा छाङ्गबीजमाला छाङ्गवरप्रदा || १०-५५ || जटिला जठरश्रीदा जरा जज्ञप्रिया जया | जन्त्रस्था जीवहा जीवा जयदा जीवयोगदा || ५६ || जयिनी जामलस्था च जामलोद्भवनायिका | जामलप्रियकन्या च जामलेशी जवाप्रिया || १०-५७ || जवाकोटिसमप्रख्या जवापुष्पप्रिया जना | जलस्था जगविषया जरातीता जलस्थिता || १०-५८ || जीवहा जीवकन्या च जनार्द्दनकुमारिका | जतुका जलपूज्या च जगन्नाथादिकामिनी || १०-५९ || जीर्णाङ्गी जीर्णहीना च जीमूतात्त्यन्तशोभिता | जामदा जमदा जृम्भा जृम्भणास्त्रादिधारिणी || ६० || जघन्या जारजा प्रीता जगदानन्दवद्धीनी | जमलार्जुनदर्पघ्नी जमलार्जुनभञ्जिनी || १०-६१ || जयित्रीजगदानन्दा जामलोल्लाससिद्धिदा | जपमाला जाप्यसिद्धिर्जपयज्ञप्रकाशिनी || १०-६२ || जाम्बुवती जाम्बवतः कन्यकाजनवाजपा | जवाहन्त्री जगद्बुद्धिर्ज्जगत्कर्तृ जगद्गतिः || १०-६३ || जननी जीवनी जाया जगन्माता जनेश्वरी | झङ्कला झङ्कमध्यस्था झणत्कारस्वरूपिणी || १०-६४ || झणत्झणद्वह्निरूपा झननाझन्दरीश्वरी | झटिताक्षा झरा झञ्झा झर्झरा झरकन्यका || १०-६५ || झणत्कारी झना झन्ना झकारमालयावृता | झङ्करी झर्झरी झल्ली झल्वेश्वरनिवासिनी || १०-६६ || ञकारी ञकिराती च ञकारबीजमालिनी | ञनयोऽन्ता ञकारान्ता ञकारपरमेश्वरी || १०-६७ || ञान्तबीजपुटाकारा ञेकले ञैकगामिनी | ञैकनेला ञस्वरूपा ञहारा ञहरीतकी || १०-६८ || टुन्टुनी टङ्कहस्ता च टान्तवर्गा टलावती | टपला टापबालाख्या टङ्कारध्वनिरूपिणी || १०-६९ || टलाती टाक्षरातीता टित्कारादिकुमारिका | टङ्कास्त्रधारिणी टाना टमोटार्णलभाषिणी || १०-७० || टङ्कारी विधना टाका टकाटकविमोहिनी | टङ्कारधरनामाहा टिवीखेचरनादिनी || १०-७१ || ठठङ्कारी ठाठरूपा ठकारबीजकारणा | डमरूप्रियवाद्या च डामरस्था डबीजिका || १०-७२ || डान्तवर्गा डमरुका डरस्था डोरडामरा | डगरार्द्धा डलातीता डदारुकेश्वरी डुता || १०-७३ || ढार्द्धनारीश्वरा ढामा ढक्कारी ढलना ढला | ढकेस्था ढेश्वरसुता ढेमनाभावढोनना || १०-७४ || णोमाकान्तेश्वरी णान्तवर्गस्था णतुनावती | णनो माणाङ्ककल्याणी णाक्षवीणाक्षबीजिका || १०-७५ || तुलसीतन्तुसूक्ष्माख्या तारल्या तैलगन्धिका | तपस्या तापससुता तारिणी तरुणी तला || १०-७६ || तन्त्रस्था तारकब्रह्मस्वरूपा तन्तुमध्यगा | तालभक्षत्रिधामूत्तीस्तारका तैलभक्षिका || १०-७७ || तारोग्रा तालमाला च तकरा तिन्तिडीप्रिया | तपसः तालसन्दर्भा तर्जयन्ती कुमारिका || १०-७८ || तोकाचारा तलोद्वेगा तक्षका तक्षकप्रिया | तक्षकालङ्कृता तोषा तावद्रूपा तलप्रिया || १०-७९ || तलास्त्रधारिणी तापा तपसां फलदायिनी | तल्वल्वप्रहरालीता तलारिगणनाशिनी || १०-८० || तूला तौली तोलका च तलस्था तलपालिका तरुणा तप्तबुद्धिस्थास्तप्ता प्रधारिणी तपा || १०-८१ || तन्त्रप्रकाशकरणी तन्त्रार्थदायिनी तथा | तुषारकिरणाङ्गी च चतुर्धा वा समप्रभा || १०-८२ || तैलमार्गाभिसूता च तन्त्रसिद्धिफलप्रदा | ताम्रपर्णा ताम्रकेशा ताम्रपात्रप्रियातमा || १०-८३ || तमोगुणप्रिया तोला तक्षकारिनिवारिणी | तोषयुक्ता तमायाची तमषोढेश्वरप्रिया || १०-८४ || तुलना तुल्यरुचिरा तुल्यबुद्धिस्त्रिधा मतिः | तक्रभक्षा तालसिद्धिः तत्रस्थास्तत्र गामिनी || १०-८५ || तलया तैलभा ताली तन्त्रगोपनतत्परा | तन्त्रमन्त्रप्रकाशा च त्रिशरेणुस्वरूपिणी || १०-८६ || त्रिंशदर्थप्रिया तुष्टा तुष्टिस्तुष्टजनप्रिया | थकारकूटदण्डीशा थदण्डीशप्रियाऽथवा || १०-८७ || थकाराक्षररूढाङ्गी थान्तवर्गाथ कारिका | थान्ता थमीश्वरी थाका थकारबीजमालिनी || १०-८८ || दक्षदामप्रिया दोषा दोषजालवनाश्रिता | दशा दशनघोरा च देवीदासप्रिया दया || १०-८९ || दैत्यहन्त्रीपरा दैत्या दैत्यानां मद्दीनी दिशा | दान्ता दान्तप्रिया दासा दामना दीर्घकेशिका || १०-९० || दशना रक्तवर्णा च दरीग्रहनिवासिनी देवमाता च दुर्लभा च दीर्घाङ्गा दासकन्यका || १०-९१ || दशनश्री दीर्घनेत्रा दीर्घनासा च दोषहा | दमयन्ती दलस्था च द्वेष्यहन्त्री दशस्थिता || १०-९२ || दैशेषिका दिशिगता दशनास्त्रविनाशिनी दारिद्र्यहा दरिद्रस्था दरिद्रधनदायिनी || १०-९३ || दन्तुरा देशभाषा च देशस्था देशनायिका | द्वेषरूपा द्वेषहन्त्री द्वेषारिगणमोहिनी || १०-९४ || दामोदरस्थाननादा दलानां बलदायिनी | दिग्दर्शना दर्शनस्था दर्शनप्रियवादिनी || १०-९५ || दामोदरप्रिया दान्ता दामोदरकलेवरा | द्राविणी द्रविणी दक्षा दक्षकन्या दलदृढा || १०-९६ || दृढासनादासशक्तिर्द्वन्द्वयुद्धप्रकाशिनी | दधिप्रिया दधिस्था च दधिमङ्गलकारिणी || १०-९७ || दर्पहा दर्पदा दृप्ता दर्भपुण्यप्रिया दधिः | दर्भस्था द्रुपदसुता द्रौपदी द्रुपदप्रिया || १०-९८ || धर्मचिन्ता धनाध्यक्षा धश्वेश्वरवरप्रदा | धनहा धनदा धन्वी धनुर्हस्ता धनुःप्रिया || १०-९९ || धरणी धैर्यरूपा च धनस्था धनमोहिनी | धोरा धीरप्रियाधारा धराधारणतत्परा || १०-१०० || धान्यदा धान्यबीजा च धर्माधर्मस्वरूपिणी | धाराधरस्था धन्या च धर्मपुञ्जनिवासिनी || १०-१०१ || धनाढ्यप्रियकन्या च धन्यलोकैश्च सेविता | धर्मार्थकाममोक्षाङ्गी धर्मार्थकाममोक्षदा || १०-१०२ || धराधरा धुरोणा च धवला धवलामुखी | धरा च धामरूपा च ध्रुवा ध्रौव्या ध्रुवप्रिया || १०-१०३ || धनेशी धारणाख्या च धर्मनिन्दाविनाशिनी | धर्मतेजोमयी धर्म्म्या धैर्याग्रभर्गमोहिनी || १०-१०४ || धारणा धौतवसना धत्तूरफलभोगिनी | नारायणी नरेन्द्रस्था नारायणकलेवरा || १०-१०५ || नरनारायणप्रीता धर्मनिन्दा नमोहिता | नित्या नापितकन्या च नयनस्था नरप्रिया || १०-१०६ || नाम्नी नामप्रिया नारा नारायणसुता नरा | नवीननायकप्रीता नव्या नवफलप्रिया || १०-१०७ || नवीनकुसुमप्रीता नवीनानां ध्वजानुता | नारी निम्बस्थितानन्दानन्दिनी नन्दकारिका || १०-१०८ || नवपुष्पमहाप्रीता नवपुष्पसुगन्धिका | नन्दनस्था नन्दकन्या नन्दमोक्षप्रदायिनी || १०-१०९ || नमिता नामभेदा च नाम्नार्त्तवनमोहिनी | नवबुद्धिप्रियानेका नाकस्था नामकन्यका || १०-११० || निन्दाहीना नवोल्लासा नाकस्थानप्रदायिनी | निम्बवृक्षस्थिता निम्बा नानावृक्षनिवासिनी || १०-१११ || नाश्यातीता नीलवर्णा नीलवर्णा सरस्वती | नभःस्था नायकप्रीता नायकप्रियकामिनी || १०-११२ || नैववर्णा निराहारा निवीहाणां रजःप्रिया | निम्ननाभिप्रियाकारा नरेन्द्रहस्तपूजिता || १०-११३ || नलस्थिता नलप्रीता नलराजकुमारिका | परेश्वरी परानन्दा परापरविभेदिका || १०-११४ || परमा परचक्रस्था पार्वती पर्वतप्रिया | पारमेशी पर्वनाना पुष्पमाल्यप्रिया परा || १०-११५ || परा प्रिया प्रीतिदात्री प्रीतिः प्रथमकामिनी | प्रथमा प्रथमा प्रीता पुष्पगन्धप्रिया परा || १०-११६ || पौष्यी पानरता पीना पीनस्तनसुशोभना | परमानरता पुंसां पाशहस्ता पशुप्रिया || १०-११७ || पललानन्दरसिका पलालधूमरूपिणी | पलाशपुष्पसङ्काशा पलाशपुष्पमालिनी || १०-११८ || प्रेमभूता पद्ममुखी पद्मरागसुमालिनी | पद्ममाला पापहरा पतिप्रेमविलासिनी || १०-११९ || पञ्चाननमनोहारी पञ्चवक्त्रप्रकाशिनी | फलमूलाशना फाली फलदा फाल्गुनप्रिया || १०-१२० || फलनाथप्रिया फल्ली फल्गुकन्या फलोन्मुखी | फेत्कारीतन्त्रमुख्या च फेत्कारगणपूजिता || १०-१२१ || फेरवी फेरवसुता फलभोगोद्भवा फला | फलप्रिया फलाशक्ता फाल्गुनानन्ददायिनी || १०-१२२ || फालभोगोत्तरा फेला फुलाम्भोजनिवासिनी | वसुदेवगृहस्था च वासवी वीरपूजिता || १०-१२३ || विषभक्षा बुधसुता ब्लुङ्कारी ब्लूवरप्रदा | ब्राह्मी बृहस्पतिसुता वाचस्पतिवरप्रदा || १०-१२४ || वेदाचारा वेद्यपरा व्यासवक्त्रस्थिता विभा | बोधज्ञा वौषडाख्या च वंशीवंदनपूजिता || १०-१२५ || वज्रकान्ता वज्रगतिर्बदरीवंशविवद्धीनी | भारती भवरश्रीदा भवपत्नी भवात्मजा || १०-१२६ || भवानी भाविनी भीमा भिषग्भार्या तुरिस्थिता | भूर्भुवःस्वःस्वरूपा च भृशार्त्ता भेकनादिनी || १०-१२७ || भौती भङ्गप्रिया भङ्गभङ्गहा भङ्गहारिणी | भर्ता भगवती भाग्या भगीरथनमस्कृता || १०-१२८ || भगमाला भूतनाथेश्वरी भार्गवपूजिता | भृगुवंशा भीतिहरा भूमिर्भुजगहारिणी || १०-१२९ || भालचन्द्राभभल्वबाला भवभूतिवीभूतिदा | मकरस्था मत्तगतिर्मदमत्ता मदप्रिया || १०-१३० || मदिराष्टादशभुजा मदिरा मत्तगामिनी | मदिरासिद्धिदा मध्या मदान्तर्गतिसिद्धिदा || १०-१३१ || मीनभक्षा मीनरूपा मुद्रामुद्गप्रिया गतिः | मुषला मुक्तिदा मूर्त्ता मूकीकरणतत्परा || १०-१३२ || मृषार्त्ता मृगतृष्णा च मेषभक्षणतत्परा | मैथुनानन्दसिद्धिश्च मैथुनानलसिद्धिदा || १०-१३३ || महालक्ष्मीर्भैरवी च महेन्द्रपीठनायिका | मनःस्था माधवीमुख्या महादेवमनोरमा || १०-१३४ || यशोदा याचना यास्या यमराजप्रिया यमा | यशोराशिविभूषाङ्गी यतिप्रेमकलावती || १०-१३५ || रमणी रामपत्नी च रिपुहा रीतिमध्यगा | रुद्राणी रूपदा रूपा रूपसुन्दरधारिणी || १०-१३६ || रेतःस्था रेतसः प्रीता रेतःस्थाननिवासिनी | रेन्द्रादेवसुतारेदा रिपुवर्गान्तकप्रिया || १०-१३७ || रोमावलीन्द्रजननी रोमकूपजगत्पतिः | रौप्यवर्णा रौद्रवर्णा रौप्यालङ्कारभूषणा || १०-१३८ || रङ्गिणा रङ्गरागस्था रणवह्निकुलेश्वरी | लक्ष्मीः लाङ्गलहस्ता च लाङ्गली कुलकामिनी || १०-१३९ || लिपिरूपा लीढपादा लतातन्तुस्वरूपिणी | लिम्पती लेलिहा लोला लोमशप्रियसिद्धिदा || १०-१४० || लौकिकी लौकिकीसिद्धिर्लङ्कानाथकुमारिका | लक्ष्मणा लक्ष्मीहीना च लप्रिया लार्णमध्यगा || १०-१४१ || विवसा वसनावेशा विवस्यकुलकन्यका | वातस्था वातरूपा च वेलमध्यनिवासिनी || १०-१४२ || श्मशानभूमिमध्यस्था श्मशानसाधनप्रिया | शवस्था परसिद्ध्यर्थी शववक्षसि शोभिता || १०-१४३ || शरणागतपाल्या च शिवकन्या शिवप्रिया | षट्चक्रभेदिनी षोढा न्यासजालदृढानना || १०-१४४ || सन्ध्यासरस्वती सुन्द्या सूर्यगा शारदा सती | हरिप्रिया हरहालालावण्यस्था क्षमा क्षुधा || १०-१४५ || क्षेत्रज्ञा सिद्धिदात्री च अम्बिका चापराजिता | आद्या इन्द्रप्रिया ईशा उमा ऊढा ऋतुप्रिया || १०-१४६ || सुतुण्डा स्वरबीजान्ता हरिवेशादिसिद्धिदा | एकादशीव्रतस्था च एन्द्री ओषधिसिद्धिदा || १०-१४७ || औपकारी अंशरूपा अस्त्रबीजप्रकाशिनी | इत्येतत् कामुकीनाथ कुमारीणां सुमङ्गलम् || १०-१४८ || त्रैलोक्यफलदं नित्यमष्टोत्तरसहस्रकम् | महास्तोत्रं धर्मसारं धनधान्यसुतप्रदम् || १०-१४९ || सर्वविद्याफलोल्लासं भक्तिमान् यः पठेत् सुधीः | स सर्वदा दिवारात्रौ स भवेन्मुक्तिमार्गगः || १०-१५० || सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् | सर्वे देवा वशं यान्ति वशीभूताश्च मानवाः || १०-१५१ || ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः | ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः || १०-१५२ || ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर | अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च || १०-१५३ || जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः | विना यज्ञैवीना दानैवीना जाप्यैर्लभेत् फलम् || १०-१५४ || यः पठेत् स्तोत्रकं नाम चाष्टोत्तरसहस्रकम् | तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः || १०-१५५ || वारत्रयं प्रपाठेन राजानं वशमानयेत् | वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् || १०-१५६ || त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति | वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा || १०-१५७ || पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः | त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्धं प्रपाठतः || १०-१५८ || वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् | चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः || १०-१५९ || महादूरस्थितं वर्णं पश्यति स्थिरमानसः | महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः || १०-१६० || स भवेत्साधकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् | सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः || १०-१६१ || दर्शनात् स्तम्भनं कर्त्तुं क्षमो भवति साधकः | जलादिस्तम्भने शक्तो वह्निस्तम्भादिसिद्धिभाक् || १०-१६२ || वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् | कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् || १०-१६३ || सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् | कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः || १०-१६४ || अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये | उज्जटेऽरण्यमध्ये च पर्वते घोरकानने || १०-१६५ || वने वा प्रेतभूमौ च शवोपरि महारणे | ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे || १०-१६६ || गङ्गागर्भे महापीठे योनिपीठे गुरोर्गृहे | धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये || १०-१६७ || प्रान्तरे गोष्ठमध्ये वा राजादिभयहीनके | निर्भयादिस्वदेशेषु शिलिङ्गालयेऽथवा || १०-१६८ || भूतगर्त्ते चैकलिङ्गै वा शून्यदेशे निराकुले | अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे || १०-१६९ || अन्येषु सिद्धदेशेषु कुलरूपाश्च साधकः | दिव्ये वा वीरभावस्थो यष्ट्वा कन्यां कुलाकुलै || १०-१७० || कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः | मांसासवेन जुहुयान्मुक्तेन रसेन च || १०-१७१ || हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये | तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे || १०-१७२ || घृणालज्जाविनिर्मुक्तः साधकः स्थिरमानसः | पिबेन्मांसरसं मन्त्री सदानन्दो महाबली || १०-१७३ || महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् | तारो माया रमावह्निजायामन्त्रं पठेत् सुधीः || १०-१७४ || निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङ्गलम् | स्वयं प्रसादं भुक्त्वा हि सर्वविद्याधिपो भवेत् || १०-१७५ || शूकरस्योष्ट्र्मांसेन पीनमीनेन मुद्रया | महासवघटेनापि दत्त्वा पठति यो नरः || १०-१७६ || ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया | रुद्ररूपो भवेन्नित्यं महाकालात्मको भवेत् || १०-१७७ || सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः | क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट् || १०-१७८ || भक्त्याह्लादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् | महाशत्रुपातने च महाशत्रुभयाद्दीते || १०-१७९ || वारैकपाठमात्रेण शत्रूणां वधमानयेत् | समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः || १०-१८० || उच्चाटने मारणे च भये घोरतरे रिपौ | पठनाद्धारणान्मर्त्त्यो देवा वा राक्षसादयः || १०-१८१ || प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः | पुरुषो दक्षिणे बाहौ नारी वामकरे तथा || १०-१८२ || धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः || १०-१८३ || ममाज्ञया मोक्षमुपैति साधको | गजान्तकं नाथ सहस्रनाम च पठेन्मनुष्यो यहि भक्तिभावत-- स्तदा हि सर्वत्र फलोदयं लभेत् च || १०-१८४ || मोक्षं सत्फलभोगिनां स्तववरं सारं परानन्ददं ये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः ते नित्याः प्रभवन्ति कीतीकमले श्रीरामतुल्यो जये कन्दर्पायुततुल्यरूपगुणिनः क्रोधे च रुद्रोपमाः || १०-१८५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्र-- प्रकरणे दिव्यभावनिर्णये अष्टोत्तरसहस्रनाममङ्गलोल्लासे दशमः पटलः || १० || अथैकादशः पटलः आनन्दभैरवी उवाच अथातः सम्प्रवक्ष्यामि दिव्यभावादिनिर्णयम् | यमाश्रित्य महारुद्रो भुवनेश्वरनामधृक् || ११-१ || यं ज्ञात्वा कमलानाथो देवतानामधीश्वरः | चतुर्वेदाधिपो ब्रह्मा साक्षाद्ब्रह्म सनातनः || ११-२ || बटुको मम पुत्रश्च शक्रः स्वर्गाधिदेवता | अष्टसिद्धियुताः सर्वे दिक्पालाः खेचरादयः || ११-३ || तत्प्रकारं महादेव आनन्दनाथभैरव | सुरानन्द हृदयानन्द ज्ञानानन्द दयामय || ११-४ || शृणुस्वैकमना नाथ यदि त्वं सिद्धिमिच्छसि | मम प्रियानन्दरूप यतो मे त्वं तनुस्थितः || ११-५ || त्रिविधं दिव्यभावञ्च वेदागमविवेकजम् | वेदार्थमधमं सम्प्रोक्तं मध्यमं चागमोद्भवम् || ११-६ || उत्तमं सकलं प्रोक्तं विवेकोल्लाससम्भवम् | तथैव त्रिविधं भावं दिव्यवीरपशुक्रमम् || ११-७ || दिव्यं विवेकजं प्रोक्तं सर्वसिद्धिप्रदायकम् | उत्तमं तद्विजानीयादानन्दरससागरम् || ११-८ || मध्यमं चागमोल्लासं वीरभावं क्रियान्वितम् | वेदोद्भवं फलार्थञ्च पशुभावं हि चाधमम् || ११-९ || सर्वनिन्दा समाव्याप्तं भावानामधमं पशोः | उत्तमे उत्तमं ज्ञानं भावसिद्धिप्रदं नृणाम् || ११-१० || मध्यमे मधुमत्याश्च मत्कुलागमसम्भवम् | अकालमृत्युहरणं भावानामतिदुर्लभम् || ११-११ || वीरभावं विना नाथ न सिद्ध्यति कदाचन | अधमे अधमा व्याख्या निन्दार्थवाचकं सदा || ११-१२ || यदि निन्दा न करोति तदा तत्फलमाप्नुयात् | पशुभावेऽपि सिद्धिः स्यात् यदि वेदं सदाभ्यसेत् || ११-१३ || वेदार्थचिन्तनं नित्यं वेदपाठध्वनिप्रियम् | सर्वनिन्दाविरहितं हिंसालस्यविवजीतम् || ११-१४ || लोभ--मोह--काम--क्रोध--मदमात्सर्यवजीतम् | यदि भावस्थितो मन्त्री पशुभावेऽपि सिद्धिभाक् || ११-१५ || पशुभावं महाभावं ये जानन्ति महीतले | किमसाध्यं महादेव श्रमाभ्यासेन यान्ति तत् || ११-१६ || श्रमाधीनं जगत् सर्वं श्रमाधीनाश्च देवताः | श्रमाधीनं महामन्त्रं श्रमाधीनं परन्तपः || ११-१७ || श्रमाधीनं कुलाचारं पशुभावोपलक्षणम् | वेदार्थज्ञानमात्रेण पशुभावं कुलप्रियम् || ११-१८ || स्मृत्यागमपुराणानि वेदार्थविविधानि च | अभ्यस्य सर्वशास्त्राणि तत्त्वज्ञानात्तु बुद्धिमान् || ११-१९ || पललमिव धान्यार्थी सर्वशास्त्राणि सन्त्यजेत् | ज्ञानी भूत्वा भावसारमाश्रयेत् साधकोत्तमः || ११-२० || वेदे वेदक्रिया कार्या मदुक्तवचनादृतः | पशूनां श्रमदाहानामिति लक्षणमीरितम् || ११-२१ || आगमार्थं क्रिया कार्या मत्कुलागमचेष्टया | वीराणामुद्धतानाञ्च मत् शरीरानुगामिनाम् || ११-२२ || मच्चेच्छाकुल तत्त्वानामिति लक्षणमीरितम् | विवेकसूत्रसंज्ञाज्ञा कार्या सुदृढ.चेतसाम् || ११-२३ || सर्वत्र समभावानां भावमात्रं हि साधनम् | सर्वत्र मत्पदाम्भोजसम्भवं सचराचरम् || ११-२४ || पृष्ट्वा यत्कुरुते कर्म चाखण्डफलसिद्धिदम् | अखण्डज्ञानचित्तानामिति भावं विवेकिनाम् || ११-२५ || निर्मलानन्ददिव्यानामिति लक्षणमीरितम् | दिव्ये तु त्रिविधं भावं यो जानाति महीतले || ११-२६ || न नश्यति महावीरः कदाचित् साधकोत्तमः | दिव्यभावं विना नाथ मत्पदाम्भोजदर्शनम् || ११-२७ || य इच्छति महादेव स मूढः साधकः कथम् | पशुभावं प्रथमके द्वितीये वीरभावकम् || ११-२८ || तृतीये दिव्यभावञ्च दिव्यभावत्रयं क्रमात् | तत्प्रकारं शृणु शिव त्रैलोक्यपरिपावन || ११-२९ || भावत्रयविशेषज्ञः षडाधारस्य भेदनः | पञ्चतत्त्वार्थभावज्ञो दिव्याचाररतः तदा || ११-३० || स एव भवति श्रीमान् सिद्धनामादिपारगः | शिववद् विहरेत् सोऽपि अष्टैश्वर्यसमन्वितः || ११-३१ || सर्वत्र शुचिभावेन आनन्दघनसाधनम् | प्रातःकालादिमध्याह्नकालपर्यन्तधारणम् || ११-३२ || भोजनञ्चोक्तद्रव्येण संयमादिक्रमेण वा | यः साधयति स सिद्धो दिव्यभावे पशुक्रमात् || ११-३३ || दिव्यभावे वीरभावं वदामि तत्पुनः शृणु | मध्याह्नादिकसन्ध्यान्तं शुचिभावेन साधनम् || ११-३४ || जपनं धारणं वापि चित्तमादाय यत्नतः | एकान्तनिर्जने देशे सिद्धो भवति निश्चितम् || ११-३५ || तत्कालं वीरभावार्थं भावमात्रं हि साधनम् | भावेन लभते सिद्धिं वीरादन्यन्न कुत्रचित् || ११-३६ || रात्रौ गन्धादिसम्पूर्णस्ताम्बूलपूरिताननः | विजयानन्दसम्पन्नो जीवात्मपरमात्मनोः || ११-३७ || एक्यं चित्ते समाधाय आनन्दोद्रेकसंभ्रमः | यो जपेत् सकलां रात्रिं गतभीनीर्जने गृहे || ११-३८ || स भवेत् कालिकादासो दिव्यानामुत्तमोत्तमः | एवं भावत्रयं ज्ञात्वा यः कर्म साधयेत्ततः || ११-३९ || अष्टैश्वर्ययुतो भूत्वा सर्वज्ञो भवति ध्रुवम् | भावत्रयाणां मध्ये तु भावपुण्यार्थनिर्णयम् || ११-४० || शृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय | अकस्मात् सिद्धिमाप्नोति ज्ञात्वा सङ्केतलाञ्छितम् || ११-४१ || यो जानाति महादेव तस्य सिद्धिर्न संशयः | द्वादशे पटले सूक्ष्मसङ्केतार्थं वदामि तत् || ११-४२ || आनन्दभैरवी उवाच एकादशे च पटले शुद्धभावार्थनिर्णयम् | भावेन लभ्यते सर्वं भावाधीनं जगत्त्रयम् || ११-४३ || भावं विना महादेव न सिद्धिर्जायते क्वचित् | पशुभावाश्रयाणाञ्च अरुणोदयकालतः || ११-४४ || दशदण्डाश्रितं कालं प्रश्नार्थं केवलं प्रभो | चक्रं द्वादशराशेश्च मासद्वादशकस्य च || ११-४५ || दशदण्डे विजानीयाद् भावाभावं विचक्षणः | अनुलोमविलोमेन पञ्चस्वरविभेदतः || ११-४६ || बाल्य कैशोरसौन्दर्यं यौवनं वृद्धसञ्ज्ञकम् | अस्त(अष्ट)मितं क्रमाज्ज्ञेयो विधिः पञ्चस्वरः स्वयम् || ११-४७ || स्वकीयं नासिकाग्रस्थं पञ्चमं परिकीतीतम् | यन्नासापुटमध्ये तु वायुर्भवति भैरव || ११-४८ || तन्नासापुटमध्ये तु भावाभावं विचिन्तयेत् | आकाशं वायुरूपं हि तैजसं वारुणं प्रभो || ११-४९ || पाथीवं क्रमशो ज्ञेयं बाल्यास्तादिक्रमेण तु | वामोदये शुभा वामा दक्षिणे पुरुषः शुभः || ११-५० || वायूनां गमनं ज्ञेयं गगनावधिरेव च | केवलं मध्यदेशे तु गमनं पवनस्य च || ११-५१ || तदाकाशं विजानीयाद् बाल्यभावं प्रकीतीतम् तिर्यग्गतिस्तु नासाग्रे वायोरुदयमेव च || ११-५२ || केवलं भ्रमणं ज्ञेयं सर्वमङ्गलमेव च | किशोरं तद्विजानीयाद् वायौ तिर्यग्गतौ विभो || ११-५३ || केवलोर्द्ध्वनासिकाग्रे वायुर्गच्छति दण्डवत् | तत्तैजसं विजानीयाद् गमनं बलवद् भवेत् || ११-५४ || तद्वृद्धगतभावञ्च विलम्बोऽधिकचेष्टया | प्राप्नोति परमां प्रीतिं वरुणाम्भोदये रुजाम् || ११-५५ || यदाधो गच्छति क्षिप्रं किञ्चिद् ऊर्ध्वमगोचरम् | यदा करोति प्रश्वासं तदा रोगोल्बणोदयः || ११-५६ || पृथिव्या उन्नतं भाग्यं योगातपप्रपीडितम् | अस्तमितं महादेव अनुलोमविलोमतः || ११-५७ || पवनो गच्छति क्षिप्रं वामदक्षिणभेदतः | वामनासापुटे याति पृथिवी जलमेव च || ११-५८ || सदा फलाफलं दत्ते मुदिता कुण्डमण्डले | तयोर्वै वायवी शक्तिः फलभागं तदा लभेत् || ११-५९ || यद्येवं वामभागे तु वामायाः प्रश्नकर्मणि | यदि तत्र पुमान् प्रश्नं करोति वामगामिने || ११-६० || तदा रोगमवाप्नोति कर्महीनो भवेद् ध्रुवम् | यदि वायूदयो वामे दक्षिणे पुरुषः स्थितः || ११-६१ || तदा फलमवाप्नोति द्रव्यागमनदुर्लभम् | अकस्माद् द्रव्यहानिः स्यान्मनोगतफलापहम् || ११-६२ || सुहृद् भङ्गविवादञ्च भिन्नभिन्नोदये शुभम् | केवलं वरुणस्यैव पुरुषो दक्षिणे शुभम् || ११-६३ || अशुभं पृथिवीदक्षे भेदोऽयं वरदुर्लभः | सदोदयं दक्षिणे च वायोस्तैजस एव च || ११-६४ || आकाशस्य विजानीयात् शुभाशुभफलं प्रभो | यदि भाग्यवशादेव वायोर्मन्दा गतिर्भवेत् || ११-६५ || दक्षनाशामध्यदेशे तदा वामोदयं शुभम् | तदा वामे विचारञ्च वायुतेजोद्वयस्य च || ११-६६ || ज्ञात्वोदयं विजानीयाद् मित्रे हानिः सुरे भयम् | एवं सुभवनागारे यदि गच्छति वायवी || ११-६७ || तस्मिन् काले पुमान् दक्षो दक्षभागस्थसम्मुखः | तदा कन्यादानफलं यथा प्राप्नोति मानवः || ११-६८ || तदा वायुप्रसादेन प्राप्नोति धनमुत्तमम् | देशान्तरस्थभावार्त्ता आयान्ति पुत्रसम्पदः || ११-६९ || बाल्यादिकं भावत्रयं राशिभेदे शुभं दिशेत् एतच्चक्रे फलं तस्य राशिद्वादशचक्रके || ११-७० || सूक्ष्मं फलं विजानीयात् चक्रं नाम शृणु प्रभो | आज्ञाचक्रं कामचक्रं फलचक्रञ्च सारदम् || ११-७१ || प्रश्नचक्रं भूमिचक्रं स्वर्गचक्रं ततः परम् | तुलाचक्रं वारिचक्रं षट्चक्रं त्रिगुणात्मकम् || ११-७२ || सारचक्रमुल्काचक्रं मृत्युचक्रं क्रमात्प्रभो | षट्कोणं चात्र जानीयादनुलोमविलोमतः || ११-७३ || सर्वचक्रे स्वरज्ञानं सर्वत्र वायुसङ्गतिम् | सर्वप्रश्नादिसञ्चारं भावेन जायते यदि || ११-७४ || तदा तद्दण्डमानञ्च ज्ञात्वा राश्युदयं बुधः | कुर्यात् प्रश्नविचारञ्च यदि कीतीमिहेच्छति || ११-७५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावबोधनिर्णये पशुभावविचारे सारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे एकादशः पटलः || ११ || अथ द्वादशः पटलः आनन्दभैरवी उवाच तद्वामसन्धिदेशस्थमष्टमाङ्कमथो लिखेत् | तदधः सन्धिदेशस्थं सप्ताङ्कं विलिखेद् बुधः || १२-१ || तदूर्ध्वं वामकोणे च तृतीयाङ्कं लिखेत्ततः | तदूर्ध्वं कोणगेहे च युग्माङ्कं विलिखेत्तथा || १२-२ || तद्दक्षिणे गृहे चैकमङ्कवर्णं शृणु प्रभो | वसुभावं शून्यभावं षष्ठभावञ्च शून्यकम् || १२-३ || एतन्मध्ये नास्ति वर्णं कोणाङ्कञ्च सवर्णकम् | टतवर्गौ श श लिखेत् शरे शून्याध एव च || १२-४ || वेदाङ्कस्थौ कचवर्गौ एएकारसमन्वितौ | तृतीयाङ्कस्थितं वर्णं आदिक्षान्तं टवर्गमोम् || १२-५ || तपवर्गौ युगान्तस्थौ मकारं सावधानतः | विलिखेद् दक्षिणे तस्य गेहे चैकाङ्कमध्यके || १२-६ || उयुगं पतवर्गौ च अकारं युग्मशीर्षके | एतत् चक्रं कामचक्रं प्रश्नकाले फलप्रदम् || १२-७ || वामावर्त्तेन गणयेत् दशकोणस्थवर्णकान् | अनुलोम विलोमेन पञ्चस्वरादिनामतः || १२-८ || यस्मिन्गृहे स्वीयनाम प्राप्नोति वेदपारगः | तद्गृहावधि प्रश्नार्थं गणयेद् ग्रहसिद्धये || १२-९ || नवग्रहनवस्थानं वर्णं ज्ञात्वा सुबुद्धिमान् | बाल्यभावादिकं ज्ञात्वा यत्र ग्रहस्थितिर्भवेत् || १२-१० || तन्नक्षत्रं समानीय द्वाराधिकारमानयेत् | विना त्रिकोणयोगेन षट्कोणं लिखेद् बुधः || १२-११ || तन्मध्ये अष्टकोणञ्च भित्वा देवगृहान्तरम् | तन्मध्ये चापि षट्कोणं तन्मध्ये च त्रिकोणकम् || १२-१२ || क्रमेण विलिखेद् वर्णं दक्षिणावर्त्तयोगतः | ऊद्र्ध्ववामदेशभागे अ आ इ च कवर्गकम् || १२-१३ || तद्दक्षिणे ई इ युगं टवर्गञ्च लिखेद् बुधः | दक्षपार्श्वे अधोभागे ऋयुगं तु तवर्गकम् || १२-१४ || तदधो ऌ ॡ ए ए रूपञ्च पवर्गञ्च लिखेद् बुधः | तद्वामपार्श्वभागे च ओ औ यरलवान् लिखेत् || १२-१५ || शेषगेहे लिखेदं अः शादिक्षान्तं हि षड्गृहे | मध्यस्तमादिकोणे च एकाङ्कं शार्वकं तनुम् || १२-१६ || रुद्राग्निमूतीमनिलं अग्निकोणे लिखेद् बुधः | यजमानः पशुपतिमूतीषष्ठञ्च दक्षिणे || १२-१७ || महादेवं सोममूतीं सप्तमं नैरृते लिखेत् | जलमूत्तीभवं युग्मं पश्चिमे विलिखेद् बुधः || १२-१८ || उग्रवीरं वायुमूत्तीं वायुकोणे चतुर्थकम् | भीमरूपाकाशमूत्तीं पञ्चमं चोत्तरे लिखेत् || १२-१९ || ईशानं सूर्यमूतीञ्च ईशाने षड्दलं लिखेत् | अधः षट्कोणमध्ये च षट्कोणं विलिखेत्ततः || १२-२० || ऊद्र्ध्वकोणे ग्रीष्मकालं शिशिरञ्चापि दक्षिणे | वर्षाकालमधस्तस्य सर्वाधश्च वसन्तकम् || १२-२१ || शरत्कालं पञ्चकोशे शीतकालञ्च षष्ठके | त्रिकोणे चापि तन्मध्ये वह्निरूपं वकारकम् || १२-२२ || लिखित्वा गणयेन्मन्त्री वर्णदेवाङ्कवह्निभिः | एतच्चक्रं महासूक्ष्मं फलचक्रं विशारदम् || १२-२३ || अधुना कुलनाथेश पृष्ठचक्रं पुनः शृणु | विना ज्ञानेन यस्यैवं पृष्ठभावो न जायते || १२-२४ || यदि पृष्ठचक्रभावं जानाति साधकोत्तमः | तदा निजफलं ज्ञात्वा सिद्धिमाप्नोति निश्चितम् || १२-२५ || आनन्दभैरव उवाच षट्कोणं कारयेन्मन्त्री विना त्रिकोणसाधनैः | तन्मध्ये च चतुष्कोणं तन्मध्ये शादिवर्णकान् || १२-२६ || लिखित्वा विलिखेत्तत्र षडङ्कमध्यदेशतः | षडङ्कं दापयेन्मन्त्री दीर्घदीर्घक्रमेण तु || १२-२७ || तदग्रे षड्गृहं कुर्यात्तत्राङ्कार्णान् लिखेत्सुधीः | ऊद्र्ध्वप्रथमगेहे च कवर्गं विलिखेद् बुधः || १२-२८ || तद्दक्षिणे मन्दिरे च चवर्गं विलिखेद् बुधः | टवर्गं दक्षिणे चाधः सर्वाधस्तु तवर्गकम् || १२-२९ || तद्वामे मन्दिरे नाथ पवर्गं वर्णमङ्गलम् | तदूर्ध्वे यादिवान्तं च दक्षिणावर्त्तयोगतः || १२-३० || अकारादिस्वरान् तत्र मन्दिरे विलिखेद् बुधः | यावत् स्वरस्थितिर्याति तावत्कालं विचारयेत् || १२-३१ || मेषादिराशिसद्भावं वर्गलेखनमानतः | अनुलोमविलोमेन विलिखेत् षष्ठमन्दिरे || १२-३२ || यद्यद्गृहे साध्यनाम चास्ति नाथ स्वरादिकम् | एकत्रीकृत्य हरणात् यदङ्कं प्राप्यते वरम् || १२-३३ || षडङ्केन ततो नाथ हरेदनलसंख्यया | यदङ्कं प्राप्यते तत्र स राशिस्तत् क्षणस्य च || १२-३४ || आज्ञाचक्रं फलं सिद्धं विद्यानाथ वदामि तत् | येन विज्ञातमात्रेण सर्वज्ञो भवति ध्रुवम् || १२-३५ || अकस्मात् शक्तिमाप्नोति विद्यारत्नं ददामि तत् | रव्यादिसप्तवारञ्च कृते भद्रविवर्धनम् || १२-३६ || शन्यादिसप्तवारं च त्रेतायां सौख्यवर्द्धनम् | गुर्वादिसप्तवारञ्च द्वापरे धर्मसाधनम् || १२-३७ || शुक्रादिवारसप्तञ्च कलौ युगफलप्रदम् | अतः शुक्रादिपर्यन्तं गणनीयं विचक्षणैः || १२-३८ || गणयेत् सप्तवारञ्च मध्ये चतुद्र्दले सुधीः | पूर्वादिक्रमतो वारान् गणयेद् तन्त्रवित्तमः || १२-३९ || निजवारो यत्र पत्रे समाप्तिस्तूद्भवञ्च तत् | तद्भराशिं समानीय वर्णभेदं समानयेत् || १२-४० || सामान्यफलमूलञ्च वदार्णादिपत्रभेदतः | आज्ञाचक्रं शुभं मन्त्री आज्ञाचक्रं विचारयेत् || १२-४१ || तत्फलाफलमाहात्म्यं शृणु सङ्केतपण्डित || १२-४२ || आनन्दभैरव उवाच दले पूर्वभागे आकारार्ध इन्दु-- | स्फुटे राज्यलाभं हकारान्तशब्दम् | सामानार्थभावं विशिष्टार्थयोग| क्रतुक्षेमयुक्तं तथा पुत्रलाभम् || १२-४३ || दयायुक्तभूषाश्रयत्वं जयत्व| समाप्नोति मर्त्यो विवाहं सुवाहम् सुखं नाथ लोकानुरागं सुभोग| विभाधावकानां समाप्ते क्षणादिम् || १२-४४ || पद्मे दक्षिणपत्रके प्रियपदा मोददहं भास्वर| नानालक्षणदुःखदं शुचिपदा आन्दोलितस्तैरहम् | माहेन्द्रामृतयोगरागहननं साक्षाद्यमारोपण| चित्तानां परिचञ्चलं खलगुणाह्लादेन सामोदितम् || १२-४५ || पात्रार्थलाभं यदि वाध एव प्रगच्छति क्रूरखलप्रतापः | तथापि हन्तुं न च वर्णमध्ये क्षमः स्वसिद्धं भजते क्षमादि || १२-४६ || रसार्थप्रश्नं कुरुते यदि स्याद् वारो हि चारो गृहमध्यभागे | स्वकीय इन्दुप्रियवद् भवेद् ध्रुवम् मनोगतं सौख्यविवर्धनञ्च || १२-४७ || शत्रूणां हननं तदा कुलगतं सञ्चारवातं मुदा | रोगाणां परिमर्दनं प्रभुपदे भक्त्यथीनां ज्ञापनम् | आह्लादं हृदयाम्बुजेऽमृतधनं तीर्थागमं शोकह| सूक्ष्मार्थं गणयेत्ततः प्रचपला वाग्देवतादर्शनम् || १२-४८ || आथर्वे पत्रमध्ये निवसति कमला कोमला वाद्यदात्री | आगन्तव्यादिवार्ता कथयति सहसा सर्वदा मङ्गलानि | नित्यावश्यं प्रतापं प्रियगणहितां प्रेमभावाश्रयत्त्व| नित्यं कान्तामुखाम्भोरुहविमलमधुप्रेमपानाभिलाषम् || १२-४९ || मेषे तृप्तिमुपैति सिंह इषुभिः कुम्भेन तेषां फल| लाभं कुञ्जरघातकेषु रजतं चौर्येण यद्यद्गत | एवं कास्यविहारणं शतपले सूर्योदयात्तिष्ठति | प्रातः कालफलाफलं कथयति श्रीकेशरीमध्यगः || १२-५० || पश्यादेकशतं पलेन्दुधनुषा व्याप्तं यदा भूतले | वित्तानां हरणं तदा जलगते मित्रस्य राज्यादिकम् | दूरस्थादिकथागतादिसमयं शत्रोर्महापीडन| वाञ्छावर्गकुलोदयं समुदयात् सूर्यस्य चागण्यते || १२-५१ || शेषे चैकशते फले समुदिते कुम्भो महादुर्बली | दारिद्र्यस्य कथा कदा सुविषयं विद्यार्थभूषञ्च यम् | लाभं देशविदेशकार्यगमनं शीघ्रं धनाद्यागम| देवानां खलु दर्शनार्थकथनं व्यामोहसन्नाशनम् || १२-५२ || वारे शुक्रे शनिगतदिन लवटाहौ च सूर्ये | नित्यं ज्ञानोदयनिजपथ आयुषां निर्णयं तत् | अष्टौ वर्गानुदयति मुदा प्राप्य वीरो महत्त्व| लोको दोषं प्रथमखचरे चायुषां पृष्टमात्रम् || १२-५३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थबोधनिर्णये पाशवकल्पे आज्ञाचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे द्वादशः पटलः || १२ || अथ त्रयोदशः पटलः आनन्दभैरवी उवाच आज्ञाप्रश्नार्थभावञ्च वर्णविन्यासनिर्णयम् | अधुना शृणु सर्वज्ञ भावज्ञानपरायण || १३-१ || यदि मेषे स्वनक्षत्रं स्ववारसंयुतं शुभम् | ज्ञात्वा शुभादिपत्रञ्च पलमानेन साधकः || १३-२ || गणयेद् वर्णसारञ्च येन तत्प्रश्ननिर्णयः | पूर्वे दले ककारस्य वर्णभेदं शृणु प्रभो || १३-३ || मनसि सुखसमूहं प्राणसौख्यार्थचिन्ता | वसनगमनलाभं प्रीतिपुत्रार्थयोग्यम् | स्थिरपदमपि देशे दर्शनं प्राणबन्धोः | सकलकलुषहानिश्चादिपत्रे ककारे || १३-४ || सदा नृनासिके सुखं सुखोल्बणस्य सेवन| सदाशिवे च भक्तिदं स्वकीयगेहसत्फलम् | कलाधरस्य दृष्टिभिः प्रधानलोकपूजन| हिताहितं न बाधते विवाहकेलिना सुखम् || १३-५ || ऋकारं विपदां ध्वंसं धैर्ये विद्याविबोधनम् | व्याधिपीडादुर्जनानां पीडाप्रश्नं वदेत्तदा || १३-६ || उकारे वायुभावस्य वृथागमनमेव च | दारिद्र्यहानयोर्यान्ति दूरागमनदुर्लभम् || १३-७ || खकारे द्रव्यप्रश्नञ्च शुभकार्ये गते भयम् | आशु भयं समाप्नोति प्राप्य निर्धनतां व्रजेत् || १३-८ || पञ्चत्वजिज्ञासनमेव सत्यं नित्यं सुखानामुदयाय चेष्टा | शत्रोवीनाशाय हिताय बन्धोः पकारकूटे परचौरचेष्टा || १३-९ || कैवल्यादिसमापनं निजमनो दुष्टव्यापहं कामिना| नानाभोगविनाशनं कनकरौप्यराजप्रदं स्वके | मारीभीतिविरोधनं धनपतेरानन्दपुञ्जोदय| गोविद्याश्रियमाशु लाभविविधं धर्मार्थचिन्ताकुलम् || १३-१० || हरिपूजा हरिध्यानं हरिपादाम्बुजे रतिः | चौर्याहरणद्रव्यस्य न हानिर्जन्महार्दके || १३-११ || आकारे तेजसो हानिर्महाशब्दे विनाशनम् | आगतानाञ्च हानिः स्यात् पक्षपातं गतौ जयम् || १३-१२ || उशतो निजगेहस्था उल्बणव्याधिपीडनम् | उत्साहध्वंसशून्यञ्च पाठे पाण्डित्यमुल्बणम् || १३-१३ || दीर्घऌकारवर्णे च लावण्यलोचनो नृपः | लज्जानष्टक्षेमबुद्धिमीत्रतुल्यप्रियो भवेत् || १३-१४ || दीर्घप्रणवमोङ्कारे निराश्रयो न जीवति | महदाश्रयमात्रेण सर्वं चूर्णं करोति हि || १३-१५ || सिंहे कार्मुकमेषलग्नसमये नित्याशिषं प्राप्नुयात् | किञ्चिद्भाति पराक्रमी गतिमतां श्रेष्ठो भवेत् कर्मणि | किञ्चिद्दोषकुलापहं नरपतेरुत्साहसंवर्धन| क्रोधी नित्यपराक्रमी भवति सः शीघ्राभिलाषान्वितः || १३-१६ || अथ वक्ष्ये महादेव वीराणामुत्तमोत्तम | सर्वशास्त्रार्थतत्त्वज्ञ तत्त्वज्ञानपरायण || १३-१७ || दक्षिणस्थदलस्यापि वर्णभेदार्थनिर्गमम् | फलमत्यन्तनिष्कर्षं वाञ्छावाक्यफलप्रदम् || १३-१८ || कान्ते बीजे कमलनिलया गेहभागस्थिरा या | नानादेशभ्रमणभयदा नैव कुत्रापि सुस्था | चण्डोद्वेगापहसति खलानाञ्च हानिः प्रबुद्धो | वाणी वश्या वसति वदने चक्रिणां हानयः स्युः || १३-१९ || चारुप्रतापं चरणे गुरूणां भक्तिर्दृढा स्याद् गमनेषु चारु | तदागतानां नृपतिप्रियाणां सम्प्रेरणं चारुफलञ्च कूटे || १३-२० || कान्तेषु कान्तावदनारविन्दे सुषट्पदत्वं रमणीविलासम् | आयुः क्षयोद्वेगविनाशकरणं चाकर्षणं देशसुखं धनानाम् || १३-२१ || टकारे धारणं देशे सुखं शेषे निशामुखम् | विदेशस्थधनादीनां स्यादागमनमुत्तमम् || १३-२२ || दकूटमधनं विना भवति विघ्नहानिः सदा | जयं स्वगृहकामिनो कमलनेत्रकान्ता यथा | सुसिद्धकरमेव हि प्रबलभावनातो भवेत् | भवे जयति मानुषस्तु पृष्टस्य जिज्ञासने || १३-२३ || व्याख्यातं मुनिभिः फलं फलमयं कालं रिपूणां सदा | लोकानां वशकारणं कुलवरो वेदागमे पारगः | प्राप्नोति प्रियपुत्रकं नरपतेरुत्साहसं कारण| कार्ये दुर्जनपीडनं भयसमूहानां विनाशङ्कके || १३-२४ || यशसि वयसि तेजो बुद्धिरेव यकूटे | समयफलभूपोल्लासवृद्धिः समृद्धया | यजनमपि सुराणां चौर्यमात्रं न भूया-- दतिशयधनवृद्धिः क्रेयविक्रेयकाले || १३-२५ || शीतकाले धनप्राप्तिः स्वर्णरौप्यादिलाभकम् | पुत्रप्राप्तिः सुखप्राप्तिः सङ्कटे वदति ध्रुवम् || १३-२६ || लक्ष्मीः प्रियं धनं दातुं मुदिता भूमिमण्डले | जलेन जायते हानिर्लयं देवे न कूटके || १३-२७ || प्रश्नाद्यक्षरमित्यादिस्वरमूलं हि यो नरः | जिज्ञासनं यदा कुर्यात् तदा स्यादुत्कटं फलम् || १३-२८ || शृणु तत्तत् स्वरं नाथ एतत्पत्रस्थमाक्षयम् || १३-२९ || इकारकूलमङ्गले धनादितृष्णयान्वितोः | विशेषधर्मलक्षणं धनञ्च पैतृकं लभेत् || १३-३० || गतिप्रियं सुदेवता सुसम्पदं सदासुखम् | तथा हि सूक्ष्मबुद्धिभिः परास्तमाकरोदरिम् || १३-३१ || ईकारमपरप्रियं परमतध्वंससंवर्द्धनम् | विदेशगमनं नहि प्रभवतीह बाह्यं दया || १३-३२ || जगज्जनमभिप्रियं तरुणदोषसम्माननम् | विकाररहितं सुखं भवति पृष्ट आवेदके || १३-३३ || ए बीजे बद्धसन्तोषं कामनाफलसिद्धिदम् | वायुना हरणं चैव प्राप्नोति नृपमाननम् || १३-३४ || अमीत्येकाक्षरे बीजे बीजभूते जगत्पतेः | प्राप्नोति कन्यादानादिफलं वस्त्रञ्च तैजसम् || १३-३५ || गोकन्यामकरे खगे खगचरता सौन्दर्यलक्ष्मीर्भवेत् | शेषे काञ्चनपुञ्जलाभमतुलं सन्तोषसारं गतौ | संसारे निजदायिका स्वजनता रत्नादिकं सञ्चय| सर्वं सञ्चयति प्रभो हितकरं प्रश्नार्थमाद्याक्षरे || १३-३६ || तृतीयदलमाहात्म्यं यद् यद् वर्णे विचारयेत् | प्रश्नाद्यक्षरवर्णेषु नीत्वा च गगनं चरेत् || १३-३७ || तत्प्रकारं शृणु प्राणवल्लभ प्रेमपारग | यज्ज्ञानात् प्रश्नसिद्धिः स्यादकालफलदं नृपम् || १३-३८ || दृष्ट्वा ज्ञात्वा भावराशिमुत्तमाधममध्यमम् | लोकभावविधानज्ञो निजविद्यादिकं तथा || १३-३९ || सर्वं विषयरूपेण भावसारं विचारयेत् | गबीजं मङ्गलं ज्ञेयं फलमत्यन्तभाग्यदम् || १३-४० || गतद्रव्यादिलाभञ्च तथा लोकवशं फलम् || १३-४१ || दकारकूटे कठिनं रिपूणां विद्रावणं धर्मविनाशकस्य | भूमिपतेर्वा मरणं विनाशनं दिव्याङ्गनाया वररत्नलाभम् || १३-४२ || टकारे दूरगानाञ्च दर्शनं भवति ध्रुवम् | उद्वाहः पुत्रसम्पत्तिः षष्ठमासेन लभ्यते || १३-४३ || टान्ते चौरभयं नास्ति तद्द्रव्यागमनं भवेत् | विधिविद्याप्रकाशेन शिवे विष्णौ च भक्तिमान् || १३-४४ || धकारकूटे धरणीपतित्त्वं व्याधेर्भयं नास्ति तथा पशोश्च | प्रवेशमात्रेण गतौ कलापि जीवादिसम्पत्तिमुपैति लक्ष्मीम् || १३-४५ || रबीजे सिद्धः सम्यक् खगकुलवरो धीरगमनम् | वाञ्छातुल्यं विभवमतुलं राजराज्यप्रियं स्यात् | प्रतापं साम्राज्यं सकलहितगोलोकरसता | रसं सर्वं लोकं प्रियमतिसुखं लाभविविधम् || १३-४६ || चकारे वह्निबीजे च जितं सर्वं चराचरम् | यथा क्रमेण सर्वत्र गमने भाग्यदं फलम् || १३-४७ || षकारमध्यमे देशे वार्त्तादेशादुपैति हि | पत्रिकागमनं कार्यं यः करोति धनं लभेत् || १३-४८ || क्षकारे सख्यभावञ्च मित्रभावं यदा लभेत् | सुप्रीतिश्च भवेत्तस्मात् तदा प्रश्नभयं न च || १३-४९ || स्वराज्ये च भवेत् सौख्यं पुष्पजिज्ञासकर्मणि | हसनान्ते तथा वर्णे पाचकं देहि चादिदम् || १३-५० || यदि स्यादुच्यते नाथ विपरीतफलं न च || १३-५१ || दीर्घीकारे विषयघटना नाथ पादेः मतिः स्याद् | यद्यारम्भो भवति कुलनं दीर्घजीवी नरेन्द्रः | बालापत्यं गमयति मुदा कालदेशाधिकारी | लोकारण्ये सकलकलुषध्वंसहेतोर्मृगेन्द्रः || १३-५२ || सुखञ्चचार चाष्टमे महाधनेशसन्निधौ | प्रबुद्धवान् भवेन्नरः समाहितो भवेद् ध्रुवम् | विचित्रचातुरी यदा महाकुचोरगा प्रभो | प्रहस्यते क्षणादपि प्रभातसूर्यदर्शनात् || १३-५३ || अतीव धैर्यतां लभेत् विचित्रवाग्भवेज्जयम् | जयेन सेवितं पुरा पुराण वाक्यलाभक| जगज्जनादिसेवनं लभेत् (वा यदि स्वयं?) || १३-५४ || न चाकुलागमं गयागभीरतुल्यसत्फलम् | सदा हि पुण्यसागरे गुरोः पदाम्बुजं लभेत् || १३-५५ || विसर्जनीये सुस्वरे समाप्तिकोमलान्वितम् | जनागमं धनागमं विशालवेदनान्वितम् || १३-५६ || मनोगतं कुबुद्धिदं स्वकीयबन्धुसज्जनम् | विसर्जनं कुलक्षणं भवेल्लभेत् कुबन्धनम् || १३-५७ || सकुलं निष्कुलं कान्तं विदुः श्रेष्ठा महर्षयः | हास्यसुखे हास्यफलं भावनायां भवेन्नहि || १३-५८ || क्रोधक्रमेणैव तदैव चक्षुषो-- वीकारभावेन हरेत् समस्तम् | शीर्षे करौ चेत् कलिकालसंयुत| फलं हि लाभे वध एव भूषणम् || १३-५९ || शेषे वेददले वराभयकरे हारावशब्दापहा | दूरादागमनं भवेद्धि नियतं बालागणैरावृतम् | घोरापायविसर्जनं जलगुणाह्लादेन सामोदित| कूटे कूटघकारवर्गलहरी भासापभासारसे || १३-६० || जवर्गे जतुकं स्वर्णं जीवनोपायचिन्तनम् | जराव्याधिसमाक्रान्तं जीर्णवस्त्रापहारणम् || १३-६१ || ठकारकूटे यदि चक्रवर्ती | भूमण्डले स्यात्पततीति निश्चितम् | अन्तःसुखं हन्ति यदादिभावे | ठकारमात्रेण रिपूत्तमो भवेत् || १३-६२ || आद्यप्रश्नाक्षरं नाथ तकारं तरुणप्रियम् | पापान्धकार पटलध्वंसाय कल्पयते तदा || १३-६३ || नकारमाद्ये यदि प्रश्नवाग्मी जिज्ञासमानो ध्रुवमर्थसञ्चयम् | आलापमात्रेण नरा वशा स्युः प्रवेशनं राजकुलेन्द्रसन्निधौ || १३-६४ || भीतो भवति देशे च भयस्थाने न दुःखभाक् | भूषासम्पत्तिवृद्धिश्च भकारकूटमङ्गले || १३-६५ || लोकानुरागं सर्वत्र आद्यक्षरविचारतः | लकारस्यापि लोकेश भार्यादुःखं विमुञ्चति || १३-६६ || सकारे मैथुनं कान्ताकुलस्य कुलवर्द्धनम् | धनवृद्धिर्वंशवृद्धिः सरस्वतीकृपा भवेत् || १३-६७ || वेदपत्रे अकारस्य फलमाहात्म्यनिर्णयम् | शृणु नाथ प्रवक्ष्यामि सावधानाऽवधारय || १३-६८ || ककारादि क्षकारान्तं व्याप्त तिष्ठति तत्त्वतः | अकारेण विना शक्तिर्ज्जायते कुत्र न प्रभो || १३-६९ || अकारे ग्रथितं सर्वं चराचरकलेवरम् | यद्यकारमाद्यभागे प्रश्नजिज्ञासने भवेत् || १३-७० || कुफलेऽपि सत्फलानां सञ्चयं भवति ध्रुवम् | शत्रूणां वासहेतोर्धनादीनाञ्चैव सञ्चये || १३-७१ || अन्तर्यजनविद्यासु लोकस्यागमने तथा | निजदुःखानुतापे स्याद्यकारविधिरुच्यते || १३-७२ || उकारफलमाहात्म्यं शृणु प्रश्नार्थपण्डित | उषाकाले चौर्यप्रश्नमुल्लासं मानसोद्धमम् || १३-७३ || उत्तमस्थलवासञ्च उत्कृष्टभोजनादिकम् | उल्बणाबुद्धिरुत्पत्तिरुमादेवीपदे मतिः || १३-७४ || रकारलक्षणं चक्षुः शब्दस्य वचनं भवेत् | लोचने दर्शनं स्त्रीणां लिखनं दूरसम्भवम् || १३-७५ || प्राप्नोति परमां लक्ष्मीं लोकवश्याय केवलम् | लाङ्गलानां सञ्चयञ्च भूमिलाभो भवेद् ध्रुवम् || १३-७६ || ओकारे राज्यवृद्धिः स्यात् पुत्रवृद्धिस्तथैव च | सदा सन्तोषमाप्नोति प्रणवः सर्वसिद्धिदः || १३-७७ || मीने कर्कटराशिवृश्चिकतुले धर्माग्निभानूदये | गेहे वेदविचारणे शुभफलं श्रीलाभगत्युन्नतिम् | विद्यावेदकथादिकं जयवतामानन्दसिन्धोः फल| प्राप्नोति प्रतिपत्तिसिद्धपदवीं मर्त्यो मुदा हर्षणम् || १३-७८ || पत्रप्रमाणं कथितं हीनविद्याविनिर्गमम् | पुनः शृणु महाकालकलिकालस्य उद्भवम् || १३-७९ || यद्यन्मासस्य प्रथमे तथा चाह्नोऽर्भकस्य च | दण्डद्वये शुभफलं प्रथमस्य महेश्वर || १३-८० || तृतीयैकदण्डमात्रं विपरीतफलप्रदम् | तत्र दण्डेषु नक्षत्रं यदि चेन्नाशुभं भवेत् || १३-८१ || अश्विन्याद्यष्टनक्षत्रं पूर्वप्रथमपत्रके | तत्सुतारं विजानीयात् दुष्टदोषे सुखं भवेत् || १३-८२ || आश्लेषाभादिचित्रान्तं द्वितीये दक्षिणे दले | तत्फलं विपरीताख्यं सफलेऽपि फलापहम् || १३-८३ || स्वात्यादिवसुनक्षत्रं तृतीयाधोदले लिखेत् | तत्सुतारं क्रमाज्ज्ञेयं नान्यथाशुभमानयेत् || १३-८४ || तत्फलार्थं कुत्सितञ्च विपरीतफलस्थले | अशुभं तत्फलस्थाने कुफले सुफलं भवेत् || १३-८५ || उत्तराषाढकातारादिरेवत्यन्तमेव च | तत्फलं तु भवेद् मर्त्यो यदि कर्मपरो भवेत् || १३-८६ || अथ वक्ष्ये महादेव अश्विन्यादिफलं प्रभो | यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्ष्वादिरक्षकाः || १३-८७ || तत्प्रकारं महापुण्यं देवदेव फलोद्भवम् || १३-८८ || त्रैलोक्ये सौख्यपूजां त्रिभुवनविदितां त्रैगुणाह्लादसिद्धा| सिद्धभ्रान्तो विशालो वरदविदलितां वेदनार्द्रापशङ्काम् | मन्दानां मन्दभाग्योपहगुणहननं हीनदीनापदाहा| लोकानां सत्फलानां फलगतवपुषा साश्विनी सा ददौ चेत् || १३-८९ || एवं क्रमेण देवेश तारकाणां फलाफलम् | पुनः पुनः शृणु प्राण--वल्लभ प्रेमभावक || १३-९० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे आज्ञाचक्र-- सारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे त्रयोदशः पटलः || १३ || अथ चतुर्दशः पटलः आनन्दभैरवी उवाच अथातः सम्प्रवक्ष्यामि योगमार्गेण शङ्कर | भरण्यादिसप्तविंशान् नक्षत्रार्थं सुसत्फलम् || १४-१ || तत्फलाफलमाहात्म्यं साक्षात्कारकलेः फलम् | फलार्थं भरणीक्षेत्रं धर्मविद्यादिनिर्णयम् || १४-२ || धर्मचिन्ताविनिर्बोधं गमनाभावमङ्गलम् | मकारादिवर्णजातां प्राप्नोति भरणीं भके || १४-३ || कृत्तिकायां शादिवर्णं व्याधिशङ्करसंक्षयम् | आरोग्याय धनस्यार्थे तत्र सूर्यं न चाचरेत् || १४-४ || या रोहिणी धनवतां धनहानयोर्न | प्राणप्रियं गणसुबुद्धविबुद्धिशुद्धिम् | नागादिदोषशमनं क्षितिचक्रमध्ये | राजश्रियं विबुधशुद्धिमुपैति वृद्धिम् || १४-५ || गृगेन्द्रशीर्षगामिनी नरेन्द्र मन्दिरे निधि| ददाति पापनिर्मले जले घन्यशून्यके | भयं विवाहकालके कुले शुभं शुभेक्षणा | स्वकीयकिल्बिषं दहेदनन्तबुद्धिसञ्चयम् || १४-६ || आर्द्राविद्रुमरूपिणी रतिकलाकोलाहलोल्लासिनी | सा मत्यार्पणमेव सम्प्रकुरुते काले फलालापनम् | सौख्यं मुख्यसमृद्धिदा दरदलाम्भोजच्छटालिम्पटा | सा धीरं परिरक्ष्यति प्रतिदिनं शान्तं दृशान्तं दहेत् || १४-७ || पुनर्वसुसुतारिका तरुणरूपकूपा कृपा-- | विशिष्टफलभावनारहितचित्तदोषापहा | धनमन्तपरिमाणगं प्रचुरशोकसङ्घापहा | प्ररक्षति महाग्रहः परमपीडितं मानुषम् || १४-८ || पुण्या पौषमाकरोति सहसा तेजस्विनां कान्तिदा | कान्तायाः कनकादि--लाभविपदां ध्वंसेन वंशादिदा | बाधायां फलदा मृगा मृगपतेरानन्दतुल्यं श्रियम् | काद्या पञ्चमवर्णज्ञानललिता पातीह पुत्रं यथा || १४-९ || एतद्धि पूर्वपत्रान्ते तारा मङ्गलदायिकाः | प्रतिभान्ति यथा चक्रे ग्रहाणां भ्रामणे शुभे || १४-१० || विपरीतफलं नाथ प्राप्नोति पातके बहु | पुष्यायां स भवेत् क्रूरः कर्कटस्थोऽपि भास्करः || १४-११ || एतासां तारकाणाञ्च राशिदेवान् शृणु प्रभो | मेषः सिंहो धनुश्चैव अश्विन्यादिकदेवताः || १४-१२ || येषां राशिस्थितं वर्णं न हानिवीषयास्पदे | सर्वत्र जयमाप्नोति ग्रहे क्रूरेऽपि सौख्यदः || १४-१३ || विभिन्नराशौ संभिन्नो धर्मनिन्दाविवजीतः | स्वनक्षत्रफलं ज्ञात्वा प्रश्नार्थं कोमलं वदेत् || १४-१४ || तत्तन्नक्षत्रसुफलं कुफलं वा भवेद्यदि | तदा वर्णविचारञ्च कृत्वा पुष्पं तदा वदेत् || १४-१५ || अक्षमालाक्रमेणैव तद्वर्णानां विचारतः | तत्तद्वर्णविचारे तु यद्यत् सौख्यं प्रवर्त्तते || १४-१६ || अधिके दोषजाले तु अधिकं दुःखमेव च | बहुसौख्यं नित्यसौख्यं प्राप्नोति साधकोत्तमः || १४-१७ || एतासां तारकाणां तु वारान् शृणु यथाक्रमम् | रव्यादिरविवारान्तं ताराणामधिपं शुभम् || १४-१८ || अशुभञ्च तथा रुद्र ज्ञात्वा प्रश्नार्थमावदेत् | तद्वारनिर्णयं वक्ष्ये पूर्वपङ्केरुहे दले || १४-१९ || रवौ राज्यं बालकानां यदि प्रश्नं प्रियं फलम् | धर्मार्थलाभमेवं हि त्रयोविंशाधिके नरे || १४-२० || संहितं परमानन्दं योगेन तत्त्वचिन्तनम् | इत्यादि रविवारस्य वृद्धानामशुभं शुभे || १४-२१ || सोमे रत्नमुपैति देवकुसुमामोदेन पूर्ण सुखम् | बालायां नवकन्यका शुभफलं मुद्रामयार्थ लभेत् | कैवल्यार्थविचेष्टनं नृपवधूप्रेमाभिलापः सदा | वाञ्छा पुण्यसुखास्पदेषु विमला भक्तिश्च सोमे दिने || १४-२२ || पृथ्वीपुत्रो रुधिरवदनो बालबाली विशेषो | मुख्यं कार्यं दहति सहसा साहसं वासनायाम् | हन्ति प्रायो विफलघटितं शोकसन्तानसार| मोक्षं पुण्यं घटयति सदा मङ्गले भूमिवारे || १४-२३ || बुधे वारमुख्ये महापुण्यपुञ्ज| समाप्नोति मर्त्यस्तथा दुर्बलञ्च | सदा कालदोषं महाघोरदुःख| रिपूणां धनीनां महावीर्यदर्पम् || १४-२४ || सुराणां देवानां विविध धनलाभं वितरण| प्रतापं सत्कीत्ती क्रतुफलविशेषं विधिगतम् | जनानामानन्दं समर वसगतानन्द हृदये | प्रतिष्ठा सद्धर्मं गमयति मुदा वासनगुरौ || १४-२५ || मन्दारमालान्वित देहधारी नाकस्थले गच्छति देवनिष्ठः | हरेः पदे भक्तिमुपैंति सत्यं प्रसाधनात् शुक्रसुवारकाले || १४-२६ || शनैश्चरदिने भयं भुवनदोषमोहान्वित| क्षितिप्रियसुतप्रियं परमतारकं स्त्रीसुखम् | विशिष्टधननीरदं वयसि सिद्धिरृद्ध्यर्कज| भजन्ति यदि मानुषाः सकलकामनादेः प्रभोः || १४-२७ || पुनश्च रविवारगं फलमतीव दुःखास्पद| प्रचण्डकिरणं सदा विकललोकरोगापहम् | तमेव परिभावनं परिकरोति यो वा नरो | न नश्यति कदाचन प्रचुरतापशापाकरम् || १४-२८ || कलाधरफलं शृणु प्रणवबाह्यसूक्ष्माश्रय| समग्रखचराफलं फलवतां हि सञ्ज्ञाफलम् | गभीरवचनं नृपप्रियकरस्य रक्षाकर| यदीन्दुभजनं यदा कलिशुभादिशम्भोऽकरोत् || १४-२९ || द्वितीयदलमाहात्म्यं नक्षत्रमण्डलावृतम् | तत्तत्ताराफलं वक्ष्ये येन प्रश्नार्थनिर्णयः || १४-३० || अश्लेषा बहुदुःखवादनगतं व्यामोहशोभावृत| नानाभृङ्गनिषेवणं धनवतां हानिः पदे सम्पदे | भूपानां परिवर्ज्जनं खलजनैराच्छादितं तापित| सन्दद्यात् क्षितिजातिभाति नियतं कोलाहले नारके || १४-३१ || मघायां महेशि धनं हन्ति मध्ये महोल्लासवृद्धिं भयं तस्य शत्रोः | क्षितिक्षोभहन्तारमेत्यन्तभावं कुकामातुराणां सदा सङ्गकारम् || १४-३२ || पूर्वफल्गुनिनक्षत्रे दूरगानां फलं पठेत् | अतिधैर्यं शत्रुपक्षे हानयो यान्ति निश्चितम् || १४-३३ || फलमुत्तरफल्गुन्या दीयते गतिरीश्वरी | यदि देवपरो नाथ तदा सर्वत्र सुन्दरम् || १४-३४ || हस्तामस्तकव्रीडया शुभविलोकत्रये भाग्यदा | रक्ताङ्गीगतिचञ्चलामलगुणाह्लादेन कल्याणदा | सा नित्यं प्रददाति रुक्मशतकं भक्ताय यज्ञाथीने | नानाव्यञ्जनभोजनैरतिसुखी संज्ञासमूहं ददेत् || १४-३५ || ददाति वित्तं जगतीह चित्रा मनोरथं व्याकुलतामलङ्कृता | कदाचिदेवं हि शरीरदुःखदं न प्राप्नुयादीश्वरभक्तिमालभेत् || १४-३६ || अश्लेषानाथ शुक्रो विपदमपि कदा नो ददाति प्रदुःख| दक्षे पत्रे विहारोत्तरभयहराचण्डतापं न हन्ति | जीवः श्रीमानमोघाशाधनमपि विविधं ब्राह्मणः पीतवर्णः | पूर्वान्तःफल्गुनीशो विधुतनुजवरो नीलवर्णः स्वपत्रम् || १४-३७ || कुरुते बहुसुखवित्तं उत्तरफल्गुनीनाथो मङ्गलेन | हस्तायाः पतिश्चन्द्रो विभवमनन्तं चित्रेशो रविः || १४-३८ || अधस्तृतीयपत्रस्य नक्षत्राणि शृणु प्रभो | यासां वारविशिष्टानां प्रश्ननिष्कर्षसत्फलम् || १४-३९ || स्वातीं रविः पाति महोग्र तेजसा | विनाशकाले विपरीतबुद्धिदः | इन्दुवीशाखां सुखदः सरस्वती| कुजोऽनुराधां विपदां प्रबाधाम् || १४-४० || बुधो हि पायात् सकलार्थसाधिनी| तथा हि मूलां सुखदाञ्च जीवः | तदा धनार्थं प्रददाति शुक्रः | पूर्वान्विताऽऽषाढिकयाऽन्वितः सुखम् || १४-४१ || चतुर्थपत्रं वामस्थं महामङ्गलकारणम् | अथर्ववेदरूपं तत् सर्वप्रश्नकथावृतम् || १४-४२ || विपरीते महद्दुखं वर्णसौख्येऽपि हानयः | भवन्ति तारकाणाञ्च शुभदृष्टया महोदयाः || १४-४३ || तत्तारकानाथगुणं शुभाशुभफलप्रदम् | प्रश्नवर्णसमूहानां मतमालोक्य निर्णयम् || १४-४४ || शनिः पात्युत्तराषाढां हानिरूपां विपाकदाम् | दुःखदारिद्र्यसंयुक्तां देवनिष्ठेन बाधते || १४-४५ || रविः प्रपाति श्रवणां धनादिभिः प्रधानदेवाश्रयनिवीकल्पाम् | तथा धनिष्ठां फलदां सुधांशुः कुजो विपत्तिं शतभिग्गणेशः || १४-४६ || पूर्वभाद्रपदानाथो बुधः काञ्चनवर्धनः | तथा लोकं महादेवोत्तरभाद्रपदापतिः || १४-४७ || बृहस्पतिः सुखोल्लासं रेवती शस्तथा भृगुः | ददाति परमाह्लादं स्वस्व पत्रस्थराशिभिः || १४-४८ || अभिजित्तारकं पाति शनिः श्रीमान् धनप्रदः | फलभागं मुदा दातुं शनी राजमृगान्तिके || १४-४९ || तच्चन्द्रोच्चस्थमिति के वदन्ति परमप्रियम् | राहुराजा ग्रहाः क्षेत्रे अभिजित् कालवेष्टितः || १४-५० || तत्कालं सूक्ष्मतद्रूपं यो जानाति महीतले | सन्ध्याकालमिति ज्ञेयं शनिराहू सुखान्तयोः || १४-५१ || तत्सन्धिकालमेवं हि सत्त्वगुणमहोदयम् | तत्कुम्भकं विजानीयान्मदीय देहसम्भवम् || १४-५२ || महासूक्ष्मक्षणं तद्धि कुण्डलीमण्डलं यथा | तस्याः प्रथमभागे च धारणाख्यः शनिः प्रभुः || १४-५३ || स्वयं ब्रह्मा मुदा भाति निरञ्जनकलेवरः | तस्याः शेषे रेचनाख्यः संहारविग्रहः शुचिः || १४-५४ || राहुरूपी स्वयं शम्भुः पञ्चतत्त्वविधानवित् | कालरूपी महादेवो विकटास्यो भयङ्करः || १४-५५ || सर्वपापानलं हन्ति चन्द्ररूपी सुधाकरः | कृष्णवर्णः कालयमः पुण्यापुण्यनिरूपकः || १४-५६ || द्वयोर्मध्ये सूक्ष्मरूपा तडित्कोटिसमप्रभा | महासत्त्वाश्रिता देवी विष्णुमायाग्रहाश्रिता || १४-५७ || अभिजित्तारका सूक्ष्मा सन्धिकाललया जया | कुम्भकाक्रान्तहृदया ग्रहचक्रपुरोगमा || १४-५८ || नक्षत्रमण्डलग्राममध्यस्था तिथिषोडशी | असामयी सूक्ष्मकला तरुणानन्दनिर्भरा || १४-५९ || अस्या आद्यभागसंस्थो ब्रह्मरूपी रजोगुणः | अस्याः शेषः कालरूपी तमोगुणलयप्रियः || १४-६० || चन्द्रो ब्रह्मा शिवः सूर्यो महामायातनूत्तरः | आत्रेयी परमा शक्तिः सुषुम्नान्तरगामिनी || १४-६१ || मध्यस्था ब्रह्मशिवयोवीधिशास्त्रस्य सिद्धिदा | यैर्ज्ञायते सर्वसंस्था सर्वानन्दहृदि स्थिता || १४-६२ || तैरानन्दफलोपेतैः सत्त्वसम्भोगकारिणी | महाविष्णुर्महामाया चन्द्रतारास्वरूपिणी || १४-६३ || मुक्तिदा भोगदा भोग्या शम्भोराद्या महेश्वरी | अज्ञानावृतता घोरान्धकारकालसंहारहंसिनी || १४-६४ || मन्दवायुप्रिया यस्य कल्पनार्थे च वीरहा | सा पाति जगतां लोकान् तस्याधीनमिदं जगत् || १४-६५ || नाकाले मिरयते कश्चिद् यदि जानाति वायवीम् | वायवी परमा शक्तिरिति तन्त्रार्थ निर्णयः || १४-६६ || सूक्ष्मागमनरूपेण सूक्ष्मसिद्धिं ददाति या | नराणां भजनार्थाय अष्टैश्वर्यजयाय च || १४-६७ || कथितं ब्रह्मणा पूर्वं शिष्याय तनुजाय च | लोभमोहकामक्रोधमदमात्सर्यहाय च || १४-६८ || तत्क्रमं परमं प्रीतिवर्धनं भूतले प्रभो | आज्ञाचक्रस्य मध्ये तु वायवी परितिष्ठति || १४-६९ || चन्द्रसूर्याग्निरूपा सा धर्माधर्मविवजीता | मनोरूपा बुद्धिरूपा शरीरं व्याप्यं तिष्ठति || १४-७० || आज्ञा द्विदलमध्ये तु चतुद्र्दशमुदाहृतम् | वेददले वेदवर्णं वादिसान्तं महाप्रभम् || १४-७१ || तदग्निरूप सम्पन्नम् ऋग्वेदादिसमन्वितम् | शृणु तद्वेदमाहात्म्यं क्रमशः क्रमशः प्रभो || १४-७२ || इति श्री रुद्रयामले उत्तरतन्त्रे भावप्रश्नार्थनिर्णये आज्ञाचक्रसङ्केते वेदप्रकरणे भैरवी भैरवसंवादे चतुर्दशः पटलः || १४ || अथ पञ्चदशः पटलः आनन्दभैरवी उवाच देवकार्यं वेदशाखापल्लवं प्रणवं परम् | वदामि परमानन्द भैरवाह्लादमाशृणु || १५-१ || आद्यपत्रे अकारञ्च ऋग्वेदं परमाक्षरम् | ब्रह्माणं तं विजानीयाद् आद्यवेदार्थनिर्णयम् || १५-२ || वेदेन लभ्यते सर्वं वेदाधीनमिदं जगत् | वेदमन्त्रविहीनो यः शक्तिविद्यां समभ्यसेत् || १५-३ || स भवेद्धि कथं योगी कौलमार्गपरायणः | श्रीआनन्दभैरव उवाच ब्रह्मस्तोत्रं हि किं देवि! ब्रह्मविद्या च कीदृशी? || १५-४ || ब्रह्मज्ञानी च को वा स्यात् को वा ब्रह्मशरीरधृक् | तत्प्रकारं कुलानन्दकारिणि प्रियकौलिनि || १५-५ || वद शीघ्रं यदि स्नेहदृष्टिश्चेन्मयि सुन्दरि | श्री आनन्दभैरवी उवाच तदेव ब्रह्मणः स्तोत्रं वायवीशक्तिसेवनम् || १५-६ || सूक्ष्मरूपेण मग्ना या ब्रह्मविद्या प्रकीतीता | सदा वायू प्राणरससूक्ष्मोन्मत्तप्रसन्नधीः || १५-७ || एकान्तभक्तिः श्रीनाथे ब्रह्मविद्या प्रकीतीता | अष्टाङ्गन्यासनिहतः सूक्ष्मसञ्चारहृत् शुचिः || १५-८ || सदा विवेकमाकुर्याद् ब्रह्मज्ञानी प्रकीतीतः | ब्रह्मानन्दं हृदि श्रीमान् शक्तिमाधाय वायवीम् || १५-९ || सदा भजति यो ज्ञानी ब्रह्मज्ञानी प्रकीतीतः | विजयारससारेण बिना बाह्यासवेन च || १५-१० || वायव्यानन्दसंयुक्तो ब्रह्मज्ञानी प्रकीतीतः | सदानन्दरसे मग्नः परिपूर्णकलेवरः || १५-११ || आनन्दाश्रुजलोन्मत्तो ज्ञातो ब्रह्मशरीरधृक् | शक्तिः कुण्डलिनी देवी जगन्मातास्वरूपिणी || १५-१२ || प्राप्यते यैः सदा भक्तैः मुक्तिरेवागमं फलम् | आद्यपत्रे प्रतिष्ठन्ति वर्णजालसमाश्रिताः || १५-१३ || वायवीशक्तयः कान्ता ब्रह्माण्डमण्डलस्थिताः | राशिनक्षत्रतिथिभिः सर्वदोज्ज्वलनायिकाः || १५-१४ || भवानी ब्रह्मशक्तिस्था साऽवश्यमेवमाश्रयेत् | मासेन जायते सिद्धिः खेचरी वायुशोषणी || १५-१५ || द्विमासे वज्रदेहः स्यात् क्रमेण वर्धयेत् पुमान् | द्विमासे कल्पसंयुक्तो यस्य सम्बन्धरूपतः || १५-१६ || चैतन्या कुण्डली शक्तिर्वायवी बलतेजसा | चैतन्यसिद्धिहेतुस्था ज्ञानमात्रं ददाति सा || १५-१७ || ज्ञानमात्रेण मोक्षः स्याद् वायवी ज्ञानमाश्रयेत् | महाबली महावाग्ग्मी वर्धते च दिने दिने || १५-१८ || आयुर्वृद्धिः सदा तस्य जरामृत्युविवजीतः | कुण्डलीकृपया नाथ विना किञ्चिन्न सिद्ध्यति || १५-१९ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरञ्च सदाशिवः | ततः परशिवो देव वायवी परिकल्पिता || १५-२० || एते षट्शङ्कराः सर्वसिद्धिदाः चित्तसंस्थिताः | सर्वे तिष्ठन्ति पत्राग्रेऽमृतधारारसाप्लुताः || १५-२१ || अधोमुखाः सूक्ष्मरूपाः कोटिसूर्यसमप्रभाः | ब्रह्ममार्गस्थिताः सर्वे सन्ति षट्चक्रमण्डले || १५-२२ || आज्ञया अध एवं हि चक्रं द्वादशकं स्मरेत् | गलितामृतधाराभिराप्लुतं कुण्डलीप्रियम् || १५-२३ || आग्नेयीं कुण्डलीं मत्त्वा अधोधाराभितर्पणम् | प्रकुर्वन्ति परानन्दरसिकाः षट्शिवाः सदा || १५-२४ || चन्द्रमण्डलसञ्जाता जीवरूपधरा यथा | आत्मज्ञानसमाशक्ताः शक्तितर्पणतत्पराः || १५-२५ || द्वितीयदलरूपं हि यजुर्वेदं कुलेश्वर | अकस्मात् सिद्धिकरणं विष्णुना परिमीलितम् || १५-२६ || वज्रकोटिमहाध्वानघोरनादसमाकुलम् | हरिमीश्वरमीशानं वासुदेवं सनातनम् || १५-२७ || सत्वाधिष्ठान विनयं चतुर्वर्गफलप्रदम् | वाञ्छातिरिक्तदातारं कृष्णं योगेश्वरं प्रभुम् || १५-२८ || राधिका राकिणी देवी वायवीशक्तिलालितम् | महाबलं महावीरं शङ्खचक्रगदाधरम् || १५-२९ || पीताम्बरं सारभूतं यौवनामोदशोभितम् | श्रुतिकन्यासमाक्रान्तं श्रीविद्याराधिका प्रभुम् || १५-३० || दैत्यदानवहन्तारं शरीरस्य सुखावहम् | भावदं भक्तिनिलयं यदा सागर चन्द्रकम् || १५-३१ || गरुडासनसमारूढं मनोरूपं जगन्मयम् | यज्ञकर्मविधानज्ञं आज्ञाचक्रोपरि स्थितम् || १५-३२ || अधः परामृतरसपानोन्मत्तकलेवरः | साधको योगनिरतः स्वाधिष्ठानगतं यथा || १५-३३ || तदाकारं विभाव्याशु सिद्धिमाप्नोति शङ्कर | को वैष्णवो वाजिकः को धामीको वापि को भुवि || १५-३४ || को वा भवति योगी च तन्मे वद सुरेश्वरि | आनन्दभैरवी उवाच शङ्कर शृणु वक्ष्यामि कालनिर्णयलक्षणम् || १५-३५ || वैष्णवानां वैष्णवत्वं आज्ञाचक्रे फलाफलम् | आज्ञाचक्रं महाचक्रं यो जानाति महीतले || १५-३६ || तस्याऽसाध्यं त्रिभुवने न किञ्चिदपि वर्तते | सदा शुचिर्ध्याननिष्ठो मुहुर्जाप्यपरायणः || १५-३७ || स्मृतिवेदक्रियायुक्तो विधिश्रुतिमनुप्रियः | सर्वत्र समभावो यो वैष्णवः परिकीतीतः || १५-३८ || समता शत्रुमित्रेषु कृष्णभक्तिपरायणः | योगशिक्षापरो नित्यं वैष्णवः परिकीतीतः || १५-३९ || यजुर्वेदाभ्यासरतः सदाचारविचारवान् | सदा साधुषु संसर्गो वैष्णवः परिकीतीतः || १५-४० || विवेकधर्मविद्यार्थी कृष्णे चित्तं निधाय च | शिववत् कुरुते कर्म वैष्णवः परिकीतीतः || १५-४१ || यज्ञिको ब्राह्मणो धीरो भवः प्रेमाभिलाषवान् | वनस्थो घोरविपिने नवीनतरुशोभिते || १५-४२ || एकाकी कुरुते योगं जीवात्मपरमात्मनोः | वायवग्नी रेचकः सूर्यः पूरकश्चन्द्रमा तथा || १५-४३ || ज्वलच्छिखा सूर्यरूपा न च योजनमेव च | पुनः पूरकयोगश्च चन्द्रस्य तेजसा हविः || १५-४४ || ऊद्र्ध्वविषा ज्वलद्वह्नौ वायवीबलचञ्चले | योऽनिशं कुरुते होमं मौनी याज्ञिक उच्यते || १५-४५ || जीवसूर्याग्निकिरणे आत्मचन्द्राद्यपूरकैः | काये यः कुरुते होमं याज्ञिकः परिकीतीतः || १५-४६ || सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् | शक्त्यग्नौ जुहुयान्मांसं याज्ञिकः परिकीतीतः || १५-४७ || विधिवत् कुलकुण्डे च कुलवह्नौ शिवात्मकैः | पूर्णहोमं यः करोति याज्ञिकः परिकीतीतः || १५-४८ || भूमण्डले धर्मशालो निर्जने कामवेश्मनि | दृढभक्त्या जीवसारं यो जपेत् स हि धामीकः || १५-४९ || मणौ लोष्ठे समं ध्यानं धर्मेऽधर्मे जयेऽजये | कृत्वा त्यागी भवेद्यस्तु ब्रह्मज्ञानी स साधकः || १५-५० || सदा ईश्वरचिन्ता च गुरोराज्ञा व्यवस्थितिः | सुशीलो दीनबन्धुश्च धामीकः परिकीतीतः || १५-५१ || कालज्ञो विधिवेत्ता च अष्टाङ्गयोगविग्रहः | पर्वते कन्दरे मौनी भक्तो योगी प्रकीतीतः || १५-५२ || ब्रह्मज्ञानी चावधूतः पुण्यात्मा सुकृती शुचिः | वाञ्छाविहीनो धर्मात्मा स योगी परिकीतीतः || १५-५३ || वाग्वादिनीकृपापात्रः षडाधारस्य भेदकः | ऊर्ध्वरेता स्त्रीविहीनः स योगी परिकीतीतः || १५-५४ || यजुर्वेदपुरोगामी यजुःपत्रस्थवर्णधृक् | वर्णमालाचित्तजापो भावुकः स हि योगिराट् || १५-५५ || मासद्वादशकग्रस्तं राशिद्वादशकान्वितम् | तिथिवारं तु नक्षत्रयुक्तमाज्ञाम्बुजं भजेत् || १५-५६ || दिक्कालदेशप्रश्नार्थं वायवीशक्तिनिर्णयम् | बालवृद्धास्तादिदण्डपलनिश्वाससंख्यया || १५-५७ || व्याप्तमाज्ञाचक्रसारं भजेत् परमपावनम् | चक्रे सर्वत्र सुखदं सतां हानिर्न च प्रभो || १५-५८ || खलानां विपरीतञ्च निन्दकानां पदे पदे | दुःखानि प्रभवन्तीह पापिनाञ्च फलाफलम् || १५-५९ || पापी पञ्चत्त्वमाप्नोति ज्ञानी याति परं पदम् | यः श्वासकालवेत्ता च स ज्ञानी परिकीतीताः || १५-६० || श्वासकालं न जानाति स पापी परिकीतीतः | यजुर्वेदं सत्त्वगुणं सत्त्वाधिष्ठाननिर्मलम् || १५-६१ || गुरोराज्ञाक्रमेणैव अधस्तत्त्वेन कुण्डलीम् | महाशक्तिं समाप्नोति ऊद्र्ध्वाधः क्रमयोगतः || १५-६२ || यजुर्वेद महापात्रसत्त्वाधिष्ठानसेवया | ललाटामृतधाराभिश्चैतन्या कुण्डली भवेत् || १५-६३ || विभाव्य द्विदलं चक्रं होमं कुर्यादहनीशम् | शुद्धाज्यैर्जुहुयान्मन्त्री अधस्तुण्डे च कुण्डलीम् || १५-६४ || भजन्ति रुद्धेन्द्रियशुद्धयोग| प्रचण्डरश्मिप्रगताङ्गसुन्दराः | आम्बुजं चक्रवरं चतुद्र्दल| यन्मध्यदेशे शतकोटितेजसम् || १५-६५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे आज्ञा-- चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे वेदप्रकरणोल्लासे भैरवभैरवीसंवादे | पञ्चदशः पटलः || १५ || अथ षोडशः पटलः आनन्दभैरवी उवाच शृणुष्वानन्दरुद्रेश तृतीयदललक्षणम् | सामवेदमधश्चक्रं तमोगुणनिराकुलम् || १६-१ || वर्णजालादिनाक्रान्तं रुद्ररूपं महेश्वरम् | लयस्थानं कामरूपं परमानन्दमन्दिरम् || १६-२ || वह्निवृत्तिसुस्थानं विभाव्य योगिराड् भवेत् | तत्स्थानं योगिनां धर्मो गुरोराज्ञाफलप्रदम् || १६-३ || तत्पदाब्जं श्रीगुरूणां भ्रूमध्ये द्विदलाम्बुजे | मुहुर्मुहुः शनैर्ध्यायेत् समीरास्पदभास्वरम् || १६-४ || विभाव्य मनसा वाचा कर्मणा सूक्ष्मवायुना | लीनं कृत्वा सदा ध्यायेत् सदा हर्षकलेवरः || १६-५ || सहस्रारे यथा ध्यानं तद्ध्यानं द्विदलाम्बुजे | गुरुमात्मानमीशानं देवदेवं सनातनम् || १६-६ || अकस्मात् सिद्धिदातारं योगाऽष्टाङ्गफलप्रदम् || १६-७ || नित्यं शब्दमयं प्रमाणविषयं नित्योपमेयं गुरु | चन्द्रोल्लासतनुप्रभं शतविधूल्लास्साय पङ्केरुहम् | सर्वप्राणगतं गतिस्थमचलं ज्ञानाधिनिर्लेपन | रूढालास्यगुणालयं लयमयं स्वात्मोपलब्धिं भजे || १६-८ || यदि भजेज्जगताममलेश्वरं स्मरहरं गुरुमीश्वरमात्मनि | परमसुन्दरचन्द्रसामाकुलं निपतिताद्यकुलानलसञ्चयम् || १६-९ || प्रणमतां समतां कुरुते गुरो यदि भवान् विफलं परिहन्ति मे | तव पदाम्बुजमद्भुतलीलया परिभजे भवसागरपारगम् || १६-१० || गुरुपदं सितपङ्कजराजितं कनकनूपुरसुन्दरसञ्जनम् | रचितचित्रितचारुनखेन्दुकं भुवनभावनपावनमाश्रये || १६-११ || सकलसत्फल पालनकोमलं विमलशोणित पङ्कज मण्डितम् | पदतलं खनिग्रहपालनं खचितरत्नधराचलनं भजे || १६-१२ || सुकनकाजडितासनपङ्कजे परिभवं भवसागरसम्भवम् | यदि कृपा विभवेन्मयि पामरे व्यवतु मां तव पादतलं भजे || १६-१३ || परमहंसमनुं हररूपिणं सकलमक्षवशङ्गुरुमीश्वरम् | सकललक्षणचन्द्रमसःकरं तरुगुरोर्मुखपङ्कजमाश्रये || १६-१४ || गुरोराज्ञाचक्रं भुवनकरणं केवलमय | सकारं नादेन्दुकुमुदहृदयं कामकलया | लयस्थाने वायोर्नवमधुरसमोदमिलिते | दले वेदक्षेत्रे विधुविरहिते तत्र पदके || १६-१५ || तमोगुणसमाक्रान्ते अधोमण्डलमण्डिते | द्विबिन्दुनिलये स्थाने द्विदले श्रीगुरोः पदम् || १६-१६ || महावह्निशिखाकारं तन्मध्ये चिन्तयेत् सुधीः | एतद्योगप्रसादेन बीजवाग्भवकूटकैः || १६-१७ || चिरजीवी भवेत् क्षुद्रो वागीशत्वमवाप्नुयात् | श्रीगुरोश्चरणाम्भोजनिःसृतं यत् परामृतम् || १६-१८ || तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् | पुनः पुनः समाकुञ्च्य प्रबुद्धां तां स्मरेत् सदा || १६-१९ || पर्यायत्त्वापररसं धारयेन्मारुतं सुधीः | तत्परामृतधाराभिः सन्तर्प्य कुलनायिकाम् || १६-२० || ततः पुनः पुनः पात्यं सर्वपुण्यफलं प्रिये | धनरत्नमहालक्ष्मीः प्राप्नोति साधकोत्तमः || १६-२१ || सर्वत्र जयमाप्नोति युद्धे क्रोधे महाभये | महायुधि स्थितो याति सुशीलो मोक्षमाप्नुयात् || १६-२२ || इति ते कथितं नाथ ब्रह्मज्ञानमनुत्तमम् | आज्ञाचक्रत्रिखण्डस्य दलस्य कामरूपतः || १६-२३ || सत्फलं समवाप्नोति विचार्य भावयेद्यदि | आज्ञाचक्रे त्रिखण्डे च कामरूपं महेश्वरम् || १६-२४ || चीनाचारसमाक्रान्तं श्मशानाधिपवेष्टितम् | कालं कालकरं चक्रं महाकालं कलानिधिम् | पलानुपलविपलद्दण्डतिथ्यातिपदपक्षकैः || १६-२५ || मासवत्सरादियुगैर्महाकालैः समन्वितम् | उल्काकोटिसमं नेत्रं तीक्ष्णदंष्ट्र्ं सुरेश्वरम् || १६-२६ || कोटिकोटिनेत्रजालशोभिताननपङ्कजम् | चिद्रूपं सदसन्मुक्तिरूपिणं बहुरूपिणम् || १६-२७ || ध्यात्वा त्वतिसुखेनैव कालरुद्रं परेश्वरम् | नासिकोद्र्ध्वे भ्रुवोर्मध्ये आज्ञाचक्रे महाप्रभो || १६-२८ || विभाव्य परमं स्थानं तत्क्षणात्तन्मयो भवेत् | हाकिनीं भावयेन्मन्त्री रौरवादिविनाशिनीम् || १६-२९ || कोटिसौदामिनीभासाममृतानन्दविग्रहाम् | अमातत्त्वपूर्णशोभां हेमवाराणसीस्थिताम् || १६-३० || नानालङ्कार शोभाङ्गीं नवयौवनशालिनीम् | पीनस्तनीं बलोन्मत्तां सर्वाधारस्वरूपिणीम् || १६-३१ || दीर्घप्रणवजापेन तोषयन्तीं त्रिविक्रमम् | मौनां मनोमयीं देवीं सर्वविद्यास्वरूपिणीम् || १६-३२ || महाकालीं महानीलां पीतवर्णां शशिप्रभाम् | त्रिपुरां सुन्दरीं वामां वामकामदुघां शिवाम् || १६-३३ || ध्यायेदेकासने वामे परनाथस्य पावनीम् | सर्वाधारात्मिकां शक्तिं दुनीवार्यां दुरत्ययाम् || १६-३४ || श्वासमात्रेण वसयेत् कुलमार्गं न पण्डितः | कुलाकुलविभागेन आत्मानं नीयते परे || १६-३५ || श्वासाभ्यासं विना नाथ अष्टाङ्गाभ्यसनेन च | विना दमेन धैर्येण कुलमार्गो न सिद्ध्यति || १६-३६ || तथा पूरकयोगेन रेचकेनापि तिष्ठति | विना कुम्भकसत्त्वेन यथैतौ नापि तिष्ठतः || १६-३७ || तथा योगं विना नाथ अष्टाङ्गाभ्यसनं विना | कुलमार्गो महातत्त्वो न सिद्ध्यति कदाचन || १६-३८ || कुलमार्गं विना मोक्षं कः प्राप्नोति महीतले | कुलमार्गं न जानाति योगवाक्यागमाकुलम् || १६-३९ || स कथं पूजयेद्देवीं तस्य योगः कृतः प्रभो | अज्ञात्वा वीरनाथानामाचारं यः करोति हि || १६-४० || तेषां बहुदिने योगशिक्षा भवति निश्चितम् | प्राणायामं महाधर्मं वेदानामप्यगोचरम् || १६-४१ || सर्वपुण्यस्य सारं हि पापराशितुलानलम् | महापातककोटीनां तत्कोटीनाञ्च दुष्कृतम् || १६-४२ || पूर्वजन्माजीतं पापं नानादुष्कर्मपातकम् | नश्यत्येव महादेव षण्मासाभ्यासयोगतः || १६-४३ || सन्ध्याकाले प्रभाते च यः करोत्यप्यहनीशम् | वशी षोडशसंख्याभिः प्राणायामान् पुनः पुनः || १६-४४ || संवत्सरं वशी ध्यात्त्वा खेचरो योगिराड् भवेत् | योगी भूत्वा कौलमार्गं समाश्रित्यामरो भवेत् || १६-४५ || महाविद्यापतिर्भूत्वा विचारात् साधकोत्तमः || १६-४६ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थबोधनिर्णये पाशवकल्पे आज्ञा-- चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे षोडशः पटलः || १६ || अथ सप्तदशः पटलः आनन्दभैरवी उवाच अथ वक्ष्ये महादेव अथर्ववेदलक्षणम् | सर्ववर्णस्य सारं हि शक्त्याचारसमन्वितम् || १७-१ || अथर्ववेदादुत्पन्नं सामवेदं तमोगुणम् | सामवेदाद्यजुर्वेदं महासत्त्वसमुद्भवम् || १७-२ || रजोगुणमयं ब्रह्मा ऋग्वेदं यजुषः स्थितम् | मृणालसूत्रसदृशी अथर्ववेदरूपिणी || १७-३ || अथर्वे सर्ववेदाश्च जलखेचरभूचराः | निवसन्ति महा विद्या कुलविद्या महर्षयः || १७-४ || समाप्तिपत्रशेषार्थं समीपं लोकमण्डले | शक्तिचक्रसमाक्रान्तं दिव्यभावात्मकं शुभम् || १७-५ || तत्रैव वीरभावञ्च तत्रैव पशुभावकम् | सर्वभावात् परं तत्त्वमथर्वं वेदपत्रकम् || १७-६ || द्विबिन्दुनिलयस्थानं ब्रह्माविष्णुशिवात्मकम् | चतुर्वेदान्वितं तत्त्वं शरीरं दृढणिमीतम् || १७-७ || चतुवींशतितत्त्वानि सन्ति गात्रे मनोहरे | ब्रह्मा रजोगुणाक्रान्तः पूरकेणाभिरक्षति || १७-८ || विष्णुः सत्त्वगुणाक्रान्तः कुम्भकैः स्थिरभावनैः | हरस्तमोगुणाक्रान्तो रेचकेणापि विग्रहम् || १७-९ || अथर्ववेदचक्रस्था कुण्डली परदेवता | एतन्माया तु यो नैव ब्रह्मविष्णुशिवेन च || १७-१० || शरीरं देवनिलयं भक्तं ज्ञात्वा प्रवक्ष्यति | सर्ववेदमयी देवी सर्वमन्त्रस्वरूपिणी || १७-११ || सर्वयन्त्रात्मिका विद्या वेदविद्याप्रकाशिनी | चैतन्या सर्वधर्मज्ञा स्वधर्मस्थानवासिनी || १७-१२ || अचैतन्या ज्ञानरूपा हेमचम्पकमालिनी | अकलङ्का निराधारा शुद्धज्ञानमनोजवा || १७-१३ || सर्वसङ्कटहन्त्री च सा शरीरं प्रपाति हि | तस्याः कार्यमिदं विश्वं तस्याः पुण्यानि हन्ति हि || १७-१४ || तस्याश्चैतन्यकरणे सदा व्याकुलचेतसः | महात्मानः प्रसिद्ध्यन्ति यदि कुर्वन्ति चेतनाम् || १७-१५ || तस्या अनुग्रहादेव किं न सिद्ध्यति भूतले | षण्मासाभ्यासयोगेन चैतन्या कुण्डली भवेत् || १७-१६ || सा देवी वायवी शक्तिः परमाकाशवाहिनी | तारिणी वेदमाता च बहिर्याति दिने दिने || १७-१७ || द्वादशाङ्गुलमानेन आयुः क्षरति नित्यशः | द्वादशाङ्गुलवायुश्च क्षयं कुर्याद्दने दिने || १७-१८ || यावद् यावद् बहिर्याति कुण्डली परदेवता | तावत्तावत्खण्डलयं भवेद्धि पापमोक्षणम् || १७-१९ || यदा यदा न क्षरति वायवी सूक्ष्मरूपिणी | बाह्यचन्द्रे महादेव आग्नेयी सोममण्डले || १७-२० || मूलाधारे कामरूपे ज्वलन्ती चण्डिका शिखा | यदा शिरोमण्डले च सहस्रदलपङ्कजे || १७-२१ || तेजोमयी सदा याति शिवं कामेश्वरं प्रभुम् | अच्युताख्यं महादेवं तदा ज्ञानी स योगिराट् || १७-२२ || यदि क्षरति सा देवी बाह्यचन्द्रे मनोलये | तदा योगं समाकुर्यात् यावत् शीर्षेण गच्छति || १७-२३ || यदि शीर्षे समागम्यामृतपानं करोति सा | वायवी सूक्ष्मदेहस्था सूक्ष्मालयप्रिया सती || १७-२४ || तदेव परमा सिद्धिर्भक्तिमार्गो न संशयः | चतुर्वेद ज्ञानसारं अथर्वं परिकीतीतम् || १७-२५ || अथर्ववेदविद्या च देवता वायवी मता | तस्याः सेवनमात्रेण रुद्र्ररूपो भवेन्नरः || १७-२६ || केवलं कुम्भकस्था सा एका ब्रह्मप्रकाशिनी | भैरव उवाच केन वा वायवी शक्तिः कृपा भवति पार्वति || १७-२७ || स्थिरचेता भवेत् केन विवेकी वा कथं भवेत् | मन्त्रसिद्धिर्भवेत् केन कायसिद्धिः कथं भवेत् || १७-२८ || विस्तार्य वद चामुण्डे आनन्दभैरवेश्वरी | आनन्दभैरवी उवाच शृणुष्वैकमनाः शम्भो मम प्राणकुलेश्वर || १७-२९ || एकवाक्येन सकलं कथयामि समासतः | श्रद्धया परया भक्त्या मनोनियमतत्परः || १७-३० || स प्राप्नोति पराशक्तिं वायवीं सूक्ष्मरूपिणीम् | धैर्यक्षमामिताहारी शान्तियुक्तो यतिर्महान् || १७-३१ || सत्यवादी ब्रह्मचारी दयाधर्मसुखोदयः | मनसः संयमज्ञानी दिगम्बरकलेवरः || १७-३२ || सर्वत्र समबुद्धिश्च परमार्थविचारवित् | शरशया भूमितले वायवीं परमामृतम् || १७-३३ || य एवं पिबति क्षिप्रं तत्रैव वायवी कृपा | गुरुसेवापरे धीरे शुद्धसत्त्वतनुप्रभे || १७-३४ || भक्ते अष्टाङ्गनिरते वायवी सुकृपा भवेत् | अतिथिं भोजयेद्यस्तु न भुक्ता स्वयमेव च || १७-३५ || सर्वपापविनिर्मुक्तो वायवी सुकृपा ततः | अन्तरात्मा महात्मा यः कुरुते वायुधारणम् || १७-३६ || देवगुरौ सत्यबुद्धिर्वायवी सुकृपा ततः | एककालो वृथा याति नैव यस्य महेश्वर || १७-३७ || वायव्यां चित्तमादाय तत्रानिलकृपा भवेत् | विचरन्ति महीमध्ये योगशिक्षानिबन्धनम् || १७-३८ || प्राणायामेच्छुको यो वा वायवी सुकृपा ततः | प्रतिवत्सरमानेन पीठे पीठे वसन्ति ये || १७-३९ || वायवीं प्रजपन्तीह वायवी सुकृपा ततः | अल्पाहारी निरोगी च विजयानन्दनन्दितः || १७-४० || वायवीं भजतो योगी वायवी सुकृपा भवेत् | अन्तर्यागे पीठचक्रे चित्तमाधाय यत्नतः || १७-४१ || नामनिष्ठो धारणाख्यो वायवी सुकृपा ततः | पशुभाव समाक्रान्तः सदा रेतोविवजीतः || १७-४२ || शुक्रमैथुनहीनश्च वायवी सुकृपा ततः | अकालेऽपि सकालेऽपि नित्यं धारणतत्परः || १७-४३ || योगिनामपि सङ्गी यो वायवी सुकृपा ततः | बन्धुबान्धवहीनश्च विवेकाक्रान्तमानसः || १७-४४ || शोकाशोकसमं भावं वायवी सुकृपा ततः | सर्वदानन्दहृदयः कालज्ञो भौतसाधनः || १७-४५ || मौनधारणजापश्च वायवी सुकृपा ततः | निर्जनस्थाननिरतो निश्चेष्टो दीनवत्सलः || १७-४६ || बहुजल्पनशून्यश्च स्थिरचेताः प्रकीतीतः | हास्य सन्तोषहिंसादिरहितः पीठपारगः || १७-४७ || योगशिक्षासमाप्त्यर्थी स्थिरचेताः प्रकीतीतः | मत्कुलागमभावो ज्ञो महाविद्यादिमन्त्रवित् || १७-४८ || शुद्धभक्तियुतः शान्तः स्थिरचेताः प्रकीतीतः | मूलाधारे कामरूपे हृदि जालन्धरे तथा || १७-४९ || ललाटे पूर्णगिर्याख्ये उड्डीयाने तदूर्ध्वके | वाराणस्यां भ्रुवोर्मध्ये ज्वलन्त्यां लोचनत्रये || १७-५० || मायावत्यां सुखवृत्ते कण्ठे चाष्टपुरे तथा | अयोध्यायां नाभिदेशे कट्यां काञ्च्यां महेश्वर || १७-५१ || पीठेष्वेतेषु भूलोके चित्तमाधाय यत्नतः | उदरे पूरयेद् वायुं सूक्ष्मसङ्केतभाषया || १७-५२ || पादाङ्गुष्ठे च जङ्घायां जानुयुग्मे च मूलके | चतुर्दले षड्दले च तथा दशदले तथा || १७-५३ || दले द्वादशके चैव सिद्धिसिद्धान्तनिर्मले | कण्ठे षोडशपत्रे च द्विदले पूर्णतेजसि || १७-५४ || कैलासाख्ये ब्रह्मरन्ध्रपदे निर्मलतेजसि | सहस्रारे महापद्मे कोटिकोटिविधुप्रभे || १७-५५ || चालयित्वा महावायुं कुम्भयित्वा पुनः पुनः | पूरयित्वा रेचयित्वा रोमकूपाद्विनिर्गतम् || १७-५६ || तिस्रः कोट्यर्धकोटि च यानि लोमानि मानुषे | नाडीमुखानि सर्वाणि धर्मबिन्दुं च्यवन्ति हि || १७-५७ || यावत्तद्बिन्दुपातश्च तावत्कालं लयं स्मृतम् | तावत्कालं प्राणयोगात् प्रस्वेदाधमसिद्धिदम् || १७-५८ || सूक्ष्मवायुसेवया च किन्न सिद्ध्यति भूतले | लोमकूपे मनो दद्यात् लयस्थाने मनोरमे || १७-५९ || स्थिरचेता भवेत् शीघ्रं नात्र कार्या विचारणा | वायुसेवां विना नाथ कथं सिद्धिर्भवेद् भवे || १७-६० || स्थिरचित्तं बिना नाथ मध्यमापि न जायते | स्थाने स्थाने मनो दत्वा वायुना कुम्भकेन च || १७-६१ || धारयेन्मारुतं मन्त्री कालज्ञानी दिवानिशम् | एकान्तनिर्जने स्थित्वा स्थिरचेता भवेद् ध्रुवम् || १७-६२ || स्थिरचित्तं विना शम्भो सिद्धिः स्यादुत्तमा कथम् || १७-६३ || निवाह्य पञ्चेन्द्रियसञ्ज्ञकानि यत्नेन धैर्यायतिरीश्वरस्त्वम् | प्राप्नोति मासन्नयसाधनेन विषासवं भोक्तुमसौ समर्थः || १७-६४ || मासत्रयाभ्यास--सुसञ्चयेन स्थिरेन्द्रियः स्यादधमादिसिद्धिः | सा खेचरी सिद्धिरत्र प्रबुद्धा चतुर्थये मासे तु भवेद्विकल्पनम् || १७- ६५ || तदाधिकारी पवनाशनोऽसौ स्थिरासनानन्दसुचेतसा भुवि | प्रकल्पने सिद्धिं यथार्थगामिनीमुपेति शीघ्रं वरवीरभावम् || १७- ६६ || सा वयवी शक्तिरनन्तरूपिणी लोभावलीनां कुहरे महासुखम् | ददाति सौख्यं गतिचञ्चलं जयं स्थिराशयत्वं सति शास्त्रकोविदम् || १७-६७ || षण्मासयोगासननिष्ठदेहा वायुश्रमानन्दरसाप्तविग्रहः | विहाय कल्पान्वितयोगभावं श्रुत्यागमान् कर्तुमसौ समर्थः || १७-६८ || स्थिरचेता महासिद्धिं प्राप्नोति नात्र संशयः | संवत्सरकृताभ्यासे महाखेचरतां व्रजेत् || १७-६९ || यावन्निर्गच्छति प्रीता वायवी शक्तिरुत्तमा | नासाग्रमववार्यैव स्थिरचेता महामतिः || १७-७० || चण्डवेगा यदा क्षिप्रमन्तरालं न गच्छति | सर्वत्रगामी स भवेत् तावत्कालं विचक्षणः || १७-७१ || यदि शीर्षादूर्ध्वदेशे द्वादशाङ्गुलकोपरि | गन्तुं समर्थो भगवान् शिवतुल्यो गणेश्वरः || १७-७२ || सर्वत्रगामी प्रभवेत् खेचरो योगिराड् वशी | इति सिद्धिर्वत्सरे स्यात् स्थिरचित्तेन शङ्कर || १७-७३ || योगी भूत्वा मनःस्थैर्यं न करोति यदा भुवि | कृच्छेर्ण पदमारुह्य प्रपतेन्नारकी यथा || १७-७४ || अत एव महाकाल स्थिरचेता भव प्रभो | तदा मां प्राप्स्यसि क्षिप्रं वायवीमष्टसिद्धिदाम् || १७-७५ || यदि सिद्धो भवेद् भूमौ वायवीसुकृपादिभिः | सदा कामस्थिरो भूत्वा गोपयेन्मातृजारवत् || १७-७६ || यदा यदा महादेव योगाभ्यासं करोति यः | शिष्येभ्योऽपि सुतेभ्योऽपि दत्वा कार्यं करोति यः || १७-७७ || तदैव स महासिद्धिं प्राप्नोति नात्र संशयः | संवत्सरं चरेद्धर्मं योगमार्गं हि दुर्गमम् || १७-७८ || प्रकाशयेन्न कदापि कृत्वा मृत्युमवाप्नुयात् | योगयोगाद् भवेन्मोक्षो मन्त्रसिद्धिरखण्डिता || १७-७९ || न प्रकाश्यमतो योगं भुक्तिमुक्तिफलाय च | नित्यं सुखं महाधर्मं प्राप्नोति वत्सराद् बहिः || १७-८० || आत्मसुखं नित्यसुखं मन्त्रं यन्त्रं तथागमम् | प्रकाशयेन्न कदापि कुलमार्ग कुलेश्वर || १७-८१ || यद्येवं कुरुते धर्मं तदा मरणमाप्नुयात् | योगभ्रष्टो विज्ञानज्ञोऽजड. मृत्युमवाप्नुयात् || १७-८२ || येन मृत्युवशो याति तत्कार्यं नापि दर्शयेत् | दत्तात्रेयो महायोगी शुको नारद एव च || १७-८३ || येन कृतं सिद्धिमन्त्रं वर्णजालं कुलार्णवम् | एकेन लोकनाथेन योगमार्गपरेण च || १७-८४ || तथा मङ्गलकार्येण ध्यानेन साधकोत्तमः | उत्तमां सिद्धिमाप्नोति वत्सराद् योगशासनात् || १७-८५ || आदौ वै ब्रह्मणो ध्यानं पूरकाष्टाङ्गलक्षणैः | कुर्यात् सकलसिद्ध्यर्थमम्बिकापूजनेन च || १७-८६ || ऋग्वेदं चेतसि ध्यात्वा मूलाधारे चतुद्र्दले | वायुना चन्द्ररूपेण धारयेन्मारुतं सुधीः || १७-८७ || अथर्वान्निर्गतं सर्वं ऋग्वेदादि चराचरम् | तेन पूर्णचन्द्रमसा जीवेनार्यामृतेन च || १७-८८ || जुहुयादेकभावेन कुण्डलीसूर्यगोऽनले | कुम्भकं कारयेन्मन्त्री यजुर्वेदपुरःसरम् || १७-८९ || सर्वसत्त्वाधिष्ठितं तत् सर्वविज्ञानमुत्तमम् | वायव्याः पूर्णसंस्थानं योगिनामभिधायकम् || १७-९० || पुनः पुनः कुम्भयित्वा सत्त्वे निर्मलतेजसि | महाप्रलयसारज्ञो भवतीति न संशयः || १७-९१ || रेचकं शम्भुना व्याप्तं तमोगुणमनोलयम् | सर्वमृत्युकुलस्थानं व्याप्तं धर्मफलाफलैः || १७-९२ || पुनः पुनः क्षोभनिष्ठो रेचकेन निवर्तते | रेचकेन लयं याति रेचनेन परं पदम् || १७-९३ || प्राप्नोति साधकश्रेष्ठो रेचकेनापि सिद्धिभाक् | रेचकं वह्निरूपञ्च कोटिवह्निशिखोज्ज्वलम् || १७-९४ || द्वादशाङ्गुलमध्यस्थं ध्यात्वा बाह्ये लयं दिशेत् | चन्द्रव्याप्तं सर्वलोकं सर्वपुण्यसमुद्भवम् || १७-९५ || रेचकाग्निर्दहतीह वायुसख्यो महाबली | तत् शशाङ्कजीवरूपं पीत्वा जीवति वायवी || १७-९६ || आग्नेयी दह्यति क्षिप्रं एष होमः परो मतः | एतत् कार्यं यः करोति स न मृत्युवशो भवेत् || १७-९७ || एतयोः सन्धिकालञ्च कुम्भकं तत्त्वसाधनम् | तदेव भावकानाञ्च परमस्थानमेव च || १७-९८ || महाकुम्भकलाकृत्या स्थिरं स्थित्त्वा च कुम्भके | अथर्वगामिनीं देवीं भावयेदमरो महान् || १७-९९ || अनन्तभावनं शभ्भोरशेषसृष्टिशोभितम् | अथर्वं भावयेन्मन्त्री शक्तिचक्रक्रमेण तु || १७-१०० || आज्ञाचक्रे वेददले चतुर्दलसुमन्दिरे | अथर्वयोगिनीं ध्यायेत् समाधिस्थेन चेतसा || १७-१०१ || ततोऽच्युताख्यं जगतामीश्वरं शीर्षपङ्कजे | प्रपश्यति जगन्नाथं नित्यसूक्ष्मसुखोदयम् || १७-१०२ || आज्ञाचक्रे शोधनमशेषदलमथर्वं परिकीतीतम् | ज्योतिश्चक्रे तन्मध्ये योगमार्गेण सद्बिलम् || १७-१०३ || प्रपश्यति महाज्ञानी बाह्यदृष्ट्या यथाम्बुजम् | कालेन सिद्धिमाप्नोति ब्रह्मज्ञानी च साधकः || १७-१०४ || ततो भजेत् कौलमार्गं ततो विद्यां प्रपश्यति | महाविद्यां कोटिसूर्यज्वालामालासमाकुलम् || १७-१०५ || एतत्तत्त्वं विना नाथ न पश्यति कदाचन | वसिष्ठो ब्रह्मपुत्रोऽपि चिरकालं सुसाधनम् || १७-१०६ || चकार निर्जने देशे कृच्छेर्ण तपसा वशी | शतसहस्रं वत्सरं च व्याप्य योगादिसाधनम् || १७-१०७ || तथापि साक्षाद्विज्ञानं न बभूव महीतले | ततो जगाम क्रुद्धोऽसौ तातस्य निकटे प्रभुः || १७-१०८ || सर्वं तत् कथयामास स्वीयाचारक्रमं प्रभो | अन्यमन्त्रं देहि नाथ एषा विद्या न सिद्धिदा || १७-१०९ || अन्यथा सुदृढं शापं तवाग्रे प्रददामि हि | ततस्तं वारयामास एवं न कुरु भो सुत || १७-११० || पुनस्तां भज भावेन योगमार्गेण पण्डित | ततः सा वरदा भूत्वा आगमिष्यति तेऽग्रतः || १७-१११ || सा देवी परमा शक्तिः सर्वसङ्कटतारिणी | कोटिसूर्यप्रभा नीला चन्द्रकोटिसुशीतला || १७-११२ || स्थिरविद्युल्लताकोटिसदृशी कालकामिनी | सा पाति जगतां लोकान् तस्याः कर्म चराचरम् || १७-११३ || भज पुत्र स्थिरानन्द कथं शप्तुं समुद्यतः | एकान्तचेतसा नित्यं भज पुत्र दयानिधे || १७-११४ || तस्या दर्शनमेवं हि अवश्यं समवाप्स्यसि | एतत् श्रुत्वा गुरोर्वाक्यं प्रणम्य च पुनः पुनः || १७-११५ || जगाम जलधेस्तीरे वशी वेदान्तवित् शुचिः | सहस्रवत्सरं सम्यक् जजाप परमं जपम् || १७-११६ || आदेशोऽपि न बभूव ततः क्रोधपरो मुनिः | व्याकुलात्मा महाविद्यां वसिष्ठः शप्तुमुद्यतः || १७-११७ || द्विराचम्य महाशापः प्रदत्तश्च सुदारुणः | तेनैव मुनिना नाथ मुनेरग्रे कुलेश्वरी || १७-११८ || आजगाम महाविद्या योगिनामभयप्रदा | अकारणमरे विप्र शापो दत्तः सुदारुणः || १७-११९ || मम सेवां न जानाति मत्कुलागम चिन्तनम् | कथं योगाभ्यासवशात् मत्पदाम्भोजदर्शनम् || १७-१२० || प्राप्नोति मानुषो देवे मनध्यानमदुःखदम् | यः कुलार्थी सिद्धमन्त्री मद्वेदाचार निर्मलः || १७-१२१ || ममैव साधनं पुण्यं वेदानामप्यगोचरम् | बौद्धदेशेऽथर्ववेदे महाचीने तदा व्रज || १७-१२२ || तत्र गत्वा महाभावं विलोक्य मत्पदाम्बुजम् | मत्कुलज्ञो महर्षे त्वं महासिद्धो भविष्यसि || १७-१२३ || एतद्वाक्यं कथयित्वा सा वायव्याकाशवाहिनी | निराकाराऽभवत् शीघ्रं ततः साकाशवाहिनी || १७-१२४ || ततो मुनिवरः श्रुत्वा महाविद्यां सरस्वतीम् | जगाम चीनभूमौ च यत्र बुद्धः प्रतिष्ठति || १७-१२५ || पुनः पुनः प्रणम्यासौ वसिष्ठः क्षितिमण्डले | रक्ष रक्ष महादेव सूक्ष्मरूपधराव्यय || १७-१२६ || अतिदीनं वसिष्ठं मां सदा व्याकुलचेतसम् | ब्रह्मपुत्रो महादेवीसाधनायाजगाम च || १७-१२७ || सिद्धिमार्गं न जानामि वेदमार्गपरो हर | तवाचारं समालोक्य भयानि सन्ति मे हृदि || १७-१२८ || तन्नाशय मम क्षिप्रं दुर्बुद्धिं भेदगामिनीम् | वेदबहिष्कृतं कर्म सदा ते चालये प्रभो || १७-१२९ || कथमेतत् प्रकारञ्च मद्यं मांसं तथाङ्गनाम् | सर्वे दिगम्बराः सिद्धा रक्तपानोद्यता वराः || १७-१३० || मुहुर्मुहुः प्रपिबन्ति रमयन्ति वराङ्गनाम् | सदा मांसासवैः पूर्णा मत्ता रक्तविलोचनाः || १७-१३१ || निग्रहानुग्रहे शक्ताः पूर्णान्तःकरणोद्यताः | वेदस्यागोचराः सर्वे मद्यस्त्रीसेवने रताः || १७-१३२ || इत्युवाच महायोगी दृष्ट्वा वेदबहिष्कृतम् | प्राञ्जलिवीनयाविष्टो वद चैतत् कुलं प्रभो || १७-१३३ || मनःप्रवृत्तिरेतेषां कथं भवति पावन | कथं वा जायते सिद्धिर्वेदकार्यं बिना प्रभो || १७-१३४ || श्रीबुद्ध उवाच वसिष्ठ शृणु वक्ष्यामि कुलमार्गमनुत्तमम् | येन विज्ञातमात्रेण रुद्ररूपी भवेत् क्षणात् || १७-१३५ || साक्षेपेण सर्वसारं कुलसिद्ध्यर्थमागमम् | आदौ शुचिर्भवेद् धीरो विवेकाक्रान्तमानसः || १७-१३६ || पशुभावस्थिरचेताः पशुसङ्गविवजीतः | एकाकी निर्जने स्थित्वा कामक्रोधादिवजीतः || १७-१३७ || दमयोगाभ्यासरतो योगशिक्षादृढव्रतः | वेदमार्गाश्रयो नित्यं वेदार्थनिपुणो महान् || १७-१३८ || एवं क्रमेण धर्मात्मा शीलो दार्ढ्यगुणान्वितः | धारयेन्मारुतं नित्यं श्वासमार्गे मनोलयम् || १७-१३९ || एवमभ्यासयोगेन वशी योगी दिने दिने | शनैः क्रमाभ्यासाद् दहेद् स्वेदोद्गमोऽधमः || १७-१४० || मध्यमः कल्पसंयुक्तो भूमित्यागः परो मतः | प्राणायामेन सिद्धिः स्यान्नरो योगेश्वरो भवेत् || १७-१४१ || योगी भूत्वा कुम्भकज्ञो मौनी भक्तो दिवानिशम् | शिवे कृष्णे ब्रह्मपदे एकान्तभक्तिसंयुतः || १७-१४२ || ब्रह्मविष्णुशिवा एते वायवीगतिचञ्चला | एवं विभाव्य मनसा कर्मणा वचसा शुचिः || १७-१४३ || आदौ चित्तं समाधाय चिद्रूपायां स्थिराशयः | ततो महावीरभावं कुलमार्गं महोदयम् || १७-१४४ || शक्तिचक्रं सत्त्वचक्रं वैष्णवं नवविग्रहम् | समाश्रित्य भजेन्मन्त्री कुलकात्यायनीं पराम् || १७-१४५ || प्रत्यक्षदेवतां श्रीदां चण्डोद्वेगनिकृन्तिनीम् | चिद्रूपां ज्ञाननिलयां चैतन्यानन्दविग्रहाम् || १७-१४६ || कोटिसौदामिनीभासां सर्वतत्त्वस्वरूपिणीम् | अष्टादशभुजां रौद्रीं शिवमांसाचलप्रियाम् || १७-१४७ || आश्रित्य प्रजपेन्मन्त्रं कुलमार्गाश्रयो नरः | कुलमार्गात् परं मार्गं को जानाति जगत्त्रये || १७-१४८ || एतन्मार्गप्रसादेन ब्रह्मा स्रष्टा स्वयं महान् | विष्णुश्च पालने शक्तो निर्मलः सत्त्वरूपधृक् || १७-१४९ || सर्वसेव्यो महापूज्यो यजुर्वेदाधिपो महान् | हरः संहारकर्त्ता च वीरेशोत्तममानसः || १७-१५० || सर्वेषामन्तकः क्रोधी क्रोधराजो महाबली | वीरभावप्रसादेन दिक्पाला रुद्ररूपिणः || १७-१५१ || वीराधीनमिदं विश्वं कुलाधीनञ्च वीरकम् | अतः कुलं समाश्रित्य सर्वसिद्धीश्वरो जडः || १७-१५२ || मासेनाकर्षणं सिद्धिद्वीमासे वाक्पतिर्भवेत् | मासत्रयेण संयोगाज्ज्ञायते सुखवल्लभः || १७-१५३ || एवं चतुष्टये मासि भवेद् दिक्पालगोचरः | पञ्चमे पञ्चबाणः स्यात्षष्ठे रुद्रो भवेद् ध्रुवम् || १७-१५४ || एतदाचारसारं हि सर्वेषामप्यगोचरम् | एतन्मार्गं कौलमार्ग कौलमार्गं परं नहि || १७-१५५ || योगिनां दृढचित्तानां भक्तानामेकमासतः | कार्यसिद्धिर्भवेन्नारी कुलमार्गप्रसादतः || १७-१५६ || पूर्णयोगी भवेद् विप्रः षण्मासाभ्यासयोगतः | शक्तिं बिना शिवोऽशक्तः किमन्ये जडबुद्धयः || १७-१५७ || इत्युक्त्वा बुद्धरूपी च कारयामास साधनम् | कुरु विप्र महाशक्तिसेवनं मद्यसाधनम् || १७-१५८ || महाविद्यापदाम्भोजदर्शनं समवाप्स्यसि | एतच्छ्रुत्वा गुरोर्वाक्यं स्मृत्वा देवीं सरस्वतीम् || १७-१५९ || मदिरासाधनं कर्त्तुं जगाम कुलमण्डले | मद्यं मांसं तथा मांसं मुद्रा मैथुनमेव च || १७-१६० || पुनः पुनः साधयित्वा पूर्णयोगी बभूव सः | योगमार्गं कुलमार्गमेकाचारक्रमं प्रभो || १७-१६१ || योगी भूत्वा कुलं ध्यात्वा सर्वसिद्धीश्वरो भवेत् | सन्धिकालं कुलपथं योगेन जडितं सदा || १७-१६२ || भगसंयोगमात्रेण सर्वसिद्धीश्वरो भवेत् | एतद्योगं विजानीयाज्जीवात्मपरमात्मनोः || १७-१६३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवभैरवीसंवादे सप्तदशः पटलः || १७ || अथाष्टादशः पटलः आनन्दभैरवी उवाच शृणु नाथ प्रवक्ष्यामि असाध्यसाधनं परम् | कामचक्रस्य वर्णानां वर्णनं प्रश्ननिर्णयम् || १८-१ || आज्ञाचक्रमध्यभागे नाडीकोटिरसालिनी | तन्मध्ये भावयेन्मन्त्री कामचक्रं मनोरमम् || १८-२ || कामचक्रे च पूर्वोक्तवर्णमालोक्य साधकः | न्यासमन्त्रे पुटीकृत्य जपित्वा योगिराड् भवेत् || १८-३ || एको मन्दिरमध्यस्थो मन्त्रमाश्रित्य यत्नतः | निजनामाक्षरं तत्र तत्कोष्ठमनुमाश्रयेत् || १८-४ || आनन्दभैरव उवाच एतेषां कोष्ठसंस्थानां वर्णानां हि फलाफलम् | वद कान्ते रहस्यं मे कामचक्रफलोद्भवम् || १८-५ || आनन्दभैरवी उवाच कामचक्रं कालरूपं ततो वाराणसीपुरम् | तत्र सर्वपीठचक्रं चक्राणामुत्तमोत्तमम् || १८-६ || एतच्चक्रप्रसादेन ते पादाम्बुजदर्शनम् | प्राप्नोति साधकान् सत्यं सर्वं जानाति साधकः || १८-७ || कामनाफलसिद्ध्यर्थं मन्त्रार्थादिविचारणाम् | वृद्धमस्तमितं त्यक्त्वा गृह्णीयान्मन्त्रमुत्तमम् || १८-८ || ( आनन्दभैरवी उवाच ) | शृणु वर्णफलं नाथ असाध्यप्रश्ननिर्णयम् | वर्णानाञ्च नाथ राशिभेदेन संशृणु प्रभो || १८-९ || बाल्यादिषु स्थितान् वर्गान् आश्रयेत् साधकोत्तमः | वर्जयेद् वृद्धभावञ्च तथास्तमितमेव च || १८-१० || आश्रयेद् राशिभावेन बाल्यकैशोरयौवन | अथ बाल्यं वर्गभेदं विचारे वामयोगतः || १८-११ || मन्त्राणाञ्चापि गणयेत् प्रश्नकर्माणि दक्षिणात् | मध्यकोणावधिं नाथ गणनीयं विचक्षणैः || १८-१२ || ऊद्र्ध्वदक्षिणयोगेन गणयेत् प्रश्नकर्मणि | वामयोगेन गणयेद् मन्त्रादीनां विचारणे || १८-१३ || शृणु तद्वर्गवर्गाणां फलमत्यन्तसुन्दरम् | वदामि परमानन्दरससिन्धुमधुव्रतः(त) || १८-१४ || कवर्गं कामाख्याभवनमणिपीठे त्रिजगता| धरित्री सा धात्री वसति सततं सिद्धिनवके | हुताशेष्वाकाशे जलदतनुसाकाशजननी | गभीरा खड्गाभा करहर(भयवर)करा घोरमुखरा || १८-१५ || अभ्यासयोगात् कलिकालपावनी| कालीं कुलानन्दमयीं रमेशीम् | महारसोल्लाससुवक्त्रलोचना| कामेश्वरीं कूर्मपदं(दं) भजेज्जयी || १८-१६ || कालागुरोरुत्तमसिद्धसेविता | मनोहरा खेचरसारशाखिनी | उल्कासमग्रा भवदीपवृत्ति-- स्तेज(ः)(प्र)कूटामलनीलदेहा || १८-१७ || खड्गायुधा खर्परधारिणी सा | चण्डोद्गमा वायुपथस्थ खेचरी | विद्याभयाखञ्जनलोचना गतिः | क्षितिक्षये खेचरवर्गधारिणी || १८-१८ || खारी विहारी खलखेलनेन | खराखरोन्मत्तगतिप्रिया खगा | महाखगारूपखलस्थिता सदा | प्रपाति विद्याबलविक्रमस्थिता || १८-१९ || व्यापारनिद्रागहनार्थचिन्ताखरप्रभाभाति यदा यदा || १८-२० || गायत्री गणनायिका मतिगतिग्लानिरगूढाशया | गीता गोकुलकामिनी गुरुतरा गार्ह्याग्निजेयोदया | गोरूपा गयहा गया गुणवती गाथापथस्थायिनी | श्रीगुर्वी प्रतिपालनं त्रिजगतां गायन्ति यां तां भजेत् || १८-२१ || वायोर्घर्मकरानन्दमोहिनी घर्घरा घना | निद्रामाध्याति घटना नीला घोटकवाहिनी || १८-२२ || बिन्दुस्था विषभोजनानलकथा बीजश्रमायोप्रिया | पञ्चाढ्यामनुनासिका सुखमयी वेदक्रिया षण्मुखी || १८-२३ || विचित्रवस्त्राचरणाब्जचालनम् | विचारचेष्टां मयि देहि चञ्चले || १८-२४ || इति वर्णं चवर्गस्य महापातकनाशनम् | कामचक्रे स्थितं यद्यत् प्रश्ने मन्त्रगृहे यथा || १८-२५ || चवर्गफलमत्यन्तनिष्कर्षं सूक्ष्मभावनम् | धिया सर्वाक्षरश्रेणीं भावयन्ति पुनः पुनः || १८-२६ || सर्वं जानाति शम्भो त्वं परं किं कथयामि ते | तथापि वर्गमाहात्म्यं कामचक्रस्थनिर्मलम् || १८-२७ || यो जानाति कामचक्रं यमो हन्ति न तं जनम् | तत्प्रकारं भावयुक्तं भावनाध्याननिर्मलम् || १८-२८ || ध्यात्वा कामरूपस्था मूलाधारनिवासिनः | देवताः पाथीवाः सर्वे आत्मानं परमेष्ठिनः || १८-२९ || न जानन्ति बालका मे तेषां योगादिसिद्धये | कामच्रकं कामरूपं कामनाफलसिद्धिदम् || १८-३० || तन्मन्त्रग्रहणादेव साक्षादीशो भवेन्नरः | श्रुतिशास्त्राणि सर्वाणि करे तस्य न संशयः || १८-३१ || योगशिक्षादिकं सर्वं जानाति कामचक्रतः | कामचक्रप्रसादेन कामरूपी भवेद् ध्रुवम् || १८-३२ || तद्वर्णस्थं तदन्तःस्थं दशकोणस्थमेव च | अष्टदलस्थं तत्रापि विचार्य साधकोत्तमः || १८-३३ || अनुलोमविलोमेन शास्त्रस्यानुक्रमेण च | बाल्यं कैशोरमुल्लासं वृद्धिः सिद्धिश्च यौवने || १८-३४ || वृद्धो वृद्धत्वमाप्नोति अस्ते च निधनं भवेत् | नवग्रहास्तत्र मध्ये पञ्चप्राणाश्च सन्ति वै || १८-३५ || अनुलोमविलोमेन गणयेद्दशकोणके | दशकोणे सर्वसिद्धिरष्टसिद्धिश्च तत्र वै || १८-३६ || अष्टपत्रे प्रशंसन्ति अधोऽनन्तमध्ये गृहे | ब्राह्मणमूर्ध्वगेहे च मन्त्रवर्णांश्च तत्तु तान् || १८-३७ || समाश्रित्य जपेद्विद्यां सूरयः क्रमरूपिणीम् | ह्रस्वदेवीं ह्रस्वबुद्धिं ददाति साधकाय च || १८-३८ || यदि क्रोधपरा विद्या भक्षयेत् साधकं लघु | अतः समवयोरूपां देवतामष्टसिद्धिदाम् || १८-३९ || देवो भूत्वा यजेद्देवं तदा मोक्षं समाप्नुयात् | यदि वर्णं न जानाति कौलपुत्रोऽप्यधो व्रजेत् || १८-४० || डाकिनी तं भक्षयति दीक्षामन्त्रार्णहीनकम् | ततो वर्णविचारञ्च प्रवक्ष्यामि समासतः || १८-४१ || चापान् धृत्वा नरेन्द्रस्तमपि मनुजकं पालयन्तीह लोके | सर्व चन्द्रो विघातं प्रचुरमयभयं भास्करो हन्ति शोकान् | चातुर्थ्या चक्रपाणेः पदमपि चपला सन्ददातीह माया-- | योगोद्योगी चरुगतमनसा साधकायाऽऽशु योगम् || १८-४२ || छत्राशा कमले स्थिता स्थितिलये वाञ्छाफलश्रीधरा | छायामण्डपमध्यगाच्छलगता छत्रञ्छटा तेजसा | त्रैलोक्यं प्रतिपाति पाशुपतिभिः क्षेत्राधिपैः श्रीधरैः | प्राणप्रेमविहारिणी भगवतीच्छत्रेण तं साधकम् || १८-४३ || जातिख्यातिरनुत्तमा प्रभवति प्रीतायमाभ्यासता| जीवानामतिदुःखराशिहननात् एकार्थसञ्चारिणी | वज्रा जीवनमध्यगा गतिमती विद्या जया यामिनी | जाता जातनिवारिणी जनमनःसंहारचिन्तावतु || १८-४४ || झं झंत्वादविवादं झटिति झरझरा झारयाबीजझङ्का| गङ्गा हन्ति हताशुभा धनमुखी कैवल्यमुक्तिप्रदा | कृत्वा रक्षति साधकं झरझनत्कारेण सूक्ष्मानिला | कामक्रोधविनाशिनी शशिमुखी झङ्कारशब्दप्रिया || १८-४५ || ञकारबीजामलभावसारैः बाणस्य पुञ्जं प्रतिहन्ति योगिनी | खड्गायुधा सा रसपानमत्ता संहारनिद्राकुलसाधुदुःखहा || १८-४६ || चन्द्रातपस्निग्धसुकान्त विग्रहा टङ्कास्त्र वज्रास्त्रहतारिपुङ्गवाः | टिं टिं महामन्त्रजपेन सिद्धिदा हन्ति श्रियं कापुरुषस्य पातकम् || १८-४७ || विशालनेत्रा यदि चारुकाङ्गी ठं ठं स्वबीजं परिपाति कक्षरी | मनोगतं दुःखसमूहमुर्वशी रत्नाकरा सैन्यकुलं निहन्ति || १८-४८ || डामरा जगतामाद्या डं डां डिं डीं स्वरूपिणी | कामचक्रे सुखं दत्वा सारयैवं तनोति सा || १८-४९ || ढं ढां बीजात्मिका विद्या रत्नमन्दिरस्ंस्थिता | ढक्कारी पाशहस्ता च साधक पाति सुन्दरी || १८-५० || णं णां णिं णीं जपति सुजनो जीवनीमध्यसंस्था | अष्टैश्वर्या प्रभवति हृदि क्षोभपुञ्जापहाय | वाराणस्यां सकलभयहा सन्ददातीह लक्ष्मी| सूक्ष्मात्यन्तानलपथमुखी कालजालं निहन्ति || १८-५१ || तारारूपा तरुस्था त्रिनयन कुटिला तारकाख्या | निहन्त्री तन्वश्रेणी तरुवरकलात्राणहेतोरतीता | तालक्षेत्रा तडिदिव कलाकोटिसूर्यप्रकाशा | तोकादीनां बहलतरुणी तारकं पाति भक्तम् || १८-५२ || कालक्रमेणैव विमुक्तिदायिनी मनोरमा नीरजनेत्र कोमला | स्थिता क्ष(थ)काराक्षरमालिनीस्थला प्रपाति मुख्यं वरसाधकं शिवा || १८-५३ || दाली दरिद्रातिनिकृष्टदुःखहा दान्तप्रिया दैत्यविदारिणी दहा | दानस्थलस्था दयिता जगत्पतेर्दयां ददाति द्रवदेवदारा || १८-५४ || धात्री धराधारणतत्परा धनी धनप्रदा धर्मगतिर्धरित्री | दधार धीरं धनबीजमालिनी ध्यानस्थिता धर्मनिरूपणाय || १८-५५ || नन्दस्य प्रतिपालनाय जगतामानन्दपुञ्जोदया | योगिन्यो नयनाम्बुजोज्ज्वलशिखाशोभा प्रमालाक्षरा | नीता नावपथस्थिता मतिमती याः पालयन्तीह ताः | पान्तु श्रीमुखतेजसा खलु यथा कालक्रमात् साधकम् || १८-५६ || पीता प्रेमविलासिनी वरपथज्ञानाश्रया पालनात् | पूज्या पायसपा परापरपदा पीताम्बरा पोषणा | प्रौढा प्रेमवती पुराणकथना पायात् पुरा पावनी | या कामेश्वरपावनं परजनं श्री साधकं प्रस्थिता || १८-५७ || फुत्फणिवरमाला फेरवी फेरुरूपा | फणधरमुखकुल्याम्भोजवाक्यामृताब्धौ | निरवधिहरिकण्ठे वाक्यरूपा फलस्था | फलगतफणिचूडा पातु फुल्लारविन्दे || १८-५८ || वज्राख्यां वशकारिणीं यदि जपेत् श्रीपादसंसेवनात् | बाल्यं वेदविनिर्गतां भगवतीं श्रीरामदेवोर्व्वराम् | वश्या तस्य कराम्बुजे वसति सा वीरासनःस्था वशा | वक्त्राम्भोरुह कोमले भगवती भूतेश्वरी भूतगा || १८-५९ || माता मन्दिरमालिनी मतिमतामानन्दमालामला | मिथ्यामैथुनमोहिनी मनसि या(जा) मि(मे)ला महन्मेलनी | मानी तं वदते महेश्वरमहित्वं तस्य वक्षःस्थले | स्थित्वा सा मरणं निहन्ति सहसा मौनावलम्बी भवेत् || १८-६० || यातप्रिया या प्रतिभाति योगिनी | यामास्थिता योगमुखास्पदा यथा | योनिस्थले सा यतिसाधक| यशोयात्रा सदा पाति यमादिकं दहेत् || १८-६१ || रत्नस्था रतिराजिता रणमुखे राज्ञः प्रियाभीतिहा-- | रुक्ष्मा(क्या)लङ्कृतरङ्गिणी रसवती रागापहा रोगहा | राजेन्द्रं रजनीस्थे प्रकुपिता राधामृता पाति त| स्वाहारूपमनोरमा सुरमणी रामा रकाराक्षरी || १८-६२ || लक्ष्मीर्लाङ्गलिलक्षणा सुललना लोलामला निर्भया | बालामूलमिवासतां लवणाकुला सिन्धूल्लासलीलाकुला | लोलाकोलकुलान्नजानलमुखी लग्नालघूराकुला | कौलार्काकुललोचना लयकरी लीलालयं पाति माम् || १८-६३ || विषासवस्थानरणस्थवासना | वश्यावहन्ती ललनावशार्थम् | सा पाति वीरं यदि तां भजेद् वशी | विषाशनं ते निवसन्ति वारुणीम् || १८-६४ || शीतां शशीशोक विशेषनाशिनी| भजेत् सुशीलां स भवेद्दवाकरः | शिवां शचीं शौचशुभां शवप्रिया| शवस्थितां शीतलदेशशोभिताम् || १८-६५ || षट्चक्रे षट्पदाषाढी षडङ्गस्था षडानना | षट्चक्रे सिद्धिदा पाति साधकं षोडशी मुदा || १८-६६ || सा मा सूक्ष्मा वहति सुजलं सप्तनाकस्थलाढ्या | सारा साक्षात् सुखसमरसोज्ज्वालसाह्लादसाम्या | साकारा साम्बुजमधुगिरा पूरयन्ती महार्थं | वेदा सौरा सुरमतिनिवहा सामवेदान्तरस्था || १८-६७ || हठात्कारेण सहारा हरति प्राणहं जनम् | निहारिणं न सा हन्ति हिरण्याहारमालिनी || १८-६८ || आलोका लक्षजपदा लाक्षरंल्लक्षणा समा | आलग्दानाल सालापा ? पाति तं यो भजेल्लघु || १८-६९ || क्षयं क्षितौ याति सुसूक्ष्मभावन| विहाय मन्त्री क्षयरोगहारिणी | सूक्ष्मातिसूक्ष्मान्यतमं विचिन्तयेत् | क्षोभादिकं पक्षकलाक्षयन्ती || १८-७० || षोडशस्वरभेदेन फलं शृणु महाप्रभो | संक्षेपेण प्रवक्तव्यमुत्कृष्टं फलकाङ्क्षणाम् || १८-७१ || श्लोकत्रयेण(द्वयेन) तत्सर्वं फलमत्यन्तसाधनम् | ये कुर्वन्ति महादेव कामचक्रोत्सवं यथा || १८-७२ || अ आ इ ई उ ऊ ऋ ॠ | आद्याष्टस्वरमङ्गलं जपति यः श्रीनाथवक्त्राम्बुजा| प्राप्य श्रीधरनायकः क्षितितले सिद्धो भवेत् तत्क्षणात् | राजा राजकुलेश्वरो जयपथे दीपोज्वलामालया | सम्पश्येत् परमां कलां जयति सः कामानलं ताडयेत् || १८-७३ || ऌ ऌ ए ए ओ औ अं अः | शेषाष्टौ स्वरपावनी प्रियजनानन्देन मन्दोदरी | मन्त्रं हन्ति मदानना त्रिजगतां साधूत्तमानां सुखम् | दत्त्वा पालयति प्रभा प्रलयके कौटिल्यविद्यापहा | भक्तये क्षितिपालनं निजजपध्यानाकुलामङ्गलम् || १८-७४ || इति वर्णफलं ज्ञात्वा यो गृह्णाति मनूत्तमम् | स भवेत् कुलयोगार्थी सिद्धज्ञानी महीतले || १८-७५ || वर्गे वर्गे फलं नाथ शृणु वक्ष्यामि अद्भुतम् | प्रश्नादीनाञ्च कथनं यो जानाति स साधकः || १८-७६ || कवर्गे कामसम्पत्तिं श्रिया व्याप्तं सुमन्दिरम् | प्राप्नोति कामचक्रार्थं राशिनक्षत्रसम्मतम् || १८-७७ || चवर्गे दीर्घजीवी स्यात् दृढसम्पदमेव च | वृत्तिं प्राप्नोति गमनादनुद्दश्य शरीरिणः || १८-७८ || समाचारं समाप्नोति गमने सर्वमुत्तमम् | टवर्गे सम्भवे नाथ महदुच्चाटनादिकम् || १८-७९ || पुत्राणामपि वृद्धिः स्यात् तवर्गे धनलाभकम् | पवर्गे मरणं नाथ यादि--क्षान्ते महागुणी || १८-८० || कामचक्रफलं नाथ राशिदण्डेन योजयेत् | निजगेहस्थितं राशिं ज्ञात्वा हि दिनदण्डतः || १८-८१ || गणयित्वाशुभं ज्ञानी अनुलोमविलोमतः | घटस्थं सकलं सन्धिकोणस्थं पार्श्वके शुभम् || १८-८२ || शुभमन्त्रं गृहीत्वा तु सिद्धिमाप्नोति साधकः || १८-८३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये पाशवकल्पे कामचक्रसारसङ्केते सिद्धिमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवभैरवी | संवादे अष्टादशः पटलः || १८ || अथोनविंशः पटलः आनन्दभैरवी उवाच इदं तु शृणु वक्ष्यामि सर्वतन्त्रार्थगोपनम् | तत्सर्वं प्रश्नचक्रे च षडाधारस्य भेदनम् || १९-१ || कालचक्रफलं तत्र निवीकल्पादिसाधनम् | प्रश्नचक्रं कामरूपं चैतन्यं सर्वदात्मनोः || १९-२ || षड्मन्दिरे षट्कलापं कैवल्यसाधनादिकम् | नानाभोगं योगसिद्धिं हित्वा यो मन्त्रमाजपेत् || १९-३ || स भवेद् देवताद्रोही कोटिकल्पेन सिध्यति | हृदि यस्य महाभक्तिः प्रतिभाति महोदया || १९-४ || क्षणादेव हि सिद्धिः स्यात् किं जपैर्मन्त्रसाधनैः | अतो भक्तिं सदा कुर्याद् देवताभावसिद्धये || १९-५ || भैरव उवाच एतच्चक्रप्रसादेन को वा किं सिद्धिमाप्नुयात् | एतस्य भावनादेव किं फलं भावनं शुभम् || १९-६ || को वा प्रश्नादिकथने क्षमो भवति सुन्दरि | तत्प्रकारं विधानेन वद मे फलसिद्धये || १९-७ || आनन्दभैरवी उवाच यः करोति पूर्णहोमं पुत्रार्थं योगसिद्धये | कुण्डलीक्रमयोगेन पुनः पुनः क्रमेण च || १९-८ || एतच्चक्रार्थभावज्ञः स एव नात्र संशयः | यः करोति सदा नाथ वायुनिर्गमलक्षणम् || १९-९ || ऊर्ध्वं संस्थाप्य विधिवद् भावनां कुरुते नरः | स एव सिद्धिमाप्नोति सिद्धमार्गो(र्गे) न संशयः || १९-१० || फलमेतद्भावनार्थं कामक्रोधादिवजीतः | भावनाफलसिद्ध्यर्थं वायुसंयोगसंक्रमात् || १९-११ || लेपयित्वा शोधयित्वा मन्त्रयित्वा पुनः पुनः | धर्माधर्मविरोधेन सूक्ष्मवायुक्रमेण च || १९-१२ || प्राप्नोति महतीं सिद्धिमेतच्चक्रस्य तत्फलम् | फलञ्च द्विविधं प्रोक्तं स्थूलसूक्ष्मपरस्थितम् || १९-१३ || स्थूलं त्यक्त्वा महासूक्ष्मे मनो याति यदा यदा | तदा हि महती सिद्धिरमरस्तत्क्षणाद् भवेत् || १९-१४ || एकबारं भावयेद्यः सिद्धचक्रस्य वर्णकान् | तस्यैव भावसिद्धिः स्याद् भावेन किं न सिद्ध्यति || १९-१५ || महद्भावं विना नाथ कः सिद्धिफलकग्रही | योगभ्रष्टः स्थूलफले परजन्मनि सिद्धिभाक् || १९-१६ || एहिके सिद्धिमाप्नोति सूक्ष्मफलक्रमेण च | यो जानाति सूक्ष्मफलं स योगी भवति ध्रुवम् || १९-१७ || स एव प्रश्नकथने योग्यो भवति साधकः | यः सूक्ष्मफलभोक्ता स्यात् क्रियागोपनतत्परः || १९-१८ || निरन्तरं प्रश्नचक्रं आज्ञाचक्रोपरि स्थितम् | विभाव्य कालसिद्धिः स्यात् सर्वज्ञो वेदपारगः || १९-१९ || कालज्ञानी च सर्वज्ञ इति तत्त्वार्थ निर्णयः | प्रश्नचक्रस्थितं वर्णं सूक्ष्मकालफलावहम् || १९-२० || मनोरूपं दण्डभेदं मासभेदं सवर्गकम् | मनसो भ्रम एवं हि काल एको न संशयः || १९-२१ || मृत्यु(त्यं)वशं करोत्येव कालज्ञानी स योगिराट् | कालेन लीयते सर्वं त्रैलोक्यं सचराचरम् || १९-२२ || कालाधीनमिदं विश्वं तस्मात् काल(ल्ं)वशं नयेत् | तत्कालं सूक्ष्मनिलयं दुर्वाच्यं प्रश्नकं शृणु || १९-२३ || मेषं तुलाराशिमनुत्तमं सदा | वैशाखमासे फलसिद्धिकारणम् | कवर्गमावाप्य स्वरान् स एव | विभावयेत् स क्षितिनाथ आभवेत् || १९-२४ || आज्ञाचक्रोपरि ध्यात्वा सर्वचक्रं महाप्रभो | एकक्षणेन सिद्धिः स्यात् परभावेन हेतुना || १९-२५ || सिद्धेशचक्रचैतन्यं यो जानाति महीतले | वाक्सिद्धिर्जायते मासाद्दिवारात्रिक्रमेण च || १९-२६ || वर्णमालासमाक्रान्तं राशिनक्षत्रसंयुतम् | ग्रहचक्रं भावयित्वा सर्वं जानाति साधकः || १९-२७ || च वर्गं वृषमीनस्थं कैशोरसिद्धिकारणम् | द्विमाससाधनादेव सर्वज्ञो भवति ध्रुवम् || १९-२८ || योगिनी खेचरी भूत्वा प्रयाति निकटे सताम् | ग्रहचक्रप्रसादेन जीवन्मुक्तस्तु साधकः || १९-२९ || यदि कर्म करोत्येव एकान्तचित्तनिर्मलः | तस्याऽसाध्यं त्रिभुवने न किञ्चिदपि वर्तते || १९-३० || प्रश्नचक्र प्रसादेन सर्वे वै योगिनो भुवि | यदि योगी भवेद् भूमौ तदा मोक्षमवाप्नुयात् || १९-३१ || विना योगसाधनेन कः सिद्धो भूमिमण्डले | साधनेन विना सिद्धिः कस्य भक्तस्य जायते || १९-३२ || भक्तानां निकटे सर्वे प्रतिष्ठन्ति महर्षयः | अतो भक्तिं सदा कुर्यात् सर्वधर्मान् विहाय च || १९-३३ || तत्कालं भक्तिमाप्नोति प्रश्नचक्रप्रसादतः | तत्प्रकारं महाधर्मं को वक्तुं क्षम एव हि || १९-३४ || कञ्चित्तद्भावसारञ्च प्रश्नचक्रे वदाम्यहम् | चवर्गभावनादेव भक्तिं प्राप्नोति साधकः || १९-३५ || समाधाय परं देवमाज्ञाचक्रोपरि प्रभो | विभाव्य नित्यभावं हि प्राप्नोति तत्कुलाद(कलाम)पि || १९-३६ || आनन्दाश्रूणि पुलको देहावेशमनोलयम् | सर्वकर्म स्वयं--त्यागी यः करोति स योगिराट् || १९-३७ || टवर्गे वासनासिद्धिः संसाररहितो भवेत् | बलवान् सर्वविज्ञानी त्रिमासे खेचरो भवेत् || १९-३८ || खेचरीमेलनं तस्य परं प्राप्नोति चक्रतः | टवर्गं व्याप्य तिष्ठन्ति मिथुनं कुम्भयोनयः || १९-३९ || स्वनक्षत्रस्वयोगञ्च विभाव्य योगिराड् भवेत् | चतुर्मासे पूर्णयोगी तवर्गसाधनादपि || १९-४० || वेतालादिमहासिद्धिमिन्द्रसिद्धिं समाप्नुयात् | तवर्गं व्याप्य तिष्ठन्ति मकरवृश्चिककर्कटाः || १९-४१ || चिरजीवी भवेदीश इन्द्रतुल्यप्रियो भवेत् | तिष्ठेत् प्रलयपर्यन्तं महाप्रलयरूपवान् || १९-४२ || कृत्वा काल(ल्ं)वशं मन्त्री महावायौ महालयम् | महाचक्रे सूर्यमध्ये वह्निमण्डलमध्यगे || १९-४३ || वाग्देवता तस्य साक्षाद्भवतीति न संशयः | पवर्गं व्याप्य तिष्ठन्ति धनुःसिंहास्तु चित्कलाः || १९-४४ || विभाव्य परमस्थानं स(न) नश्यति महानिलम् | त्रैलोक्यमष्टवर्गं च षट्चक्रं चक्षुषा क्षणात् || १९-४५ || यदि वान्तं ब्रह्मरूपं सर्वतीर्थपदाश्रय | महासत्त्वगुणाक्रान्तं मत्वा निर्मलचक्षुषा || १९-४६ || कन्यावृश्चिकराशिभ्यां ब्रह्ममार्ग विलोकयेत् | षण्मासेन सिद्धिः स्याद् महाकौलो भवेद् ध्रुवम् || १९-४७ || मौनी एकान्तभक्तः स्यात् श्रीपादाम्भोजदर्शनम् | प्राप्नोति साधकश्रेष्ठः सायुज्यपदवीं लभेत् || १९-४८ || ततो मध्ये प्रगच्छन्ति योगिनस्तत्त्वचिन्तकाः | शादिक्षान्ते चतुष्कोणे सर्वयोगाश्रये पदे || १९-४९ || विभाव्य याति शीघ्रं सः श्री देवीलोकमण्डले | महाकालो भवेद् धीमान् प्रश्नचक्रस्य भावकः || १९-५० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये पाशवकल्पे प्रश्नचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवभैरवीसंवादे | ऊनविंशः पटलः || १९ || अथ विंशः पटलः आनन्दभैरवी उवाच अथ वक्ष्ये महादेव सिद्धमन्त्रविचारणम् | जपित्वा भावयित्वा च नरो मुच्येत सङ्कटात् || २०-१ || आनन्दभैरव उवाच फलचक्रे सर्वमन्त्रं सर्वसारं तनुप्रियम् | क्रियायोगाद् भवेत् सिद्धिर्वायवीशक्तिसेवनात् || २०-२ || वह्निबीजं त्रिकोणस्थं षट्कोणं तद् बहिः प्रभो | षट्कोणे षण्मनुं(नून्) ध्यात्वा षण्मासाद्रुद्ररूपिणः || २०-३ || अष्टकोणे स्थितान् वर्णान् अङ्कभेदेन पण्डितः | अङ्कसंख्याक्रमेणैव ध्यात्वा तद् बहिरेव च || २०-४ || तत्संख्यासु गतान् वर्णान् विभाव्य खेचरो भवेत् | विना त्रिकोणयोगेन षटकोणं तत्र वर्णकान् || २०-५ || आज्ञाचक्रमध्यदेशे कामचक्रं मनोरमम् | कामचक्रं(क्र) मध्यदेशे महासूक्ष्मफलोदयम् || २०-६ || प्रश्नचक्रं षट्पदार्थं षट्चक्रफलसाधनम् | प्रश्नचक्रे फलचक्रं योगाष्टाङ्गफलप्रदम् || २०-७ || फलचक्रस्योद्र्ध्वभागे वर्णमालाक्रमेण तु | तद्वर्णान् मौनजापेन फलसारं समाप्नुयात् || २०-८ || फलचक्रप्रसादेन तत्त्वचिन्तापरो(रा) मतिः | स्थित्वा भू(भ्रू)मध्यकुहरे सदा भावयतीश्वरम् || २०-९ || भावज्ञानी भवेत् शीघ्रं मूढोऽपि भावनावशात् | आदौ सूक्ष्मफलं वक्ष्ये वर्णभेदेन शङ्कर || २०-१० || वह्निर्भाति निरन्तरं त्रिजगतां नाशाय रक्षाकरो | जीवः सर्वचला चलस्थदहनं श्रीकालिकाविग्रहः | सर्वव्यापक ईश्वरः क्षयति यः कामान् मनःपल्लव| ध्यात्वा तं समरूपवान् परशिवज्ञानी भवेत्तत्क्षणात् || २०-११ || वह्निबीजं सूक्ष्मफलं साक्षात् प्रत्यक्षकारणम् | त्रिकोणस्थं वह्निबीजं विधिविद्याप्रकाशकम् || २०-१२ || अकस्मात् सिद्धिदातारं यो भजेत् स भवेत् सुखी | षट्कोणस्थवर्णमन्त्रान् शृणुष्वानन्दभैरव || २०-१३ || यज्ज्ञात्वा देवताः सर्वा दिग्विदिक्षु प्रपालकाः | तद्भेदं रमणीयार्थं सङ्केतशुद्धिलाञ्छितम् || २०-१४ || वह्निबीजस्योद्र्ध्वदेशे चन्द्रबीजमनुत्तमम् | तत्र यो भावयेन्मन्त्री स सिद्धो नात्र संशयः || २०-१५ || विधोर्बीजं सूक्ष्मं विमलकमलं कान्तकिरण| सदा जीवस्थानं प्रलयनिलयं वायुजडितम् | ततो वामे सूर्यं सकलविफलध्वंसनिकर| महावह्निस्थानं भजति सुजनो भावविधिना || २०-१६ || तदधः कोणगेहे च श्रीबीजं पञ्चमस्वरम् | भावकल्पलतासारमकारादिकुलाक्षरम् || २०-१७ || चतुःपञ्चाशदङ्कस्थं वायुबीजमधस्ततः | विभाव्य वायवीसिद्धिमवाप्नोति नराधिपः || २०-१८ || तदङ्गं दक्षिणे नाथ भवानीबीजमण्डलम् | युग्मस्वरसमाक्रान्तं विभाव्य योगिराड् भवेत् || २०-१९ || तद्दक्षिणोर्ध्वकोणे च सोमबीजमनुत्तमम् | विभाव्य जगतामीशदर्शनं प्राप्नुयान्नरः || २०-२० || तदूर्ध्वे परमं बीजं साक्षात्कारफलप्रदम् | मासैकभावनादेव देवलोके गतिर्भवेत् || २०-२१ || तदूर्ध्वकोणगेहे च रुक्मिणीबीजमद्भुतम् | साधनादेव सिद्धिः स्याल्लक्ष्मीनाथो भवेदिह || २०-२२ || अङ्गक्रमेण सर्वत्र ज्ञेयं स्वरविधानकम् | येन तेन स्वरेणापि वेष्टितं फलबीजकम् || २०-२३ || भवत्येव महादेव वायुसिद्ध्यादिकारणम् | अष्टकोणं(ण)तले नाथ षट्कोणे योनि सन्ति वै || २०-२४ || तद्बीजानि सत्फलानि ध्यात्वा वाक्सिद्धिमाप्नुयात् | रेफोद्र्ध्वे कमलाबीजं भावकल्पद्रुमाकरम् || २०-२५ || सर्वत्र तेजसा व्याप्तं विभाव्य योगिनीपतिः | तदधः शीतलाबीजं वामभागक्रमेण तु || २०-२६ || विभाव्य परमानन्दरसे मग्नो महासुखी | तदधः कामबीजञ्च कामनाफलसिद्धिदम् || २०-२७ || यो जपेत् परमानन्दो नित्यज्ञानी च वायुना | तदग्रे वेदकोणे च वारुणं बीजमुत्तमम् || २०-२८ || विभाव्य भावको भूत्वा चिरजीवी स जीवति | तदूर्ध्वे पञ्चमे कोणे वज्रबीजं वकारकम् || २०-२९ || अष्टसिद्धिकरं साक्षाद् भजतां शीघ्रसिद्धिदम् | षट्कोणे च तदूर्ध्वे च सुरबीजं महाफलम् || २०-३० || हृदि यो भावयेन्मन्त्री तस्य सिद्धिः प्रतिष्ठिता | अष्टकोणस्योद्र्ध्वदेशे वर्णमालाविधिं शृणु || २०-३१ || येन भावनमात्रेण सर्वज्ञो जगदीश्वरः | ओ औ पवर्गमेवं हि यो नित्यं भजतेऽनिशम् || २०-३२ || तस्य सिद्धिः क्षणादेव वायवीरूपभावनात् | चन्द्रबीजस्योद्र्ध्वदेशे विभाति पूर्णतेजसा || २०-३३ || ऌ ए ए तवर्गञ्च तद्दक्षिणविधानतः | तेजोमयी वायुशक्तिर्ददाति सर्वमङ्गलम् || २०-३४ || टवर्गं भावयेन्मन्त्री ऋ ऋ ऌ स्वरसंयुतम् | अष्टैश्वर्यप्रदं नित्यं कमलासनसिद्धिदम् || २०-३५ || तदधो भावयेद् यस्तु स भवेत् कल्पपादपः | भवानीबीजरूपस्य अधो गेहे विभावयेत् || २०-३६ || इ ई युग्मं चवर्गञ्च भावयित्वामरो भवेत् | अ आ इ संयुतो नाथ कवर्गं कुरुते जयम् || २०-३७ || भावयेत् परया भक्त्या सोऽभीष्टं फलमाप्नुयात् | इत्येतत् कथितं नाथ फलचक्रं च सारदम् || २०-३८ || एतच्चक्रभावनाभिर्महाविद्यापतिर्भवेत् | कामरूपे महापीठे लिङ्गपीठे प्रयत्नतः || २०-३९ || आज्ञाचक्रं चतुश्चक्रं भावयित्वाऽमरो भवेत् | महायोगी हिरण्याक्षो मासैकभावनावशात् || २०-४० || सप्तद्वीपेश्वरो भूत्वा अन्ते विष्णुर्बभूव सः | स्थिरचेताः स योगी स्यादिति तन्त्रार्थनिश्चयः || २०-४१ || एतानि चक्रसाराणि आज्ञाचक्रस्थितानि च | विभाव्य परमानन्दैरात्मसिद्धिर्भवेद् ध्रुवम् || २०-४२ || सूक्ष्मवायुप्रसादेन चिरजीवी भवेदिह || २०-४३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावप्रश्नार्थनिर्णये पाशवकल्पे फलचक्रसारसङ्केते सिद्धमन्त्रप्रकरणे चतुर्वेदोल्लासे भैरवीभैरवसंवादे | विंशः पटलः || २० || अथैकविंशः पटलः श्रीभैरव उवाच वद कान्ते रहस्यं मे येन सिद्धो भवेन्नरः | तत्प्रकारं विशेषेण देवानामपि दुर्लभम् || २१-१ || वीरभावस्य माहात्म्यमकस्मात् सिद्धिदायकम् | करुणादृष्टिरानन्दा यदि चेदस्ति सुन्दरि || २१-२ || आनन्दभैरवी उवाच परमानन्दसारज्ञो योगक्षेत्रप्रपालक | रहस्यं शृणु मे नाथ महाकालज्ञ भावग || २१-३ || योगमार्गानुसारेण वीरभावं श्रयेत कः | आनन्दोद्रेकपुञ्जं तत् शक्तिवेदार्थनिर्णयम् || २१-४ || वेदाधीनं महायोगं योगाधीना च कुण्डली | कुण्डल्यधीनं चित्तं तु चित्ताधीनं चराचरम् || २१-५ || मनसः सिद्धिमात्रेण शक्तिसिद्धिर्भवेद् ध्रुवम् | यदि शक्तिर्वशीभूता त्रैलोक्यञ्च तदा वशम् || २१-६ || अमरः स भवेदेव सत्यं सत्यं कुलेश्वर | सहस्रश्लोकयोगेन वीरयोगार्थनिर्णयम् || २१-७ || पटलैकादश क्षेमयोगेन योगमण्डलम् | षट्चक्रबोधिनी विद्या सहस्रदलपङ्कजम् || २१-८ || कैलासाख्यं सूक्ष्मपथं ब्रह्मज्ञानाय योगिनाम् | कथयामि महावीर क्रमशः क्रमशः शृणु || २१-९ || वीराणामुत्तमानाञ्च भ्रष्टानां प्रहिताय च | साक्षात् सिद्धिकरं यद्यत् तत्सर्वं प्रवदामि ते || २१-१० || योगशास्त्रक्रमेणैव यः सिद्धिफलमिच्छति | स सिद्धो भवति क्षिप्रं ब्रह्ममार्गे न संशयः || २१-११ || ब्रह्मविद्यास्वरूपेण जपहोमार्चनादिकम् | कुरुते फलसिद्ध्यै यः स ब्रह्मज्ञानवान् शुचिः || २१-१२ || षट्चक्रभेदने प्रीतिर्यस्य साधनचेतसः | संसारे वा वने वापि सिद्धो भवति ध्रुवम् || २१-१३ || षट्चक्रार्थं न जानाति यो भजेदम्बिकापदम् | तस्य पापं क्षयं याति सप्तजन्मसु सिद्धिभाक् || २१-१४ || ज्ञात्वा षट्चक्रभेदञ्च यः कर्म कुरुतेऽनिशम् | संवत्सरात् भवेत् सिद्धिरिति तन्त्रार्थनिर्णयः || २१-१५ || प्रस्वेदनं समाप्नोति मासत्रयनिषेवणात् | अष्टमासात् कल्प(म्प)नाशो वत्सरात् खेचरी गतिः || २१-१६ || प्रस्वेदमधमं प्रोक्तं कल्प(म्प)नं मध्यमं स्मृतम् | भूमेरुत्थापनं नाथ खेचरत्वं महासुखम् || २१-१७ || द्वात्रिंशद् ग्रन्थिभेदञ्च मूलाधारावधिस्थितम् | मेरुदण्डाश्रितं देशं कृत्वा ब्रह्ममयो भवेत् || २१-१८ || सुषुम्ना बाह्यदेशे च यद् यद् ग्रन्थिपदं प्रभो | क्रमशः क्रमशो भित्वा खेचरो भवति ध्रुवम् || २१-१९ || अल्प(न्य)कार्ये मनो दत्वा ध्यानज्ञानविवजीतः | उन्मत्तः स भवेदेव शास्त्राणां योगिराड् भवेत् || २१-२० || हिमकुन्देन्दुधवलां बालां शक्तिं महोज्ज्वलाम् | कलिकालफलानन्दां मूले ध्यात्वा भवेद् वशी || २१-२१ || मूलपद्मं(द्मे) महाज्ञानी ध्यात्वा चारुचतुर्दले | कपिलाकोटिदानस्य फलं प्राप्नोति योगिराट् || २१-२२ || मूलपद्मे कोटिचन्द्रकलायुक्तं सरक्तकम् | गलत्सुधारसामोदवदनाब्जं फलं भजेत् || २१-२३ || निर्मलं कोटिवीरोग्रतेजसं ब्रह्मरूपिणम् | वामपार्श्वे कुण्डलिन्या विभाव्य शीतलो भवेत् || २१-२४ || ततः श्रीयामलं वीरं तदाकारं तदुद्भवम् | ललाटवह्निजं देव्या नाथं भजति योगिराट् || २१-२५ || तत्र पद्मपूर्वदले सिन्धूरारुणविग्रहम् | वकारं कोटिचपलामालं भजति योगिराट् || २१-२६ || तत्पार्श्वे शोणितदले आज्ञाचक्रं मनोरमम् | यथा ध्यानं कुण्डलिन्या आज्ञाचक्रे तथात्र च || २१-२७ || भूमिचक्रक्रमं नाथ शृणु शङ्कर योगिनाम् | यं ध्यात्वा सिद्धिमाप्नोति सिद्धिदं षड्गृहं भवेत् || २१-२८ || षड्गृहं त्रिकालागेहमेकत्रस्थं महाप्रभम् | ध्यायेद् योगिनीगेहं मध्यगेहे रबीजकम् || २१-२९ || वकारं दक्षिणे गेहे हेममालिनमञ्जनम् | डाकिनी परमाबीजं ब्रह्मबीजं विभावयेत् || २१-३० || वकारवामपार्श्वे च योगिनां योगसाधनम् | सदाशिवमहाबीजं विभाव्य योगिराड् भवेत् || २१-३१ || वं बीजं वारुणाध्यक्षं हिमकुन्देन्दुनिर्मलम् | तद्विष्णोर्जन्मसंस्थानं सत्त्वं द्रवमुपाश्रयेत् || २१-३२ || तदूर्ध्वपूर्वगेहे च लं बीजमिन्द्रपूजितम् | विद्युल्लताहेमवर्णं विभाव्य योगिनां पतिः || २१-३३ || इन्द्रबीजं दक्षपार्श्वे श्रीबीजं बिन्दुलाञ्छितम् | स्थिरविद्युल्लतारूपमिन्द्राण्याः साधु भावयेत् || २१-३४ || तद्वामपार्श्वभागे च प्रणवं ब्रह्मसेवितम् | विभाव्य कोटिमिहिरं योगिराड् भवति ध्रुवम् || २१-३५ || वं बीजाधोमन्दिरे श्रीविद्यायाः बीजतेजसम् | कोटिसूर्यप्रभाकारं विभाव्य सर्वगो भवेत् || २१-३६ || निजदेव्या वामभागे अधः कनकमन्दिरे | श्रीगुरो रमणं बीजं ध्यात्वा वाग्भवमीश्वरम् || २१-३७ || निजदेव्या दक्षपार्श्वे दीर्घप्रणवतेजसम् | कोटिसूर्यप्रभारूपं ध्यात्वा योगी भवेद् यतिः || २१-३८ || निजदेवीं तत्र पद्मे मनःसद्वाक्ययोगकैः | यथा ध्यानं तथा मौनं ध्यानं कुर्याज्जगत्पतेः || २१-३९ || ब्रह्मणः पूरकेणैव महायोगक्रमेण तु | सूक्ष्मवायूद्गमेनापि भूमिचक्रे जपञ्चरेत् || २१-४० || चतुष्कोणं धरायास्तु नवभूमिगृहान्वितम् | अष्टगेहं विभेद्यादौ वसुशून्ये यजेद् यतिः || २१-४१ || धराबीजं वान्तवर्णं शक्रेण परिपूजितम् | विभाव्य कुण्डलीतत्त्वं सर्वसिद्धीश्वरो भवेत् || २१-४२ || भजेदिन्द्रं तत्र नाके श्वेतकुञ्जरवाहनम् | चतुर्बाहुं देवराजं विद्युत्पुञ्जं भवक्षयम् || २१-४३ || डाकिन्या मन्दिरे कान्तं ब्रह्माणं हंसहंसगम् | नवीनार्कं चतुर्बाहुं चतुर्वक्त्रं भजेद् वशी || २१-४४ || ब्रह्माणं डाकिनीयुक्तं सिन्दूराप्लुतभास्करम् | परमामोदमत्तं तं विभाव्य योगिराड् भवेत् || २१-४५ || विद्युल्लतावदुज्ज्वलां श्रीदेवडाकिनीं सुराट् | अभीक्षां(क्ष्णां) रक्तनयनां हंसस्थां भावयेद् वशी || २१-४६ || हंसोद्र्ध्वे कमलाबीजं सर्वालङ्कारभूषितम् | महालक्ष्मीस्वरूपं यत्तद् भजन्ति महर्षयः || २१-४७ || इन्द्रपृथ्वीबीजवामे प्रणवं ब्रह्मसेवितम् | प्राणायामसिद्धिदं यत्तद् भजन्ति महर्षयः || २१-४८ || तदधः प्राणनिलयं प्रेतबीजं शशिप्रभम् | विभाव्य शिवतुल्यः स्याद् भूमिचक्रे सदाशिवः || २१-४९ || तदधो वाग्भवं ध्यायेत् कोटिसौदामिनीप्रभम् | गुरुबीजं भूमिचक्रे महाविद्यागुरुर्भवेत् || २१-५० || दक्षिणे मध्यगेहे च श्रीविद्यानिर्मलं पदम् | विभाव्य मानसध्यानात् सिद्धो भवति साधकः || २१-५१ || तद्दक्षिणे शेषगेहे प्रणवान्तं मनूत्तमम् | सर्वाधारं ब्रह्मविष्णुशिवदुर्गापदं भवेत् || २१-५२ || एतत् श्रीभूमिचक्रार्थं सर्वं चैतन्यकारकम् | मूलाधारपूर्वदले वकारं व्याप्य तिष्ठति || २१-५३ || भूमिचक्रमण्डले तु वकारस्थं स्मरेद्यदि | ब्रह्माण्डमण्डलेशः स्यादण्डं व्याप्यैकपत्रकम् || २१-५४ || तदेकपत्रं पदस्य शोणितं निर्मलद्युतिम् | तन्मध्यान्ते भूमिचक्रे मध्ये वं भावयेद् वशी || २१-५५ || एतच्चक्रप्रसादेन वरुणो मदिरापतिः | अमृतानन्दहृदयः सर्वैश्वर्यान्वितो भवेत् || २१-५६ || द्वितीये दक्षिणे पत्रे वान्तबीजं महाप्रभम् | मनो विधाय योगीन्द्रो ध्यायेद् योगार्थसिद्धये || २१-५७ || तत्र ध्यायेत् स्वर्गचक्रं स्वर्गशोभासमाकुलम् | विभाव्य स्वर्गनाथः स्याद्देवेन्द्रसदृशो भुवि || २१-५८ || पञ्चकोणं विभेद्यापि पञ्चकोणं विभाति यत् | तन्मध्ये वृत्तयुगलं तत्र षट्कोणगं भजेत् || २१-५९ || एतत् स्वर्गाख्यचक्रं तु भूपुरद्वयमध्यके | दक्षिणोत्तरपत्रस्थे विभाव्य वान्तमीश्वरम् || २१-६० || षट्कोणान्तर्गतं वान्तं विद्युत्कोटिसमप्रभम् | तमाश्रित्य सुराः सर्वे दशकोणे वशन्ति ते || २१-६१ || पूर्वकोणे महेन्द्रश्च सर्वदेवसमास्थितः | इन्द्राणी सहितं ध्यात्वा योगीन्द्रो भवति ध्रुवम् || २१-६२ || तद्दक्षिणे रक्तकोणे वह्निं स्वाहान्वितं स्मरेत् | कोटिकालानलालोलं परिवारगणान्वितम् || २१-६३ || तद्दक्षिणे कामरूपी भाति शक्तियुतः प्रभुः | परिवारान्वितं ध्यात्वा तं मृत्यु(त्युं)वशमानयेत् || २१-६४ || नैरृतं विद्युदाकारं कन्दर्पदमनं प्रियम् | शक्तियुक्तं स्वरानन्दं विभाव्य योगिनीपतिः || २१-६५ || तदधो वरुणं ध्यात्वा सुशक्तिपरिलालितम् | जलानामधिपं सत्त्वं नित्यसत्त्वश्रियो भवेत् || २१-६६ || तद्वामे मरुतः कोणं मरुद्गणविभाकरम् | वायुस्थानं लयस्थानं वायुव्याप्तं भवेत् सुधीः || २१-६७ || तत्पश्चाद् गणनाथञ्च मत्तं शक्तिसमन्वितम् | परिवारगणानन्दं विभाव्य स्याद् गणेश्वरः || २१-६८ || तत्पश्चात् परमं स्थानमीशं शक्तिसमन्वितम् | परिवारान्वितं ध्यात्वा कामरूपी भवेद्यतिः || २१-६९ || तत्पश्चात् कोणगेहे च चन्द्रसूर्याग्नितेजसम् | एकरूपमूद्र्ध्वसंस्थं ब्रह्माणं भावयेद्यतिः || २१-७० || इन्द्रवामकोणगेहे अनन्तं वह्निरूपिणम् | अनन्तसदृशं ध्यात्वा अनन्तसदृशो भवेत् || २१-७१ || एतत् स्वचक्रमध्ये तु वृत्तयुग्मं महाप्रभम् | सर्वदा वह्निना व्याप्तं ज्वलदग्निं विभावयेत् || २१-७२ || वृत्तमध्ये च षट्कोणं कोणे कोणे रिपुक्षयम् | लोभमोहादिषट्कञ्च हरेत् षट्कोणस्ंस्थितान् || २१-७३ || लोभं हरति इन्द्राणी(ग्नी) मोहं हरति दण्डधृक् | कामं नैरृतवरुणौ क्रोधं वायुश्च योगिनाम् || २१-७४ || मदं हरेदधीशश्च ब्रह्मानन्तौ हि योगिनाम् | मात्सर्यं संहरत्येव मासत्रयनिषेवणात् || २१-७५ || षट्कोणमध्यदेशस्थं वान्तबीजं शशिप्रभम् | स्वर्णालङ्कारजडितं भावयेद् योगसिद्धये || २१-७६ || सदा व्याप्तं कुण्डलिन्या पालितं मण्डितं सुधीः | तैले यथा दीपपुञ्जं विभाव्य योगिराड् भवेत् || २१-७७ || स्वयंभूलिङ्गं तत्रैव विभाव्य चन्द्रमण्डलम् | आप्लुतं कारयेन्मन्त्री कुण्डलीसहितं वशी || २१-७८ || एवं क्रमेण सिद्धः स्यात् कुण्डल्याकुञ्चनेन च | सदाभ्यासी महायोगी संस्थाप्य वायवीं ततः || २१-७९ || वायव्याभासयुक्तेन एतच्चक्राश्रयेण च | मूकोऽपि वाक्पतिर्भूयात् फलभागी दिने दिने || २१-८० || तृतीयदलमाहात्म्यं योगिज्ञानोदयं परम् | भावसिद्धिर्भवेत्तस्य यो भजेदात्मचिन्तनम् || २१-८१ || दलमध्ये तुलाचक्रं चतुष्कोणो गृहाणि च | द्वात्रिंशद् ग्रन्थिरूपाणि सन्ति ग्रन्थिविभेदने || २१-८२ || तुलाचक्रस्य नाडीभिर्द्वात्रिंशद् ग्रन्थिभेदनम् | गलदेशावधि ध्यानं मेरुमध्ये प्रकारयेत् || २१-८३ || द्वात्रिंशद्ग्रन्थिगेहस्य मध्ये वृत्तत्रयं शुभम् | तन्मध्ये च त्रिकोणे च खं मूर्द्धन्यं भजेद् वशी || २१-८४ || एतद्गेहे विभाव्यानि वर्णजालफलानि च | दक्षिणावर्तयोगेन विभाव्य वाक्पतिर्भवेत् || २१-८५ || अकारमाद्यगेहे च अनुस्वारं द्वितीयके | विसर्गं तु तृतीये च यो भजेत्स भवेद्वशी || २१-८६ || एतदन्यमन्दिरेषु कादिहान्तं विभावयेत् | वादिसान्तं वर्जयित्वा सबिन्दुं स भवेद्वशी || २१-८७ || आज्ञाचक्रे यथानामफलं प्राप्नोति साधकः | वर्णानां मूलपद्मे तु तत्फलं हि तुलागृहे || २१-८८ || भजेन्मध्यं सकारस्य त्रिवृत्तस्थ त्रिकोणके | ज्वालामालसहस्राढ्यं स्वर्णालङ्कृतमाश्रयेत् || २१-८९ || प्रत्येकवर्णपुटितं तुलाचके च मौनवान् | मौनं जपं यः करोति षकारं व्याप्य योगिराट् || २१-९० || एतद्योगप्रसादेन चैतन्या कुण्डली भवेत् | वाक्सिद्धिश्च भवेत्तस्य तापत्रयविनाशिनी || २१-९१ || सिद्धिर्मन्त्रस्य वर्णानां जपमात्रेण शङ्कर | तुलाचक्रान्तरस्थानं विभाव्य मन्त्रसिद्धिभाक् || २१-९२ || एतच्चक्रं विना नाथ कुण्डली नापि सिद्ध्यति | भावज्ञानं बिना कुत्र योगी भवति भारते || २१-९३ || अथान्यदलमाहात्म्यं शृणु वक्ष्यामि तत्त्वतः | योगसञ्चारसारं यत् कुण्डलीशक्तिसाधनम् || २१-९४ || शक्तिबीजं बिन्दुयुक्तम् अष्टकोणस्थनिर्मलम् | विद्युत्पुञ्जं स्वर्णमालावेष्टितं भावयेद्यतिः || २१-९५ || चतुष्कोणं विभेद्यापि चतुष्कोणं मनोहरम् | तन्मध्ये च चतुष्कोणं सबीजं भावयेत्ततः || २१-९६ || कोटिसूर्यसमां देवीं कुण्डलीदेवमातरम् पादाङ्गुष्ठावधिं ध्यात्वा सर्वसिद्धीश्वरो भवेत् || २१-९७ || यदि वारिचक्रमध्ये ध्यानं कुर्वन्ति मानुषाः | अमराः सत्त्वयोगस्थाः षट्चक्रफलभोगिनः || २१-९८ || तच्चतुष्कं समावाप्य वारिव्याप्तं सुनिर्मलम् | वामावर्तस्थितं ध्यायेत् सप्तखण्डं महाबली || २१-९९ || सप्तवृत्तोपरि ध्यायेद् दलषोडशपङ्कजम् | दले दले महातीर्थं सिद्धो भवति निश्चितम् || २१-१०० || तीर्थमालावृतं नाथ दलं षोडश शोभितम् | तदेकपत्र(द्म)मध्ये तु भाति विद्युल्लतान्वितम् || २१-१०१ || पूर्वादौ दक्षिणे पातु तीर्थमालाफलं शृणु | येषां दर्शनमात्रेण जीवन्मुक्तस्तु साधकः || २१-१०२ || गङ्गा गोदावरी देवी गया गुह्या महाफला | यमुना कोटिफलदा बुद्धिदा च सरस्वती || २१-१०३ || मणिद्वीपं श्वेतगङ्गा महापुण्या महाफला | श्वेतगङ्गा महापुण्या भर्गगङ्गा महाफला || २१-१०४ || स्वर्गगङ्गा महाक्षेत्रं पुष्करं तीर्थपारणम् | कावेरी सिन्धुपुण्या च नर्मदा शुभदा सदा || २१-१०५ || अष्टकोणे अष्टसिद्धिं वारिपूर्णां फलोदयाम् | सप्तकोणे सप्तसिन्धुं पूर्वादौ भावयेद् यतिः || २१-१०६ || लवणेक्षुसुरासपीर्दधिदुग्धजलान्तकाः | सकारं व्याप्य तिष्ठन्ति महासत्त्वं स्मरेद् यतिः || २१-१०७ || मध्ये चतुष्के शक्तिञ्च कोटिसौदामिनीतनुः | विभाव्य वारिचक्रे तु कोटिविद्यापतिर्भवेत् || २१-१०८ || शक्तिबीजं वामभागे आद्या प्रकृतिसुन्दरी | विभाति कामनाशाय योगिनी सा सताङ्गतिः || २१-१०९ || शक्तिबीजं दक्षिणे च पुङ्कला पुंशिवात्मकम् | सदा भावनरूपाभं यो भजेदीशसिद्धये || २१-११० || शक्तिबीजस्योद्र्ध्वभागे पूर्णचन्द्रमनोहरम् | भजन्ति साधवः सर्वे धर्मकामार्थसिद्धये || २१-१११ || शक्तिबीजतले गेहे श्रीसूर्यं कालवह्निजम् | उल्काकोटिसमं ध्यात्वा वाञ्छातिरिक्तमाप्नुयात् || २१-११२ || वारिचक्रप्रसादेन चिरजीवी भवेन्नरः | भूमौ महाकालरूपी मूलाधारे चतुद्र्दले || २१-११३ || चतुद्र्दलशेषदले वारिचक्रं सषान्तकम्(?) | कोटिसौदामिनीभासं विभाव्य योगिराड् भवेत् || २१-११४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थनिर्णये पाशवकल्पे | मूलपद्मोल्लासे भूमिचक्र--स्वर्गचक्र--तुलाचक्र-- वारिचक्रसारसङ्केते | सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे एकविंशः पटलः || २१ || अथ द्वाविंशः पटलः श्रीआनन्दभैरवी उवाच शृणु शम्भो प्रवक्ष्यामि षट्चक्रस्य फलोदयम् | यज्ज्ञात्वा योगिनः सर्वे चिरं तिष्ठन्ति भूतले || २२-१ || मूलाधारं महापद्मं चतुर्दलसुशोभितम् | वादिसान्तं स्वर्णवर्णं शक्तिब्रह्मपदं व्रजेत् || २२-२ || क्षित्यप्तेजोमरुद्व्योममण्डलं षट्सु पङ्कजे | क्रमेण भावयेन्मन्त्री मूलविद्याप्रसिद्धये || २२-३ || मूलपद्मोद्र्ध्वदेशे च स्वाधिष्ठानं महाप्रभम् | षड्दलं राकिणीं विष्णुं कणीकायां स्मरेद्यतिः || २२-४ || षड्दलं बादिलान्तं च वर्णं ध्यात्वा सुराधिपः | कन्दर्पवायुना व्याप्तलिङ्गमूले भजेद्यतिः || २२-५ || तदूर्ध्वे नाभिमूले च मणिकोटिसमप्रभम् | दशदलं योगधर्मं डादिफान्तार्थगं भजेत् || २२-६ || लाकिनीसहितं रुद्रं ध्यायेद्योगादिसिद्धये | महामोक्षपदं दृष्ट्वा जीवन्मुक्तो भवेद् ध्रुवम् || २२-७ || बन्धूकपुष्पसङ्काशं दलद्वादशशोभितम् | कादिठान्तार्णसहितमीश्वरं काकिनीं भजेत् || २२-८ || तदूर्ध्वे षोडशोल्लासपदे साक्षात् सदाशिवम् | महादेवीं साकिनीगं कण्ठे ध्यात्वा शिवो भवेत् || २२-९ || विशुद्धाख्यं महापुण्यं धर्मार्थकाममोक्षदम् | धूम्रधूमाकरं विद्युत्पुञ्जं भजति योगिराट् || २२-१० || आज्ञानामोत्पलं शुभ्रं हिमकुन्देन्दुमन्दिरम् | हंसस्थानं बिन्दुपदं द्विदलं भ्रूकुटे भजेत् || २२-११ || लक्षवर्णद्वयाढ्यं यद् बिन्दुयुक्तं मनोलयम् | तयोः स्त्रीपुंप्रकृत्याख्यं कोटिचन्द्रोज्ज्वलं भजेत् || २२-१२ || कण्ठे षोडशपत्रे च षोडशस्वरवेष्टितम् | अकारादिविसर्गान्तं विभाव्य कुण्डलीं नयेत् || २२-१३ || आज्ञाचक्रे समानीय कोटिचन्द्रसमोदयाम् | कण्ठाधारां कुण्डलिनीं जीवन्मुक्तो भवेदिह || २२-१४ || यदि श्वासं न त्यजति बाह्यचन्द्रमसि प्रभो | भ्रूमध्ये चन्द्रनिकरे त्यक्त्वा योगी भवेदिह || २२-१५ || सूक्ष्मवायूद्गमेनैव त्यजेद् वायुं मुहुर्मुहुः | सहस्रादागतं मूले मूलात्तत्रैवमानयेत् || २२-१६ || चन्द्रः सूर्ये लयं याति सूर्यश्चन्द्रमसि प्रभो | यो बाह्ये नानयेत् शब्दं तस्य बिन्दुचयो भवेत् || २२-१७ || यावद् बाह्ये चन्द्रमसि मनो याति रविप्लुते | अन्तर्गते चन्द्रसूर्ये न तस्य दुरितं तनौ || २२-१८ || केवलं सूक्ष्मवायुस्थं वायवीशक्तिलालितम् | मानसं यः करोतीति तस्य योगादिवर्द्धनम् || २२-१९ || प्राप्ते यज्ञोपवीते यः श्रीधरो ब्राह्मणोत्तमः | योगाभ्यासं सदा कुर्यात् स भवेद्योगिवल्लभः || २२-२० || यावत्कालं स्थितं बिन्दुं बाल्यभावे यथा यथा | तथा तथा योगमार्गं बिन्दुपातान्मरिष्यति || २२-२१ || तथापि यदि मासं वा पक्षं वा दशभिदीनम् | यदि तिष्ठति बिन्दूग्रः साक्षादभ्यासतो जयी || २२-२२ || कामानलमहापीडाविशिष्टः पुरुषो यदा | तत्कामादिसंहरणे विना योगेन कः क्षमः || २२-२३ || समसंसर्गगूढेन कामो भवति निश्चितम् | तत्कामात् क्रोध उत्पन्नो महाशत्रुवीनाशकृत् || २२-२४ || क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः | स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशाद् विनाशनम् || २२-२५ || अतः सम्बुद्धिमाधार्य मूलादिब्रह्ममण्डले | ध्यात्वा श्रीनाथपादाब्जं सिद्धो भवति साधकः || २२-२६ || ईश्वरस्य कृपाचिन्हमादौ शान्तिर्भवेद् हृदि | शान्तिभिर्जायते ज्ञानं ज्ञानान्मोक्षमवाप्नुयात् || २२-२७ || शान्तिवीद्या प्रतिष्ठा च निवृत्तिरिति ताः स्मृताः | चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः || २२-२८ || इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः | पठन्त्यहनीशं शास्त्रं परतत्त्वपराङ्मुखाः || २२-२९ || शिरो वहति पुष्पाणि गन्धं जानाति नासिका | पठन्ति मम तन्त्राणि दुर्लभा भावबोधकाः || २२-३० || यज्ञोपवीतकाले तु पशुभावाश्रयो भवेत् | यावद्योगं न सम्प्राप्तं तावद् वीराचरं न च || २२-३१ || आचारो विनयो विद्या प्रतिष्ठा योगसाधनम् | तस्यैव जायते सिद्धिरिष्टपादाम्बुजे मतिः || २२-३२ || देवे गुरौ महाभक्तिर्यस्य नित्यं विवर्धते | संवत्सरात्तस्य सिद्धिर्भवत्येव न संशयः || २२-३३ || वेदागमपुराणानां सारमालोक्य यत्नतः | मनः संस्थापयेदिष्टपादाम्भोरुहमण्डले || २२-३४ || चेतसि क्षेत्रकमले षट्चक्रे योगनिर्मले | मनो निधाय मौनी यः स भवेद् योगवल्लभः || २२-३५ || मनः करोति कर्माणि मनो लिप्यति पातके | मनःसंयमनी भूत्वा पापपुण्यैर्न लिप्यते || २२-३६ || श्री भैरव उवाच वद कान्ते रहस्यं मे येन सिद्धो भवेन्नरः | तत्प्रकारं विशेषेण योगिनामप्यगोचरम् || २२-३७ || यत्रैव गोपयेद्यद्यदानन्देन निरीक्षयेत् | पूजयेद् भावयेच्चैव वर्जयेन्न जुगुप्सयेत् || २२-३८ || क्रमेण वद तत्त्वञ्च यदि स्नेहोऽस्ति मां प्रति | न ज्ञात्वापि च भूतत्त्वं योगी मोहाश्रितो भवेत् || २२-३९ || आनन्दभैरवी उवाच त्रैलोक्ये योगयोग्योऽसि षट्चक्रभेदने रतः | त्वमेव परमानन्द महाधिष्ठाननिर्मल || २२-४० || सङ्घातयेन्महावीर एतान्दोषान् महाभयान् | कामक्रोधलोभमोहमदमात्सर्यसञ्ज्ञकान् || २२-४१ || सङ्घातयेन्महावीरो विकारं चेन्द्रियोद्भवम् | निद्रा--लज्जा--दौर्मनस्यं दशकालानलान् प्रभो || २२-४२ || सङ्गोपयेन्महावीरो महामन्त्रं कुलक्रियाम् | मुद्राक्षसूत्रतन्त्रार्थं गोपिनां वीरसङ्गमम् || २२-४३ || अत्याचारं भैरवाणां योगिनीनां च साधनम् | नाडीग्रथनमानञ्च गोपयेन्मातृजारवत् || २२-४४ || न निन्देत् प्राणनिधने देवतां गुरुमीश्वरम् | सुरां विद्यां महाक्षेत्रं पीठं योगाधिकारिणम् || २२-४५ || योगिनी जडमुन्मत्तं जन्मकर्मकुलक्रियाम् | प्रयोगे धर्मकर्तारं न निन्देत् प्राणसंस्थितौ || २२-४६ || पत्नीं भ्रातृवधूञ्चैव बौद्धाचारञ्च योगिनीम् | कर्म शुभाशुभञ्चैव महावीरो न निन्दयेत् || २२-४७ || निरीक्षयेन्न कदापि कन्यायोनिं दिने रतिम् | पशुक्रीडां दिग्वसनां कामिनीं प्रकटस्तनीम् || २२-४८ || विग्रहं द्यूतपाशार्थं क्लीबं विष्ठादिकं शुचौ | अभिचारभारञ्च क्रियामप्रमत्तस्य नेक्षयेत् || २२-४९ || पूजयेत्परया भक्त्या देवतां गुरुमीश्वरम् | शक्तिं साधुमात्मरूपं स्थूलसूक्ष्मं प्रयत्नतः || २२-५० || अतिथिं मातरं सिद्धं पितरं योगिनं तथा | पूजयेत् परया भक्त्या सिद्धमन्त्रं सुसिद्धये || २२-५१ || भावयेदेकचित्तेन साधूक्तं योगसाधनम् | गुरोर्वाक्योपदेशं च स्वधर्मं तीर्थदेवताम् || २२-५२ || कुलाचारं वीरमन्त्रमात्मानं परमेष्ठिनम् | भावयेद्विधिविद्यां च तन्त्रसिद्धार्थनिर्णयम् || २२-५३ || वर्जयेत् साधकश्रेष्ठोऽगम्यागमनादिकम् | धूर्तसङ्गं वञ्चकञ्च प्रलापमनृताशुभम् || २२-५४ || वर्जयेत् पापगोष्ठीयमालस्यं बहुजल्पनम् | अवेदकर्मसञ्चारं गोसवं ब्राह्मणस्य च || २२-५५ || जुगुप्सयेन्न कदापि विण्मूत्रं क्लेदशोणितम् | हीनाङ्गीं पिशितं नाथ कपालाहरणादिकम् || २२-५६ || सुरां गोपालनञ्चैव निजपापं रिपोर्भयम् | जुगुप्सयेन्न सुधर्म्मं यदि सिद्धिमिहेच्छति || २२-५७ || समयाचारमेवेदं योगिनां वीरभाविनाम् | गुर्वाज्ञया यः करोति जीवन्मुक्तो भवेद् भुवि || २२-५८ || वृथा धर्म वृथा चर्यं वृथा दीक्षा वृथा तपः | वृथा सुकृतमाख्येति गुर्वाज्ञालङ्घनं नृणाम् || २२-५९ || ब्राह्मणक्षत्रियादीनामादौ योगादिसाधनम् | पश्चात् कुलक्रिया नाथ योगविद्याप्रसिद्धये || २२-६० || विना भावेन वीरेण पूर्णयोगी कुतो भवेत् | आदौ कुर्यात् पशोर्भावं पश्चात् कुलविचारणम् || २२-६१ || मम तन्त्रे महादेव केवलं सारनिर्णयम् | अकस्माद् भक्तिसिद्ध्यर्थं कुलाचारं च योगिनाम् || २२-६२ || ब्राह्मणानां कुलाचारं केवलं ज्ञानसिद्धये | ज्ञानेन जायते योगी योगादमरविग्रहः || २२-६३ || भूत्वा योगी कुलीनश्च योगाभ्यासमहनीशम् | षट्चक्रं भूतनिलयं भावयेद् भावसिद्धये || २२-६४ || मूलपद्मस्योद्र्ध्वदेशे लिङ्गमूले महाशुचिः | स्वाधिष्ठाने महापद्मं पद्दले वायुना यजेत् || २२-६५ || एतत् षड्दलवर्णानां भावनां यः करोति हि | तस्य साक्षाद् भवेद्विष्णुः राकिणीसहितः प्रभो || २२-६६ || स्वाधिष्ठानषड्दलस्य कणीकामध्यमण्डले | दलाष्टकं भावयित्वा नागयुक्तं स ईश्वरः || २२-६७ || अष्टौ नागा अष्टदले प्रतिभान्ति यथारुणाः | जलस्योपरि पद्मे च ध्यायेत्तन्नागवल्लभाम् || २२-६८ || अनन्तं वासुकिं पद्मं महापद्मं च तक्षकम् | कुलीरं कर्कटं शङ्खं दक्षिणादौ दले भजेत् || २२-६९ || अष्टदलोपरि ध्यायेत् कणीकावृत्तयुग्मकम् | तदूर्ध्वे षड्दलं वादिलान्तयुक्तं सबिन्दुकम् || २२-७० || पूर्वादिक्रमयोगेन दक्षिणावर्त्तवायुना | पुनः पुनः कुम्भयित्वा ध्यायेत् षड्वर्णवायवीम् || २२-७१ || केशरं युगलं ध्यायेत् कुलोर्ध्वे साकृतिं मुदा | अष्टदले षड्दले च विभाव्य योगिराड् भवेत् || २२-७२ || अष्टदलस्योर्ध्वदेशे वृत्तयुग्मं मनोहरम् | तस्योपरि पुनर्ध्यायेत् षड्दले वादिलान्तकम् || २२-७३ || दलाष्टकाधो ध्यायेद्यो वृत्तयुग्मं मनोहरम् | वृत्ताधोमण्डलाकारं वं बीजं व्याप्य तिष्ठति || २२-७४ || वृत्तलग्नं समाव्याप्तं यं बीजं विद्युदाकरम् | कोटिसूर्यसमाभासं विभाव्य योगिनां पतिः || २२-७५ || यान्तबीजकलानां तु अधः षट्कोणमण्डलम् | षट्कोणे दक्षिणादौ च भावयेद् यादिलान्तकम् || २२-७६ || तत्षट्कोणमध्यदेशे षट्कोणं धूम्र मण्डलम् | तत्कोणे दक्षिणादौ च द्रव्यादिषट्कमाश्रयेत् || २२-७७ || द्रव्यं गुणास्तथा कर्म सामान्यं सविशेषकम् | समवायं क्रमेणैव षट्कोणेषु विभावयेत् || २२-७८ || पूर्वादिक्रमयोगेन दक्षिणावर्तवायुना | सर्वत्र भावयेन्मन्त्री कुम्भयित्वा पुनः पुनः || २२-७९ || द्रव्यषट्कोणमध्ये तु षट्कोणं चारुतेजसम् | कोणे कोणे च षड्वर्गान् भावयेत् स्थिरचञ्चलान् || २२-८० || तन्मध्ये च त्रिकोणे च राकिणीसहितं हरिम् | कोटिचन्द्रमरीचिस्थं ध्यायेद्योगी विशालधीः || २२-८१ || षड्दलान्तर्गतं पद्मं योगिनामपि साधनम् | यो नित्यं कुरुतेऽभ्यासं तस्य योगः प्रसिद्ध्यति || २२-८२ || एतच्चक्रप्रसादेन नीरोगी निरहङ्कृतः | सर्वज्ञो भवति क्षिप्रं श्रीनाथपदभावनात् || २२-८३ || ज्योतीरूपं योगमार्गं सूक्ष्मातिसूक्ष्मनिर्मलम् | त्रैलोक्यकामनासिद्धिं षट्चक्रे भावयेद्धरिम् || २२-८४ || यो हरिः शेषशम्भुश्च यः शम्भुः सूक्ष्मरूपधृक् | सूक्ष्मरूपस्थितो ब्रह्मा ब्रह्माधीनमिदं जगत् || २२-८५ || एकमूतीस्त्रयो देवा ब्रह्मविष्णुपितामहाः | मम विग्रहस्ंश्लिष्टाः सृजत्यवति हन्ति च || २२-८६ || प्राणायामोद्गता एते योगविघ्नकराः सदा | प्राणायामेन निष्पीड्य प्रसभं सिद्धिमाप्नुयात् || २२-८७ || अकारं ब्रह्मणो वर्णं शब्दरूपं महाप्रभम् | प्रणवान्तर्गतं नित्यं योगपूरकमाश्रयेत् || २२-८८ || उकारं वैष्णवं वर्णं शब्दभेदिनमीश्वरम् | प्रणवान्तर्गतं सत्त्वं योगकुम्भकमाश्रयेत् || २२-८९ || मकारं शाम्भवं रूपं बीजभूतं विधूद्गतम् | प्रणवान्तस्थितं कालं लयस्थानं समाश्रयेत् || २२-९० || वर्णत्रयविभागेन प्रणवं परिकल्पितम् | प्रणवाज्जायते हंसो हंसः सोऽहं परो भवेत् || २२-९१ || सोऽहं ज्ञानं महाज्ञानं योगिनामपि दुर्लभम् | निरन्तरं भावयेद्यः स एव परमो भवेत् || २२-९२ || हं पुमान् श्वासरूपेण चन्द्रेण प्रकृतिस्तु सः | एतद्धंसं विजानीयात् सूर्यमण्डलभेदकम् || २२-९३ || विपरीतक्रमेणैव सोऽहं ज्ञानं यदा भवेत् | तदैव सूर्यगः सिद्धः स्वधास्वरप्रपूजितः || २२-९४ || हकारार्णं सकारार्णं लोपयित्वा ततः परम् | सन्धिं कुर्यात्ततः पश्चात् प्रणवोऽसौ महामनुः || २२-९५ || एतद् हंसं महामन्त्रं स्वाधिष्ठाने मनोगृहे | मनोरूपं भजेद्यस्तु स भवेत् सूर्यमध्यगः || २२-९६ || हंसं सूर्य विजानीयात् सोऽहं चन्द्रो न संशयः | विपरीतो यदा भूयात्तदैव मोक्षभाग् भवेत् || २२-९७ || यदि हंसमनोरूपं स्वाधिष्ठाने हरेः पदे | विभाव्य श्रीगुरोः पादे नीयते नात्र संशयः || २२-९८ || सोऽहं यदा शक्तिकूटं अकाराकारसम्पुटम् | कृत्वा जपति यो ज्ञानी स भवेत् कल्पपादपः || २२-९९ || जपहोमादिकं सर्वं हंसेन यः करोति हि | तदैव चन्द्रसूर्य स्यात् हंसमन्त्रप्रसादतः || २२-१०० || एतज्जपं महादेव देहमध्ये करोम्यहम् | एकविंशसहस्राणि षट्शतानि च हंमनुः || २२-१०१ || पुंरूपेण हकारञ्च स्त्रीरूपेण सकारकम् | जप्त्वा रक्षां करोतीह चन्द्रबिन्दुशतेन च || २२-१०२ || प्रणवान्तं महामन्त्रं नित्यं जपति यो नरः | वायुसिद्धिर्भवेत्तस्य वायवी सुकृपा भवेत् || २२-१०३ || बृहद् हंसं प्रवक्ष्यामि येन सिद्धो भवेन्नरः | कामरूपी क्षणादेव वाक्सिद्धिरिति निश्चितम् || २२-१०४ || आदौ प्रणवमुच्चार्य ततो हंसपदं लिखेत् | तत्पश्चात् प्रणवं ज्ञेयं ततः परपदं स्मरेत् || २२-१०५ || तर्पयामि पदस्यान्ते प्रणवं फडिति स्मरेत् | एतद्धि हंसमन्त्रस्तु वीराणामुदयाय च || २२-१०६ || बृहद् हंसप्रसादेन षट्चक्रभेदको भवेत् | षट्चक्रे च प्रशंसन्ति सर्वे देवाश्चराचराः || २२-१०७ || योगसिद्धिं विघाताय भ्रमन्ति योगिनस्तनौ | यदि हंसं बृहद्धंसं जपन्ति वायुसिद्धये || २२-१०८ || तदा सर्वे पलायन्ते राक्षसान्मानुषा यथा || २२-१०९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते योगशिक्षाविधिनिर्णये सिद्धमन्त्रप्रकरणे | भैरवीभैरवसंवादे द्वाविंशः पटलः || २२ || अथ त्रयोविंशः पटलः श्रीभैरवी उवाच अथातः सम्प्रवक्ष्यामि ब्रह्ममार्गमनुत्तमम् | यद् यज्ज्ञात्वा सुराः सर्वे जयाख्याः परमं जगुः || २३-१ || न तन्तेजःप्रकाशाय महतां धर्मवृद्धये | योगाय योगिनां देव भक्षप्रस्थनिरूपणम् || २३-२ || योगाभ्यासं यः करोति न जानातीह भक्षणम् | कोटिवर्षसहस्रेण न योगी भवति ध्रुवम् || २३-३ || अतो वै भक्षमाहात्म्यं प्रवदामि समासतः | यज्ज्ञात्वा सिद्धिमाप्नोति स्वाधिष्ठानादिभेदनम् || २३-४ || आदौ विवेकी यो भूयाद् भूतले परमेश्वर | स एव भक्षनियमं गृहेऽरण्ये समाचरेत् || २३-५ || वायवासनदृढानन्दपरमानन्दनिर्भरः | मिताहारं सदा कुर्यात् पूरकाह्लादहेतुना || २३-६ || तदा पूरकसिद्धिः स्याद् भक्षणादिनिरूपणात् | उदरं पूरयेन्नित्यं कुम्भयित्वा पुनः पुनः || २३-७ || निजहस्तप्रमाणाभिः पूरयेत् पूर्णमेव च | तत्पूरयेत् स्थापयेन्नाथ विश्वामित्रकपालके || २३-८ || हंसद्वादशवारेण शिलायामपि घर्षयेत् | नित्यं तत्पात्रपूर्णं च पाकेनैकेन भक्षयेत् || २३-९ || तण्डुलान् शालिसम्भूतान्कपालप्रस्थपूर्णकान् | दिने दिने क्षयं कुर्याद् भक्षणादिषु कर्मसु || २३-१० || हंसद्वादशवारेण जपेन संक्षयं चरेत् | शिलायां तत्कपालं च वर्द्धयेत् पूरकादिकम् || २३-११ || यावत्कालं क्षयं याति निजभक्षणनिर्णयम् | तत्कालं वायुनापूर्य नोदरं काकचञ्चुभिः || २३-१२ || आकुञ्चयेत् सदा मूले कुण्डली भक्षधारणात् | तत्रसम्पूरयेद्योगी भक्षप्रस्थावनाशनात् || २३-१३ || कालक्रमेण तत् सिद्धिमवाप्नोति जितेन्द्रियः | यत्स्थानं भक्षणस्यैव तत्स्थाने पूरयेत्सुखम् || २३-१४ || पुनः पुनर्भक्षणेन भक्षसिद्धिमुपैति हि | विना पूरकयोगेन भक्षणं नापि सिद्ध्यति || २३-१५ || अथवान्यप्रकारेण भक्षत्यागं विनिर्णयम् | येन हीना न सिद्ध्यन्ति नाडीचक्रस्थदेवताः || २३-१६ || द्वात्रिंशद् ग्रासमादाय त्रिपर्व्वणि यथास्थितम् | अर्द्धग्रासं विहायापि नित्यं भक्षणमाचरेत् || २३-१७ || सदा सम्पूरयेद् वायुं भावको गतभीर्महान् | भक्षस्थाने समायोज्य पिबेद् वायुमहनीशम् || २३-१८ || चतुःषष्टिदिने सर्वं क्षयं कृत्वा ततः सुधीः | पयोभक्षणमाकुर्यात् स्थिरचेता जितेन्द्रियः || २३-१९ || पयः प्रमाणं वक्ष्यामि हस्तप्रस्थत्रयं त्रयम् | शनैः शनैवीजेतव्याः प्राणा मत्तगजेन्द्रवत् || २३-२० || षण्मासाज्जायते सिद्धिः पूरकादिषु लक्षणम् | क्रमेणाष्टाङ्गसिद्धिः स्यात् यतीनां कामरूपिणाम् || २३-२१ || बद्धपद्मासनं कृत्वा विजयानन्दनन्दितः | धारयेन्मारुतं मन्त्री मूलाधारे मनोलयम् || २३-२२ || अथासनप्रभेदञ्च शृणु मत्सिद्धिकाङ्क्षणाम् | येन विना पूरकाणां सिद्धिभाक् न महीतले || २३-२३ || अधो मुण्डासनं वक्ष्ये सर्वेषां प्राणिनां सुखम् | ऊद्र्ध्वमार्गे पदं दत्त्वा धारयेन्मारुतं सुधीः || २३-२४ || सर्वासनानां श्रेष्ठं हि ऊद्र्ध्वपादो यदा चरेत् | तदैव महतीं सिद्धिं ददाति वायवी कला || २३-२५ || एतत्पद्मासनं कुर्यात् प्राणवायुप्रसिद्धये | शुभासनं तदा ध्यायेत्पूरयित्वा पुनः पुनः || २३-२६ || ऊरुमूले वामपादं पुनस्तद्दक्षिणं पदम् | वामोरौ स्थापयित्वा च पद्मासनमितिस्मृतम् || २३-२७ || सव्यपादस्य योगेन आसनं परिकल्पयेत् | तदैकासनकाले तु द्वितीयासनमाभवेत् || २३-२८ || पृष्ठे करद्वयं नीत्वा वृद्धाङ्गुष्ठद्वयं सुधीः | कायसङ्कोचमाकृत्य धृत्वा बद्धासनो भवेत् || २३-२९ || बद्धपद्मासनं कृत्वा वायुबद्धं पुनः पुनः | चिबुकं स्थापयेद्यत्नाद् ह्लादितेजसि भास्करे || २३-३० || इत्यासनं हि सर्वेषां प्राणिनां सिद्धिकारणम् | वायुवश्याय यः कुर्यात् स योगी नात्र संशयः || २३-३१ || स्वभावसिद्धिकरणं सर्वेषां स्वस्तिकासनम् | वामपादतले कुर्यात्पाददक्षिणमेव च || २३-३२ || सव्यापसव्ययोगेन आसनद्वयमेव च | सर्वत्रैवं प्रकारं च कृत्वा नाडीव सारमेत् || २३-३३ || आसनानि शृणु ह्येतत्त्रिंशतासंख्यकानि च | सव्यापसव्ययोगेन द्विगुणं प्रभवेदिह || २३-३४ || चतुःषष्ट्यासनानीह वदामि वायुसाधनात् | द्वात्रिंशद्बिन्दुभेदाय कल्पयेद् वायुवृद्धये || २३-३५ || कार्मुकासनमाकृत्य उदरे पूरयेत् सुखम् | तदा वायुर्वशो याति कालेन सूक्ष्मवायुना || २३-३६ || कृत्वा पद्मासनं मन्त्री वेष्टयित्वा प्रधारयेत् | करेण दक्षिणेनैव वामपादान्तिकं तटम् || २३-३७ || सव्यापसव्यद्विगुणं कार्मुकासनमेव च | कार्मुकद्वययोगेन शरवद् वायुमानयेत् || २३-३८ || कुक्कुटासनमावक्ष्ये नाडीनिर्मलहेतुना | मत्कुलागमयोगेन कुर्याद् वायुनिषेवणम् || २३-३९ || निजहस्तद्वयं भूमौ पातयित्वा जितेन्द्रियः | पद्भ्यां बद्धं यः करोति कूर्परद्वयमध्यतः || २३-४० || सव्यापसव्ययुगलं कुक्कुटं ब्रह्मणा कृतम् | बद्धं कृत्त्वा अधःशीर्षं यः करोति खगासनम् || २३-४१ || खगासन प्रसादेन श्रमलोपो भवेद् द्रुतम् | पुनः पुनः श्रमादेव विषयश्रमलोपकृत् || २३-४२ || लोलासनं सदा कुर्याद् वायुलोलापघातनात् | स्थिरवायुप्रसादेन स्थिरचेता भवेद्द्रुतम् || २३-४३ || पद्मासनं समाकृत्य पादयोः सन्धिगह्वरे | हस्तद्वयं मध्यदेशं नियोज्य कुक्कुटाकृतिः || २३-४४ || निजहस्तद्वयद्वन्द्वं निपात्य हस्तनिर्भरम् | कृत्वा शरीरमुल्लाप्य स्थित्वा पद्मासनेऽनिलः || २३-४५ || स्थित्वैतदासने मन्त्री अधःशीर्षं करोति चेत् | उत्तमाङ्गासनं ज्ञेयं योगिनामतिदुर्लभम् || २३-४६ || एतदासनमात्रेण शरीरं शीतलं भवेत् | पुनः पुनः प्रसादेन चैतन्या कुण्डली भवेत् || २३-४७ || सव्यापसव्ययोगेन यः करोति पुनः पुनः | पूरयित्वा मूलपद्मे सूक्ष्मवायुं विकुम्भयेत् || २३-४८ || कृत्वा कुम्भकमेवं हि सूक्ष्मवायुलयं विधौ | मूलादिब्रह्मरन्ध्रान्ते स्थापयेल्लयगे पदे || २३-४९ || एतत् शुभासनं कृत्त्वा सूक्ष्मरन्ध्रे मनोलयम् | सूचीरन्ध्रे यथासूत्रं पूरयेत् सूक्ष्मवायुना || २३-५० || एतत् क्रमेण षण्मासान् पूरकस्यापि लक्षणम् | महासुखं समाप्नोति योगाष्टाङ्गनिषेवणात् || २३-५१ || अथ वक्ष्ये महादेव पर्वतासनमङ्गलम् | यत्कृत्वा स्थिररूपी स्याद् षट्चक्रादिविलोपनम् || २३-५२ || योन्यासनं पर्वतेन योगं योगफलेऽनिलम् | तत्कालफललन्तावत् खेचरो यावदेव हि || २३-५३ || पादयोगेन चक्रस्य लिङ्गाग्रं यो नियोजयेत् | अन्यत्पदमूरौ दत्त्वा तत्र योन्यासनं भुवि || २३-५४ || तत्र मध्ये महादेव बन्द्धयोन्यासनं शृणु | यत्कृत्वा खेचरो भूत्वा विचरेदीश्वरो यथा || २३-५५ || कृत्वा योन्यासनं नाथ लिङ्गगुह्यादिबन्धनम् | मुखनासानेत्रकर्णकनिष्ठाङ्गुलिभिस्तथा || २३-५६ || ओष्ठाधरं कनिष्ठाभ्यामनामाभ्याञ्च नासिके | मध्यमाभ्यां नेत्रयुग्मं तर्ज्जनीभ्यां परैः श्रुती || २३-५७ || कृत्त्वा योन्यासनं नाथ योगिनामति दुर्लभम् | कृत्त्वा यः पूरयेद् वायुं मूलमाकुञ्च्य स्तम्भयेत् || २३-५८ || सव्यापसव्ययोगेन सिद्धो भवति साधकः | शनैः शनैः समारुह्य कुम्भकं परिपूरयेत् || २३-५९ || अरुणोदयकालाच्च वसुदण्डे सदाशिव | सव्यापसव्ययोगेन गृह्णीयाद्वायुगानिलम् || २३-६० || द्वितीयप्रहरे कुर्याद् वायुपूजां मनोरमाम् | एतदासनमाकृत्य सिद्धो भवति साधकः || २३-६१ || अथान्यदासनं वक्ष्ये यत्कृत्वा सोऽमरो भवेत् | मत्साधकः शुचिः श्रीमान् कुर्याद्गत्त्वा निराविले || २३-६२ || भेकानामासनं योगं निजवक्षसि सम्मुखम् | निधाय पादयुगलं स्कन्धे बाहू पदोपरि || २३-६३ || ध्यायेद्धि चित्पदं भ्रान्तमासनस्थः सुखाय च | यदि सर्वाङ्गमुत्तोल्य गगने खेचरासनम् || २३-६४ || महाभेकासनं प्रोक्तं सर्वसिद्धिप्रदायकम् | महाविद्यां महामन्त्रं प्राप्नोति जपतीह यः || २३-६५ || एतत् प्रभेदं वक्ष्यामि करोति यः स चामरः | एकपादमूरौ बद्ध्वा स्कन्धेऽन्यत्पादरक्षणम् || २३-६६ || एतत्प्राणासनं नाम सर्वसिद्धिप्रदायकम् | वायुमूले समारोप्य ध्यात्त्वाऽऽकुञ्च्य प्रकारयेत् || २३-६७ || केवलं पादमेकञ्च स्कन्धे चारोप्य यत्नतः | एकपादेन गगने तिष्ठेत् स दण्डवत् प्रभो || २३-६८ || अपानासनमेतद्धि सर्वेषां पूरकाश्रयम् | कृत्त्वा सूक्ष्मे शीर्षपद्मे समारोप्य च वायुभिः || २३-६९ || तदा सिद्धो भवेन्मर्त्त्यः प्राणापानसमागमः | अपानासनयोगेन कृत्त्वा योगेश्वरो भुवि || २३-७० || समानासनमावक्ष्ये सिद्धमन्त्रादिसाधनात् | एकपादमूरौ दत्त्वा गुह्येऽन्यल्लिङ्गवक्त्रके || २३-७१ || एतद् वीरासनं नाथ समानासनसंज्ञकम् | इत्याकृत्य जपेन्मन्त्रं धृत्वा वायुं चतुर्दले || २३-७२ || कुण्डलीं भावयेन्मन्त्रं कोटिविद्युल्लताकृतिम् | आत्मचन्द्रामृतरसैराप्लुतां योगिनीं सदा || २३-७३ || वीरासनं तु वीराणां योगवायुप्रधारणम् | यो जानाति महावीरः स योगी भवति ध्रुवम् || २३-७४ || अथ वक्ष्ये महाकाल समानासनसाधन | भेदक्रमेण यज्ज्ञात्वा वीराणामधिपो भवेत् || २३-७५ || समानासनमाकृत्य वृद्धाड्गुष्ठं करेण च | एकेन सोऽधिकारी स्यात् स्वरयोगादिसाधने || २३-७६ || आसनं यो हि जानाति वायूनां हरणं तथा | कालादीनां निर्णयं तु स कदाचिन्न नश्यति || २३-७७ || कालेन लभ्यते सिद्धिः कालरूपो महोज्ज्वलः | साधकैर्योगिभिर्ध्येयः सिद्धवीरासनात्मना || २३-७८ || अथ वक्ष्ये नीलकण्ठ ग्रन्थिभेदासनं शुभम् | ज्ञात्वा रुद्रो भवेत् क्षिप्रं सूक्ष्मवायुनिषेवणात् || २३-७९ || कृत्वा पद्मासनं मन्त्री जङ्घयोः हृदये करौ | कूर्परस्थान पर्यन्तं विभेद्य स्कन्धधारणम् || २३-८० || भित्वा पद्मासनं मन्त्री सहस्रार्द्धेन घाटनम् | येन शीर्षं भावनम्रं सर्वाङ्गुलिभिराश्रमम् || २३-८१ || ग्रन्थिभेदासनञ्चैतत् खेचरादिप्रदर्शनम् | कृत्त्वा सूक्ष्मवायुलयं परमात्मनि भावयेत् || २३-८२ || अथान्यासनमावक्ष्ये योगपूरकरक्षणात् | कृत्त्वा पद्मासनं पादा अङ्गुष्ठजङ्घयोः स्थितम् || २३-८३ || हस्तमेकं तु जङ्घायाः कार्मुकं कूर्परोर्द्धकम् | पद्मासने समाधाय अङ्गुष्ठं परिधावयेत् || २३-८४ || कार्मुकासनमेतद्धि सव्यापसव्ययोगतः | पद्मासनं वेष्टयित्वा अङ्गुष्ठाग्रं प्रधावयेत् || २३-८५ || यः करोति सदा नाथ कार्मुकासनमुत्तमम् | तस्य रोगादिशत्रूणां क्षयं नीत्वा सुखी भवेत् || २३-८६ || अथ वक्ष्येऽत्र संक्षेपात् सर्वाङ्गासनमुत्तमम् | यत्कृत्वा योगनिपुणो विद्याभिः पण्डितो यथा || २३-८७ || अधो निधाय शीर्षं च ऊद्र्ध्वपादद्वयं चरेत् | पद्मासनं तु तत्रैव भूमौ कूर्परयुग्मकम् || २३-८८ || दण्डे दण्डे सदा कुर्यात् श्रमशान्तिपरः सुधीः | नित्यं सर्वासनं हित्वा न कुर्याद् वायुधारणम् || २३-८९ || मासेन सूक्ष्मवायूनां गमनं चोपलभ्यते | त्रिमासे देवपदवीं त्रिमासे शीतलो भवेत् || २३-९० || अथ वक्ष्ये महादेव मयूरासनमुत्तमम् | भूमौ निपात्य हस्तौ द्वौ कूर्परोपरि देहकम् || २३-९१ || कूर्परोपरि संस्थाप्य सर्वदेहं स्थिराशयः | केवलं हस्तयुगलं निपात्य भुवि सुस्थिरः || २३-९२ || एतदासनमात्रेण नाडीसम्भेदनं भवेत् | पूरकेण दृढो याति सर्वत्राङ्गाश्रयेण च || २३-९३ || अथान्यदासनं कृत्त्वा सर्वव्याधिनिवारणम् | योगाभ्यासी भवेत्क्षिप्रं ज्ञानासनप्रसादतः || २३-९४ || दक्षपादोरुमूले च वामपादतलंतथा | दक्षपादतलं दक्षपार्श्वे संयोज्य धारयेत् || २३-९५ || एतज्ज्ञानासनं नाथ ज्ञानाद्विद्याप्रकाशकम् | निरन्तरं यः करोति तस्य ग्रन्थिः श्लथी भवेत् || २३-९६ || सव्यापसव्ययोगेन मुण्डासनमिति स्मृतम् | कृत्वा ध्यात्वा स्थिरो भूत्वा लीयते परमात्मनि || २३-९७ || गरुडासनमावक्ष्ये येन ध्यानं स्थिरं भुवि | सर्वदोषाद्विनिर्मुक्तो भवतीह महाबली || २३-९८ || एकपादमुरौ बद्ध्वा एकपादेन दण्डवत् | जङ्घापादसन्धिदेशे ज्ञानव्यग्रं व्यवस्थितम् || २३-९९ || एतदासनमाकृत्य पृष्ठे संहारमुद्रया | आराध्य योगनाथं च सदा सर्वेश्वरस्य च || २३-१०० || अथान्यदासनं वक्ष्ये येन सिद्धो भवेन्नरः | अकस्माद् वायुसञ्चारं कोकिलाख्यासनेन च || २३-१०१ || ऊद्र्ध्वे हस्तद्वयं कृत्वा तदग्रे पादयोः सुधीः | वृद्धाङ्गुष्ठद्वयं नाथ शनैः शनैः प्रकारयेत् || २३-१०२ || पद्मासनं समाकृत्य कूर्परोपरि संस्थितः | अथ वक्ष्ये वीरनाथ आनन्दमन्दिरासनम् || २३-१०३ || यत्कृत्वा अमरो धीरो भवत्येवेह साधकः | हस्तयुग्मं पाददेशे पादयुग्मं प्रदापयेत् || २३-१०४ || प्रकृत्य दण्डवत् कौल नितम्बाग्रे प्रतिष्ठति | खञ्जनासनमावक्ष्ये यत्कृत्वा सुस्थिरो भवेत् || २३-१०५ || पृष्ठे पादद्वयं बद्ध्वा हस्तौ भूमौ प्रधारयेत् | भूमौ हस्तद्वयं नाथ पातयित्वानिलं पिबेत् || २३-१०६ || पृष्ठे पादद्वयं बद्ध्वा खञ्जनेन जयी भवेत् | अथान्यदासनं वक्ष्ये साधकानां हिताय वै || २३-१०७ || पवनासनरूपेण खेचरो योगिराड्भवेत् | स्थित्वा बद्धासने धीरो नाभेरधःकरद्वयम् || २३-१०८ || ऊद्र्ध्वमुण्डः पिबेद् वायुं निरुद्ध्येत यमाविले | अथ सर्पासनं वक्ष्ये वायुपानाय केवलम् || २३-१०९ || शरीरं दण्डवत्तिष्ठेद्रज्जुबद्धस्तु पादयोः | वायवी कुण्डली देवी कुण्डलाकारमङ्गुले || २३-११० || मण्डिता भूषणाद्यैश्च वक्ष्ये सर्पासनस्थितम् | निद्रालस्यभयान् त्यक्त्वा रात्रौ कुर्यात्पुनः पुनः || २३-१११ || सर्वान् विघ्नान् वशीकृत्य निद्रादीन् वायुसाधनात् | अथ वक्ष्ये काकरूपस्कन्धासनमनुत्तमम् || २३-११२ || कलिपापात् प्रमुच्येत वायवीं वशमानयेत् | निजपादद्वयं बद्ध्वा स्कन्धदेशे च साधकः || २३-११३ || नित्यमेतत् पदद्वन्द्वं भूमौ पुष्टिकरद्वयम् || २३-११४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे | त्रयोविंशः पटलः || २३ || अथ चतुवींशः पटलः आनन्दभैरवी उवाच अथ वक्ष्ये महादेव योगशास्त्रार्थनिर्णयम् | येन विज्ञानमात्रेण षट्चक्रग्रन्थिभेदकः || २४-१ || पर्व्वातिरिक्तदिवसे कुर्यात् श्रीयोगसाधनम् | कालिकाकुलसर्वस्वं कला कालसमन्वितम् || २४-२ || आसनं विधिना ज्ञानं कोटिकोटिक्रियान्वितम् | शतलक्षसहस्राणि आसनानि महीतले || २४-३ || स्वर्गे पातालमध्ये तु सम्मुक्तानि महषीभिः | भेदाभेदक्रमेणैव कुर्यान्नित्यं सदासनम् || २४-४ || तत्प्रकारं च विविधं यत्कृत्त्वा सोऽमरो भवेत् | अमरः सिद्ध इत्याहुरष्टैश्वर्यसमन्वितम् || २४-५ || प्रतिभाति स एवार्थो मूलमन्त्रार्थवेदिनः | अमरास्ते प्रशंसन्ति सर्वलोकनिरन्तरम् || २४-६ || देवाः श्रीकामिनीकान्ताः प्रभवन्ति जगत्त्रये | कालं हि वशमाकर्त्तुं नियुक्तो यश्च भावकः || २४-७ || ते सर्वे विचरन्तीह कोटिवर्षशतेषु च | तत्तदासननामानि शृणु तत्साधनानि च || २४-८ || येन विज्ञानमात्रेण साक्षादीशस्य भक्तिमान् | अथ कूर्मासनं नाथ कृत्वा वायुं प्रपूरयेत् || २४-९ || कामरूपो भवेत् क्षिप्रं कलिकल्मषनाशनम् | समानासनमाकृत्य लिङ्गाग्रे स्वीयमस्तकम् || २४-१० || नितम्बे हस्तयुगलं भूमौ सङ्कोचितः पतेत् | कुम्भीरासनमावक्ष्ये वायूनां धारणाय च || २४-११ || तिष्ठेत् कुण्डाकृतिर्भूमौ करौ शीर्षोपरि स्थितौ | पदोपरि पदं दत्त्वा शीर्षोपरि करद्वयम् || २४-१२ || तिष्ठेत् कुण्डाकृतिर्भूमौ कुम्भीरासनमेव तत् | अथ मत्स्यासनं पृष्ठे हस्तोपरि कराङ्गुलिः || २४-१३ || पादयुग्मप्रमाणेन वृद्धाङ्गुष्ठस्य योजनम् | मकरासनमावक्ष्ये वायुपानाय कुम्भयेत् || २४-१४ || पृष्ठे पादद्वयं दत्त्वा हस्ताभ्यां पृष्ठबन्धनम् | अथ सिंहासनं नाथ कूर्परोपरि जानुनी || २४-१५ || स्थापयित्वा ऊद्र्ध्वमुखो वायुपानं समाचरेत् | अथ वक्ष्ये महादेव कुञ्जरासनमुत्तमम् || २४-१६ || करेणैकेन पादाभ्यां भूमौ तिष्ठेत् शिरः करः | व्याघ्रासनमथो वक्ष्ये क्रोधकालविनाशनम् || २४-१७ || एकपादं शीर्षमध्ये मेरुदण्डोपरि स्थितम् | भल्लूकासनमावक्ष्ये यत्कृत्त्वा योगिराड् भवेत् || २४-१८ || नितम्बे च पादगोष्ठी हस्ताभ्यामङ्गुलीयकम् | अथ कामासनं वक्ष्ये कामसङ्गेन हेतुना || २४-१९ || गरुडासनमाकृत्य कनिष्ठाग्रं स्पृशोद्भवम् | वर्त्तुलासनमावक्ष्ये यत्कृत्त्वा भैरवो भवेत् || २४-२० || आकाशस्थितपादाभ्यां पृष्ठदेशं निबन्धयेत् | अथ मोक्षासनं वक्ष्ये यत्कृत्त्वा मोक्षमन्दिरम् || २४-२१ || दक्षहस्तं दक्षपादं केवलं स्थापयेत्सुधीः | अथ मालासनं नाथ यत्कृत्वा वायवीप्रियः || २४-२२ || शुभयोगं समाप्नोति एकहस्तस्थितो नरः | अथ दिव्यासनं वक्ष्ये पृष्ठं हस्तेन बन्धयेत् || २४-२३ || एकहस्तमध्यदेशं भूमिहस्तञ्च नासया | अर्द्धोदयासनं नाथ सर्वाङ्गं खे नियोजयेत् || २४-२४ || केवलं हस्तयुगलं भूमिमालोक्य नासया | अथ चन्द्रासनं वक्ष्ये पादाभ्यां स्वशरीरकम् || २४-२५ || पुनः पुनः धारयेद् यो वायुधारणपूर्वकम् | अथ हंसासनं वक्ष्ये शरीरेण पुनः पुनः || २४-२६ || भूमौ सन्ताडयेत् श्वासैः प्राणवायुदृढः सुधीः | अथ सूर्यासनं वक्ष्ये पृष्ठात् पादेन बन्धनम् || २४-२७ || पृष्ठे भेदान्वितं पादं तस्य हस्तेन बन्धयेत् | अथ योगासनं वक्ष्ये यत्कृत्वा योगिराड् भवेत् || २४-२८ || सर्वाः पादतलद्वन्द्वं स्वाङ्गे बद्ध्वा करद्वयम् | गदासनमतो वक्ष्ये गदाकृतिर्वसेद् भुवि || २४-२९ || ऊद्र्ध्वबाहुर्भवेद्येन कायशोधनहेतुना | अथ लक्ष्म्यासनं वक्ष्ये लिङ्गाग्रेऽङ्घिरतलद्वयम् || २४-३० || गुह्यदेशे हस्तयुग्मं तलाभ्यां बन्धयेद् भुवि | अथ कुल्यासनं वक्ष्ये यत्कृत्वा कौलिको भवेत् || २४-३१ || एकहस्तं मस्तकस्थोऽधः शीर्षेऽभिन्नगे करम् | ब्राह्मणासनमावक्ष्ये यत्कृत्त्वा ब्राह्मणो भवेत् || २४-३२ || एकपादमूरौ दत्त्वा तिष्ठेद् दण्डाकृतिर्भुवि | क्षत्रियासनमावक्ष्ये यत्कृत्त्वा धनवान् भवेत् || २४-३३ || केशेन पादयुगलं बद्ध्वा तिष्ठेदधोमुखः | अथ वैश्यासनं वक्ष्ये यत्कृत्वा सत्यवान्भवेत् || २४-३४ || वृद्धाङ्गुष्ठेन यस्तिष्ठेत् हस्तयुग्मं स्वकोरसि | अथ शूद्रासनं वक्ष्ये यत्कृत्वा सेवको भवेत् || २४-३५ || धृत्वाङ्गुष्ठद्वयं योज्यं नासाग्रपादमध्यके | अथ जात्यासनं वक्ष्ये येन जातिस्मरो भवेत् || २४-३६ || हस्ताङ्घिरयुग्मं भूमौ च गमनागमनं ततः | पाशवासनमावक्ष्ये कृत्त्वा पशुपतिर्भवेत् || २४-३७ || पृष्ठे हस्तद्वयं दत्त्वा कूर्पराग्रे स्वमस्तकम् | एतेषां साधनादेव चिरजीवी भवेन्नरः || २४-३८ || संवत्सरं साधनाद्वै जीवन्मुक्तो भवेद् ध्रुवम् | श्रीविद्यासाधनं पश्चात् कथितव्यं तब प्रभो || २४-३९ || आसनं योगसिद्ध्यर्थं कायशोधनहेतुना | इदानीं शृणु देवेश रहस्यं कोमलासनम् || २४-४० || योगसिद्धिविचाराय रहस्यं चर्मासनं शुभम् | अथ नरासनं वक्ष्ये षोडशादिप्रकारकम् || २४-४१ || येन साधनमात्रेण योगी भवति साधकः | प्रकारं षोडशप्रोक्तं मत्कुलागमसम्भवम् || २४-४२ || येन साधनमात्रेण साक्षाद्योगी महीतले | एकमासाद् भवेत्कल्पो द्विमासे द्रुतकल्पनम् || २४-४३ || त्रिमासे योगकल्पः स्याच्चतुर्मासे स्थिराशयः | पञ्चमासे सूक्ष्मकल्पे षष्ठमासे विवेकगः || २४-४४ || सप्तमासे ज्ञानयुक्तो भावको भवति ध्रुवम् | अष्टमासेऽन्नसंयुक्तो जितेन्द्रियकलेवरः || २४-४५ || नवमे सिद्धिमिलनो दशमे चक्रभेदवान् | एकादशे महावीरो द्वादशे खेचरो भवेत् || २४-४६ || इति योगासनस्थश्च योगी भवति साधकः | नरासनं यः करोति स सिद्धो नात्र संशयः || २४-४७ || तत्प्रकारं प्रवक्ष्यामि येन सिद्धो भवेत्प्रभो | अधोमुखं महादेव नरासनस्य साधने || २४-४८ || करणीयं साधकेन्द्रैर्योगशास्त्रार्थसम्मतैः | अक्षीणं यौवनोद्दामं सुन्दरं चारुकुन्तलम् || २४-४९ || लोकानां श्रेष्ठमेवं हि पतितं रणसम्मुखे | तत्सर्वं हि समानीय मङ्गले वासरे निशि || २४-५० || चन्द्रसूर्यासनं कृत्वा साधयेत्तत्र कौलिकः | अथान्यत् सम्प्रवक्ष्यामि सर्वसिद्धिप्रकारकम् || २४-५१ || भेकासनं यः करोति स एव योगिनीपतिः | अथान्यत् सम्प्रवक्ष्यामि यत्कृत्वा योगिराड् भवेत् || २४-५२ || तत्सर्वोत्तरशिरसि स्थित्वा चन्द्रासने जपेत् | अथान्यत् तत्प्रकारञ्च महाविद्यादिदर्शनात् || २४-५३ || मत्सरे गौरवर्णे च तत्र शैलासने जपेत् | अथान्यत्तत्प्रकारं च योगिकौलो न संशयः || २४-५४ || यद्येवं मिरयते सोऽपि तदा भद्रासने जपेत् | तत्तत्साधनकाले च एवं कुर्याद्दने दिने || २४-५५ || नृत्यवाद्यगीतरागभोगोनविंशतौ दिने | चतुर्दशं न वीक्ष्येत भैरवाणां भयाद्र्दनात् || २४-५६ || मनोनिवेशमात्रेण योगी भवति भैरव | स्वेच्छासनं समाकृत्य मन्त्रं जपति यो नरः || २४-५७ || महासारो वीतरागः सिद्धो भवति निश्चितम् | अथान्यत् शवमाहात्म्यं शृणुष्वावहितो मम || २४-५८ || तत्सर्वं गृहमानीयाच्छाद्य शार्दूलचर्मणा | तत्र मन्त्री महापूजां कृत्वा प्रविश्य संजपेत् || २४-५९ || पद्मासनस्थस्तस्यैव झटिद् योगी न संशयः || २४-६० || एतत्प्रकाररासनमाशु कृत्वा | जितेन्द्रियो योगफलार्थविज्ञः | भवेन्मनुष्यो मम चाज्ञया हि | सिद्धो गणोऽसौ जगतामधीशः || २४-६१ || मूलखड्गयष्टिपरडितरवारादिना युतम् | .... भूतसर्पराजव्याघ्रं सद्यो मृतं यजेत् || २४-६२ || यस्य मृत्युर्भवेन्नाथ भैरवस्य सुरापतेः | रणे सम्मुखयुद्धस्य तदानीय जपं चरेत् || २४-६३ || तत्र कौलासनं कृत्वा अथवा कमलासनम् | महाविद्यामहामन्त्रं जप्त्वा लिङ्गमवाप्नुयात् || २४-६४ || एतत्सर्वं न गृह्णीयाद् यदीच्छेदात्मनो हितम् | कुव्याधिमरणं कुष्ठं स्त्रीवश्यं पतितं मृतम् || २४-६५ || दुभीक्षमृतमुन्मत्तमव्यक्तलिङ्गमेव च | हीनाङ्गं भूचरवृद्धं पलायनपरं तथा || २४-६६ || अन्यद्यो यद् विचारेण हत्त्वा लोकं जपन्ति ये | ते सर्वे व्याघ्रभक्षा स्युः खादन्ति व्याघ्ररूपिणः || २४-६७ || पर्युषितं तथाश्वस्थमधिकाङ्गं कुकिल्बिषम् | ब्राह्मणं गोमयं वीरं धामीकं सन्त्यजेत् सुधीः || २४-६८ || स्त्रीजनं योगिनं त्यक्त्वा साधयेद्वीरसाधनम् | तदा सिद्धो भवेन्मन्त्री आज्ञया मे न संशयः || २४-६९ || तरुणं सुन्दरं शूरं मन्त्रविद्यं समुज्ज्वलम् | गृहीत्वा जपमाकृत्य सिद्धो भवति नान्यथा || २४-७० || मनुष्यशवहृत्पद्मे सर्वसिद्धिकुलाकुलाः | तत्र सर्वासनान्येव सिद्ध्यन्ति नात्र संशयः || २४-७१ || अथान्यत्तत्प्रकारं तु यत्कृत्वा योगिराट् भवेत् | कोमलाद्यासने स्थित्वा धारयन् मारुतं सुधीः || २४-७२ || तत्कोमलासनं वक्ष्ये शृणुष्व मम तद्वचः | अवृद्धकं मृतं बालं षण्मासात् कोमलं परम् || २४-७३ || तद्विभेदं प्रवक्ष्यामि गर्भच्युत महाशवम् | तद्धि व्याघ्रत्वचारूढं कृत्वा तत्र जपेत् स्थितः || २४-७४ || षण्मासानन्तरं यावद्दशमासाच्च पूर्वकम् | मृतं चारुमुखं बालं गर्भाष्टमपुरःसरम् || २४-७५ || एकहस्ते द्विहस्ते वा चतुर्हस्ते समन्ततः | विशुद्ध आसने कुर्यात् संस्कारं पूजनं ततः || २४-७६ || पूर्णे पञ्चमवर्षे च साधको वीतभीः स्वयम् | हीनवीतोपनयनो यो मृतस्तं हि कोमलम् || २४-७७ || गर्भच्युतफलं नाथ शृणु तत्फलसिद्धये | अणिमाद्यष्टसिद्धिः स्यात् संवत्सरस्य साधनात् || २४-७८ || मृतासने जपेन्मन्त्री महाविद्याममुं शुभम् | अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा || २४-७९ || अथान्यत् शवमाहात्म्यं शृणु सिद्धिश्च साधनात् | साधको योगिराट् भूत्त्वा मम पादतले वसेत् || २४-८० || दशसंवत्सरे पूर्णे यो मिरयेत शुभे दिने | शनौ मङ्गलवारे च तमानीय प्रसाधयेत् || २४-८१ || तत्र वीरासनं कृत्त्वा यो जपेद् भद्रकालिकाम् | अथवा बद्धपद्मे च स सिद्धो भवति ध्रुवम् || २४-८२ || अथ भावफलं वक्ष्ये येन शवादिसाधनम् | अकस्मात् प्राप्तिमात्रेण शवस्य विहितस्य च || २४-८३ || यं पञ्चदशवर्षीयं सुन्दरं पतितं रणे | तमानीय जपेद्विद्यां निशि वीरासने स्थितः || २४-८४ || शीघ्रमेव सुसिद्धिः स्यात् खेचरी वायुपूरणी | धारणाशक्तिसिद्धिः स्यात् यः करोतीह साधनम् || २४-८५ || अथ षोडशवर्षीयं सर्वसिद्धिकरं नृणाम् | भोगमोक्षौ करे तस्य शवेन्द्रस्य च साधनात् || २४-८६ || एवं क्रमेण पञ्चाशद् वर्षीयं सुन्दरं वरम् | आनीय साधयेद्यस्तु स योगी भवति ध्रुवम् || २४-८७ || शवं रणस्थमानीय साधयेत्सुसमाहितः | इन्द्रतुल्यो भवेन्नाथ रणस्थशवसाधनात् || २४-८८ || यदि सम्मुखयुद्धे वा शृणु पट्टीशघातनम् | शवमानीय वीरेन्द्रो जपेद्वीरासनस्थितः || २४-८९ || तत् शवं तु महादेव पूजार्थं निजमन्दिरे | देवालये निर्णये च स्थापयित्वा जपं चरेत् || २४-९० || तत्र वीरासनं किं वा योनिमुद्रासनादिकम् | पद्मासनं तथाकृत्य वायुं धृत्वा जपं चरेत् || २४-९१ || मासैकेन भवेद्योगी विप्रो गुणधरः शुचिः | सूक्ष्मवायुधारणज्ञो जपेद् यौवनगे शवे || २४-९२ || शवसाधनकालेन यद्यत् कर्म करोति हि | तत्कर्मसाधनादेव योगी स्यादमरो नरः || २४-९३ || आनन्दभैरवी उवाच कालक्रियादिकं ज्ञात्त्वा सूक्ष्मानिलनिधारणम् | साधको विचरेद्वीरो वीराचारविवेचकः || २४-९४ || शवादे रणयातस्य क्रियामाहात्म्यमुत्तमम् | शृणु सङ्केतभाषाभिः शिवेन्द्रचन्द्रशेखर || २४-९५ || एकहस्तार्द्धमाने तु भूम्यधोविधिमन्दिरे | संस्थाप्य सुशवं नाथ मायादवगतः प्रभो || २४-९६ || एकाहं जगदाधारा आधारान्तर्गता सती | पतिहीना सूक्ष्मरूपादधरादिचराचरम् || २४-९७ || मदीयं साधकं पुण्यं धर्मकामार्थमोक्षगम् | प्रकरोमि सदा रक्षां धात्रीरूपा सरस्वती || २४-९८ || केवलं तदभावेन शम्भो योगपरायण | मग्ना संसारकरणात्त्वयि त्वञ्चाहमेव च || २४-९९ || यद्यत्पदार्थनिकरे तिष्ठसि त्वं सदा मुदा | तत्रैव संस्थिरा हृष्टा चाहमेव न संशयः || २४-१०० || एतद्भावं त्वं करोषि कस्य हेतोस्तव प्रिया | वामाङ्गे संस्थिरा नित्यं कामक्रोधविवजीता || २४-१०१ || आनन्दभैरव उवाच किं प्रयोजनमेवं हि शवादीनाञ्च साधनात् | यदि ते श्रीपदाम्भोजमधून्मत्तो भवेद्यतिः || २४-१०२ || त्रैलोक्यपूजिते भीमे वाग्वादिनीस्वरूपिणी | शवसाधनमात्रेण केन योगी भवेद्वद || २४-१०३ || आनन्दरस लावण्यमन्द हासमुखाम्बुजे | योगी भजति योगार्थं केन तत्फलमावद || २४-१०४ || आनन्दभैरवी उवाच यदि शङ्कर भक्तोऽसि मम जापपरायणः | तथापि शवभावेन शववत् शवसाधनम् || २४-१०५ || रात्रियोगे प्रकर्त्तव्यं दिवसे न कदाचन | शवे स्थिरो यो बभूव स भक्तो मे न संशयः || २४-१०६ || मे शवाकृतिमद्द्रव्यं मम तुष्टिनिबन्धनम् | ममाज्ञापालने योग्यः कुर्याद् वीरः शवासनम् || २४-१०७ || यद्यहं तत्र गच्छामि तदैव स शिवो भवेत् | निःशेषत्यागमात्रेण शवत्वं प्रलयं तनोः || २४-१०८ || यः करोति भावराशिं मयि देव्यां महेश्वर | त्रैलोक्यपूजितायां तु स शिवः शवमाश्रयेत् || २४-१०९ || अधिकारी तु भक्तस्य पालनं परपृष्ठतः | करोमि कामिनीनाथ सन्देहो नात्र भूतले || २४-११० || यदाहं त्यज्यते गात्रं पशूनां मारणाय च | तदैते च मृताः सर्वे जीवन्ते केन हेतुना || २४-१११ || तदाहुतिमहाद्रव्यं शवेन्द्रं रणहानिगम् | आनीय साधयेद्यस्तु स स्थिरो मे सुभक्तिगः || २४-११२ || सदा क्रोधी भवेद्यस्तु स क्रूरो नात्र संशयः | स कथं वीररात्रौ च साधयेद् विह्वलः शवम् || २४-११३ || भयविह्वलचेता यः स क्रोधी नात्र संशयः | नास्ति क्रोधसमं पापं पापात् क्षिप्तो भवेत् शवे || २४-११४ || यो भक्तः पापनिर्मुक्तः सिद्धरूपी निराश्रयः | विवेकी ध्याननिष्ठश्च स्थिरः संसाधयेत् शवम् || २४-११५ || यावत्कालं स्थिरचित्तं न प्राप्नोति जितेन्द्रियः | तावत्कालं नापि कुर्यात् शवेन्द्रस्यापि साधनम् || २४-११६ || शवमानीय तद्द्वारे तेनैव परिखन्य च | तद्दनात्तद्दिनं यावत् यद्बद्ध्वा व्याप्य साधयेत् || २४-११७ || एवं कृत्वा हविष्याशी महाविद्यादिसाधनम् | जितेन्द्रियो मुदा कुर्याद् अष्टाङ्गसाधनेन च || २४-११८ || तदष्टाङ्गफलं ह्येतत् यत्कृत्त्वा सिद्धिभाग् भवेत् | नाडीमुद्राभेदकञ्च कुलाचारफलान्वितम् || २४-११९ || अष्टाङ्गसाधनादेव सिद्धरूपो महीतले | पश्चादन्यस्वर्गगामी भवेन्न भूतलं बिना || २४-१२० || आदौ भूतलसिद्धिःस्याद्भुवोलोकस्य सिद्धिभाक् | जनलोकस्य सिद्धीशस्तपोलोकस्य सिद्धिभाक् || २४-१२१ || सत्यलोकस्य सिद्धीशः पश्चाद् भवति साधकः | एवं क्रमेण सिद्धिः स्यात् स्वर्गादीनां महेश्वर || २४-१२२ || अष्टाङ्गसाधनार्थाय देवा भवन्ति भूतले | भूतले सिद्धिमाहृत्य गच्छन्ति ब्रह्ममन्दिरे || २४-१२३ || क्रमेणैवं विलीनास्ते अतो भूतलसाधनम् | भूतले शवमास्थाय ब्रह्मचारी दिवा शुचिः || २४-१२४ || निशायां पञ्चतत्त्वेन दिवसेऽष्टाङ्गसाधनम् | जितेन्द्रियो निवीकारो वित्तवानपरो नरः || २४-१२५ || शवं संसाधयेद्धीरश्चिन्तालस्यविवजीतः | चिन्ताभिर्जायते लोभो लोभात् कामः प्रपद्यते || २४-१२६ || कामाद्भवति सम्मोहो मोहादालस्य सञ्चयः | आलस्यदोषजालेन निद्रा भवति तत्क्षणात् || २४-१२७ || महानिद्राविपाकेन मृत्युर्भवति निश्चितम् | अपक्षनिद्राभङ्गेन क्रोधो भवति निश्चितम् || २४-१२८ || तत्क्रोधाच्चित्तविकलो विकलात् श्वासवर्द्धनः | वृथायुः क्षयमाप्नोति विस्तरे श्वाससंक्षये || २४-१२९ || बलबुद्धिक्षयं याति बुद्धिहीनो जडात्मकः | जडभावेन मन्त्राणां जपहीनो भवेन्नरः || २४-१३० || जपहीने श्वासनाशः श्वासनाशे तनुक्षयम् | अतस्तनुं समाश्रित्य जपनिष्ठो भवेत् शुचिः || २४-१३१ || अष्टाङ्गधारणेनैव सिद्धो भवति नान्यथा | अष्टाङ्गलक्षणं वक्ष्ये साक्षात् सिद्धिकरं परम् || २४-१३२ || जन्मकोटिसहस्राणां फलेन कुरुते नरः | यमेन लभ्यते ज्ञानं ज्ञानात् कुलपतिर्भवेत् || २४-१३३ || यो योगेशः स कुलेशः शिशुभावस्थनिर्मलः | नियमेन भवेत् पूजा पूजया लभते शिवम् || २४-१३४ || यत्र कल्या ण सम्पूर्णा सम्पूर्णः शुचिरुच्यते | आसनेन दीर्घजीवी रोगशोकविवजीतः || २४-१३५ || ग्रन्थिभेदनमात्रेण साधकः शीतलो भवेत् | प्राणायामेन शुद्धः स्यात् प्राणवायुवशेन च || २४-१३६ || वशी भवति देवेश आत्मारामेऽपि लीयते | प्रत्याहारेण चित्तं तु चञ्चलं कामनाप्रियम् || २४-१३७ || तत्कामनाविनाशाय स्थापयेत् पदपङ्कजे | धारणेन वायुसिद्धिरष्टसिद्धिस्ततः परम् || २४-१३८ || अणिमासिद्धिमाप्नोति अणुरूपेण वायुना | ध्यानेन लभते मोक्षं मोक्षेण लभते सुखम् || २४-१३९ || सुखेनानन्दवृद्धिः स्यादानन्दो ब्रह्मविग्रहः | समाधिना महाज्ञानी सूर्याचन्द्रमसोर्गतिः || २४-१४० || महाशून्ये लयस्थाने श्रीपदानन्दसागरः | तत्तरङ्गे मनो दत्त्वा परमार्थविनिर्मले || २४-१४१ || श्रीपादमूतीमाकल्प्य ध्यायेत् कोटिरवीन्दुवत् | श्रीमूतीं कोटिचपलां समुज्ज्वलां सुनिर्मलाम् || २४-१४२ || ध्यायेद्योगी सहस्रारे कोटिसूर्येन्दुमन्दिराम् || २४-१४३ || श्रीविद्यामतिसुन्दरीं त्रिजगतामानन्दपुञ्जेश्वरी| कोट्यर्कायुत तेजसि प्रियकरीं योगादरीं शाङ्करीम् | तां मालां स्थिरचञ्चलां गुरुघनां व्यालाचलां केवलां ध्यायेत् सूक्ष्मसमाधिना स्थिरमतिः सश्रीपतिर्गच्छति || २४-१४४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते योगविद्याप्रकरणे मन्त्रसिद्धिशक्त्युपाये | भैरवीभैरवसंवादे चतुवींशः पटलः || २४ || अथ पञ्चविंशः पटलः आनन्दभैरव उवाच वद कान्ते रहस्यं मे तत्त्वावधानपूर्वकम् | यद् यज्ज्ञात्वा महायोगी प्रविशत्यनलाम्बुजे || २५-१ || यदि स्नेहदृष्टिरस्ति मम ब्रह्मनिरूपणम् | योगसारं तत्त्वपथं निर्मलं वद योगिने || २५-२ || आनन्दभैरवी उवाच शृणु प्राणेश वक्ष्यामि योगनाथ क्रियागुरो | योगाङ्गं योगिनामिष्टं तत्त्वब्रह्मनिरूपणम् || २५-३ || एतत् सृष्टिप्रकारञ्च प्रपालनविधिं तथा | असंख्यसृष्टिसंहारं वदामि तत्त्वतः शृणु || २५-४ || त्वमेव संहारकरो वरप्रियः प्रधानमेषु त्रितयेषु शङ्कर | संहारभावं मलभूतिनाशनं प्रधानमाद्यस्य जगत्प्रपालनम् || २५-५ || तत्राधनं मेरुभुजङ्गमङ्गं सृष्टिप्रकारं खलु तत्र मध्यमम् | तत्पालनञ्चेति मयैव राज्ये संहाररूपं प्रकृतेर्गुणार्थकम् || २५-६ || एतत्त्रयं नाथ भयादिकारणं तन्नाशनाम्ने प्रणवं गुणात्मकम् | त्रयं गुणातीतमनन्तमक्षरं सम्भाव्य योगी भवतीह साधकः || २५-७ || अव्यक्तरूपात् प्रणवाद्धि सृष्टिस्तल्लीयते व्यक्ततनोः समासा | सूक्ष्माद्यकारात् प्रतिभान्ति खे सदा प्रणश्यति स्थूलकलान्निरक्षरात् || २५-८ || अतीव चित्रं जगतां विचित्रं नित्यं चरित्रं कथितुं न शक्यते | हंसाश्रितास्ते भववासिनो जना ज्ञात्वा न देहस्थमुपाश्रयन्ते || २५-९ || देहाधिकारी प्रणवादिदेव मायाश्रितो निद्रित एष कालः | प्रलीयते दीर्घपथे च काले तदा प्रणश्यन्ति जगत् स्थिता जनाः || २५-१० || कालो जगद्भक्षक ईशवेशो तरी तु जीर्णा पतिहीनदीना | स एव मृत्युवीहितं चराचरं प्रभुञ्जति श्रीरहितं पलायनम् || २५-११ || पञ्चेन्दुतत्त्वेन महेन्द्रसृष्टिः प्रतिष्ठिता यज्ञविधानहेतुना | सदैव यज्ञं कुरुते भवार्णवे निःसृष्टिकाले वरयज्ञसाधनम् || २५-१२ || हिताहितं तत्र महार्णवे भयं विलोक्य लोका भयविह्वलाः सदा | विशन्ति ते कुत्सितमार्गमण्डले अतो महानारकिबुद्धिहीनाः || २५-१३ || मायामये धर्मकुलानले भवे लीनो हरेर्याति पथानुसारी | मिरयेत कालानलतुल्यमृत्युना कथं तु योगी कथमेव साधकः || २५-१४ || यः साधकः प्रेम--कलासुभक्त्या स एव मूर्खो यदि याति संसृतौ | संसारहीनः प्रियचारुकाल्याः सिद्धो भवेत् कामदचक्रवर्ती || २५-१५ || वसेन्न सिद्धो गृहीणीसमृद्ध्यां महाविपद्दुःखविशोषिकायाम् | यदीह काले प्रकरोति वासनां तदा भवेन्मृत्युरतीव निश्चितम् || २५-१६ || कृपावलोक्यं वदनारविन्दं तदैव हे नाथ ममैव चेद्यदि | सदैव यः साधुगणाश्रितो नरो ध्यात्वा निगूढमतिभागगद्वतः || २५-१७ || स एव साधुः प्रकृतेर्गुणाश्रितः कृती वशी वेदपुराणवक्ता | सत्त्वं महाकाल इतीह चाहं प्रणिश्चयं ते कथितं श्रिये मया || २५-१८ || गुणेन भक्तेन्द्रगणाधिकानां साक्षात् फलं योगजपाख्यसङ्गतिम् | अष्टाङ्गभेदेन शृणुष्व कामपेरमाय भावाय जयाय वक्ष्ये || २५-१९ || मायादिकं यः प्रथमं वशं नयेत् स एव योगी जगतां प्रतिष्ठितः | रविप्रकारं यमवासनावशे शृणुष्व तं कालवशार्थकेवलम् || २५-२० || सर्वत्र कामादिकमाशु जित्वा जेतुं समर्थो यमकर्मसाधकः | कामं तथा क्रोधमतीव लोभं मोहं मदं मात्सरितं सुदुष्टकृतम् || २५-२१ || अतो मया द्वादश शब्द घातकं वशं समाकृत्य महेन्द्रतुल्यम् | सर्वत्र वायोर्वशकारणाय करोति योगी सचलान्यथा भवेत् || २५-२२ || अहिंसनं सत्यसुवाक्यसुप्रियमस्तेयभावं कुरुते वसिष्ठवत् | सुब्रह्मचर्यं सुदृढार्ज्जवं सदा क्षमाधृतिं सेवसुसूक्ष्मवायुनः || २५-२३ || तथा मिताहारमसंशयं मनः शौचं प्रपञ्चार्थविवर्जनं प्रभो | करोति यः साधकचक्रवर्ती वाद्योत्सवाज्ञानविवर्जनं सदा || २५-२४ || वशी यमद्वादशसंख्ययेति करोति चाष्टाङ्गफलार्थसाधनम् | वरानना श्रीचरणारविन्दं सत्त्वादशाच्छन्नत्रिनेत्रगोचरम् || २५-२५ || तपश्च सन्तोषमनस्थिरं सदा आस्तिक्यमेवं द्विजदानपूजनम् | नितान्तदेवार्चनमेव भक्त्या सिद्धान्तशुद्धश्रवणं च ह्रीर्मतिः || २५-२६ || जपोहुतं तर्पणमेव सेवनं तद्भावनं चेष्टनमेव नित्यम् | इतीह शास्त्रे नियमाश्चतुर्दशा भक्तिक्रियामङ्गलसूचनानि || २५-२७ || पूर्वोक्तयोन्यासनमेव सत्यं भेकासनं बद्धमहोत्पलासनम् | वीरासनं भद्रसुभकासनं च पूर्वोक्तमेवासनमाशु कुर्यात् || २५-२८ || सर्वाणि तन्त्राणि कृतानि नाथ सूक्ष्माणि नालं वशहेतुना मया | तथापि मूढो यदि वायुपानमाहृत्य योनौ भ्रमतीह पातकी || २५-२९ || प्राणानिलानन्दवशेन मत्तो गजेन्द्रगामी पुरुषोत्तमं स्मृतम् | तस्यैव सेवानिपुणो भवेद्वशी ब्रह्माण्डलोकं परिपाति यो बली || २५-३० || वदामि देवादिसुरेश्वर प्रभो सूक्ष्मानिलं प्राणवशेन धारयेत् | सिद्धो भवेत् साधकचक्रवर्ती सर्वान्तरस्थं परिपश्यति प्रभुम् || २५-३१ || आनन्दभैरव उवाच वद कान्ते महाब्रह्मज्ञानं सर्वत्र शोभनम् | येन वायुवशं कृत्त्वा खेचरो भूभृतां पतिः || २५-३२ || साधको ब्रह्मरूपी स्यात् ब्रह्मज्ञानप्रसादतः | ब्रह्मज्ञानात् परं ज्ञानं कुत्रास्ति वद सुन्दरि || २५-३३ || आनन्दभैरवी उवाच शृणुष्व योगिनां नाथ धर्मज्ञो ब्रह्मसञ्ज्ञक | अज्ञानध्वान्तमोहानां निर्मलं ब्रह्मसाधनम् || २५-३४ || ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते | यदि ब्रह्मज्ञानधर्मी स सिद्धो नात्र संशयः || २५-३५ || कोटिकन्याप्रदानेन कोटिजापेन किं फलम् | ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते || २५-३६ || सरोवरसहस्रेण कोटिहेमाचलेन च | कोटिब्राह्मणभोज्येन कोटितीर्थेन किं फलम् || २५-३७ || कामरूपे महापीठे साधकैर्लभ्यते यदि | ब्रह्मज्ञानसमो धर्मो नान्यधर्मो विधीयते || २५-३८ || ब्रह्मज्ञानं तु द्विविधं प्राणायामजमव्ययम् | भक्तिवाक्यं शब्दरसं स्वरूपं ब्रह्मणः पथम् || २५-३९ || प्राणायामं तु द्विविधं सुगर्भञ्च निगर्भकम् | जपध्यानं सगर्भं तु तदा युक्तं निगर्भकम् || २५-४० || अव्ययालक्षणाक्रान्तं प्राणायामं परात् परम् | ब्रह्मज्ञानेन जानाति साधको विजितेन्द्रियः || २५-४१ || तत्प्रकारद्वयं नाथ मालावृत्तिं जपक्रमम् | मालावृत्तिद्वादशकं जपक्रमं तु षोडश || २५-४२ || नासिकायां महादेव लक्षणत्रयमनुत्तमम् | पूरकं कुम्भकं तत्र रेचकं देवतात्रयम् || २५-४३ || एतेषामप्यधिष्ठाने ब्रह्मविष्णुशिवाः प्रजाः | त्रिवेणी सङ्गमे यान्ति सर्वपापापहारकाः || २५-४४ || ईडा च भारती गङ्गा पिङ्गला यमुना मता | ईडापिङ्गलयोर्मध्ये सुषुम्ना च सरस्वती || २५-४५ || त्रिवेणीसङ्गमो यत्र तीर्थराजः स उच्यते | त्रिवेणीसङ्गमे वीरश्चालयेत्तान् पुनः पुनः || २५-४६ || सर्वपापाद् विनिर्मुक्तः सिद्धो भवति नान्यथा | पुनः पुनः भ्रामयित्वा महातीर्थे निरञ्जने || २५-४७ || वायुरूपं महादेवं सिद्धो भवति नान्यथा | चन्द्रसूर्यात्मिकामध्ये वह्निरूपे महोज्ज्वले || २५-४८ || ध्यात्वा कोटि(रवि)करं कुण्डलीकिरणं वशी | त्रिवारभ्रमणं वायोरुत्तमाधममध्यमाः || २५-४९ || यत्र यत्र गतो वायुस्तत्र तत्र त्रयं त्रयम् | इडादेवी च चन्द्राख्या सूर्याख्या पिङ्गला तथा || २५-५० || सुषुम्ना जननी मुख्या सूक्ष्मा पङ्कजतन्तुवत् | सुषुम्ना मध्यदेशे च वज्राख्या नाडिका शुभा || २५-५१ || तत्र सूक्ष्मा चित्रिणी च तत्र श्रीकुण्डलीगतिः | तया सङ्ग्राह्य तं नाड्या षट्पद्मं सुमनोहरम् || २५-५२ || ध्यानगम्यापरं ज्ञानं षट्शरं शक्तिसंयुतम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || २५-५३ || ततः परशिवो नाथ षट्शिवाः परिकीतीताः | डाकिनी राकिणी शक्तिर्लाकिनी काकिनी तथा || २५-५४ || साकिनी तत्र षट्पद्मे शक्तयः षट्शिवान्विताः | मूलाधारं स्वाधिष्ठानं मणिपूरं सुपङ्कजम् || २५-५५ || अनाहतं विशुद्धाख्यमाज्ञाचक्रं महोत्पलम् | आज्ञाचक्रादिमध्ये तु चन्द्रं शीतलतेजसम् || २५-५६ || प्रपतन्तं मूलपद्मे तं ध्यात्वा पूरकानिलम् | यावत्कालं स्थैर्यगुणं तत्कालं कुम्भकं स्मृतम् || २५-५७ || पिङ्गलायां प्रगच्छन्तं रेचकं तं वशं नयेत् | अङ्गुष्ठैकपर्वणा च दक्षनासापुटं वशी || २५-५८ || धृत्वा षोडशवारेण प्रणवेन जपं चरेत् | एतत्पूरकमाकृत्य कुर्यात्कुम्भकमद्भुतम् || २५-५९ || चतुःषष्टिप्रणवेन जपं ध्यानं समाचरेत् | कुम्भकानन्तरं नाथ रेचकं कारयेद् बुधः || २५-६० || द्वात्रिंशद्वारजापेन मूलेन प्रणवेन वा | द्विनासिकापुटं बद्ध्वा कुम्भकं सर्वसिद्धिदम् || २५-६१ || कनिष्ठानामिकाभ्यां तु वाममङ्गुष्ठदक्षिणम् | पुनर्दक्षिणनासागेर वायुमापूरयेद् बुधः || २५-६२ || मनुषोडशजापेन कुम्भयेत् पूर्ववत्ततः | ततो वामे रेचकञ्च द्वात्रिंशत्प्रणवेन तु || २५-६३ || पुनर्वामेन सम्पूर्य षोडशप्रणवेन तु | पुनर्दक्षिणनासाग्रे द्वादशाङ्गुलमानतः || २५-६४ || कुम्भयित्वा रेचयेद्यः सर्वत्र पूर्ववत् प्रभो | प्राणायामत्रयेणैव प्राणायामैकमुत्तमम् || २५-६५ || द्विवारं मध्यमं प्रोक्तं मध्यमं चैकवारकम् | त्रिकालं कारयेद्यत्नात् अनन्तफलसिद्धये || २५-६६ || प्रातर्मध्याह्नकाले च सायह्ने नियतः शुचिः | जपध्यानादिभिर्मु(र्यु)क्तं सगर्भं यः करोति हि || २५-६७ || मासात् सल्लक्षणं प्राप्य षण्मासे पवनासनः | तालुमूले समारोप्य जिह्वाग्रं योगसिद्धये || २५-६८ || त्रिकाले सिद्धिमाप्नोति प्राणायामेन षोडश | सदाभ्यासी वशीभूत्त्वा पवनं जनयेत् पुमान् || २५-६९ || षण्मासाभ्यन्तरे सिद्धिरिति योगार्थनिर्णयः | योगेन लभ्यते सर्वं योगाधीनमिदं जगत् || २५-७० || तस्माद् योगं परं कार्यं यदा योगी तदा सुखी | बिना योगं न सिद्धेऽपि कुण्डली परदेवता || २५-७१ || अथ योगं सदा कुर्यात् ईश्वरीपाददर्शनात् | योगयोगाद् भवेन्मोक्ष इति योगार्थनिर्णयः || २५-७२ || मन्त्रसिद्धीच्छुको यो वा सैव योगं सदाभ्यसेत् | मात्रावृत्तिं प्रवक्ष्यामि काकचञ्चुपुटं तथा || २५-७३ || सूक्ष्मवायु भक्षणं तत् चन्द्रमण्डलचालनम् | त्र्यावृत्तिञ्चैव विविधं तन्मध्ये उत्तमं त्रयम् || २५-७४ || वर्णं सचन्दं संयुक्तं मूलं त्र्यक्षरमेव वा | जानुजङ्घामध्यदेशे तत्तत्सर्वासनस्थितः || २५-७५ || वामहस्ततालुमूलं भ्रामयेद् द्वादशक्रमात् | द्वादशक्रमशः कुर्यात् प्राणायामं हि पूर्ववत् || २५-७६ || मात्रावृत्तिक्रमेणैव जपमष्टसहस्रकम् | प्राणायामद्वादशैकैर्भवेत्तदष्टसहस्रकम् | कृत्वा सिद्धीश्वरो नाम निष्पापी चैकमासतः || २५-७७ || त्रिसन्ध्यं कारयेद्यत्नाद् ब्रह्मज्ञानी निरञ्जनः | भवतीति न सन्देहः सदाभ्यासी हि योगिराट् || २५-७८ || योगाभ्यासाद् भवेन्मुक्तो योगाभ्यासात् कुलेश्वरः | योगाभ्यासाच्च संन्यासी ब्रह्मज्ञानी निरामयः || २५-७९ || सदाभ्यासाद् भवेद्योगी सदाभ्यासात् परन्तपः | सदाभ्यासात् पापमुक्तो विधिविद्याशकृत् शकृत् || २५-८० || काकचञ्चुपुटं कृत्वा पिबेद्वायुमहनीशम् | सूक्ष्मवायुक्रमेणैव सिद्धो भवति योगिराट् || २५-८१ || बद्धपद्मासनं कृत्वा योगिमुद्रां विभाव्य च | मूले सम्पूरयेद् वायुं काकचञ्चुपुटेन तु || २५-८२ || मूलमाकुञ्च्य सर्वत्र प्राणायामे मनोरमे | प्रबोधयेत् कुण्डलिनीं चैतन्यां चित्स्वरूपिणीम् || २५-८३ || ओष्ठाधरकाकतुलं दन्ते दन्ताः प्रगाढकम् | बद्ध्वा वा यद् यजेद् योगी जिह्वां नैव प्रसारयेत् || २५-८४ || राजदन्तयुगं नाथ न स्पृशेज्जिह्वया सुधीः | काकचञ्चुपुटं कृत्वा बद्ध्वा वीरासने स्थितः || २५-८५ || तालुजिह्वामूलदेशे चान्यजिह्वां प्रयोजयेत् | तदुद्भूतामृतरसं काकचञ्चुपुटे पिबेत् || २५-८६ || यः काकचञ्चुपुटके सूक्ष्मवायुप्रवेशनम् | करोति स्तम्भनं योगी सोऽमरो भवति ध्रुवम् || २५-८७ || एतद्योगप्रसादेन जीवन्मुक्तस्तु साधकः | जराव्याधिमहापीडारहितो भवति क्षणात् || २५-८८ || अथवा मात्रया कुर्यात् षोडशस्वरसम्पुटम् | स्वमन्त्रं प्रणवं वापि जप्त्वा योगी भवेन्नरः || २५-८९ || अथवा वर्णमालाभिः पुटितं मूलमन्त्रकम् | मालासंख्याक्रमेणैव जप्त्वा कालवशं नयेत् || २५-९० || वदने नोच्चरेद्वर्णं वाञ्छाफलसमृद्धये | केवल जिह्वया जप्यं कामनाफलसिद्धये || २५-९१ || नाभौ सूर्यो वह्निरूपी ललाटे चन्द्रमास्तथा | अग्निशिखास्पर्शनेन गलितं चन्द्रमण्डलम् || २५-९२ || तत्परामृतधाराभिः दीप्तिमाप्नोति भास्करः | सन्तुष्टः पाति सततं पूरकेण च योगिनाम् || २५-९३ || ततः पूरकयोगेन अमृतं श्रावयेत् सुधीः | कुर्यात्प्रज्वलितं वह्निं रेचकेन वराग्निना || २५-९४ || अथ मौनजपं कृत्वा ततः सूक्ष्मानिलं मुदा | सहस्रारे गुरुं ध्यात्वा योगी भवति भावकः || २५-९५ || प्राणवायुस्थिरो यावत् तावन्मृत्युभयं कुतः | ऊर्ध्वरेता भवेद्यावत्तावत्कालभयं कुतः || २५-९६ || यावद्बिन्दुः स्थितो देहे विधुरूपी सुनिर्मलः | सदागलत्सुधाव्याप्तस्तावन्मृत्युभयं कुतः || २५-९७ || आनन्दभैरव उवाच वद कान्ते कुलानन्दरसिके ज्ञानरूपिणि | सर्वतेजोऽग्रदेवेन येन सिद्धो भवेन्नरः || २५-९८ || महामृता खेचरी च सर्वतत्त्वस्वरूपिणी | कीदृशी शाङ्करीविद्या श्रोतुमिच्छामि तत्क्रियाम् || २५-९९ || अध्यात्मविद्यायोगेशी कीदृशी भवितव्यता | कीदृशी परमा देवी तत्प्रकारं वदस्व मे || २५-१०० || आनन्दभैरवी उवाच यस्य नाथ मनस्थैर्यं महासत्त्वे सुनिर्मले | भक्त्या सम्भावनं यत्र विनावलम्बनं प्रभो || २५-१०१ || यस्या मनश्चित्तवशं स्वमिन्द्रिय| स्थिरा स्वदृष्टिर्जगदीश्वरीपदे | न खेन्दुशोभे च विनावलोकन| वायुः स्थिरो यस्य बिना निरोधनम् || २५-१०२ || त एव मुद्रा विचरन्ति खेचरी पापाद्विमुक्ताः प्रपिबन्ति वायुम् | यथा हि बालस्य च तस्य वेष्टी निद्राविहीनाः प्रतियान्ति निद्राम् || २५-१०३ || पथापथज्ञानविवजीता ये धर्मार्थकामाद्धि विहीनमानसाः | विनावलम्बं जगतामधीश्वर एषैव मुद्रा विचरन्ति शाङ्करी || २५-१०४ || ज्ञाने साध्यात्मविद्यार्थं जानाति कुलनायकम् | अध्याज्ञाचक्रपद्मस्थं शिवात्मानं सुविद्यया || २५-१०५ || अध्यात्मज्ञानमात्रेण सिद्धो योगी न संशयः | षट्चक्रभेदको यो हि अध्यात्मज्ञः स उच्यते || २५-१०६ || अध्यात्मशास्त्रसङ्केतमात्मना मण्डितं शिवम् | कोटिचन्द्राकृतिं शान्तिं यो जानाति षडम्बुधे || २५-१०७ || स ज्ञानी सैव योगी स्यात् सैव देवो महेश्वरः | स मां जानाति हे कान्त विस्मयो नास्ति शङ्कर || २५-१०८ || मम सर्वात्मकं रूपं जगत्स्थावरजङ्गमम् | सृष्टिस्थितिप्रलयगं यो जानाति स योगिराट् || २५-१०९ || अध्यात्मविद्यां विज्ञाप्य नानाशास्त्रं प्रकाशितम् | तच्छास्रजालयुग्मा ये तेऽध्यात्मज्ञाः कथं नराः || २५-११० || त्रिदण्डी स्यात्सदाभक्तो वेदाभ्यासपरः कृती | वेदादुद्भवशास्त्राणि त्यक्त्वा मां भावयेद्यदि || २५-१११ || वेदाभ्यासं समाकृत्य नानाशास्त्रार्थनिर्णयम् | समुत्पन्नां महाशक्तिं समालोक्य भजेद्यतिः || २५-११२ || सर्वत्र व्यापिकां शक्तिं कामरूपां निराश्रयाम् | व्यक्ताव्यक्तां स्थिरपदां वायवीं मां भजेद्यतिः || २५-११३ || यस्या आनन्दमतुलं ज्ञानं यस्य फलाफलम् | योगिनां निश्चयज्ञानमेकमेव न संशयः || २५-११४ || यस्याः प्रभावमात्रेण तत्त्वचिन्तापरो नरः | तामेव परमां देवीं सर्पराजसु कुण्डलीम् || २५-११५ || तामेव वायवीं शक्तिं सूक्ष्मरूपां स्थिराशयाम् | आनन्दरसिकां गौरीं ध्यायेत् श्वासनिवासिनीम् || २५-११६ || आनन्दं ब्रह्मणो रूपं तत्त्वदेहे व्यवस्थितम् | तस्याभिव्यञ्जकं द्रव्यं योगिभिः परिपीयते || २५-११७ || तद्द्रव्यस्थां महादेवीं नीलोत्पलदलप्रभाम् | मानवीं परमां देवीमष्टादशभुजैर्युताम् || २५-११८ || कुण्डलीं चेतनाकान्तिं चैतन्यां परदेवताम् | आनन्दभैरवीं नित्यां घोरहासां भयानकाम् || २५-११९ || तामेव परमां देवीं सर्ववायुवशङ्करीम् | मदिरासिन्धुसम्भूतां मत्तां रौद्रीं वराभयाम् || २५-१२० || योगिनीं योगजननीं ज्ञानिनां मोहिनीसमाम् | सर्वभूतसर्वपक्षस्थितिरूपां महोज्ज्वलाम् || २५-१२१ || षट्चक्रभेदिकां सिद्धिं तासां नित्यां मतिस्थिताम् | विमलां निर्मलां ध्यात्त्वा योगी मूलाम्बुजे यजेत् || २५-१२२ || एतत्पटलपाठे तु पापमुक्तो विभाकरः | यथोद्र्ध्वरेता धर्मज्ञो विचरेत् ज्ञानसिद्धये || २५-१२३ || एतत्क्रियादर्शनेन ज्ञानी भवति साधकः | ज्ञानादेव हि मोक्षः स्यान्मोक्षः समाधिसाधनः || २५-१२४ || यदुद्धरति वायुश्च धारणाशक्तिरेव च | तन्मन्त्रं वर्द्धयित्वा प्राणायामं समाचरेत् || २५-१२५ || प्राणायामात् परं नास्ति पापराशिक्षयाय च | सर्वपापक्षये याते किन्न सिद्ध्यति भूतले || २५-१२६ || प्राणवायुं महोग्रं तु महत्तेजोमयं परम् | प्राणायामेन जित्वा च योगी मत्तगजं यथा || २५-१२७ || प्राणायामं विना नाथ कुत्र सिद्धो भवेन्नरः | सर्वसिद्धिक्रियासारं प्राणायामं परं स्मृतम् || २५-१२८ || प्राणायामं त्रिवेणीस्थं यः करोति मुहुर्मुहुः | तस्याष्टाङ्गसमृद्धिः स्याद्योगिनां योगवल्लभः || २५-१२९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे प्राणायामोल्लासे भैरवीभैरवसंवादे पञ्चविंशः पटलः || २५ || अथ षडविंशः पटलः आनन्दभैरवी उवाच शृणु प्राणेश सकलं प्राणायामनिरूपणम् | प्राणायामे जपं ध्यानं तत्त्वयुक्तं वदामि तत् || २६-१ || प्रकारयेयमुल्लासं प्राणायामेषु शोभितम् | देवताविधिविष्ण्वीशास्ते तु मध्यममध्यमाः || २६-२ || रजस्तमोगुणं नाथ सत्त्वे संस्थाप्य यत्नतः | कामक्रोधादिकं त्यक्त्वा योगी भवति योगवित् || २६-३ || रजोगुणं नृपाणां तु तमोगुणमतीव च | अधिकं तु पशूनां हि साधूनां सत्त्वमेव च || २६-४ || सत्त्वं विष्णुं वेदरूपं निर्मलं द्वैतवजीतम् | आत्मोपलब्धिविषयं त्रिमूतीमूलमाश्रयेत् || २६-५ || सत्त्वगुणाश्रयादेव निष्पापी सर्वसिद्धिभाक् | जितेन्द्रियो भवेत् शीघ्रं ब्रह्मचारिव्रतेन च || २६-६ || प्राणवायुवशेनापि वशीभूताश्चराचराः | तस्यैव कारणे नाथ जपं ध्यानं समाचरेत् || २६-७ || वक्ष्यामि तत्प्रकारं जपध्यानं विधिद्वयम् | एतत्करणमात्रेण योगी स्यान्नात्र संशयः || २६-८ || जपं च त्रिविधं प्रोक्तं व्यक्ताव्यक्तातिसूक्ष्मगम् | व्यक्तं वाचिकमुपांशुमव्यक्तं सूक्ष्ममानसम् || २६-९ || तत्र ध्यानं प्रवक्ष्यामि प्रकारमेकविंशतिम् | ध्यानेन जपसिद्धिः स्यात् जपात् सिद्धिर्न संशयः || २६-१० || आदौ विद्यामहादेवीध्यानं वक्ष्यामि शङ्कर | एषा देवी कुण्डलिनी यस्या मूलाम्बुजे मनः || २६-११ || मनः करोति सर्वाणि धर्मकर्माणि सर्वदा | यत्र गच्छति स श्रीमान् तत्र वायुश्च गच्छति || २६-१२ || अतो मूले समारोप्य मानसं वायुरूपिणम् | द्वादशाङ्गुलकं बाह्ये नासाग्रे चावधारयेत् || २६-१३ || मनःस्थं रूपमाकल्प्य मनोधर्मं मुहुर्मुहुः | मनस्तत् सदृशं याति गतिर्यत्र सदा भवेत् || २६-१४ || मनोविकाररूपं तु एकमेव न संशयः | अज्ञानिनां हि देवेश ब्रह्मणो रूपकल्पना || २६-१५ || अव्यक्तं ब्रह्मरूपं हि तच्च देहे व्यवस्थितम् | धर्मकर्मविनिर्मुक्तं मनोगम्यं भजेद्यतिः || २६-१६ || पद्मं चतुर्दलं मूले स्वर्णवर्णं मनोहरम् | तत्कणीकामध्यदेशे स्वयम्भूवेष्टितां भजेत् || २६-१७ || कोटिसूर्यप्रतीकाशां सुषुम्नारन्ध्रगामिनीम् | ऊद्र्ध्वं गलत्सुधाधारामण्डितां कुण्डलीं भजेत् || २६-१८ || स्वयम्भूलिङ्ग परमं ज्ञानं चिरविवर्द्धनम् | सूक्ष्मातिसूक्ष्ममाकाशं कुण्डलीजडितं भजेत् || २६-१९ || पूर्वोक्तयोगपटलं तत्र मूले विभावयेत् | कुण्डलीध्यानमात्रेण षट्चक्रभेदको भवेत् || २६-२० || ध्यायेद् देवीं कुण्डलिनीं परापरगुरुप्रियाम् | आनन्दां भुवि मध्यस्थां योगिनीं योगमातरम् || २६-२१ || कोटिविद्युल्लताभासां सूक्ष्मातिसूक्ष्मवर्त्मगाम् | ऊद्र्ध्वमार्गव्याचलन्तीं प्रथमारुणविग्रहाम् || २६-२२ || प्रथमोद्गमने कौलीं ज्ञानमार्गप्रकाशिकाम् | प्रति प्रयाणे प्रत्यक्षाममृतव्याप्तविग्रहाम् || २६-२३ || धर्मोदयां भानुमतीं जगत्स्थावरजङ्गमाम् | सर्वान्तस्थां निवीकल्पाञ्चैतन्यानन्दनिर्मलाम् || २६-२४ || आकाशवाहिनीं नित्यां सर्ववर्णस्वरूपिणीम् | महाकुण्डलिनीं ध्येयां ब्रह्मविष्णुशिवादिभिः || २६-२५ || प्रणवान्तःस्थितां शुद्धांशुद्धज्ञानाश्रयां शिवाम् | कुलकुण्डलिनीं सिद्धिं चन्द्रमण्डलभेदिनीम् || २६-२६ || मूलाम्भोजस्थितामाद्यां जगद्योनिं जगत्प्रियाम् | स्वाधिष्ठानादिपद्मस्थां सर्वशक्तिमयीं पराम् || २६-२७ || आत्मविद्यां शिवानन्दां पीठस्थामतिसुन्दरीम् | सर्पाकृतिं रक्तवर्णां सर्वरूपविमोहिनीम् || २६-२८ || कामिनीं कामरूपस्थां मातृकामात्मदायिनीम् | कुलमार्गानन्दमयीं कालीं कुण्डलिनीं भजेत् || २६-२९ || इति ध्यात्वा मूलपद्मे निर्मले योगसाधने | धर्मोदये ज्ञानरूपीं साधयेत् परकुण्डलीम् || २६-३० || कुण्डलीभावनादेव खेचराद्यष्टसिद्धिभाक् | ईश्वरत्वमवाप्नोति साधको भूपतिर्भवेत् || २६-३१ || योगाभ्यासे भावसिद्धौ स्मृतो वायुर्महोदयः | प्राणानामादुनीवार्यो यत्नेन तं प्रचालयेत् || २६-३२ || प्रतिक्षणं समाकृष्य मूलपद्मस्थ कुण्डलीम् | तदा प्राणमहावायुर्वशी भवति निश्चितम् || २६-३३ || ये देवाश्चैव ब्रह्माण्डे क्षेत्रे पीठे सुतीर्थके | शिलायां शून्यगे नाथ सिद्धाः स्युः प्राणवायुना || २६-३४ || ब्रह्माण्डे यानि संसन्ति तानि सन्ति कलेवरे | ते सर्वे प्राणसंलग्नाः प्राणातीतं निरञ्जनम् || २६-३५ || यावत्प्राणः स्थितो देहे तावन्मृत्युभयं कुतः | गते प्राणे समायान्ति देवताश्चेतनास्थिताः || २६-३६ || सर्वेषां मूलभूता सा कुण्डली भूतदेवता | वायुरूपा पाति सर्वमानन्दचेतनामयी || २६-३७ || जगतां चेतनारूपी कुण्डली योगदेवता | आत्ममनःसमायुक्ता ददाति मोक्षमेव सा || २६-३८ || अतस्तां भावयेन्मन्त्री भावज्ञानप्रसिद्धये | भवानीं भोगमोक्षस्थां यदि योगमिहेच्छसि || २६-३९ || वायुरोधनकाले च कुण्डली चेतनामयी | ब्रह्मरन्ध्रावधि ध्येया योगिनं पाति कामिनी || २६-४० || वायुरूपां परां देवीं नित्यां योगेश्वरी जयाम् | निवीकल्पां त्रिकोणस्थां सदा ध्यायेत् कुलेश्वरीम् || २६-४१ || अनन्तां कोटिसूर्याभां ब्रह्मविष्णुशिवात्मिकाम् | अनन्तज्ञाननिलयां यां भजन्ति मुमुक्षवः || २६-४२ || अज्ञानतिमिरे घोरे सा लग्ना मूढचेतसि | सुप्ता सर्पासना मौला पाति साधकमीश्वरी || २६-४३ || ईश्वरीं सर्वभूतानां ज्ञानाज्ञानप्रकाशिनीम् | धर्माधर्मफलव्याप्तां करुणामयविग्रहाम् || २६-४४ || नित्यां ध्यायन्ति योगीन्द्राः काञ्चनाभाः कलिस्थिताः | कुलकुण्डलिनीं देवीं चैतन्यानन्दनिर्भराम् || २६-४५ || ककारादिमान्तवर्णां मालाविद्युल्लतावृताम् | हेमालङ्कारभूषाङ्गीं ये मां सम्भावयन्ति ते || २६-४६ || ये वै कुण्डलिनीं विद्यां कुलमार्गप्रकाशिनीम् | ध्यायन्ति वर्षसंयुक्तास्ते मुक्ता नात्र संशयः || २६-४७ || ये मुक्ता पापराशेस्तु धर्मज्ञानसुमानसाः | तेऽवश्यं ध्यानमाकुर्वन् स्तुवन्ति कुण्डलीं पराम् || २६-४८ || कुलकुण्डलिनीध्यानं भोगमोक्षप्रदायकम् | यः करोति महायोगी भूतले नात्र संशयः || २६-४९ || त्रिविधं कुण्डलिनीध्यानं दिव्यवीरपशुक्रमम् | पशुभावादियोगेन सिद्धो भवति योगिराट् || २६-५० || दिव्यध्यानं प्रवक्ष्यामि सामान्यानन्तरं प्रभो | आदौ सामान्यमाकृत्य दिव्यादीन् कारयेत्ततः || २६-५१ || कोटिचन्द्रप्रतीकाशां तेजोबिम्बां निराकुलाम् | ज्वालामालासहस्राढ्यां कालानलशतोपमाम् || २६-५२ || द्रंष्ट्रकरालदुर्धर्षां जटामण्डलमण्डिताम् | घोररूपां महारौद्रीं सहस्रकोटिचञ्चलाम् || २६-५३ || कोटिचन्द्रसमस्निग्धां सर्वत्रस्थां भयानकाम् | अनन्तसृष्टिसंहारपालनोन्मत्तमानसाम् || २६-५४ || सर्वव्यापकरूपाद्यामादिनीलाकलेवराम् | अनन्तसृष्टिनिलयां ध्यायन्ति तां मुमुक्षवः || २६-५५ || वीरध्यानं प्रवक्ष्यामि यत्कृत्वा वीरवल्लभः | वराणां वल्लभो यो हि मुक्तो भोगी स उच्यते || २६-५६ || वीराचारे सत्त्वगुणं निर्मलं दिव्यमुत्तमम् | सम्प्राप्य च महावीरो योगी भवति तत्क्षणात् || २६-५७ || वीराचारं बिना नाथ दिव्याचारं न लभ्यते | ततो वीराचारधर्मं कृत्वा दिव्यं समाचरेत् || २६-५८ || वीराचारं कोटिफलं वारैकजपसाधनम् | कोटिकोटिजन्मपापदुःखनाशं स भक्तकः || २६-५९ || कुलाचारं समाचारं वीराचारं महाफलम् | कृत्वा सिद्धिश्च वै ध्यानं कुलध्यानं मदीयकम् || २६-६० || कुलकुण्डलिनीं देवीं मां ध्यात्वा पूजयन्ति ये | मूलपद्मे महावीरो ध्यात्वा भवति योगिराट् || २६-६१ || कालीं कौलां कुलेशीं कलकल--कलिजध्यानकालानलार्कां | कल्योल्कां कालकवलां किलिकिलिकलिकां केलिलावण्यलीलाम् | सूक्ष्माख्यां संक्षयाख्यां क्षयकुलकमले सूक्ष्मतेजोमयीन्ता-- | माद्यन्तस्थां भजन्ति प्रणतगतजनाः सुन्दरीं चारुवर्णाम् || २६-६२ || अष्टादशभुजैर्युक्तां नीलेन्दीवरलोचनाम् | मदिरासागरोत्पन्नां चन्द्रसूर्याग्निरूपिणीम् || २६-६३ || चन्द्रसूर्याग्निमध्यस्थां सुन्दरीं वरदायिनीम् | कामिनीं कोटिकन्दर्पदर्पान्तकपतिप्रियाम् || २६-६४ || आनन्दभैरवाक्रान्तामानन्दभैरवीं पराम् | भोगिनीं कोटिशीतांशुगलद्गात्रमनोहराम् || २६-६५ || कोटिविद्युल्लताकारां सदसद्व्यक्तिवजीताम् | ज्ञानचैतन्यनिरतां तां वीरा भावयन्ति हि || २६-६६ || अस्या ध्यानप्रसादेन त्वं तुष्टो भैरवः स्वयम् | अहं च तुष्टा संसारे सर्वे तुष्टा न संशयः || २६-६७ || प्राणायामान् स करोति साधकः स्थिरमानसः | ध्यात्वा देवीं मूलपद्मे वीरो योगमवाप्नुयात् || २६-६८ || वीरभावं सूक्ष्मवायुधारणेन महेश्वर | साधको भुवि जानाति स्वमृत्युं जन्मसङ्कटम् || २६-६९ || मासादाकर्षणीसिद्धिर्वाक्सिद्धिश्च द्विमासतः | मासत्रयेण संयोगाज्जायते देववल्लभः || २६-७० || एवञ्चतुष्टये मासि भवेद्दकपालगोचरः | पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः || २६-७१ || वीरभावस्य माहात्म्यं कोटिजन्मफलेन च | जानाति साधकश्रेष्ठो देवीभक्तः स योगिराट् || २६-७२ || वीराचारं महाधर्मं चित्तस्थैर्यस्य कारणम् | यस्य प्रसादमात्रेण दिव्यभावाश्रितो भवेत् || २६-७३ || स्वयं रुद्रो महायोगी महाविष्णुः कृपानिधिः | महावीरः स एवात्मा मोक्षभोगी न संशयः || २६-७४ || अथ नाथ महावीर भावस्नानं कुलाश्रयम् | यत्कृत्वा शुचिरेव स्यात् शुचिश्चेत् किं न सिद्ध्यति || २६-७५ || कुलस्नानं महास्नानं योगिनामतिदुर्लभम् | कृत्वा जितेन्द्रियो वीरः कुलध्यानं समाचरेत् || २६-७६ || स्नानं तु त्रिविधं प्रोक्तं मज्जनं गात्रमार्जनम् | मन्त्रज्ञानादिभिः स्नानमुत्तमं परिकीतीतम् || २६-७७ || तत्प्रकारं शृणु प्राणवल्लभ प्रियकारक | स्नानमात्रेण मुक्तः स्यात् पापशैलादनन्तगः || २६-७८ || स्नानञ्च विमले तीर्थे हृदयाम्भोजपुष्करे | बिन्दुतीर्थेऽथवा स्नायात् सर्वजन्माघमुक्तये || २६-७९ || इडासुषुम्ने शिवतीर्थकेऽस्मिन् ज्ञानाम्बुपूर्णे वहतः शरीरे | ब्रह्मादिभिः स्नाति तयोस्तु नीरे किं तस्य गाङ्गैरपि पुष्करैर्वा || २६-८० || इडामलस्थाननिवासिनी या सूर्यात्मिकायां यमुना प्रवाहिका | तथा सुषुम्ना मलदेशगामिनी सरस्वती मज्जति भक्षणार्थकम् || २६-८१ || मनोगतस्नानपरो मनुष्यो मन्त्रक्रियायोग विशिष्ट तत्त्ववित् | महीस्थतीर्थे विमले जले मुदा मूलाम्बुजे स्नाति च मुक्तिभाग् भवेत् || २६-८२ || सर्वादितीर्थे सुरतीर्थपावनी गङ्गा महासत्वविनिर्गता सती | करोति पापक्षयमेव मुक्तिं ददाति साक्षादतुलार्थपुण्यदा || २६-८३ || सर्गस्थं यावदातीर्थं स्वाधिष्ठाने सुपङ्कजे | मनो निधाय योगीन्द्रः स्नाति गङ्गाजले तथा || २६-८४ || मणिपूरे देवतीर्थे पञ्चकुण्डं सरोवरम् | एतत् श्रीकामनातीर्थं स्नाति यो मुक्तिमिच्छति || २६-८५ || अनाहते सर्वतीर्थं सूर्यमण्डलमध्यगम् | विभवः सर्वतीर्थानि स्नाति यो मुक्तिमिच्छति || २६-८६ || विशुद्धाख्ये महापद्मे अष्टतीर्थं समुद्भवम् | कैवल्यमुक्तिदं ध्यात्वा स्नाति वीरो विमुक्तये || २६-८७ || मानसं बिन्दुतीर्थञ्च कालीकुण्डं कलात्मकम् | आज्ञाचक्रे सदा ध्यात्वा स्नाति निर्वाणसिद्धये || २६-८८ || एतत् कुले प्रियस्नानं कुर्वन्ति योगिनो मुदा | अतो वीराः सत्त्वयुक्ताः सर्वसिद्धियुताः सुराः || २६-८९ || नाना पापं सदा कृत्वा ब्रह्महत्याविनिर्गतम् | कृत्वा स्नानं महातीर्थे सिद्धाः स्युरणिमादिगाः || २६-९० || स्नानमात्रेण निष्पापी शक्तः स्याद्वायुसङ्ग्रहे | तीर्थानां दर्शनं येषां शक्तो योगी भवेद् ध्रुवम् || २६-९१ || अथ सन्ध्यां महातीर्थे कुलनिष्ठः समाचरेत् | कुलरूपां योगविद्यां योगयोगाद् यतीश्वरः || २६-९२ || शिवशक्तौ समायोगो यस्मिन् काले प्रजायते | सा सन्ध्या कुलनिष्ठानां समाधिस्थे प्रजायते || २६-९३ || शिवं सूर्यं हृदि ध्यात्वा भालशक्तीन्दुसङ्गमम् | सा सन्ध्या कुलनिष्ठानां समाधिस्थे प्रजायते || २६-९४ || अथवेन्दुं शिवं ध्यात्वा हृत्सूर्यशक्तिसङ्गमम् | संयोगविद्या सा सन्ध्या समाधिस्थे प्रजायते || २६-९५ || इति सन्ध्या च कथिता ज्ञानरूपा जगन्मयी | सा नित्या वायवी शक्तिः छिन्नभिन्ना विनाशनात् || २६-९६ || तत्त्वतीर्थे महादेव तर्पणं यः करोति हि | त्रैलोक्यं तपीतं तेन तत्प्रकारं शृणु प्रभो || २६-९७ || मूलाम्भोजे कुण्डलिनीं चन्द्रसूर्याग्निरूपिणीम् | समुत्थाप्य कुण्डलिनीं परं बिन्दुं निवेश्य च || २६-९८ || तदुद्भवामृतेनेह तर्पयेद् देहदेवताम् | कुलेश्वरीमादिविद्यां स सिद्धो भवति ध्रुवम् || २६-९९ || चन्द्रसूर्यमहावह्निसम्भूतामृतधारया | तर्पयेत् कौलिनीं नित्याममृताक्तां विभावयेत् || २६-१०० || एतत्परपदा काली स्त्रीविद्यादिप्रतर्पणम् | कृत्वा योगी भवेदेव सत्यं सत्यं कुलेश्वर || २६-१०१ || मूले पात्रं चान्द्रमसं ललाटेन्द्वमृते न च | सम्पूर्य ज्ञानमार्गेण तर्पयेत्तेन खेचरीम् || २६-१०२ || सुधासिन्धोर्मध्यदेशे कुलकन्यां प्रतर्पयेत् | मदिरामृतधाराभिः सिद्धो भवति योगिराट् || २६-१०३ || तत्र तीर्थे महाज्ञानी ध्यानं कुर्यात् प्रयत्नतः | तद्गर्भमभ्यसेन्नित्यं ध्यानमेतद्धि योगिनाम् || २६-१०४ || स्वीयां कन्यां भोजयेद्वै परकीयामथापि वा | परितोषाय सर्वेषां युवतीं वा प्रतोषयेत् || २६-१०५ || स्तोत्रेणानेन दिव्येन तोषयेत् शङ्कर प्रभो | सहस्रनाम्ना कौमार्याः स्तुत्वा देवीं प्रतोषयेत् || २६-१०६ || यः करोति पूर्णयज्ञं पञ्चाङ्गं जपकर्मणि | पुरश्चरणकार्यं च प्राणायामेन कारयेत् || २६-१०७ || प्राणवायुः स्थिरो गेहे पूजाग्रहणहेतुना | येऽन्तरस्थं न कुर्वन्ति तेषां सिद्धिः कुतः स्थिता || २६-१०८ || अतोऽन्तर्यजनेनैव कुण्डलीतुष्टमानसा | यदि तुष्टा महादेवी तदैव सिद्धिभाक् पुमान् || २६-१०९ || अभिषिच्य जगद्धात्रीं प्रत्यक्षपरदेवताम् | मूलाम्भोजात् सहस्रारे पूजयेद् बिन्दुधारया || २६-११० || गलच्चन्द्रामृतोल्लासिधारयासिच्य पार्वतीम् | पूजयेत् परया भक्त्या मूलमन्त्रं स्मरन् सुधीः || २६-१११ || अर्च्चयन्विषयैः पुष्पैस्तत्क्षणात्तन्मयो भवेत् | न्यासस्तन्मयताबुद्धिः सोऽहंभावेन पूजयेत् || २६-११२ || मन्त्राक्षराणि चिच्छक्तौ प्रोतानि परिभावयेत् | तामेव परमे व्योम्नि परमानन्दसंस्थिते || २६-११३ || दर्शयत्यात्मसद्भावं पूजाहोमादिभिवीना | तदन्तर्यजनं ज्ञेयं योगिनां शङ्कर प्रभो || २६-११४ || अन्तरात्मा महात्मा च परमात्मा स उच्यते | तस्य स्मरणमात्रेण साधुयोगी भवेन्नरः || २६-११५ || अमायमनहङ्कारमरागममदं तथा | अमोहकमदम्भञ्च अनिन्दाक्षोभकौ तथा || २६-११६ || अमात्सर्यमलोभश्च दशपुष्पाणि योगिनाम् | अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः || २६-११७ || दया पुष्पं क्षमा पुष्पं ज्ञानपुष्पं च पञ्चमम् | इत्यष्टसप्तभिः पुष्पैः पूजयेत् परदेवताम् || २६-११८ || अथ होमविधिं वक्ष्ये पुरश्चरणसिद्धये | सङ्केतभाषया नाथ कथयामि शृणुष्व तत् || २६-११९ || आत्मानमपरिच्छिन्नं विभाव्य सूक्ष्मवत् स्थितः | आत्मत्रयस्वरूपं तु चित्कुण्डं चतुरस्रकम् || २६-१२० || आनन्दमेखलायुक्तं नाभिस्थज्ञानवह्निषु | अर्द्धमात्राकृतिर्योनिभूषितं जुहुयात् सुधीः || २६-१२१ || इतिमन्त्रेण तद्वह्नौ सोऽहंभावेन होमयेत् | बाह्यनारीविधिं त्यक्त्वा मूलान्तेन स्वतेजसम् || २६-१२२ || नाभिचैतन्यरूपाग्नौ हविषा मनसा स्रुचा | ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहम् || २६-१२३ || इति प्रथममाहुत्या मूलान्ते सञ्चरेत् क्रियाम् | द्वितीयाहुतिदानेन होमं कृत्वा भवेद्वशी || २६-१२४ || धर्माधर्मप्रदीप्ते च आत्माग्नौ मनसा स्रुचा | सुषुम्ना वर्त्मना नित्यमक्षवृत्तिं जुहोम्यहम् || २६-१२५ || स्वाहान्तं मन्त्रमुच्चार्य आद्ये मूलं नियोज्य च | जुहुयादेकभावेन मूलाम्भोरुहमण्डले || २६-१२६ || चतुर्थे पूर्णहवने एतन्मन्त्रेण कारयेत् | एतन्मन्त्रचतुर्थं तु पूर्णविद्याफलप्रदम् || २६-१२७ || अन्तनीरन्तरनिरन्धनमेधमाने | मायान्धकारपरिपन्थिनि संविदग्नौ | कस्म्ंइश्चिदद्भुतमरीचिविकासभूमौ विश्वं जुहोमि वसुधादिशिवावसानम् || २६-१२८ || इत्यन्तर्यजनं कृत्वा साक्षाद् ब्रह्ममयो भवेत् | न तस्य पुण्यपापानि जीवन्मुक्तो भवेद् ध्रुवम् || २६-१२९ || ज्ञानिनां योगिनामेव अन्तर्यागो हि सिद्धिदः | अथान्तः पञ्चमकारयजनं शृणु शङ्कर || २६-१३० || अन्तर्यजनकाले तु दृढभावेन भावयेत् | त्वां मां नाथैकतां ध्यात्वा दिवारात्र्यैकतां यथा || २६-१३१ || सुराशक्तिः शिवो मांसं तद्भक्तो भैरवः स्वयम् | तयोरैक्यसमुत्पन्न आनन्दो मोक्षनिर्णयः || २६-१३२ || आनन्दं ब्रह्मकिरणं देहमध्ये व्यवस्थितम् | तदभिव्यञ्जकैर्द्रव्यैः कुर्याद् ब्रह्मादितर्पणम् || २६-१३३ || आनन्दं जगतां सारं ब्रह्मरूपं तनुस्थितम् | तदभिव्यञ्जकं द्रव्यं योगिभिस्तैः प्रपूजयेत् || २६-१३४ || लिङ्गत्रयं च षट्पद्माधारमध्येन्दुभेदकः | पीठस्थानानि चागत्य महापद्मवनं व्रजेत् || २६-१३५ || मूलाम्भोजो ब्रह्मरन्ध्रं चालयेदसुचालयेत् | गत्वा पुनः पुनस्तत्र चिच्चन्द्रः परमोदयः || २६-१३६ || चिच्चन्द्रः कुण्डलीशक्तिः सामरस्यमहोदयः | व्योमपङ्कजनिस्पन्दसुधापानरतो नरः || २६-१३७ || मधुपानमिदं नाथ बाह्ये चाभ्यन्तरे सताम् | इतरं मद्यपानं तु योगिनां योगघातनात् || २६-१३८ || इतरं तु महापानं भ्रान्तिमिथ्याविवजीतः | महावीरः सङ्करोति योगाष्टाङ्गसमृद्धये || २६-१३९ || पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् | परशिवेन यश्चित्तं नियोजयति साधकः || २६-१४० || मांसाशी स भवेदेव इतरे प्राणिघातकाः | शरीरस्थे महावह्नौ दग्धमत्स्यानि पूजयेत् || २६-१४१ || शरीरस्थजलस्थानि इतराण्यशुभानि च | महीगतस्निग्धसौम्योद्भवमुद्रामहाबलाः || २६-१४२ || तत्सर्वं ब्रह्मकिरणे आरोप्य तर्पयेत् सुधीः | तत्र मुद्राभोजनानि आनन्दवर्द्धकानि च || २६-१४३ || इतराणि च भोगार्थे एतद्धि योगिनां परम् | परशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः || २६-१४४ || मुक्तास्ते मैथुनं तत्स्यादितरे स्त्रीनिषेवकाः | एतत्पञ्चमकारेण पूजयेत् परनायिकाम् || २६-१४५ || पुरश्चरणगूढार्थसारमन्त्रप्रपूजनम् | एतद्योगं सदाभ्यसेद् निद्रालस्यविवजीतः || २६-१४६ || प्राणवायुरयं कुर्यात् कालकारणवारणात् | एतत्क्रियां प्राणवशे यः करोति निरन्तरम् || २६-१४७ || तस्य योगसमृद्धिः स्यात् कालसिद्धिमवाप्नुयात् || २६-१४८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावनिर्णये सूक्ष्मयोगसिद्ध्यधिकरणे पाशवकल्पे षट्चक्रसारसङ्केते सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे षड्विंशः पटलः || २६ || अथ सप्तविंशः पटलः आनन्दभैरव उवाच विविधानि त्वयोक्तानि योगशास्त्राणि भैरवि | सर्वरूपत्वमेवास्या मम कान्ते प्रियंवदे || २७-१ || योगाष्टाङ्गफलान्येव सर्वतत्त्वजलानि च | इदानीं श्रोतुमिच्छामि शक्तितत्त्वक्रमेण तु || २७-२ || पूर्वोक्तप्राणवायूनां हरणं वायुधारणम् | प्रत्याहारं धारणाख्यं ध्यानं समाधिमावद || २७-२ || आनन्दभैरवी उवाच शृणु लोकेश वक्ष्यामि प्राणायामफलाफलम् | न गृह्णीयाद्विस्तरं तु स्वल्पं नैव तु कुम्भयेत् || २७-४ || शनैः शनैः प्रकर्तव्यं सङ्घातञ्च विवर्जयेत् | पूरकाह्लादसिद्धेश्च प्राणायामशतं शतम् || २७-५ || वृद्ध्यै प्राणलक्षणं तु यस्मिन् यस्मिन् दिने गतिः | कृष्णपक्षे शुक्लपक्षे तिथित्रिंशत्फलोदयः || २७-६ || शुक्लपक्षे इडायां तु कृष्णपक्षेऽन्यदेव हि | कुर्यात् सर्वत्र गमनं सुषुम्ना बहुरूपिणी || २७-७ || तिथित्रयं सितस्यापि प्रतिपदादिसम्भवम् | तद्द्वयं दक्षनासायां वायोर्ज्ञेयं महाप्रभो || २७-८ || चतुर्थीं पञ्चमीं षष्ठीं व्याप्योदयति देवता | वामनासापुटे ध्येया वायुधारणकर्मणि || २७-९ || सप्तमीमष्टमीञ्चैव नवमीं व्याप्य तिष्ठति | वामनासापुटे ध्येया साधकैः कुलपण्डितैः || २७-१० || दशम्येकादशीं चैव द्वादशीं व्याप्य तिष्ठति | वायुर्दक्षिणनासाग्रे ध्येयो योगिभिरीश्वरः || २७-११ || त्रयोदशीं व्याप्य वायुः पौर्णमासीं चतुर्दशीम् | वामनासापुटे ध्येयः संहारहरणाय च || २७-१२ || कृष्णपक्षफलं वक्ष्ये यज्ज्ञात्वा अमरो भवेत् | कालज्ञानी भवेत् शीघ्रं नात्र कार्या विचारणा || २७-१३ || प्रतिपद्द्वितीयामस्य तृतीयामपि तस्य च | पिङ्गलायां समावाप्य वायनीःसरते सदा || २७-१४ || चतुर्थी पञ्चमीं षष्ठीं वामे व्याप्य प्रतिष्ठति | सप्तमीमष्टमीं वायुर्नवमीं दक्षिणे ततः || २७-१५ || दशम्येकादशीं वायुर्व्याप्य भ्रमति सर्वदा | वामे च दक्षिणेऽन्यानि तिथ्यादीनि सदानिशम् || २७-१६ || यदा एतद्व्यस्तभावं समाप्नोति नरोत्तमः | तदैव मरणं रोगं बन्धुनाशं त्रिपक्षके || २७-१७ || भिन्नजन्मतिथिं ज्ञात्वा तस्मिन् काले विरोधयेत् | आरभ्य जन्मनाशाय प्राणायामं समाचरेत् || २७-१८ || यदा प्रत्ययभावेन देहं त्यक्त्वा प्रयच्छति | तदा निरुध्य श्वसनं कालाग्नौ धारयेदधः || २७-१९ || यावत् स्वस्थानमायाति तावत्कालं समभ्यसेत् | यावन्न चलते देहं यावन्न चलते मनः || २७-२० || क्रमादभ्यसतः पुंसो देहे स्वेदोद्गमोऽधमः | मध्यमं कम्पसंयुक्तो भूमित्यागः परस्य तु || २७-२१ || षण्मासाद्भूतदर्शी स्यात् दूरश्रवणमेव च | संवत्सराभ्यासयोगा योगविद्याप्रकाशकृत् || २७-२२ || योगी जानाति सर्वाणि तन्त्राणि स्वक्रमाणि च | यदि दर्शनदृष्टिः स्यात्तदा योगी न संशयः || २७-२३ || प्रत्याहारफलं वक्ष्ये यत्कृत्वा खेचरो भवेत् | ईश्वरे भक्तिमाप्नोति धर्मज्ञानी भवेन्नरः || २७-२४ || उत्तमस्य गुणप्राप्तिर्यावच्छीलनमिष्यते | तावज्जपेत् सूक्ष्मवायुः प्रत्याहारप्रसिद्धये || २७-२५ || इन्द्रियाणां विचरतां विषयेषु निवर्तनम् | बलादाहरणं तेभ्यः प्रत्याहारो विधीयते || २७-२६ || नान्यकर्मसु धर्मेषु शास्त्रधर्मेषु योगिराट् | पतितं चित्तमानीय स्थापयेत् पादपङ्कजे || २७-२७ || दुनीवार्यं दृढचित्तं दुरत्ययमसम्मतम् | बलादाहरणं तस्य प्रत्याहारो विधीयते || २७-२८ || एतत् प्रत्याहारबलात् योगी स्वस्थो भवेद् ध्रुवम् | अकस्माद् भावमाप्नोति भावराशिस्थिरो नरः || २७-२९ || भावात् परतरं नास्ति भावाधीनमिदं जगत् | भावेन लभ्यते योगं तस्माद्भावं समाश्रयेत् || २७-३० || अथ धारणमावक्ष्ये यत्कृत्वा धैर्यरूपभाक् | त्रैलोक्यमुदरे कृत्वा पूर्णः तिष्ठति योगिराट् || २७-३१ || अङ्गुष्ठगुल्फजानूरुसीमनि लिङ्गनाभिषु | हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि || २७-३२ || भ्रूमध्ये मस्तके मूध्नी द्वादशान्ते यथाविधि | धारणं प्राणमरुतो धारणेति निगद्यते || २७-३३ || सर्वनाडीग्रन्थिदेशे षट्चक्रे देवतालये | ब्रह्ममार्गे धारणं यद् धारणेति निगद्यते || २७-३४ || धारणं मूलदेशे तु कुण्डलीं नासिकातटे | प्राणवायोः प्रशमनं धारणेति निगद्यते || २७-३५ || तत्र श्रीचरणाम्भोजमङ्गले चारुतेजसि | भावेन स्थापयेच्चित्तं धारणाशक्तिमाप्नुयात् || २७-३६ || अथ ध्यानं प्रवक्ष्यामि यत् कृत्वा सर्वगो भवेत् | ध्यानयोगाद् भवेन्मोक्षो मत्कुलागमनिर्गमः || २७-३७ || समाहितेन मनसा चैतन्यान्तर्वतीना | आत्मन्यभीष्टदेवानां योगध्यानमिहोच्यते || २७-३८ || श्रीपदाम्भोरुहद्वन्द्वे नखकिञ्जल्कचित्रिते | स्थापयित्वा मनःपद्मं ध्यायेदिष्टगणं महत् || २७-३९ || अथ समाधिमाहात्म्यं वदामि तत्त्वतः शृणु | यस्यैव कारणादेव पूर्णयोगी भवेन्नरः || २७-४० || समत्वभावना नित्यं जीवात्मपरमात्मनोः | समाधिना जयी भूयादान्दभैरवेश्वर || २७-४१ || संयोगसिद्धिमात्रेण समाधिस्थं महाजनम् | प्रपश्यति महायोगी समाध्यष्टाङ्गलक्षणैः || २७-४२ || एतत्समाधिमाकृत्य योगी योगान्वितो भवेत् | अथ चन्द्रे मनः कुर्यात् समारोप्य विभावयेत् || २७-४३ || एतदष्टाङ्गसारेण योगयोग्यो भवेन्नरः | योगयोगाद् भवेन्मोक्षो मन्त्रसिद्धिरखण्डिता || २७-४४ || योगशास्त्र प्रकारेण सर्वे वै भैरवाः स्मृताः | योगशास्त्रात् परं शास्त्रं त्रैलोक्ये नापि वर्तते || २७-४५ || त्रैलोक्यातीतशास्त्राणि योगाङ्गविविधानि च | ज्ञात्वा या पश्यति क्षिप्रं नानाध्यायेन शङ्कर || २७-४६ || कामादिदोषनाशाय कथितं ज्ञानमुत्तमम् | इदानीं शृणु वक्ष्यामि मन्त्रयोगार्थनिर्णयम् || २७-४७ || विश्वं शरीरमाक्लेशं पञ्चभूताश्रयं प्रभो | चन्द्रसूर्याग्नितेजोभिः जीवब्रह्मैकरूपकम् || २७-४८ || तिस्रः कोट्यस्तदर्धेन शरीरे नाडयो मताः | तेषु मुख्या दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः || २७-४९ || प्रधाना मेरुदण्डेऽत्र सोमसूर्याग्निरूपिणी | नाडीत्रयस्वरूपेण योगमाता प्रतिष्ठिता || २७-५० || इडा वामे स्थिता नाडी शुक्ला तु चन्द्ररूपिणी | शक्तिरूपा च सा नाडी साक्षादमृतविग्रहा || २७-५१ || दक्षिणे पिङ्गलाख्या तु पुंरूपा सूर्यविग्रहा | दाडिमीकुसुमप्रख्या विषाख्या परिकीतीता || २७-५२ || मेरुमध्ये स्थिता या तु सुषुम्ना बहुरूपिणी | विसर्गाद्बिन्दुपर्यन्तं व्याप्य तिष्ठति तत्त्वतः || २७-५३ || मूलाधारे त्रिकोणाख्ये इच्छाज्ञानक्रियात्मके | मध्ये स्वयंभूलिङ्गं तं कोटिसूर्यसमप्रभम् || २७-५४ || तदूर्ध्वे कामबीजं तु कलाशान्तीन्दुनायकम् | तदूर्ध्वे तु शिखाकारा कुण्डली ब्रह्मविग्रहा || २७-५५ || तद्बाह्ये हेमवर्णाभं वसुवर्णचतुर्दलम् | द्रुतहेमसमप्रख्यं पद्मं तत्र विभावयेत् || २७-५६ || तदूर्ध्वेऽग्निसमप्रख्यं षड्दलं हीरकप्रभम् | वादिलान्तं तु षड्वर्णसहितं रसपत्रकम् || २७-५७ || स्वाधिष्ठानाख्यममलं योगिनां हृदयङ्गमम् | मूलमाधारषट्कानां मूलाधारं प्रकीतीतम् || २७-५८ || स्वशब्देन परं लिङ्गं स्वाधिष्ठानं स्वलिङ्गकम् | तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् || २७-५९ || मेघाभं विद्युताभं च बहुतेजोमयं ततः | मणिमद्भन्नतत्पद्मं मणिपूरं शशिप्रभम् || २७-६० || कथितं सकलं नाथ हृदयाब्जं शृणु प्रिय | दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् || २७-६१ || शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् | तदूर्ध्वेऽनाहतं पद्मं हृदिस्थं किरणाकुलम् || २७-६२ || उद्यदादित्यसङ्काशं कादिठान्ताक्षरान्वितम् | दलद्वादशसंयुक्तमीश्वराद्यसमन्वितम् || २७-६३ || तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् | शब्दब्रह्ममयं वक्ष्येऽनाहतस्तत्र दृश्यते || २७-६४ || तेनानाहतपद्माख्यं योगिनां योगसाधनम् | आनन्दसदनं तत्तु सिद्धेनाधिष्ठितं परम् || २७-६५ || तदूद्र्ध्वं तु विशुद्धाख्यं दलषोडशपङ्कजम् | वर्णैः षोडशभिर्युक्तं धूम्रवर्णं महाप्रभम् || २७-६६ || योगिनामद्भुतस्थानं सिद्धिवर्णं समभ्यसेत् | विशुद्धं तनुते यस्मात् जीवस्य हंसलोकनात् || २७-६७ || विशुद्धं पद्ममाख्यातमाकाशाख्यं महाप्रभम् | आज्ञाचक्रं तदूद्र्ध्वे तु अथीनाधिष्ठितं परम् || २७-६८ || आज्ञासंक्रमणं तत्र गुरोराज्ञेति कीतीतम् | कैलासाख्यं तदूर्ध्वे तु तदूर्ध्वे बोधनं ततः || २७-६९ || एवंविधानि चक्राणि कथितानि तव प्रभो | तदूद्ध्र्वस्थानममलं सहस्राराम्बुजं परम् || २७-७० || बिन्दुस्थानं परं ज्ञेयं गणानां मतमाशृणु | बौद्धा वदन्ति चात्मानमात्मज्ञानी न ईश्वरः || २७-७१ || सर्वं नास्तीति चार्वाका नानाकर्मविवजीताः | वेदनिन्दापराः सर्वे बौद्धाः शून्याभिवादिनः || २७-७२ || मम ज्ञानाश्रिताः कान्ताश्चीनभूमिनिवासिनः | आत्मानमपरिच्छिन्नं विभाव्य भाव्यते मया || २७-७३ || श्रीपदाब्जे बिन्दुयुग्मं नखेन्दुमण्डलं शुभम् | शिवस्थानं प्रवदन्ति शैवाः शाक्ता महर्षयः || २७-७४ || परमं पुरुषं नित्यं वैष्णवाः प्रीतिकारकाः | हरिहरात्मकं रूपं संवदन्ति परे जनाः || २७-७५ || देव्याः पदं नित्यरूपाश्चरणानन्दनिर्भराः | वदन्ति मुनयो मुख्याः पुरुषं प्रकृतात्मकम् || २७-७६ || पुंप्रकृत्याख्यभावेन मग्ना भान्ति महीतले | इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् || २७-७७ || योगमार्गानुसारेण भावयेत् सुसमाहितः | आदौ महापूरकेण मूले संयोजयेन्मनः || २७-७८ || गुदमेढ्रन्तरे शक्तिं तामाकुञ्च्य प्रबुद्धयेत् | लिङ्गभेदक्रमेणैव प्रापयेद्बिन्दुचक्रकम् || २७-७९ || शम्भुलाभां परां शक्तिमेकीभावैवीचिन्तयेत् | तत्रोत्थितामृतरसं द्रुतलाक्षारसोपमम् || २७-८० || पाययित्वा परां शक्तिं कृष्णाख्यां योगसिद्धिदाम् | षट्चक्रभेदकस्तत्र सन्तर्प्यामृतधारया || २७-८१ || आनयेत्तेन मार्गेण मूलाधारं ततः सुधीः | एवमभ्यस्यमानस्य अहन्यहनि मारुतम् || २७-८२ || जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् | तन्त्रोक्तकथिता मन्त्राः सर्वे सिद्ध्यन्ति नान्यथा || २७-८३ || स्वयं सिद्धो भवेत् क्षिप्रं योगे हि योगवल्लभा | ये गुणाः सन्ति देवस्य पञ्चकृत्यविधायिनः || २७-८४ || ते गुणाः साधकवरे भवन्त्येव न चान्यथा | इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् || २७-८५ || इदानीं धारणाख्यञ्च शृणुष्व परमाञ्जनम् | दिक्कालाद्यनवच्छिन्नं त्वयि चित्तं निधाय च || २७-८६ || मयि वा साधकवरो ध्यात्वा तन्मयतामियात् | तन्मयो भवति क्षिप्रं जीवब्रह्मैकयोजनात् || २७-८७ || इष्टपादे मति दत्वा नखकिञ्जल्कचित्रिते | अथवा मननं चित्तं यदा क्षिप्रं न सिद्ध्यति || २७-८८ || तदावयवयोगेन योगी योगं समभ्यसेत् | पादाम्भोजे मनो दद्याद् नखकिञ्जल्कचित्रिते || २७-८९ || जङ्घायुग्मे तथारामकदलीकाण्डमण्डिते | ऊरुद्वये मत्तहस्तिकरदण्डसमप्रभे || २७-९० || गङ्गावर्त्तगभीरे तु नाभौ सिद्धिबिले ततः | उदरे वक्षसि तथा हस्ते श्रीवत्सकौस्तुभे || २७-९१ || पूर्णचन्द्रामृतप्रख्ये ललाटे चारुकुण्डले | शङ्खचक्रगदाम्भोजदोर्दण्डपरिमण्डिते || २७-९२ || सहस्रादित्यसङ्काशे किरीटकुण्डलद्वये | स्थानेष्वेषु भजेन्मन्त्री विशुद्धः शुद्धचेतसा || २७-९३ || मनो निवेश्य श्रीकृष्णे वैष्णवो भवति ध्रुवम् | इति वैष्णवमाख्यातं ध्यानं सत्त्वं सुनिर्मलम् || २७-९४ || विष्णुभक्ताः प्रभजन्ति स्वाधिष्ठानं मनः स्थिराः | यावन्मनोलयं याति कृष्णे आत्मनि चिन्तयेत् || २७-९५ || तावत् स्वाधिष्ठानसिद्धिरिति योगार्थनिर्णयः | तावज्जपेन्मनुं मन्त्री जपहोमं समभ्यसेत् || २७-९६ || अतः परं न किञ्चिच्च कृत्यमस्ति मनोहरे | विदिते परतत्त्वे तु समस्तैनीयमैरलम् || २७-९७ || अत एव सदा कुर्यात् ध्यानं योगं मनुं जपेत् | तमः परिवृते गेहे घटो दीपेन दृश्यते || २७-९८ || एवं स यो वृतो ह्यात्मा मनुना गोचरीकृतः | इति ते कथितं नाथ मन्त्रयोगमनुत्तमम् || २७-९९ || कृत्वा पापोद्भवैर्दुःखैर्मुच्यते नात्र संशयः | दुर्लभं विषयासक्तैः सुलभं योगिनामपि || २७-१०० || सुलभं न त्यजेद्विद्वान् यदि सिद्धिमिहेच्छति | ब्रह्मज्ञानं योगध्यानं मन्त्रजाप्यं क्रियादिकम् || २७-१०१ || यः करोति सदा भद्रो वीरभद्रो हि योगिराट् | भक्तिं कुर्यात् सदा शम्भोः श्रीविद्यायाः परात्पराम् || २७-१०२ || योगसाधनकाले च केवलं भावनादिभिः | मननं कीर्त्तनं ध्यानं स्मरणं पादसेवनम् || २७-१०३ || अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् | एतद्भक्तिप्रसादेन जीवन्मुक्तस्तु साधकः || २७-१०४ || योगिनां वल्लभो भूत्वा समाधिस्थो भवेद्यतिः || २७-१०५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावार्थनिर्णये पाशवकल्पे षट्चक्रसारसङ्केते सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे सप्तविंशः पटलः || २७ || अथाष्टाविंशः पटलः आनन्दभैरव उवाच त्रैलोक्यपूजिते कान्ते इदानीं सिद्धिहेतवे | मन्त्रसिद्धेर्लक्षणं तु योगिनामतिदुर्लभम् || २८-१ || त्वन्मुखाम्भोरुहोल्लासनिःसृतं परमामृतम् | पीत्वा चकार तन्त्राणि यत्तत्र नास्ति तद् वद || २८-२ || आनन्दभैरवी उवाच निश्चयं ते प्रवक्ष्यामि आनन्दभैरवेश्वर | मन्त्रसिद्धेर्लक्षणं तु योगमार्गानुकूलतः || २८-३ || नित्यं चेतसि सुस्थिरे स्थितपथक्लेशादिदोषक्षय| सर्वञ्चोत्तममन्त्रसिद्धिकलितं संलक्षणं शोभनम् | मृत्यूनां हरणं जगत्पतिमतिं सन्दर्शनञ्चोत्तम| योगोऽक्लेशविवर्द्धनं समुदयाच्छेशप्रयोगेष्टभाक् || २८-४ || नरेन्द्राणां काये प्रविशति हठात् क्षोभयति त| पुरे तेषामूद्र्ध्वोत्क्रमणचरस्यावरपुरे | अधःछिद्रं पश्येत् खचरवनितामेलनमल| शृणोति प्रध्माने जगति जगतां कीतीरतुला || २८-५ || इतीह सिद्ध्यादिसुलक्षणेन | प्रयाति वैकुण्ठपुरीं मनोरमाम् | हितं यदा पश्यति सत्त्वभूभृता| जगद्विपक्षो निजपक्षमाश्रयेत् || २८-६ || कीतीर्भूषणमादिभक्तिसफला भुक्तिक्रियासंयुता | देवानामतिभक्तियुक्तहृदयं सर्वक्रियादक्षता | त्रैलोक्यं निजदास्यकर्मनिपुणं जित्वा चिरं जीवति अष्टाङ्गाभ्यसनं जगद्वशकरं चैतन्यतामुत्तमम् || २८-७ || भोगेच्छारहितं जगज्जनचमत्कारानुकल्पान्वित| रोगाणां दरणं विरक्तहृदयं वैराग्यभक्तिप्रियम् | त्यागं संसरणं तथा शमदयामायाब्धिजालस्य वा | एश्वर्यं कवितारसं धनजनं लक्ष्मीगणं जापनम् || २८-८ || उल्लासं हृदयाम्बुजे सुतधनं सम्माननं सत्पथ| वाञ्छासागररत्नपूर्णघटितं कान्तागणान्मोदितम् | सङ्केतादिमनुप्रियं हरिहरब्रह्मैकभावान्वित| लोकानां गुरुतानिरन्तरशिवानन्दैक मुद्राधरम् || २८-९ || एतदुक्तं महादेवोत्तरतन्त्रनिरूपणम् | मन्त्रसिद्धिलक्षणं तदुत्तमाधममध्यमम् || २८-१० || मुनयो देवमुख्याश्च नित्यं जन्मनि जन्मनि | दिव्यरूपं नरकुले धृत्वा तृप्यन्ति चानिशम् || २८-११ || तवैवापि ममैवापि तर्पणं होमभोजनम् | सर्वदा कुरुते साधु तन्मनो भवति ध्रुवम् || २८-१२ || एतत्प्राणवायुपाने सूक्ष्मचन्द्रनियोजने | कर्तव्यं प्रत्यहं कार्यं दिवारात्रौ मुहुर्मुहुः || २८-१३ || अद्यैतत् कर्म संस्कुर्यात् योगसाधनमुत्तमम् | यः श्रीमान् साधु सद्वक्ता दुष्टमन्त्रोऽपि सिध्यति || २८-१४ || एतद्दोषसमूहं तु वदामि तत्त्वतः शृणु | छिन्नादिदोषदुष्टानां योगतत्त्वेन सिध्यति || २८-१५ || देवेन्द्र पाशदुष्टा च भुवनेशी सुसिद्धिदा | आराधिता महाविद्या वीर्यदर्पविवजीता || २८-१६ || एकाक्षरी वीर्यहीना वाग्भवेन महोज्ज्वला | तदवद्युत्तमा देवी तारसम्पुटहंसिनी || २८-१७ || आविद्धा कामराजेन विद्या कामेश्वरी परा | शरेण पीडिता पूर्वं भुवनेश्याः प्रतिष्ठिता || २८-१८ || या कुमारी महाविद्या यया सप्तारिबोधिका | ताराचन्द्रस्वरूपाहं शिवशक्त्या च केवलम् || २८-१९ || भैरवीणां हि विद्यानां दोषजालं शृणु प्रभो | एतान्दोषान्प्रणश्यन्ति योगमार्गानुसारिणः || २८-२० || यतः कुण्डलिनी देवी योगेन चेतनामुखी | अतो योगं सदा कुर्यात् सर्वमन्त्रप्रसिद्धये || २८-२१ || भैरवी विधिशप्ता च दग्धा च कीलिता तथा | सैव संहारकरी मोहिता चानुमोदिता || २८-२२ || महामदोन्मत्तचित्ता र्मूच्छिता वीर्यवजीता | स्तम्भिता मारिताच्छिन्ना विद्धा रुद्धा च त्रासिता || २८-२३ || निर्बीजा शक्तिहीना च सुप्ता मत्ता च घूणीता | पराङ्मुखी नेत्रहीना सा भीता दुःसंस्कृता || २८-२४ || सुषुप्ता भेदिता प्रौढा बालिका मालिनी क्षमा | भयदा युवती क्रूरा दाम्भिका शोकसङ्कटा || २८-२५ || निस्ंत्रिशका सिद्धिहीना कूटस्था मन्दबुद्धिदा | हीनकर्णा हीननासा अतिक्रुद्धाङ्गभङ्गुरा || २८-२६ || कलहा कलहप्रीता भ्रष्टस्थानक्षयाकुला | धर्मभ्रष्टा चातिवृद्धातिबाला सिद्धिनाशिनी || २८-२७ || कृतवीर्या महाभीमा क्रोधपुंजा च ध्वंसिनी | कालविद्या सूक्ष्मधर्मा विधर्मा धर्ममोहिनी || २८-२८ || दुर्गस्थिता क्षिप्तचित्ता प्रचण्डा चण्डगामिनी | उल्कावच्चलती तीक्ष्णा मन्दाहारा निरंशका || २८-२९ || तत्त्वहीना केकरा च धूणीतालिङ्गिता जिता | अतिगुप्ता क्षुधार्त्ता च धूर्त्ता ध्यानस्थिरास्थिरा || २८-३० || एता विद्याः प्रसन्नाः स्युर्योगकालनिरोधनात् | वीरभावेन सिद्धिः स्यात् पुरश्चरणकर्मणा || २८-३१ || आनन्दभैरवी उवाच तत्र वीरो यजेत् कान्तां परकीयामथापि वा | स्वीयामलङ्कारयुक्तां सुन्दरीं चारुहासिनीम् || २८-३२ || मदनानलतप्ताङ्गीमासवानन्द विग्रहाम् | योगिनीं कौलिनीं योग्यां धर्मशीलां कुलप्रियाम् || २८-३३ || दीक्षितां लोलवदनां वदनाम्भोजमोहिनीम् | नानादेशस्थितां कन्यां युवतीं परिपूजयेत् || २८-३४ || जापिकां मन्दहास्यां च मन्दमन्द गतिप्रियाम् | कृशाङ्गीमतिसौन्दर्यामलङ्कृतकलेवराम् || २८-३५ || कोटिकन्याप्रदानेन यत्फलं लभते नरः | तत्फलं लभते सद्यः कामिनीपरिपूजनात् || २८-३६ || ततः षोडशकन्याश्च योगिन्यो योगसिद्धये | पूजयेत् परया भक्त्या वस्त्रालङ्कारभूषणैः || २८-३७ || नानाविधैः पिष्टकान्नैः पक्वान्नैः प्राणसम्भवैः | दधिदुग्धघृतैश्चापि नवनीतैः सशर्करैः || २८-३८ || उपलाखण्डमिश्रान्नैः नानारसफलान्वितैः | चूडादिभिर्नारिकेलैः कपिलैर्नागरङ्गकैः || २८-३९ || नानागन्धफलैश्चैव नानागन्धसमन्वितैः | मृगनाभिचन्दनैश्च श्रीखण्डैर्नवपल्लवैः || २८-४० || पूजयेत्ताः प्रयत्नेन जलजैः स्थलजैस्तथा | नानासुगन्धिपुष्पैश्च रक्तचन्दनकुङ्कुमैः || २८-४१ || पूजयेत् शून्यगृहे च निर्जने विपिने तथा | कुलदेवीं समानीय स्वागतं प्रवदेदनु || २८-४२ || अर्घोदकेन संशोध्यामृतीकरणमाचरेत् | शक्तिञ्चाभिमुखीं नीत्वा वीरयोगी भवेद्ध्रुवम् || २८-४३ || शक्तिं च षोडशी देवीं कुलचक्रप्रियां शुभाम् | महाशक्तिं शृणु प्राणवल्लभे श्रीकलावतीम् || २८-४४ || ब्राह्मणी क्षत्रिया वैश्या शूद्रा वेश्या च सुन्दरी | कुलभूषासमाक्रान्ता मानिनी नातिपिङ्गला || २८-४५ || रजकी नटकी कौला श्यामाङ्गी स्थूलविग्रहा | सङ्केतागमना भार्या विदग्धा रञ्जकी तथा || २८-४६ || खटकी कोलकन्या च कुलमार्गप्रवतीका | सर्वाङ्गसुन्दरी भव्या चारुनेत्रा हसन्मुखी || २८-४७ || यद्यद्दीक्षारतास्तास्तु देया दीक्षा तदा प्रभो | सूक्ष्मतन्त्रानुसारेण कथितं पूर्वसूचितम् || २८-४८ || सर्वाङ्गसुन्दरी शुद्धा शुद्धलोककुलोद्भवा | युवती योगनिरता सा देवी डाकिनी मता || २८-४९ || तामानीय महामन्त्रं दापयेदिष्टसिद्धये | ततस्ताः पूजनीयास्तु दीक्षाहीनास्तु नाचरेत् || २८-५० || श्रीकृष्णराममन्त्रं तु दापयेत्सत्त्वसिद्धये | ताभ्य आदौ ततो मृत्युञ्जयमन्त्रं ततश्चरेत् || २८-५१ || आनन्दभैरवीबीजं देवीं शक्तिं स्वबीजकम् | अथवा सिद्धमन्त्रं तु श्रीविद्यायाः प्रदापयेत् || २८-५२ || किं वा केवलमायां तु क्रोधारुणकराकृतिम् | ज्वलन्तीं मूलपद्मे तु स्वयम्भूकुसुमाकराम् || २८-५३ || एतद्भूतां महामायां तस्मै दत्वा जयी भवेत् | आदौ वामकर्णपुटे अग्निवारं परे त्रयम् || २८-५४ || अतः शिक्षां सदानन्ददीक्षान्ते कारयेद् बुधः | दीक्षामूलं जपं सर्वं दीक्षामूलं गुरोः कृपा || २८-५५ || दीक्षामाश्रित्य मायां या जपेत् सा खेचरी परा | तस्याः पूजनमात्रेण प्रसन्नाहं न संशयः || २८-५६ || जगतां जगदीशानां नारीरूपेण संस्थितिः | अहं नारी न सन्देहः सुन्दरी कुत्सिता परा || २८-५७ || सुन्दरीपालनार्थाय विनाशायाशु कुत्सिता | साधकस्य भ्रान्तिरूपा संहिताः परिभावयेत् || २८-५८ || या परा मोक्षदा विद्या सुन्दरी कामचारिणी | भाविनी सा भवानी च तां विद्यां परिपूजयेत् || २८-५९ || तस्या अङ्गे स्थिरा नित्यं देवताया अहं प्रभो | यश्च योगी सर्वसमः स सर्वात्मा नयेत् किल || २८-६० || अन्यथा सिद्धिहानिः स्याद् भावाभावविचारणात् | बिना भावं न सिद्ध्येत्तु भावानां भावराशिग || २८-६१ || कुलपुरश्चरणं कुर्यात् कुलाकुलविमुक्तये | योगी स्यादव्ययो धीरो विद्वान्मुक्तो हि जीवने || २८-६२ || ब्राह्मणीं सुन्दरीं चैव संस्थाप्य क्रमतो यजेत् | वामहस्ते महार्घ्यं तु दक्षिणे आसनादिकम् || २८-६३ || दद्यात् पाद्यमासनानि तत्तन्नाम्ना च स्वागतम् | तत्तदा अर्घपात्रस्थजलेन प्रोक्षयेच्च ताः || २८-६४ || धेनुमुद्रां समाकृत्य वं मन्त्रेणामृतीक्रियाम् | अमृतीकरणान्ते च रूपभेदं समानयेत् || २८-६५ || संज्ञाभिर्नामकरणं कृत्वा चासनमर्पयेत् | श्रीभैरवी उवाच अथ कान्त प्रवक्ष्यामि षट्चक्रभेदनक्रियाम् || २८-६६ || यत्कृत्वा अमरा लोके विचरन्ति चराचरे | अकालमृत्युहरणं सर्वव्याधिविनाशनम् || २८-६७ || योगेन जीववर्गाश्च भवन्त्यमररूपिणः | षट्चक्रे च महापद्मे सर्वसत्त्वगुणान्विते || २८-६८ || धर्माधर्मे मनोराज्ये सर्वविद्यानिधौ क्रतौ | कलिकल्मषमुख्यानां सर्वपापापहारकम् || २८-६९ || मनो दत्वा महाकाले जीवाः सर्वत्र गामिनः | एतच्छ्रुत्त्वा महावीरो विवेकी परमार्थवित् || २८-७० || पुनजीज्ञासयामास ज्ञानज्ञेयेन शङ्कर | आनन्दभैरव उवाच षट्चक्रभेदनकथां कथयस्व वरानने || २८-७१ || हिताय सर्वजन्तूनां हिरण्यवर्णमण्डितम् | प्रकाशयस्व वरदे योगानामुदयं वद || २८-७२ || येन योगेन धीराणां हितार्थं वाञ्छितं मया | कालक्रमेण सिद्धिः स्यात् कालजालविनाशनात् || २८-७३ || कालक्षालनहेतोश्च पुनरुद्यापनं कृतम् | आनन्दभैरवी उवाच आदौ कुर्यात् परानन्दं रससागरसम्भवम् || २८-७४ || मान्द्यं मन्दगुणोपेतं शृणु तत्क्रममुत्तमम् | स्तोत्रं कुर्यात् मूलपद्मे कुण्डलिन्याः पुरष्क्रियाम् || २८-७५ || पुरश्चरणकाले तु जपान्ते नित्यकर्मणि | काम्यकर्मणि धर्मेषु तथैव धर्मकर्मसु || २८-७६ || गुर्वाद्यगुरुनित्येषु भक्तिमाकृत्य सम्पठेत् | ओं नमो गुरवे ओं नमो गुर्वम्बपरदेवतायै || २८-७७ || सर्वधर्मस्वरूपायै सर्वज्ञानस्वरूपायै | ओं भवविभवायै ओं दक्षयज्ञविनाशिन्यै || २८-७८ || ओं भद्रकाल्यै ओं कपालिन्यै ओं उमायै ओं माहेश्वर्यै ओं सर्वसङ्कटतारिण्यै ओं महादेव्यै नमो नमः || २८-७९ || ओं या माया मयदानवक्षयकरी शक्तिः क्षमा कर्त्तृका | शुम्भश्रीमहिषासुरासुरबलप्रात्रोलचण्डामहा | भद्रार्द्रा रुधिरप्रिया प्रियकरी क्रोधाङ्गरक्तोत्पला | चामुण्डा रणरक्तबीजरजनी ज्योत्स्ना मुखेन्दीवरा || २८-८० || या जाया जयदायिनी नृगृहिणी भीत्यापहा भैरवी | नित्या सा परिरक्षणं कुरु शिवा सारस्वतोत्पत्तये | सा मे पातु कलेवरस्य विषयाह्लादेन्द्रियाणां बलं वक्षः स्थायिनमुल्वणोज्ज्वलशिखाकारादिजीवाञ्चिता || २८-८१|| कृत्वा योगकुलान्वितं स्वभवने नित्यं मनोरञ्जन| नित्यं संयमतत्परं परतरे भक्तिक्रियानिर्मलम् | शम्भो रक्षरजोऽपनीशचरणाम्भोजे सदा भावन| विद्यार्थप्रियदर्शनं त्रिजगतां संयम्ययोगी भवेत् || २८-८२ || आकाङ्क्षापरिवजीतं निजगुरोः सेवापरं पावन| प्रेमाह्लादकथाच्युतं कुटिलताहिंसापमानप्रियम् | कालक्षेपण दोषजालरहितं शाक्तं सुभक्तं पति| श्रीशक्तिप्रियवल्लभं सुरुचिरज्ञानान्तरं मानिनम् || २८-८३ || मालासूक्ष्म सुसूक्ष्मबद्धनिलयं सल्लक्षणं साक्षिणं नानाकारणकारणं ससरणं साकारब्रह्मार्पणम् | नित्या सा जडितं महान्तमखिले योगासनज्ञानिन| तं वन्दे पुरुषोत्तमं त्रिजगतामंशार्कहंसं परम् || २८-८४ || मायाङ्के प्रतिभाति चारुनयानाह्लादैकबीजं विधि| कल्लोलाविकुलाकुला समतुला कालाग्निवाहानना | हालाहेलन कौलकालकलिका केयूरहारानना | सर्वाङ्गा मम पातु पीतवसना शीघ्रासना वत्सला || २८-८५ || सा बालाबलवाहना सुगहना सम्मानना धारणा | खं खं खं खचराचरा कुलचरा वाचाचरा वङ्खरा | चं चं चं चमरीहरीभगवती गाथागताः सङ्गतिः | बाहौ मे परिपातु पङ्कजमुखी या चण्डमुण्डापहा || २८-८६ || कं कं कं कमलाकला गतिफला फूत्कारफेरूत्करा | पं पं पं परमा रमा जयगमा व्यासङ्गमा जङ्गमा | तं तं तं तिमिरारुणा सकरुणा मातावला तारिणी | भं भं भं भयहारिणी प्रियकरी सा मे भवत्वन्तरा || २८-८७ || झं झं झं झरझर्मरीगतिपथस्थाता रमानन्दितं मं मं मं मलिनं हि मां हयगतां हन्त्रीं रिपूणां हि ताम् | भक्तानां भयहारिणी रणमुखे शत्रोः कुलाग्निस्थिता | सा सा सा भवतु प्रभावपटला दीप्ताङ्घ्रयुग्मोज्ज्वला || २८-८८ || गं गं गं गुरुरूपिणी गणपतेरानन्दपुञ्जोदया तारासारसरोरुहारुणकला कोटिप्रभालोचना | नेत्रं पातु(सदा)शिवप्रियपथा कौट्यायुतार्कप्रभा | तुण्डं मुण्डविभूषणा नरशिरोमाला विलोला समा || २८-८९ || योगेशी शशिशेखरोल्वणकथालापोदया मानवी | शीर्षं पातु ललाटकर्ण युगलानन्तस्ततः सर्वदा | मूर्त्तं मेरुशिखा स्थिता व्यवतु मे गण्डस्थलं कैवली | तुष्टं चाष्टमषष्टिकाधरतलं धात्री धराधारिणी || २८-९० || नासाग्रद्वयगह्वरं भृगुतरा नेत्रत्रयं तारिणी | केशान् कुन्तलकालिका सुकपिला कैलासशैलासना | कङ्कालामलमालिका सुवसना दन्तावलीं दैत्यहा | बाह्यं मन्त्रमनन्तशास्त्रतरणी सञ्ज्ञावचःस्तम्भिनी || २८-९१ || हं हं हं नरहारघोररमणी सञ्चारिणी पातु मे | शत्रूणां दलनं करोतु नियतं मे चण्डमुण्डापहा | भीमा सन्दहतु प्रतापतपना संवर्द्धनं वद्धीनी | मन्दारप्रियगन्धविभ्रममदा वैदग्धमोहान्तरा || २८-९२ || श्यामा पातु पतङ्गकोटिनिनदा हङ्कारफट्कारिणी | आनन्दोत्सवसर्वसारजयदा सर्वत्र सा रक्षिका | क्षौं क्षौं क्षौं कठिनाक्षरा क्षयकरी सर्वाङ्गदोषंहना | देहारेः कचहा परा कचकुचाकीलालपूराशिता || २८-९३ || घं घं घं घटघर्घरा विघटिता जायापतेः पातु मे कल्पे कल्पा कुलानामतिभयकलितं सर्वत्र मे विग्रहम् | निद्रोद्रावितकालिका मम कुलं लङ्कातटाच्छादिनी नं नं नं नयनानना सुकमला सा लाकिनी लक्षणा || २८-९४ || कुक्षौ पृष्ठतलं सदा मम धनं सा पातु मुद्रामयी | मोक्षं पातु करालकालरजकी या रञ्जकी कौतुकी | कृत्या नापितकन्यका शशिमुखी सूक्ष्मा मम प्राणग| मन्दारप्रियमालया मणिमयग्रन्थ्या महन्मण्डिता || २८-९५ || पूज्या योगिभिरुत्सुकी भगवती मूलस्थिता सत्क्रिया | मत्ता पातु पतिव्रता मम गृहं धर्मं यशः श्रेयसम् | धर्माम्भोरुहमध्यदर्शनिकरे काली महायोगिनी | मत्तानामतिदर्पहा हरशिरोमाला कला केवला || २८-९६ || मे गुह्यं जयमेव लिङ्गमपि मे मूलाम्बुजं पातु सा | या कन्या हिमपर्वतस्य भयहा पायान्नितम्बस्थलम् | सर्वेषां हृदयोदयानलशिखाशक्तिर्मनोरूपिणी | मे भक्तिं परिपातु कामकुशला लक्ष्मीः प्रिया मे प्रभो || २८-९७ || गौरी गौरवकारिणी भुवि महामाया महामोहहा | वं वं वं वरवारुणी सुमदिरा मे पातु नित्यं कटिम् | कूटा सा रविचन्द्रवह्निरहिता स्वेच्छामयी मे मुखम् || २८-९८ || एतत्स्तोत्रं पठेद् यस्तु सर्वकाले च सर्वदा | स भवेत् कालयोगेन्द्रो महाविद्यानिधिर्भवेत् || २८-९९ || मूलपद्मबोधने च मूलप्रकृतिसाधने | निजमन्त्रबोधने च घोरसङ्कटकालके || २८-१०० || आपदस्तस्य नश्यन्ति अन्धकारं बिना रविः | सर्वकाले सर्वदेशे महापातकघातकः || २८-१०१ || स भवेद् योगिनीपुत्रः कलिकाले न संशयः || २८-१०२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने भावासननिर्णये पाशवकल्पे षट्चक्र प्रकाशे भैरवभैरवीसंवादे कन्दवासिनिस्तोत्रं नाम अष्टाविंशः पटलः || २८ || अथैकोनत्रिंशः पटलः आनन्दभैरवी उवाच अथ षट्चक्रयोगं च प्रवक्ष्यामीह तत्त्वतः | कुण्डलीयोगविविधं कृत्वा योगी भवेन्नरः || २९-१ || मूलादिब्रह्मरन्ध्रान्तं षट्चक्रभेदनं मतम् | षट्चक्रे योगशास्त्राणि विविधानि वसन्ति हि || २९-२ || यो जानातीह षट्चक्रं सर्वशास्त्रार्थविद्भवेत् | चतुद्र्दलं मूलपद्मं वादिसान्तार्णसम्भवम् || २९-३ || हिरण्यवर्णममलं ध्यायेद्योगी पुनः पुनः | निर्जने विपिने शून्ये पशुपक्षिगणावृते || २९-४ || निर्भये सुन्दरे देशे दुभीक्षादिविवजीते | कृत्वा दृढासनं मन्त्री योगमार्गपरो भवेत् || २९-५ || तदा योगी भवेत् क्षिप्रं मम शास्त्रानुसारतः | पूर्वदले वकारं च ध्यायेद्योगी सदा सुखी || २९-६ || सुवर्णवर्णं हितकारिणं नृणां सत्वोद्भवं पूर्वदलस्थितं सुखम् | मत्तप्रियं वारणमत्तमन्दिरं मन्त्रार्थकं शीतलरूपधारिणम् || २९-७ || योगानुभावाश्रयकालमन्दिरं तेजोमयं सिद्धिसमृद्धिदं गुरुम् | आद्याक्षरं वं वरभावसाधनं नारायणं भावनपञ्चमच्युतम् || २९-८ || ध्यायेत् शकारं कनकाचलप्रभं गौरीपतेः श्रीकरणं पुराणम् | लक्ष्मीप्रियं सर्वसुवर्णवेष्टितं सदा मुदा दक्षिणपत्रमुत्तमम् || २९-९ || शमीश्वरीषष्ठगुणावतंसं षट्पद्मसम्भेदनकारकं परम् | परापरस्थाननिवासिनं गुणं हेमाचलं पत्रमहं भजामि || २९-१० || सकारमानन्दरसं प्रियं प्रियं ध्याये महाहाटकपर्वताग्रकम् | ध्याये मुदाहं घननाथमन्दिरे मायामहामोहविनाशनं जयम् || २९-११ || चतुर्भुजं भुजयुगं अष्टादशभुजं तथा | अष्टहस्तं सदा ध्यायेन्मन्त्री भावविशुद्धये || २९-१२ || ततो ध्यायेत् कणीकायां मध्यदेशे मनोरमम् | स्वयम्भूलिङ्गपरमं योगिनां योगसिद्धिदम् || २९-१३ || प्रातः सूर्यसमप्रख्यं तडित्कोटिसमप्रभम् | तं संवेष्ट्य महादेवी कुण्डली योगदायिनी || २९-१४ || सार्धत्रिवेष्टनग्रन्थियुता सा मुक्तिदायिनी | निद्रिता सा सदा भद्रा महापातकघातिनी || २९-१५ || निरन्तरं तस्य शीर्षे विभाति शशधारिणी | तच्छ्वासधारिणी नित्या जगतां प्राणधारिणी || २९-१६ || सुप्ता सर्पसमा भ्रान्तिः यथार्कशतकोटयः | यदा लिङ्गं सा विहाय प्राक्तिष्ठति महापथे || २९-१७ || तदा सिद्धो भवेद्योगी ध्यानधारणकृत् शुचिः | सदानन्दमयो नित्यश्चैतन्यकुण्डली यदा || २९-१८ || सुषुम्ना नाडिकामध्ये महासूक्ष्मविले स्थितः | मनो निधाय यो योगी श्वासमार्गपरो भवेत् || २९-१९ || तदा सा द्रवति क्षिप्रं चैतन्या कुण्डली परा | पृष्ठदेशे महादण्डे मेरुमूले महाप्रभे || २९-२० || मूलादिब्रह्मरन्ध्राधः सदास्थिरूपधारकः | कनकाचलनाम्ना च प्रतिभाति जगत्त्रये || २९-२१ || तन्मध्ये परमा सूक्ष्मा सुषुम्ना बहुरूपिणी | मनोमुनिस्वरूपा च मनश्चैतन्यकारिणी || २९-२२ || तन्मध्ये भाति वज्राख्याघोरपातकनाशिनी | सिद्धिदाभावविज्ञानां मोक्षदा कुलरूपिणाम् || २९-२३ || तन्मध्ये चित्रिणी देवी देवताप्रीतिवद्धीनी | हितैषिणी महामाया कालजालविनाशिनी || २९-२४ || सा पाति सकलान् चक्रान् पद्मरूपधरान् परान् | त्रैलोक्यमण्डलगतान् साक्षादमृतविग्रहान् || २९-२५ || स्वयं दधार सा देवी चित्राख्या चारुतेजसी | तले पृष्ठे ऊद्र्ध्वदेशे शीर्षे वक्षसि नाभिषु || २९-२६ || कण्ठकूपे चक्रमध्ये ब्रह्माण्डं पाति सर्वदा | शरीरात्मकमीशार्थं त्रैलोक्यं सचराचरम् || २९-२७ || चित्रासुग्रथनं पद्मं योऽवभाव्यति भावकः | भावेन लभ्यते योगं भावेन भाव्यते शिवः || २९-२८ || भावेन शक्तिमाप्नोति तस्माद्भावं समाश्रयेत् | षट्चक्रभावनां कृत्वा महायोगी भवेन्नरः || २९-२९ || सर्वधर्मान्वितो भूत्वा राजते क्षितिमण्डले | सर्वत्रगामी स भवेत् यदि पद्मे मनोलयम् || २९-३० || पद्मभावनमात्रेण आकाशसदृशो भवेत् | महापद्मे मनो दत्वा महाभक्तो भवेद्ध्रुवम् || २९-३१ || यदि भक्तो भवेन्नाथ तदा मुक्तो न संशयः | यदि मुक्तो महीमध्ये ध्यानयोगपरायणः || २९-३२ || तदा कालपरां ज्ञात्वा सर्वदर्शी च सर्ववित् | सर्वज्ञः सर्वतोभद्रो भवतीति न संशयः || २९-३३ || चित्रिणी मध्यदेशे च ब्रह्मनाडी महाप्रभा | सर्वसिद्धिप्रदा नित्या सा देवी सकला कला || २९-३४ || व्योमरूपा भगवती सर्वचैतन्यरूपिणी | एकरूपं परं ब्रह्म ब्रह्मातीतं जगत्त्रयम् || २९-३५ || यदा जगत्त्रयं ब्रह्म तदा सत्त्वालयं प्रभो | महालये मनो दत्वा सर्वकालजयो भवेत् || २९-३६ || मृत्युञ्जयो महावीरो महाच्छत्रो महागतिः | सर्वव्यापकरूपेण ईश्वरत्वेन भाषते || २९-३७ || सर्वदा मन्त्रसम्भूतो विशालाक्षः प्रसन्नधीः | एकस्थानस्थितो याति नक्षत्रं स हि शङ्कर || २९-३८ || एकदृष्टिः क्षुधातृष्णारहितो वाक्यवजीतः | निराकारे मनो दद्यात्तदा महानयं प्रभो || २९-३९ || किन्तु नाथाज्ञानिनां हि नापि नापि महालयः | महाप्रलय एवं हि योगिनां नात्र संशयः || २९-४० || यदा मनोयोग विशुद्धये मनोलयं यः कुरुतेऽप्यहनीशम् | स एव मोक्षो गुणसिन्धुरूपी कालाग्निरूपी निजदैवदैवतः || २९-४१ || महामनोयोग विकारवजीतः | कामक्रिया काण्डविशुद्धमण्डितः | हितो गतीनां मतिमान्निरस्तो | महालयस्थोऽमर एव भक्तः || २९-४२ || मानी विचारार्थविवेकचित्तश्-- चातुर्य चित्तोल्बणताविवजीतः | योगी भवेत्साधक चक्रवर्ती | व्योमाम्बुजे चित्तविसर्जनं सदा || २९-४३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्र प्रकाशे भैरवीभैरवसंवादे महाप्रलयनामा एकोनत्रिंशः पटलः || २९ || अथ त्रिंशः पटलः आनन्दभैरवी उवाच अथ वक्ष्ये महाकाल मूलपद्मविवेचनम् | यत् कृत्वा अमरो भूत्वा वसेत् कालचतुष्टयम् || ३०-१ || अथ षट्चक्रभेदार्थे भेदिनीशक्तिमाश्रयेत् | छेदिनीं सर्वग्रन्थीनां योगिनीं समुपाश्रयेत् || ३०-२ || तस्या मन्त्रान् प्रवक्ष्यामि येन सिद्धो भवेन्नरः | आदौ शृणु महामन्त्रं भेदिन्याः परं मनुम् || ३०-३ || आदौ कालींसमुत्कृत्य ब्रह्ममन्त्रं ततः परम् | देव्याः प्रणवमुद्धृत्य भेदनी तदनन्तरम् || ३०-४ || ततो हि मम गृह्णीयात् प्रापय द्वयमेव च | चित्तचञ्चीशब्दान्ते मां रक्ष युग्ममेव च || ३०-५ || भेदिनी मम शब्दान्ते अकालमरणं हर | हर युग्मं स्वं महापापं नमो नमोऽग्निजायया || ३०-६ || एतन्मन्त्रं जपेत्तत्र डाकिनीरक्षसि प्रभो | आदौ प्रणवमुद्धृत्य ब्रह्ममन्त्रं ततः परम् || ३०-७ || शाम्भवीति ततश्चोक्त्वा ब्राह्मणीति पदं ततः | मनोनिवेशं कुरुते तारयेति द्विधापदम् || ३०-८ || छेदिनीपदमुद्धृत्य मम मानसशब्दतः | महान्धकारमुद्धृत्य छेदयेति द्विधापदम् || ३०-९ || स्वाहान्तं मनुमुद्धृत्य जपेन्मूलाम्बुजे सुधीः | एतन्मन्त्रप्रसादेन जीवन्मुक्तो भवेन्नरः || ३०-१० || तथा स्त्रीयोगिनीमन्त्रं जपेत्तत्रैव शङ्कर | ओं घोररूपिणिपदं सर्वव्यापिनि शङ्कर || ३०-११ || महायोगिनि मे पापं शोकं रोगं हरेति च | विपक्षं छेदयेत्युक्त्वा योगं मययर्पय द्वयम् || ३०-१२ || स्वाहान्तं मनुमुद्धृत्य जपाद्योगी भवेन्नरः | खेचरत्वं समाप्नोति योगाभ्यासेन योगिराट् || ३०-१३ || डाकिनीं ब्रह्मणा युक्तां मूले ध्यात्वा पुनः पुनः | जपेन्मन्त्रं सदायोगी ब्रह्ममन्त्रेण योगवित् || ३०-१४ || ब्रह्ममन्त्रं प्रवक्ष्यामि तज्जापेनापि योगिराट् | ब्रह्ममन्त्रप्रसादेन जडो योगी न संशयः || ३०-१५ || प्रणवत्रयमुद्धृत्य दीर्घप्रणवयुग्मकम् | तदन्ते प्रणवत्रीणि ब्रह्म ब्रह्म त्रयं त्रयम् || ३०-१६ || सर्वसिद्धिपदस्यान्ते पालयेति च मां पदम् | सत्त्वं गुणो रक्ष रक्ष मायास्वाहापदं जपेत् || ३०-१७ || डाकिनीमन्त्रराजञ्च शृणुष्व परमेश्वर | यज्जप्त्वा डाकिनी वश्या त्रैलोक्यस्थितिपालकाः || ३०-१८ || यो जपेत् डाकिनीमन्त्रं चैतन्या कुण्डली झटित् | अनायासेन सिद्धिः स्यात् परमात्मप्रदर्शनम् || ३०-१९ || मायात्रयं समुद्धृत्य प्रणवैकं ततः परम् | डाकिन्यन्ते महाशब्दं डाकिन्यम्बपदं ततः || ३०-२० || पुनः प्रणवमुद्धृत्य मायात्रयं ततः परम् | मम योगसिद्धिमन्ते साधयेति द्विधापदम् || ३०-२१ || मनुमुद्धृत्य देवेशि जपाद्योगी भवेज्जडः | जप्त्वा सम्पूजयेन्मन्त्री पुरश्चरणसिद्धये || ३०-२२ || सर्वत्र चित्तसाम्येन द्रव्यादिविविधानि च | पूजयित्वा मूलपद्मे चित्तोपकरणेन च || ३०-२३ || ततो मानसजापञ्च स्तोत्रञ्च कालिपावनम् | पठित्वा योगिराट् भूत्त्वा वसेत् षट्चक्रवेश्मनि || ३०-२४ || शक्तियुक्तं विधिं यस्तु स्तौति नित्यं महेश्वर | तस्यैव पालनार्थाय मम यन्त्रं महीतले || ३०-२५ || तत् स्तोत्रं शृणु योगार्थं सावधानावधारय | एतत्स्तोत्रप्रसादेन महालयवशो भवेत् || ३०-२६ || ब्रह्माणं हंससङ्घायुतशरणवदावाहनं देववक्त्र| विद्यादानैकहेतुं तिमिचरनयनाग्नीन्दुफुल्लारविन्दम् वागीशं वाग्गतिस्थं मतिमतविमलं बालार्कं चारुवर्णं | डाकिन्यालिङ्गितं तं सुरनरवरदं भावयेन्मूलपद्मे || ३०-२७ || नित्यां ब्रह्मपरायणां सुखमयीं ध्यायेन्मुदा डाकिनी| रक्तां गच्छविमोहिनीं कुलपथे ज्ञानाकुलज्ञानिनीम् | मूलाम्भोरुहमध्यदेशनिकटे भूविम्बमध्ये प्रभा| हेतुस्थां गतिमोहिनीं श्रुतिभुजां विद्यां भवाह्लादिनीम् || ३०-२८ || विद्यावास्तवमालया गलतलप्रालम्बशोभाकरा| ध्यात्वा मूलनिकेतने निजकुले यः स्तौति भक्त्या सुधीः | नानाकारविकारसारकिरणां कर्त्री विधो योगिना| मुख्यां मुख्यजनस्थितां स्थितिमतिं सत्त्वाश्रितामाश्रये || ३०-२९ || या देवी नवडाकिनी स्वरमणी विज्ञानिनी मोहिनी | मां पातु पिरयकामिनी भवविधेरानन्दसिन्धूद्भवा | मे मूलं गुणभासिनी प्रचयतु श्रीः कीतीचक्रं हि मा| नित्या सिद्धिगुणोदया सुरदया श्रीसंज्ञया मोहिता || ३०-३० || तन्मध्ये परमाकला कुलफला बाणप्रकाण्डाकरा राका राशषसादशा शशिघटा लोलामला कोमला | सा माता नवमालिनी मम कुलं मूलाम्बुजं सर्वदा | सा देवी लवराकिणी कलिफलोल्लासैकबीजान्तरा || ३०-३१ || धात्री धैर्यवती सती मधुमती विद्यावती भारती | कल्याणी कुलकन्यकाधरनरारूपा हि सूक्ष्मास्पदा | मोक्षस्था स्थितिपूजिता स्थितिगता माता शुभा योगिना| नौमि श्रीभविकाशयां शमनगां गीतोद्गतां गोपनाम् || ३०-३२ || कल्केशीं कुलपण्डितां कुलपथग्रन्थिक्रियाच्छेदिनी| नित्यां तां गुणपण्डितां प्रचपलां मालाशतार्कारुणाम् | विद्यां चण्डगुणोदयां समुदयां त्रैलोक्यरक्षाक्षरा| ब्रह्मज्ञाननिवासिनीं सितशुभानन्दैकबीजोद्गताम् || ३०-३३ || गीतार्थानुभवपिरयां सकलया सिद्धप्रभापाटलाम् | कामाख्यां प्रभजामि जन्मनिलयां हेतुपिरयां सत्क्रियाम् | सिद्धौ साधनतत्परं परतरं साकाररूपायिताम् || ३०-३४ || ब्रह्मज्ञानं निदानं गुणनिधिनयनं कारणानन्दयानम् | ब्रह्माणं ब्रह्मबीजं रजनिजयजनं यागकार्यानुरागम् || ३०-३५ || शोकातीतं विनीतं नरजलवचनं सर्वविद्याविधिज्ञम् | सारात् सारं तरुं तं सकलतिमिरहं हंसगं पूजयामि || ३०-३६ || एतत्सम्बन्धमार्गं नवनवदलगं वेदवेदाङ्गविज्ञम् | मूलाम्भोजप्रकाशं तरुणरविशशिप्रोन्नताकारसारम् || ३०-३७ || भावाख्यं भावसिद्धं जयजयदविधिं ध्यानगम्यं पुराणम् पाराख्यं पारणायं परजनजनितं ब्रह्मरूपं भजामि || ३०-३८ || डाकिनीसहितं ब्रह्मध्यानं कृत्वा पठेत् स्तवम् | पठनाद् धारणान्मन्त्री योगिनां सङ्गतिर्भवेत् || ३०-३९ || एतत्पठनमात्रेण महापातकनाशनम् | एकरूपं जगन्नाथं विशालनयनाम्बुजम् || ३०-४० || एवं ध्यात्वा पठेत् स्तोत्रं पठित्वा योगिराड् भवेत् || ३०-४१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे | षट्चक्रसिद्धिसाधने भैरवभैरवीसंवादे डाकिनी | स्तोत्रं नाम त्रिंशः पटलः || ३० || अथैकत्रिंशः पटलः आनन्दभैरवी उवाच अथ नाथ प्रवक्ष्यामि भेदिन्याः साधनं परम् | येन साधनमात्रेण योगी स्यात् कलिकालहा || ३१-१ || कलिकाले महायोगं साधय त्वं महाप्रभो | यदि न साधितः कालः स कालो देहभक्षकः || ३१-२ || भेदिनीसाधनेनैव ग्रन्थीनां भेदनं भवेत् | डाकिनीं हृदये ध्यायेत् परमानन्दरूपिणीम् || ३१-३ || अष्टहस्तां विशालाक्षीं शशाङ्कावयवाङ्किताम् | त्रैलोक्यमोहिनीं विद्यां भयदां वरदां सताम् || ३१-४ || शुक्लवर्णां त्रिनयनां चारुरूपमनोहराम् | ध्यात्वा मूलाम्बुजे योगी पाद्याद्यैः परिपूजयेत् || ३१-५ || तत्र मनोलयं कृत्वा योगी भवति भूतले | यदा मनोलयं याति तदा तस्याः स्तवं पठेत् || ३१-६ || स्तोत्रं पठनमात्रेण सर्वसत्त्वाश्रितो भवेत् | ध्यानमाकृत्य प्रपठेत् सर्वसिद्धिमयो भवेत् || ३१-७ || या भेदिनी सकलग्रन्थिविनाशनाना| धर्मान्तरे सकलशत्रुविनाशनस्था | सा मे सदा प्रतिदिनं परिपातु देह| कालात्मिका भगवती शुभकार्यकर्त्री || ३१-८ || या कान्ता करुणामयी त्रिजगतामानन्दसिद्धिस्थिता | नित्या सा परिपालिका कुलकला नीलामलाकोमला | वाणी सिद्धिकरी कृतार्थनिगडे शीघ्रोदया शाङ्करी | संज्ञाभेदनभेदिका शुभकरी वेदान्तसिद्धान्तदा || ३१-९ || वाणी बाला कुलाला कलकलचरणा यामलासंख्यमाला | हेलाभालान्तराला कुलकमलचला चञ्चला देहकाला || ३१-१० || भेदाख्या भेद्यभेदा वरनदनिनदा नादबिन्दुप्रकाशा | सा मे शीर्षं ललाटं मुखहृदयकटिं मुख्यपद्मं प्रपायात् || ३१-११ || काञ्चीपीठप्रकाशा निजपदविलया योगिनीनेत्रवक्षा | नातियोगप्रकाश्या चरुशतघटिता घोरसंहारकारा || ३१-१२ || ब्रह्मानन्दस्वरूपा विगतिमतिहरा हीरका भाति नेत्रा | हारश्रेण्यादिभूषा शशिशतकिरणा पातु मां भेद्यदेहम् || ३१-१३ || या भेदिनी सकलपापरिपुपिरयाणां स्वर्गापवर्गविरला बगलामुखी सा | मे पातु देहघटितं सकलेप्सितार्थं भावप्रभावपटला सहदेहसंस्था || ३१-१४ || कामाश्रिता विविधदोषविनाशलेषा | सौन्दर्यवेशकरणी क्रतुकर्मरक्षा | दीक्षा सतां मतिमतां निजयोगदात्री | सा मे सदा सकलदेहमिहाशु भेद्या || ३१-१५ || कान्ता शान्तगुणोदया मम धनं देहस्य नित्याशया पायात् श्रीकुलदैवतस्य जयदा या योगसारं परम् | साक्षादीश्वरपूजिता समुचिता चित्ताथीता चाथीता | यन्मे घोरतरे जये निजकुले कालाकुले व्याकुले || ३१-१६ || भेदाभेदविवजीता सुरवरश्रीहस्तपद्माचीते | मे मेढंर् खलु लिङ्ग मूलकमलं कालपिरया पातु सा | सप्तस्वर्गतलं ममैव वपुषा मिथ्यावमानापहा | हेडम्बासुरसुन्दर पिरयवती हेमावती भारती || ३१-१७ || एतत् स्तोत्रं पठित्वा यः स्तौति मूलाम्बुजे च माम् | स एव योगमाप्नोति स भवेद् योगिवल्लभः || ३१-१८ || मनः स्थिरं भवेत् क्षिप्रं राजत्वं लभते झटित् | अनायासेन सिद्धिः स्यात् तस्य वायुर्वशो भवेत् || ३१-१९ || योगिनीनां दर्शनं हि अनायासेन लभ्यते | भावसिन्धुयुतो भूत्वा विचरेदमरो यथा || ३१-२० || मूलपद्मे वसेद्देवी मूलाम्भोजप्रकाशिनी | मालती मालवी मौना मालिनी च मनोहरा || ३१-२१ || मानसी मदना मान्या मुद्रामैथुनतत्परा | मेरुस्था माद्यकुसुमा मण्डिता मण्डलस्थिता || ३१-२२ || मनःस्थैर्यकरी देवी भाव्यते यैः कुमारकैः | अकस्मात् सिद्धिमाप्नोति कालेन परमेश्वर || ३१-२३ || अथ वक्ष्ये महादेव्याः छेदिन्याः स्तवमुत्तमम् | छेत्ता त्वं सर्वग्रन्थीनां मत्प्रसादाद् यतीश्वरः || ३१-२४ || यत्प्रसादादनन्तो हि योगी संसारमण्डले || ३१-२५ || देशानन्दा सकलगुणदा छेदिनी छेदनस्था | हव्यस्था सा विभवनिरता या निधिस्था निशायाम् | सा मे नित्यं कुलकमलगा गोपनीया विधिज्ञा | श्रीवागेशी गगनवसना सर्वयोगं प्रपायात् || ३१-२६ || कामानन्दा मदननिरता भाविता भावसिन्धौ कामानन्दोद्भवरसवती योगियोगस्थधात्री | देहक्लेदे निरसनरता ... ... ... ... ... ... | सा मे धौतं प्रकुरु वपुषो धर्मपुञ्जं प्रपायात् || ३१-२७ || कालाकालं कमलकलिकावासिनी कालिका मे | ग्रन्थिच्छेदं स्थिरगृहगता गात्रनाडीपथस्था | वक्त्राम्भोजे वचनमधुरं धारयन्ती जनाना| सा मे रन्ध्रं मम रुचिरतनोः पातु पञ्चानना या || ३१-२८ || योगाङ्गस्था स्थितिलयविभवा लोमकूपाम्बुजस्था | माता गौरी गिरिपतिसुता भासुरास्त्रप्रदीप्ता | सम्पायान्मे हृदयविवरं छेदिनीमूलपूरे | कैलासस्था मममनुगिरिं पातु रुद्रप्रसादा || ३१-२९ || नादान्तःस्था मनगुणधरणासन्नसिद्धान्तपारा | भोगानन्दा भगनगबिले काशयन्ती जनानाम् | विद्याविद्या विविधगगना छेदिनी छन्नरूपा | सा सर्वान्तःकरणनिलया लाकिनी प्रेमभावा || ३१-३० || योगं स्वर्गेऽर्पयसि मनसि प्रेमभावं परेशे | या या यात्रा त्रिविधकरणा कारणा सर्वजन्तोः | माता ज्ञात्री गणेशे गृहिगणसदया सर्वकर्त्री मनो मे | रक्षा रक्षाक्षरगतकला केवला निष्कला या || ३१-३१ || सा योगेन्द्रा समवतु मुदा मे गुदं कुण्डलिन्या| जह्नोः कन्या कमलनिलया राकिणी प्रेमभावान् | मोक्षप्राणान् तपनरहिता पातु मे वेदवक्त्रा | सिद्धा मूलाम्बुजदलगता पावनी पातु तुण्डम् || ३१-३२ || हेरम्बाज्ञा प्रलयघटिता काकिनी क्रोधरूपा || ३१-३३ || यदि भजति कुलीनः कामिनीं क्रोधविद्या| स भवति परयोगी छेदिनीस्तोत्रपाठात् | सकलदुरितनाशः क्षालनादिप्रसिद्धिः | सकलजनवशः स्यात् तस्य नित्यं सुराज्यम् || ३१-३४ || एतत् स्तोत्रं पठेद्विद्वान् महासंयमतत्परः | मूले मनः स्थिरो याति सर्वानिष्टविनाशनः || ३१-३५ || सर्वसिद्धिः करे तस्य यो भावं समुपाश्रयेत् शृणुष्व परमानन्द रससागरसम्भव || ३१-३६ || योगिनीस्तोत्रसारं च श्रवणाद्धारणाद् यतिः | अप्रकाश्यमिदं रत्नं नृणामिष्टफलप्रदम् || ३१-३७ || यस्य विज्ञानमात्रेण शिवो भवति साधकः || ३१-३८ || कङ्काली कुलपण्डिता कुलकला कालानला श्यामला | योगेन्द्रेन्द्रसुराज्यनाथयजिताऽन्या योगिनीं मोक्षदा | मामेकं कुजडं सुखास्तमधनं हीनं च दीनं खल| यद्येवं परिपालनं करोषि नियतं त्वं त्राहि तामाश्रये || ३१-३९ || यज्ञेशी शशिशेखरा स्वमपरा हेरम्बयोगास्पदा | दात्री दानपरा हराहरिहराऽघोरामराशङ्करा | भद्रे बुद्धिविहीन देहजडितं पूजाजपावजीतं मामेकार्भमकिञ्चनं यदि सरत्त्वं योगिनी रक्षसि || ३१-४० || भाव्या भावनतत्परस्य करणा सा चारणा योगिनी | चन्द्रस्था निजनाथदेहसुगता मन्दारमालावृता | योगेशी कुलयोगिनी त्वममरा धाराधराच्छादिनी योगेन्द्रोत्सवरागयागजडिता या मातृसिद्धिस्थिता || ३१-४१ || त्वं मां पाहि परेश्वरी सुरतरी श्रीभास्करी योगग| मायापाशविबन्धनं तव कथालापामृतावजीतम् | नानाधर्मविवजीतं कलिकुले संव्याकुलालक्षण| मययेके यदि दृष्टिपातकमला तत् केवलं मे बलम् || ३१-४२|| मायामयी हृदि यदा मम चित्तलग्न| राज्यं तदा किमु फलं फलसाधनं वा | इत्याशया भगवती मम शक्तिदेवी | भाति पिरये श्रुतिदले मुखरार्पणं ते || ३१-४३ || या योगिनी सकलयोगसुमन्त्रणाढ्या | देवी महद्गुणमयी करुणानिधाना | सा मे भयं हरतु वारणमत्तचित्ता | संहारिणी भवतु सोदरवक्षहारा || ३१-४४ || यदि पठति मनोज्ञो गोरसामीश्वरं यो | वशयति रिपुवर्गं क्रोधपुञ्जं विहन्ति | भुवनपवनभक्षो भावुकः स्यात् सुसङ्गी | रतिपतिगुणतुल्यो रामचन्द्रो यथेशः || ३१-४५ || एतत्स्तोत्रं पठेद्यस्तु स भक्तो भवति पिरयः | मूलपद्मे स्थिरो भूत्त्वा षट्चक्रे राज्यमाप्नुयात् || ३१-४६ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे भेदिन्यादिस्तोत्रं नाम एकत्रिंशः पटलः || ३१ || अथ द्वात्रिंशः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि शृणुष्व मम तत्त्वतः | शक्तिः कुण्डलिनी देवी सर्वभेदनभेदिनी || ३२-१ || कलिकल्मषहन्त्री च जगतां मोक्षदायिनी | तस्याः स्तोत्रं तथा ध्यानं न्यासं मन्त्रं शृणु प्रभो || ३२-२ || यस्य विज्ञानमात्रेण मूलपद्मे मनोलयः | चैतन्यानन्दनिरतो भवेत् कुण्डलिसङ्गमात् || ३२-३ || आकाशगामिनीं सिद्धिं ददाति कुण्डली भृशम् | अमृतानन्दरूपाभ्यां करोषि पालनं नृणाम् || ३२-४ || श्वासोच्छ्वासकलाभ्यां च शरीरं त्रिगुणात्मकम् | पञ्चभूतावृता नित्यं पञ्चानिला भवेद् ध्रुवम् || ३२-५ || कोटिसूर्यप्रतीकाशां निरालम्बां विभावयेत् | सर्वस्थितां ज्ञानरूपां श्वासोच्छ्वासनिवासिनीम् || ३२-६ || स्वयम्भूकुसुमोत्पन्नां ध्यानज्ञानप्रकाशिनीम् | मोक्षदां शक्तिदां नित्यां नित्यज्ञानस्वरूपिणीम् || ३२-७ || लोलां लीलाधरां सर्वां शुद्धज्ञानप्रकाशिनीम् | कोटिकालानलसमां विद्युत्कोटिमहौजसाम् || ३२-८ || तेजसा व्याप्तकिरणां मूलादूर्ध्वप्रकाशिनीम् | अष्टलोकप्रकाशाढ्यां फुल्लेन्दीवरलोचनाम् || ३२-९ || सर्वमुखीं सर्वहस्तां सर्वपादाम्बुजस्थिताम् | मूलादिब्रह्मरन्ध्रान्तस्थानलोकप्रकाशिनीम् || ३२-१० || त्रिभाषां सर्वभक्षां च श्वासनिर्गमपालिनीम् | ललितां सुन्दरीं नीलां कुण्डलीं कुण्डलाकृतिम् || ३२-११ || अभूमण्डलबाह्यस्थां बाह्यज्ञानप्रकाशिनीम् | नागिनीं नागभूषाढ्यां भयानककलेवराम् || ३२-१२ || योगिज्ञेयां शुद्धरूपां विरलामूर्ध्वगामिनीम् | एवं ध्यात्वा मूलपद्मे कुण्डलीं परदेवताम् || ३२-१३ || भावसिद्धिर्भवेत् क्षिप्रं कुण्डलीभावनादिह | ततो मानसजापं हि मानसं होमतर्पणम् || ३२-१४ || अभिषेकं मुदा कृत्वा प्रातः काले पुनः पुनः प्राणायामं ततः कृत्वा स्तोत्रं च कवचं पठेत् || ३२-१५ || एतत्स्तोत्रस्य पाठेन स्वयं सिद्धान्तविद् भवेत् | कुण्डली सुकृपा तस्य मासाद् भवति निश्चितम् || ३२-१६ || निद्रादोषादिक्ं त्यक्त्वा प्रकाश्याहं शरीरके | अहं दात्री सुयोगानामधिपाहं जगत्त्रये || ३२-१७ || अहं कर्म अहं धर्मः अहं देवी च कुण्डली | यो जानाति महावीर कुण्डलीरूपसेवनात् || ३२-१८ || इति तं पात्रकं कर्तुमवतीर्णास्मि सर्वदा | अत एव परं मन्त्रं कुण्डलिन्याः स्तवं शुभम् || ३२-१९ || प्रपठेत् सर्वदा देहे यदि वश्या न कुण्डली | तावत् कालं जपं कुर्याद् यावत् सिद्धिर्न जायते || ३२-२० || आधारे परदेवता भवनताधोकुण्डली देवता | देवानामधिदेवता त्रिजगतामानन्दपुञ्जस्थिता || ३२-२१ || मूलाधारनिवासिनी त्रिरमणी या ज्ञानिनी मालिनी | सा मे मातृमनुस्थिता कुलपथानन्दैकबीजानना || ३२-२२ || सर्वाङ्गस्थितिकारिणी सुरगणानन्दैकचिन्हा शिवा | वीरेन्द्रा नवकामिनी वचनदा श्रीमानदा ज्ञानदा || ३२-२३ || सानन्दा घननन्दिनी घनगणा छिन्ना भवा योगिनी | धीरा धैर्यवती समाप्तविषया श्रीमङ्गली कुण्डली || ३२-२४ || सर्वाकारनिवासिनी जयधराधाराधरस्थागया | गीता गोधनवद्धीनी गुरुमयी ज्ञानपिरया गोधना || ३२-२५ || गार्हाग्निस्थिति चन्द्रिका सुलतिका जाड्यापहा रागदा | दारा गोधनकारिणी मृगमना ब्रह्माण्डमार्गोज्ज्वला || ३२-२६ || माता मानसगोचरा हरिचरा सिंहासनेकारणा | यामा दासगणेश्वरी गुणवती छायापथस्थायिनी || ३२-२७ || निद्रा क्षुब्धजनपिरया वरतृषा भाषाविशेषस्थिता | स्थित्यन्तप्रलयापहा नरशिरोमालाधरा कुण्डली || ३२-२८ || गाङ्गेशी यमुनेश्वरी गुरुतरी गोदावरी भास्करी | भक्तातीक्षयकारिणी समशिवं यद्येकभावान्विता || ३२-२९ || त्वं शीघ्रं कुरु कौलिके मम शिरोरन्ध्रं तदब्जं मुदा | तत्पत्रस्थितदैवतं कुलवती मातृस्थलं पाहिकम् || ३२-३० || भालोद्र्ध्वे धवला कलारसकला कालाग्निजालोज्ज्वला | फेरुप्राणनिकेतने गुरुतरा गुर्वी सुगुर्वी सुरा || ३२-३१ || हालोल्लाससमोदया यतिनया माया जगत्तारिणी | निद्रामैथुननाशिनी मम हरा मोहापहा पातुकम् || ३२-३२ || भालं नीलतनुस्थिता मतिमतामर्थपिरया मैथिली | भालानन्दकरा महापिरयजना पद्मानना कोमला || ३२-३३ || नानारङ्गसुपीठदेशवसना सिद्धासना घोषणा | त्राणस्थावररूपिणी कलिहनी श्रीकुण्डली पातुकम् || ३२-३४ || भ्रूमध्यं बगलामुखी शशिमुखी विद्यामुखी सम्मुखी | नागाख्या नगवाहिनी महिषहा पञ्चाननस्थायिनी || ३२-३५ || पारावार विहारहेतुसफरी सेतुप्रकारा परा | काशीवासिनमीश्वरं प्रतिदिनं श्रीकुण्डली पातुकम् || ३२-३६ || या कुण्डोद्भवसारपाननिरता मोहादिदोषापहा | सा नेत्रत्रयमम्बिका सुवलिका श्रीकालिका कौलिका || ३२-३७ || काकस्था द्विकचञ्चुपारणकरी संज्ञाकरी सुन्दरी | मे पातु पिरयया तया विशदया सच्छायया छादिता || ३२-३८ || श्रीकुण्डे रणचण्डिका सुरतिका कङ्कालिका बालिका | साकाशा परिवजीता सुगतिका ज्ञानोमीका चोत्सुका || ३२-३९ || सौकासूक्ष्मसुखपिरया गुणनिका दीक्षा च सूक्ष्माख्यका | मामन्द्यं मम कन्दवासिनि शिवे सन्त्राहि सन्त्राहिकम् || ३२-४० || एतत्स्तोत्रं पठित्वा त्रिभुवनपवनं पावनं लौकिकानाम् | राजा स्यात् किल्विषाग्निः क्रतुपतिरिह यः क्षेमदं योगिनां वा || ३२-४१ || सर्वेशः सर्वकर्ता भवति निजगृहे योगयोगाङ्गवक्ता | शाक्तः शैवः स एकः परमपुरुषगो निर्मलात्मा महात्मा || ३२-४२ || प्रणवेन पुटितं कृत्वा यः स्तौति नियतः शुचिः | स भवेत् कुण्डलीपुत्रो भूतले नात्र संशयः || ३२-४३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने मूलचक्रसारसङ्केते भैरवभैरवीसंवादे कन्दवासिनीस्तोत्रं नाम द्वात्रिंशः पटलः || ३२ || अथ त्रयस्त्रिंशः पटलः श्री आनन्दभैरवी उवाच अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् | परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् || ३३-१ || यत्कृत्वा योगिनः सर्वं धर्माधर्मप्रदर्शकाः | ज्ञानिनो मानिनो धर्मा विचरन्ति यथामराः || ३३-२ || सिद्धयोऽप्यणिमाद्याश्च करस्थाः सर्वदेवताः | एतत् कवचपाठेन देवेन्द्रो योगिराड् भवेत् || ३३-३ || ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः | प्रातःकाले त्रिवारं च मध्याह्ने वारयुग्मकम् || ३३-४ || सायाह्ने वारमेकं तु पठेत् कवचमेव च | पठेदेवं महायोगी कुण्डलीदर्शनं भवेत् || ३३-५ || कुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिर्गायत्री छन्दः, कुलकुण्डली देवता सर्वाभीष्टसिद्ध्यर्थे विनियोगः || ओं ईश्वरी जगतां धात्री ललिता सुन्दरी परा | कुण्डली कुलरूपा च पातु मां कुलचण्डिका || ३३-६ || शिरो मे ललिता देवी पातूग्राख्या कपोलकम् | ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा || ३३-७ || नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् | दन्तावलीं विशालाक्षी ओष्ठमिष्टानुवासिनी || ३३-८ || कामबीजात्मिका विद्या अधरं पातु मे सदा | ऌयुगस्था गण्डयुग्मं माया विश्वा रसपिरया || ३३-९ || भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका | कपिला मे गलं पातु सर्वबीजस्वरूपिणी || ३३-१० || मातृकावर्णपुटिता कुण्डली कण्ठमेव च | हृदयं कालपृथ्वी च कङ्काली पातु मे मुखम् || ३३-११ || भुजयुग्मं चतुर्वर्गा चण्डदोद्र्दण्डखण्डिनी | स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम || ३३-१२ || अङ्गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् | कालिका भुवनेशानी पृष्ठदेशं सदावतु || ३३-१३ || पार्श्वयुग्मं महावीरा वीरासनधराभया | पातु मां कुलदर्भस्था नाभिमुदरमम्बिका || ३३-१४ || कटिदेशं पीठसंस्था महामहिषघातिनी | लिङ्गस्थानं महामुद्रा भगं मालामनुपिरया || ३३-१५ || भगीरथपिरया धूम्रा मूलाधारं गणेश्वरी | चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा || ३३-१६ || शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् | मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् || ३३-१७ || छेदिनी दक्षिणे पातु पातु चण्डा महातपा | चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् || ३३-१८ || उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता | चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् || ३३-१९ || अष्टशूलं सदा पातु सर्ववाहनवाहना चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला || ३३-२० || मेढ्र्स्था मदनाधारा पातु मे चारुपङ्कजम् | स्वयम्भूलिङ्ग चार्वाका कोटराक्षी ममासनम् || ३३-२१ || कदम्बवनमापातु कदम्बवनवासिनी | वैष्णवी परमा माया पातु मे वैष्णवं पदम् || ३३-२२ || षड्दलं राकिणी पातु राकिणी कामवासिनी | कामेश्वरी कामरूपा श्रीकृष्णं पीतवाससम् || ३३-२३ || वनमालां वनदुर्गा शङ्खं मे शङ्खिनी शिवा | चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम || ३३-२४ || पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा | रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी || ३३-२५ || षड्दले स्थितदेवांश्च पातु कैलासवासिनी | अग्निवर्णा सदा पातु गणं मे परमेश्वरी || ३३-२६ || मणिपूरं सदा पातु मणिमालाविभूषणा | दशपत्रं दशवर्णं डादिफान्तं त्रिविक्रमा || ३३-२७ || पातु नीला महाकाली भद्रा भीमा सरस्वती | अयोध्यावासिनी देवी महापीठनिवासिनी || ३३-२८ || वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली | दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम || ३३-२९ || सूक्ष्मात् सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी | राकिणी लोकजननी पातु कूटाक्षरस्थिता || ३३-३० || तैजसं पातु नियतं रजकी राजपूजिता | विजया कुलबीजस्था तवर्गं तिमिरापहा || ३३-३१ || मन्त्रात्मिका मणिग्रन्थिं भेदिनी पातु सर्वदा | गर्भदाता भृगुसुता पातु मां नाभिवासिनी || ३३-३२ || नन्दिनी पातु सकलं कुण्डली कालकम्पिता | हृत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा || ३३-३३ || दलद्वादशवर्णं च भास्करी भावसिद्धिदा | पातु मे परमा विद्या कवर्गं कामचारिणी || ३३-३४ || चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिणी | चकारं पातु कृष्णाख्या काकिनीं पातु कालिका || ३३-३५ || टकुराङ्गी टकारं मे जीवभावा महोदया | ईश्वरी पातु विमला मम हृत्पद्मवासिनी || ३३-३६ || कणीकां कालसन्दर्भा योगिनी योगमातरम् | इन्द्राणी वारुणी पातु कुलमाला कुलान्तरम् || ३३-३७ || तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु | विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना || ३३-३८ || वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी | उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा || ३३-३९ || मम षोडशपत्राणि पातु मातृतनुस्थिता | सुरान् रक्षतु वेदज्ञा सर्वभाषा च कणीकाम् || ३३-४० || ईश्वरार्द्धासनगता प्रपायान्मे सदाशिवम् | शाकम्भरी महामाया साकिनी पातु सर्वदा || ३३-४१ || भवानी भवमाता च पायाद् भ्रूमध्यपङ्कजम् | द्विदलं व्रतकामाख्या अष्टाङ्गसिद्धिदायिनी || ३३-४२ || पातु नासामखिलानन्दा मनोरूपा जगत्पिरया | लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा || ३३-४३ || कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा | द्विदलस्थं सर्वदेवं सदा पातु वरानना || ३३-४४ || बहुरूपा विश्वरूपा हाकिनी पातु संस्थिता | हरापरशिवं पातु मानसं पातु पञ्चमी || ३३-४५ || षट्चक्रस्था सदा पातु षट्चक्रकुलवासिनी | अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता || ३३-४६ || मातृकार्णा सदा पातु कुण्डली ज्ञानकुण्डली | देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा || ३३-४७ || उड्डीयानेश्वरी देवी सकलं पातु सर्वदा | कैलासपर्वतं पातु कैलासगिरिवासिनी४८ || पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला | साकिनी हाकिनी देवी षट्चक्रादीन् प्रपातु मे || ३३-४९ || कैलासाख्यं सदा पातु पञ्चानन तनूद्भवा | हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी || ३३-५० || सहस्रदलपद्मं मे सदा पातु कुलाकुला | सहस्रदलपद्मस्था दैवतं पातु खेचरी || ३३-५१ || काली तारा षोडशाख्या मातङ्गी पद्मवासिनी | शशिकोटिगलद्रूपा पातु मे सकलं तमः || ३३-५२ || वने घोरे जले देशे युद्धे वादे श्मशानके | सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा || ३३-५३ || पर्वते विविधायासे विनाशे पातु कुण्डली | पादादिब्रह्मरन्ध्रान्तं सर्वाकाशं सुरेश्वरी || ३३-५४ || सदा पातु सर्वविद्या सर्वज्ञानं सदा मम | नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् || ३३-५५ || इत्येतत् कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् | ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः || ३३-५६ || ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः | मूलपद्मे मनोयोगं कृत्वा हृदासनस्थितः || ३३-५७ || मन्त्रं ध्यायेत् कुण्डलिनीं मूलपद्मप्रकाशिनीम् | धर्मोदयां दयारूढामाकाशस्थानवासिनीम् || ३३-५८ || अमृतानन्दरसिकां विकलां सुकलां शिताम् | अजितां रक्तरहितां विशक्तां रक्तविग्रहाम् || ३३-५९ || रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् | विश्वाकारां मनोरूपां मूले ध्यात्वा प्रपूजयेत् || ३३-६० || यो योगी कुरुते एवं स सिद्धो नात्र संशयः | रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् || ३३-६१ || राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि | पुत्रहीनो लभेत् पुत्रं योगहीनो भवेद्वशी || ३३-६२ || कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे | वामा वामकरे धृत्वा सर्वाभीष्टमवाप्नुयात् || ३३-६३ || स्वर्णे रौप्ये तथा ताम्रे स्थापयित्वा प्रपूजयेत् | सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् || ३३-६४ || स भूयात् कुण्डलीपुत्रो नात्र कार्या विचारणा || ३३-६५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिविद्याप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं नाम त्रयस्त्रिशः पटलः || ३३ || अथ चतुस्त्रिंशः पटलः आनन्दभैरवी उवाच अथ भेदान् प्रवक्ष्यामि हिताय जगतां प्रभो | निर्मलात्मा शुचिः श्रीमान् ध्यानात्मा च सदाशिवः || ३४-१ || स मोक्षगो ज्ञानरूपी स षट्चक्रार्थभेदकः | त्रिगुणज्ञानविकलो न पश्यति दिवानिशम् || ३४-२ || दिवारात्र्यज्ञानहेतोर्न पश्यति कलेवरम् | इति कृत्वा हि मरणं नृणां जन्मनि जन्मनि || ३४-३ || तज्जन्मक्षयहेतोश्च मम योगं समभ्यसेत् | पञ्चस्वरं महायोगं कृत्वा स्यादमरो नरः || ३४-४ || तत्प्रकारं शृणुष्वाथ वल्लभ पिरयदर्शन | तव भावेन कथये न कुत्र वद शङ्कर || ३४-५ || यदि लोकस्य निकटे कथ्यते योगसाधनम् | विघ्ना घोरा वसन्त्येव गात्रे योगादिकं कथम् || ३४-६ || योगयोगाद् भवेन्मोक्षः तत्प्रकाशाद्विनाशनम् | अतो न दर्शयेद् योगं यदीच्छेदात्मनः शुभम् || ३४-७ || कृत्वा पञ्चामरा योगं प्रत्यहं भक्तिसंयुतः | पठेत् श्रीकुण्डलीदेवीसहस्रनाम चाष्टकम् || ३४-८ || महायोगी भवेन्नाथ षण्मासे नात्र संशयः | पञ्चमे वा योगविद्या सर्वविद्याप्रकाशिनी || ३४-९ || कृत्वा पञ्चस्वरा सिद्धिं ततोऽष्टाङ्गादिधारणा | आदौ पञ्चस्वरा सिद्धिस्ततोऽन्या योगधारणा || ३४-१० || तत्प्रकारं प्रवक्ष्यामि सावधानावधारय | अहं जानामि संसारे केवलं योगपण्डितान् || ३४-११ || तत् साक्षिणी ह्यहं नाथ भक्तानामुदयाय च | इदानीं कथये तेऽहं मम वा योगसाधनम् || ३४-१२ || एवं कृत्वा नित्यरूपी योगानामष्टधा यतः | ततः कालेन पुरुषः सिद्धिमाप्नोति निश्चितम् || ३४-१३ || पञ्चामरा विधानानि क्रमेण शृणु शङ्कर | नेतीयोगं हि सिद्धानां महाकफविनाशनम् || ३४-१४ || दन्तियोगं प्रवक्ष्यामि पश्चाद् हृदयभेदनात् | धौतीयोगं ततः पश्चात् सर्वमलविनाशनात् || ३४-१५ || नेउलीयोगमपरं सर्वाङ्गोदरचालनात् | क्षालनं परमं योगं नाडीनां क्षालनात् स्मृतम् || ३४-१६ || एतत् पञ्चामरायोगं यमिनामतिगोचरम् | यमनियमकाले तु पञ्चामराक्रियां यजेत् || ३४-१७ || अमरा साधनादेव अमरत्वं लभेद् ध्रुवम् | एतत्करणकाले च तथा पञ्चामरासनम् || ३४-१८ || पञ्चामराभक्षणेन अमरो योगसिद्धिभाक् | तानि द्रव्याणि वक्ष्यामि तवाग्रे परमेश्वर || ३४-१९ || येन हीना न सिद्ध्यन्ति कल्पकोटिशतेन च | एका तु अमरा दूर्वा तस्या ग्रन्थिं समानयेत् || ३४-२० || अन्या तु विजया देवी सिद्धिरूपा सरस्वती | अन्या तु बिल्वपत्रस्था शिवसन्तोषकारिणी || ३४-२१ || अन्या तु योगसिद्ध्यर्थे निर्गुण्डी चामरा मता | अन्या तु कालितुलसी श्रीविष्णोः परितोषिणी || ३४-२२ || एताः पञ्चस्वराः ज्ञेया योगसाधनकर्मणि | एतासां द्विगुणं ग्राह्यं विजयापत्रमुत्तमम् || ३४-२३ || ब्राह्मणी क्षत्रिया वैश्या शूद्राः सर्वत्र पूजिताः | एतद्द्रव्याणि सङ्ग्राह्य भक्षयेच्चूर्णमुत्तमम् || ३४-२४ || तच्चूर्णभक्षसमये एतन्मन्त्रादिपञ्चमम् | पठित्वा भक्षणं कृत्वा नरो मुच्येत सङ्कटात् || ३४-२५ || ओं त्वं दूर्वेऽमरपूज्ये त्वं अमृतोद्भवसम्भवे | अमरं मां सदा भद्रे कुरुष्व नृहरिपिरये || ३४-२६ || ओं दूर्वायै नमः स्वाहा इति दूर्वायाः | पुनवीजयामन्त्रेण शोधयेत् सर्वकन्यकाः | ओं संविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदाऽनघे | भैरवाणां च तृप्त्यर्थे पवित्रा भव सर्वदा || ३४-२७ || ओं ब्राह्मण्यै नमः स्वाहा | ओं सिद्धिमूलकरे देवि हीनबोधप्रबोधिनि | राजपुत्रीवशङ्करि शूलकण्ठत्रिशूलिनि || ३४-२८ || ओं क्षत्रियायै नमः स्वाहा | ओं अज्ञानेन्धनदीप्ताग्नि ज्ञानाग्निज्ज्वालरूपिणि | आनन्दाद्याहुतिं कृत्वा सम्यक्ज्ञानं प्रयच्छ मे || ३४-२९ || ह्रीं ह्रीं वैश्यायै नमः स्वाहा | ओं नमस्यामि नमस्यामि योगमार्गप्रदशीनि | त्रैलोक्यविजये मातः समाधिफलदा भव || ३४-३० || श्रीं शूद्रायै नमः स्वाहा | ओं काव्यसिद्धिकरी देवी बिल्वपत्रनिवासिनि | अमरत्वं सदा देहि शिवतुल्यं कुरुष्व माम् || ३४-३१ || ओं शिवदायै नमः स्वाहा | निर्गुण्डि परमानन्दे योगानामधिदेवते | सा मां रक्षतु अमरे भावसिद्धिप्रदे नमः || ३४-३२ || ओं शोकापहायै नमः स्वाहा | ओं विष्णोः पिरये महामाये महाकालनिवारिणी | तुलसी मां सदा रक्ष मामेकममरं कुरु || ३४-३३ || ओं ह्रीं श्रीं एं क्लीं अमरायै नमः स्वाहा | पुनरेव समाकृत्य सर्वासां शोधनञ्चरेत् || ३४-३४ || ओं अमृते अमृतोद्भवेऽमृतवषीणि अमृतमाकर्षय | आकर्षय सिद्धिं देहि स्वाहा | धेनुमुद्रां योनिमुद्रां मत्स्यमुद्रां प्रदर्शयेत् | तत्त्वमुद्राक्रमेणैव तर्पणं कारयेद् बुधः || ३४-३५ || अमन्त्रकं सप्तवारं गुरोर्नाम्ना शिवेऽर्पयेत् | सप्तकञ्च स्वेष्टदेव्या नाम्ना शुद्धिं प्रदापयेत् || ३४-३६ || ततस्तर्पणमाकुर्यात्तर्पयामि नमो नमः | एतद्वाक्यस्य पूर्वे च इष्टमन्त्रं समुच्चरेत् || ३४-३७ || परदेवतां समुद्धृत्य सर्वाद्यप्रणवं स्मृतम् | ततो मुखे प्रजुहुयात् कुण्डलीनामपूर्वकम् || ३४-३८ || ओं एं वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभव | सर्वसत्त्ववशङ्करि शत्रुकण्ठत्रिशूलिनि स्वाहा | एतज्जप्त्वा साश्रमी च वशी साधकसत्तमः | पञ्चामरा शासनज्ञः कुलाचारविधिपिरयः || ३४-३९ || स्थिरचेता भवेद्योगी यदि पञ्चामरागतः | नेतीयोगविधानानि शृणु कैलासपूजिते || ३४-४० || येन सर्वमस्तकस्थकफानां दहनं भवेत् | सूक्ष्मसूत्रं दृढतरं प्रदद्यात् नासिकाबिले || ३४-४१ || मुखरन्ध्रे समानीय सन्धानेन समानयेत् | पुनः पुनः सदा योगी यातायातेन घर्षयेत् || ३४-४२ || क्रमेण वर्द्धनं कुर्यात् सूत्रस्य परमेश्वर | नेतीयोगेन नासाया रन्ध्रं निर्मलकं भवेत् || ३४-४३ || वायोर्गमनकाले तु महासुखमिति प्रभो | दन्तीयोगं ततः पश्चात्कुर्यात् साधकसत्तमः || ३४-४४ || दन्तधावनकाले तु योगमेतत् प्रकाशयेत् | दन्तधावनकाष्ठञ्च सार्धहस्तैकसम्भवम् || ३४-४५ || नातिस्थूलं नातिसूक्ष्मं नवीनं नम्रमुत्तमम् | अपक्वं यत्नतो ग्राह्यं मृणालसदृशं तरुम् || ३४-४६ || गृहीत्वा दन्तकाष्ठं वै योगी नित्यं प्रभक्षयेत् | दन्तकाष्ठाग्रभागञ्च कनिष्ठाङ्गुलिपर्वतः || ३४-४७ || एवं दन्तावलिभ्याञ्च चर्वणं सुन्दरं चरेत् | ततः प्रक्षाल्य तोयेन शनैगीलनमाचरेत् || ३४-४८ || शनैः शनैः प्रकर्त्तव्यं कायावाक्चित्तशोधनम् | यावदभिन्नकाष्ठाग्रं नाभिमूले त्वनाक्षतम् || ३४-४९ || तावत् सूक्ष्मतरं ग्राह्यमवश्यं प्रत्यहञ्चरेत् | हृदये जलचक्रञ्च यावत् खण्डं न जायते || ३४-५० || तावत्कालं सर्वदिने प्रभाते दन्तधावनम् | हृदये कफभाण्डस्य खण्डनं जायते ध्रुवम् || ३४-५१ || पवनागमने सौख्यं प्रयाति योगनिर्भरम् | खेचरत्वं स लभताम् अम्लानञ्च कटूद्भवम् || ३४-५२ || मिष्टान्नं शाकदध्यन्नं द्विवारं रात्रिभोजनम् | अवश्यं सन्त्यजेद्योगी यदि योगमिहेच्छति || ३४-५३ || एकभागं मुद्गबीजं द्विभागं तण्डुलं मतम् | उत्तमं पाकमाकृत्य घृतदुग्धेन भक्षयेत् || ३४-५४ || अथवा केवलं दुग्धं तर्पणं कारयेद् बुधः | कुण्डलीं कुलरूपाञ्च दुग्धेन परितर्पयेत् || ३४-५५ || कुण्डलीतर्पणं योगी यदि जानाति शङ्कर | अनायासेन योगी स्यात् स ज्ञानीन्द्रो भवेद्ध्रुवम् || ३४-५६ || यमनियमपरो यः कुण्डलीसेवनस्थो विभवविरहितो वा भूरिभाराश्रितो वा | स भवति परयोगी सर्वविद्यार्थवेद्यो | गुणगणगगनस्थो मुक्तरूपी गणेशः || ३४-५७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवभैरवीसंवादे पञ्चामरासाधनं नाम चतुस्त्रिशः पटलः || ३४ || अथ पञ्चत्रिंशः पटलः आनन्दभैरवी उवाच अथ वक्ष्ये महाकाल रहस्यं चातिदुर्लभम् | यस्य विज्ञानमात्रेण नरो ब्रह्मपदं लभेत् || ३५-१ || आकाशे तस्य राज्यञ्च खेचरेशो भवेद् ध्रुवम् | धनेशो भवति क्षिप्रं ब्रह्मज्ञानी भवेन्नरः || ३५-२ || योगानामधिपो राजा वीरभद्रो यथाकविः | विरिञ्चिगणनाथस्य कृपा भवति सर्वदा || ३५-३ || यः करोति पञ्चयोगं स स्यादमरविग्रहः | धौतीयोगं प्रवक्ष्यामि यत्कृत्वा निर्मलो भवेत् || ३५-४ || अत्यन्तगुह्यं योगं च समाधिकरणं नृणाम् | यदि न कुरुते योगं तदा मरणमाप्नुयात् || ३५-५ || धौतीयोगं विना नाथ कः सिद्ध्यति महीतले | सूक्ष्मात्सूक्ष्मतरं वस्त्रं द्वात्रिंशद्धस्तमानतः || ३५-६ || एकहस्तक्रमेणैव यः करोति शनैः शनैः | यावद् द्वात्रिंशद्धस्तञ्च तावत्कालं क्रियाञ्चरेत् || ३५-७ || एतत्क्रिया प्रयोगेण योगी भवति तत्क्षणात् | क्रमेण मन्त्रसिद्धिः स्यात् कालजालवशं नयेत् || ३५-८ || एतन्मध्ये चासनानि शरीरस्थानि चाचरेत् | दृढासने योगसिद्धिरिति तन्त्रार्थनिर्णयः || ३५-९ || सिद्धे मनौ परावाप्तिः पञ्चयोगासनेन च | पार्श्वे चाष्टाङ्गुलं वस्त्रं दीर्घे द्वात्रिंशदीश्वर || ३५-१० || एतत् सूक्ष्मं सुवसनं गृहीत्वा कारयेद् यतिः | जितेन्द्रियः सदा कुर्याद् ज्ञानध्याननिषेवणः || ३५-११ || कुलीनः पण्डितो मानी विवेकी सुस्थिराशयः | धौतीयोगं सदा कुर्यात्तदैव शुचिगो भवेत् || ३५-१२ || अनाचारेण हानिः स्यादिन्द्रियाणां बलेन च | महापातकमुख्यानां सङ्गदोषेण हानयः || ३५-१३ || सम्भवन्ति महादेव कालयोगं सुकर्म च | वृद्धो वा यौवनस्थो वा बालो वा जड एव च || ३५-१४ || करणाद्दीर्घजीवी स्यादमरो लोकवल्लभः | मन्त्रसिद्धिरष्टसिद्धिः स सिद्धीनामधीश्वरः || ३५-१५ || शनैः शनैः सदा कुर्यात् कालदोषविनाशनात् | हृदयग्रन्थिभेदेन सर्वावयववर्धनम् || ३५-१६ || तदा महाबलो ज्ञानी चारुवर्णो महाशयः | धौतीयोगोद्भवं कामं महामरणकारणम् || ३५-१७ || तस्य त्यागं यः करोति स नरो देवविक्रमः | श्वासं त्यक्त्वा स्तम्भनञ्च मनो दद्यान्महानिले || ३५-१८ || श्वासादीनाञ्च गणनमवश्यं भावयेद् गृहे | प्राणायामविधानेन सर्वकालं सुखी भवेत् || ३५-१९ || वायुपानं सदा कुर्यात् ध्यानं कुर्यात्सदैव हि | प्रत्याहारं सदा कुर्यात् मनोनिवेशनं सदा || ३५-२० || मानसादिप्रजाप्यञ्च सदा कुर्यान्मनोलयम् | धौतीयोगान्तरं हि नेउलीङ्कर्म चाचरेत् || ३५-२१ || नेउलीयोगमात्रेण आसने नेउलोपमः | नेउलीसाधनादेव चिरजीवी निरामयः || ३५-२२ || अन्तरात्मा सदा मौनी निर्मलात्मा सदा सुखी | सर्वदा समयानन्दः कारणानन्दविग्रहः || ३५-२३ || योगाभ्यासं सदा कुर्यात् कुण्डली साधनादिकम् | कृत्वा मन्त्री खेचरत्वं प्राप्नोति नात्र संशयः || ३५-२४ || तत्प्रकारं प्रवक्ष्यामि सावधानावधारय | भुक्त्वा मुद्गान्नपक्वञ्च बारैकं प्रतिपालयेत् || ३५-२५ || प्रपालयेत्सोदरञ्च कटिनासाविवजीतः | पुनः पुनश्चालनञ्च कुर्यात् स्वोदरमध्यकम् || ३५-२६ || कुलालचक्रवत् कुर्यात् भ्रामणञ्चोदरस्य च | सर्वाङ्गचालनादेव कुण्डलीचालनं भवेत् || ३५-२७ || चालनात् कुण्डलीदेव्याश्चैतन्या सा भवेत् प्रभो | एतस्यानन्तरं नाथ क्षालनं परिकीतीतम् || ३५-२८ || नाडीनां क्षालनादेव सर्वविद्यानिधिर्भवेत् | सर्वत्र जयमाप्नोति कालिकादर्शनं भवेत् || ३५-२९ || वायुसिद्धिर्भवेत्तस्य पञ्चभूतस्य सिद्धिभाक् | तस्य कीतीस्त्रिभुवने कामदेवबलोपमः || ३५-३० || सर्वत्रगामी स भवेदिन्द्रियाणां पतिर्भवेत् | मुण्डासनं हि सर्वत्र सर्वदा कारयेद् बुधः || ३५-३१ || ऊद्र्ध्वे मुण्डासनं कृत्वा अधोहस्ते जपं चरेत् | यदि त्रिदिनमाकर्तुं समर्थो मुण्डिकासनम् || ३५-३२ || तदा हि सर्वनाड्यश्च वशीभूता न संशयः | नाडीक्षालनयोगेन मोक्षदाता स्वय भवेत् || ३५-३३ || नाडीयोगेन सर्वार्थसिद्धिः स्यान्मुण्डिकासनात् | मुण्डासन यः करोति नेऊलि--सिद्धिगो यदि || ३५-३४ || नेऊलीसाधनगतो नेऊलीसाधनोत्तमः | तदा क्षालनयोगेन सिद्धिमाप्नोति साधकः || ३५-३५ || नेऊलीं यो न जानाति स कथं कर्त्तुमुत्तमः | स धीरो मानसचरो मतिमान् स जितेन्द्रियः || ३५-३६ || यो नेऊली योगसारं कर्त्तुमुत्तमपारगः | स चावश्य क्षालनञ्च कुर्यात् नाड्यादिशोधनात् || ३५-३७ || नेऊलीयोगमार्गेण नाडीक्षालनपारगः | भवत्येव महाकाल राजराजेश्वरो यथा || ३५-३८ || पृथिवीपालनरतो विग्रहस्ते प्रपालनम् | केवलं प्राणवायोश्च धारणात् क्षालनं भवेत् || ३५-३९ || विना क्षालनयोगेन देहशुद्धिर्नजायते | क्षालनं नाडिकादीनां कफपित्तमलादिकम् || ३५-४० || करोति यत्नतो योगी मुण्डासननिषेवणात् | वायुग्रहणमेवं हि नेऊलीवशकालके || ३५-४१ || न कुर्यात् केवलं नाथ अन्यकाले सदा चरेत् | यावन्नेऊलीं न जानाति तावत् वायुं न संपिबेत् || ३५-४२ || बहुतरं न सङग्राह्यं वायोरागमनादिकम् | केवलं श्वासगणनं यावन्नेऊली न सिद्ध्यति || ३५-४३ || पञ्चस्वरा प्रकथिता योगिनी सिद्धिदायिका | पञ्चस्वरसाधनादेव पञ्चवायुर्वशो भवेत् || ३५-४४ || प्रतापे सूर्यतुल्यः स्यात् शोकदोषापहारकः | सर्वयोगस्थिरतरं संप्राप्य योगिराड् भवेत् || ३५-४५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवभैरवी संवादे पञ्चस्वरयोगसाधनं नाम पञ्चत्रिंशः पटलः || ३५ || अथ षडस्त्रिंशः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि कुण्डलीचेतनादिकम् | सहस्रनामसकलं कुण्डलिन्याः प्रियं सुखम् || ३६-१ || अष्टोत्तरं महापुण्यं साक्षात् सिद्धिप्रदायकम् | तव प्रेमवशेनैव कथयामि शृणुष्व तत् || ३६-२ || विना यजनयोगेन विना ध्यानेन यत्फलम् | तत्फलं लभते सद्यो विद्यायाः सुकृपा भवेत् || ३६-३ || या विद्या भुवनेशानी त्रैलोक्यपरिपूजिता | सा देवी कुण्डली माता त्रैलोक्यं पाति सर्वदा || ३६-४ || तस्या नाम सहस्राणि अष्टोत्तरशतानि च | श्रवणात्पठनान्मन्त्री महाभक्तो भवेदिह || ३६-५ || एहिके स भवेन्नाथ जीवन्मुक्तो महाबली || ३६-६ || अस्य श्रीमन्महाकुण्डलीसाष्टोत्तरसहस्रनामस्तोत्रस्य ब्रह्मषीर्जगतीच्छन्दो भगवती श्रीमन्महाकुण्डलीदेवता सर्वयोगसमृद्धिसिद्ध्यर्थे विनियोगः || कुलेश्वरी कुलानन्दा कुलीना कुलकुण्डली | श्रीमन्महाकुण्डली च कुलकन्या कुलप्रिया || ३६-७ || कुलक्षेत्रस्थिता कौली कुलीनार्थप्रकाशिनी | कुलाख्या कुलमार्गस्था कुलशास्त्रार्थपातिनी || ३६-८ || कुलज्ञा कुलयोग्या च कुलपुष्पप्रकाशिनी कुलीना च कुलाध्यक्शा कुलचन्दनलेपिता || ३६-९ || कुलरूपा कुलोद्भूता कुलकुण्डलिवासिनी | कुलाभिन्ना कुलोत्पन्ना कुलाचारविनोदिनी || ३६-१० || कुलवृक्शसमुद्भूता कुलमाला कुलप्रभा | कुलज्ञा कुलमध्यस्था कुलकङ्कणशोभिता || ३६-११ || कुलोत्तरा कौलपूजा कुलालापा कुलक्रिया | कुलभेदा कुलप्राणा कुलदेवी कुलस्तुतिः || ३६-१२ || कौलिका कालिका काल्या कलिभिन्ना कलाकला | कलिकल्मषहन्त्री च कलिदोषविनाशिनी || ३६-१३ || कङ्काली केवलानन्दा कालज्ञा कालधारिणी | कौतुकी कौमुदी केका काका काकलयान्तरा || ३६-१४ || कोमलाङ्गी करालास्या कन्दपूज्या च कोमला | कैशोरी काकपुच्छस्था कम्बलासनवासिनी || ३६-१५ || कैकेयीपूजिता कोला कोलपुत्री कपिध्वजा | कमला कमलाक्शी च कम्बलाश्वतरप्रिया || ३६-१६ || कलिकाभङ्गदोषस्था कालज्ञा कालकुण्डली | काव्यदा कविता वाणी कालसन्दर्भभेदिनी || ३६-१७ || कुमारी करुणाकारा कुरुसैन्यविनाशिनी | कान्ता कुलगता कामा कामिनी कामनाशिनी || ३६-१८ || कामोद्भवा कामकन्या केवला कालघातिनी | कैलासशिखरारूढा कैलासपतिसेविता || ३६-१९ || कैलासनाथनमिता केयूरहारमण्डिता | कन्दर्पा कठिनानन्दा कुलगा कीचकृत्यहा || ३६-२० || कमलास्या कठोरा च कीटरूपा कटिस्थिता | कन्देश्वरी कन्दरूपा कोलिका कन्दवासिनी || ३६-२१ || कूटस्था कूटभक्शा च कालकूटविनाशिनी | कामाख्या कमला काम्या कामराजतनूद्भवा || ३६-२२ || कामरूपधरा कम्रा कमनीया कविप्रिया | कञ्जानना कञ्जहस्ता कञ्जपत्रायतेक्शणा || ३६-२३ || काकिनी कामरूपस्था कामरूपप्रकाशिनी | कोलाविध्वंसिनी कङ्का कलङ्कार्ककलङ्किनी || ३६-२४ || महाकुलनदी कर्णा कर्णकाण्डविमोहिनी | काण्डस्था काण्डकरुणा कर्मकस्था कुटुम्बिनी || ३६-२५ || कमलाभा भवा कल्ला करुणा करुणामयी | करुणेशी कराकर्त्री कर्तृहस्ता कलोदया || ३६-२६ || कारुण्यसागरोद्भूता कारुण्यसिन्धुवासिनी | कात्तीकेशी कात्तीकस्था कात्तीकप्राणपालनी || ३६-२७ || करुणानिधिपूज्या च करणीया क्रिया कला | कल्पस्था कल्पनिलया कल्पातीता च कल्पिता || ३६-२८ || कुलया कुलविज्ञाना कषीणी कालरात्रिका | कैवल्यदा कोकरस्था कलमञ्जीररञ्जनी || ३६-२९ || कलयन्ती कालजिह्वा किङ्करासनकारिणी | कुमुदा कुशलानन्दा कौशल्याकाशवासिनी || ३६-३० || कसापहासहन्त्री च कैवल्यगुणसम्भवा | एकाकिनी अर्करूपा कुवला कर्कटस्थिता || ३६-३१ || कर्कोटका कोष्ठरूपा कूटवह्निकरस्थिता | कूजन्ती मधुरध्वानं कामयन्ती सुलक्शणम् || ३६-३२ || केतकी कुसुमानन्दा केतकीपुण्यमण्डिता | कर्पूरपूररुचिरा कर्पूरभक्शणप्रिया || ३६-३३ || कपालपात्रहस्ता च कपालचन्द्रधारिणी | कामधेनुस्वरूपा च कामधेनुः क्रियान्विता || ३६-३४ || कश्यपी काश्यपा कुन्ती केशान्ता केशमोहिनी | कालकर्त्री कूपकर्त्री कुलपा कामचारिणी || ३६-३५ || कुङ्कुमाभा कज्जलस्था कमिता कोपघातिनी | केलिस्था केलिकलिता कोपना कर्पटस्थिता || ३६-३६ || कलातीता कालविद्या कालात्मपुरुषोद्भवा | कष्टस्था कष्टकुष्ठस्था कुष्ठहा कष्टहा कुशा || ३६-३७ || कालिका स्फुटकर्त्री च काम्बोजा कामला कुला | कुशलाख्या काककुष्ठा कर्मस्था कूर्ममध्यगा || ३६-३८ || कुण्डलाकारचक्रस्था कुण्डगोलोद्भवा कफा | कपित्थाग्रवसाकाशा कपित्थरोधकारिणी || ३६-३९ || काहोड. काहड. काड. कङ्कला भाषकारिणी | कनका कनकाभा च कनकाद्रिनिवासिनी || ३६-४० || कार्पासयज्ञसूत्रस्था कूटब्रह्मार्थसाधिनी | कलञ्जभक्शिणी क्रूरा क्रोधपुञ्जा कपिस्थिता || ३६-४१ || कपाली साधनरता कनिष्ठाकाशवासिनी | कुञ्जरेशी कुञ्जरस्था कुञ्जरा कुञ्जरागतिः || ३६-४२ || कुञ्जस्था कुञ्जरमणी कुञ्जमन्दिरवासिनी | कुपिता कोपशून्या च कोपाकोपविवजीता || ३६-४३ || कपिञ्जलस्था कापिञ्जा कपिञ्जलतरूद्भवा कुन्तीप्रेमकथाविष्टा कुन्तीमानसपूजिता || ३६-४४ || कुन्तला कुन्तहस्ता च कुलकुन्तललोहिनी | कान्ताङ्घ्रसेविका कान्तकुशला कोशलावती || ३६-४५ || केशिहन्त्री ककुत्स्था च ककुत्स्थवनवासिनी | कैलासशिखरानन्दा कैलासगिरिपूजिता || ३६-४६ || कीलालनिर्मलाकारा(?) कीलालमुग्धकारिणी | कुतुना कुट्टही कुट्ठा कूटना मोदकारिणी || ३६-४७ || क्रौङ्कारी क्रौङ्करी काशी कुहुशब्दस्था किरातिनी | कूजन्ती सर्ववचनं कारयन्ती कृताकृतम् || ३६-४८ || कृपानिधिस्वरूपा च कृपासागरवासिनी | केवलानन्दनिरता केवलानन्दकारिणी || ३६-४९ || कृमिला कृमिदोषघ्नी कृपा कपटकुट्टिता | कृशाङ्गी क्रमभङ्गस्था किङ्करस्था कटस्थिता || ३६-५० || कामरूपा कान्तरता कामरूपस्य सिद्धिदा | कामरूपपीठदेवी कामरूपाङ्कुजा कुजा || ३६-५१ || कामरूपा कामविद्या कामरूपादिकालिका | कामरूपकला काम्या कामरूपकुलेश्वरी || ३६-५२ || कामरूपजनानन्दा कामरूपकुशाग्रधीः | कामरूपकराकाशा कामरूपतरुस्थिता || ३६-५३ || कामात्मजा कामकला कामरूपविहारिणी | कामशास्त्रार्थमध्यस्था कामरूपक्रियाकला || ३६-५४ || कामरूपमहाकाली कामरूपयशोमयी | कामरूपपरमानन्दा कामरूपादिकामिनी || ३६-५५ || कूलमूला कामरूपपद्ममध्यनिवासिनी | कृताञ्जलिप्रिया कृत्या कृत्यादेवीस्थिता कटा || ३६-५६ || कटका काटका कोटिकटिघण्टविनोदिनी | कटिस्थूलतरा काष्ठा कात्यायनसुसिद्धिदा || ३६-५७ || कात्यायनी काचलस्था कामचन्द्रानना कथा | काश्मीरदेशनिरता काश्मीरी कृषिकर्मजा || ३६-५८ || कृषिकर्मस्थिता कौर्मा कूर्मपृष्ठनिवासिनी | कालघण्टा नादरता कलमञ्जीरमोहिनी || ३६-५९ || कलयन्ती शत्रुवर्गान् क्रोधयन्ती गुणागुणम् कामयन्ती सर्वकामं काशयन्ती जगत्त्रयम् || ३६-६० || कौलकन्या कालकन्या कौलकालकुलेश्वरी कौलमन्दिरसंस्था च कुलधर्मविडम्बिनी || ३६-६१ || कुलधर्मरताकारा कुलधर्मविनाशिनी | कुलधर्मपण्डिता च कुलधर्मसमृद्धिदा || ३६-६२ || कौलभोगमोक्शदा च कौलभोगेन्द्रयोगिनी | कौलकर्मा नवकुला श्वेतचम्पकमालिनी || ३६-६३ || कुलपुष्पमाल्याकान्ता कुलपुष्पभवोद्भवा | कौलकोलाहलकरा कौलकर्मप्रिया परा || ३६-६४ || काशीस्थिता काशकन्या काशी चक्शुःप्रिया कुथा काष्ठासनप्रिया काका काकपक्शकपालिका || ३६-६५ || कपालरसभोज्या च कपालनवमालिनी | कपालस्था च कापाली कपालसिद्धिदायिनी || ३६-६६ || कपाला कुलकर्त्री च कपालशिखरस्थिता | कथना कृपणश्रीदा कृपी कृपणसेविता || ३६-६७ || कर्महन्त्री कर्मगता कर्माकर्मविवजीता | कर्मसिद्धिरता कामी कर्मज्ञाननिवासिनी || ३६-६८ || कर्मधर्मसुशीला च कर्मधर्मवशङ्करी | कनकाब्जसुनिर्माणमहासिंहासनस्थिता || ३६-६९ || कनकग्रन्थिमाल्याढ्या कनकग्रन्थिभेदिनी | कनकोद्भवकन्या च कनकाम्भोजवासिनी || ३६-७० || कालकूटादिकूटस्था किटिशब्दान्तरस्थिता | कङ्कपक्शिनादमुखा कामधेनूद्भवा कला || ३६-७१ || कङ्कणाभा धरा कर्द्दा कर्द्दमा कर्द्दमस्थिता | कर्द्दमस्थजलाच्छन्ना कर्द्दमस्थजनप्रिया || ३६-७२ || कमठस्था कार्मुकस्था कम्रस्था कंसनाशिनी | कंसप्रिया कंसहन्त्री कंसाज्ञानकरालिनी || ३६-७३ || काञ्चनाभा काञ्चनदा कामदा क्रमदा कदा | कान्तभिन्ना कान्तचिन्ता कमलासनवासिनी || ३६-७४ || कमलासनसिद्धिस्था कमलासनदेवता | कुत्सिता कुत्सितरता कुत्सा शापविवजीता || ३६-७५ || कुपुत्ररक्शिका कुल्ला कुपुत्रमानसापहा | कुजरक्शकरी कौजी कुब्जाख्या कुब्जविग्रहा || ३६-७६ || कुनखी कूपदीक्शुस्था कुकरी कुधनी कुदा | कुप्रिया कोकिलानन्दा कोकिला कामदायिनी || ३६-७७ || कुकामिना कुबुद्धिस्था कूर्पवाहन मोहिनी | कुलका कुललोकस्था कुशासनसुसिद्धिदा || ३६-७८ || कौशिकी देवता कस्या कन्नादनादसुप्रिया | कुसौष्ठवा कुमित्रस्था कुमित्रशत्रुघातिनी || ३६-७९ || कुज्ञाननिकरा कुस्था कुजिस्था कर्जदायिनी | ककर्जा कर्ज्जकरिणी कर्जवद्धविमोहिनी || ३६-८० || कर्जशोधनकर्त्री च कालास्त्रधारिणी सदा | कुगतिः कालसुगतिः कलिबुद्धिविनाशिनी || ३६-८१ || कलिकालफलोत्पन्ना कलिपावनकारिणी | कलिपापहरा काली कलिसिद्धिसुसूक्ष्मदा || ३६-८२ || कालिदासवाक्यगता कालिदाससुसिद्धिदा | कलिशिक्शा कालशिक्शा कन्दशिक्शापरायणा || ३६-८३ || कमनीयभावरता कमनीयसुभक्तिदा | करकाजनरूपा च कक्शावादकरा. करा || ३६-८४ || कञ्चुवर्णा काकवर्णा क्रोष्टुरूपा कषामला | क्रोष्ट्र्नादरता कीता कातरा कातरप्रिया || ३६-८५ || कातरस्था कातराज्ञा कातरानन्दकारिणी | काशमर्द्दतरूद्भूता काशमर्द्दविभक्शिणी || ३६-८६ || कष्टहानिः कष्टदात्री कष्टलोकविरक्तिदा | कायागता कायसिद्धिः कायानन्दप्रकाशिनी || ३६-८७ || कायगन्धहरा कुम्भा कायकुम्भा कठोरिणी | कठोरतरुसंस्था च कठोरलोकनाशिनी || ३६-८८ || कुमार्गस्थापिता कुप्रा कार्पासतरुसम्भवा | कार्पासवृक्शसूत्रस्था कुवर्गस्था करोत्तरा || ३६-८९ || कर्णाटकर्णसम्भूता कार्णाटी कर्णपूजिता | कर्णास्त्ररक्शिका कर्णा कर्णहा कर्णकुण्डला || ३६-९० || कुन्तलादेशनमिता कुटुम्बा कुम्भकारिका | कर्णासरासना कृष्टा कृष्णहस्ताम्बुजाजीता || ३६-९१ || कृष्णाङ्गी कृष्णदेहस्था कुदेशस्था कुमङ्गला | क्रूरकर्मस्थिता कोरा किरात कुलकामिनी || ३६-९२ || कालवारिप्रिया कामा काव्यवाक्यप्रिया क्रुधा | कञ्जलता कौमुदी च कुज्योत्स्ना कलनप्रिया || ३६-९३ || कलना सर्वभूतानां कपित्थवनवासिनी | कटुनिम्बस्थिता काख्या कवर्गाख्या कवगीका || ३६-९४ || किरातच्छेदिनी कार्या कार्याकार्यविवजीता | कात्यायनादिकल्पस्था कात्यायनसुखोदया || ३६-९५ || कुक्षेत्रस्था कुलाविघ्ना करणादिप्रवेशिनी | काङ्काली किङ्कला काला किलिता सर्वकामिनी || ३६-९६ || कीलितापेक्शिता कूटा कूटकुङ्कुमचचीता | कुङ्कुमागन्धनिलया कुटुम्बभवनस्थिता || ३६-९७ || कुकृपा करणानन्दा कवितारसमोहिनी | काव्यशास्त्रानन्दरता काव्यपूज्या कवीश्वरी || ३६-९८ || कटकादिहस्तिरथहयदुन्दुभिशब्दिनी | कितवा क्रूरधूर्तस्था केकाशब्दनिवासिनी || ३६-९९ || कें केवलाम्बिता केता केतकीपुष्पमोहिनी | कैं कैवल्यगुणोद्वास्या कैवल्यधनदायिनी || ३६-१०० || करी धनीन्द्रजननी काक्शताक्शकलङ्किनी | कुडुवान्ता कान्तिशान्ता कांक्शा पारमहंस्यगा || ३६-१०१ || कर्त्री चित्ता कान्तवित्ता कृषणा कृषिभोजिनी | कुङ्कुमाशक्तहृदया केयूरहारमालिनी || ३६-१०२ || कीश्वरी केशवा कुम्भा कैशोरजनपूजिता | कलिकामध्यनिरता कोकिलस्वरगामिनी || ३६-१०३ || कुरदेहहरा कुम्बा कुडुम्बा कुरभेदिनी | कुण्डलीश्वरसंवादा कुण्डलीश्वरमध्यगा || ३६-१०४ || कालसूक्ष्मा कालयज्ञा कालहारकरी कहा | कहलस्था कलहस्था कलहा कलहाङ्करी || ३६-१०५ || कुरङ्गी श्रीकुरङ्गस्था कोरङ्गी कुण्डलापहा | कुकलङ्की कृष्णबुद्धिः कृष्णा ध्याननिवासिनी || ३६-१०६ || कुतवा काष्ठवलता कृतार्थकरणी कुसी | कलनकस्था कस्वरस्था कलिका दोषभङ्गजा || ३६-१०७ || कुसुमाकारकमला कुसुमस्रग्विभूषणा | किञ्जल्का कैतवार्कशा कमनीयजलोदया || ३६-१०८ || ककारकूटसर्वाङ्गी ककाराम्बरमालिनी | कालभेदकरा काटा कर्पवासा ककुत्स्थला || ३६-१०९ || कुवासा कबरी कर्वा कूसवी कुरुपालनी | कुरुपृष्ठा कुरुश्रेष्ठा कुरूणां ज्ञाननाशिनी || ३६-११० || कुतूहलरता कान्ता कुव्याप्ता कष्टबन्धना | कषायणतरुस्था च कषायणरसोद्भवा || ३६-१११ || कतिविद्या कुष्ठदात्री कुष्ठिशोकविसर्जनी | काष्ठासनगता कार्याश्रया का श्रयकौलिका || ३६-११२ || कालिका कालिसन्त्रस्ता कौलिकध्यानवासिनी | कॢप्तस्था कॢप्तजननी कॢप्तच्छन्ना कलिध्वजा || ३६-११३ || केशवा केशवानन्दा केश्यादिदानवापहा | केशवाङ्गजकन्या च केशवाङ्गजमोहिनी || ३६-११४ || किशोरार्चनयोग्या च किशोरदेवदेवता | कान्तश्रीकरणी कुत्या कपटा प्रियघातिनी || ३६-११५ || कुकामजनिता कौञ्चा कौञ्चस्था कौञ्चवासिनी | कूपस्था कूपबुद्धिस्था कूपमाला मनोरमा || ३६-११६ || कूपपुष्पाश्रया कान्तिः क्रमदाक्रमदाक्रमा | कुविक्रमा कुक्रमस्था कुण्डलीकुण्डदेवता || ३६-११७ || कौण्डिल्यनगरोद्भूता कौण्डिल्यगोत्रपूजिता | कपिराजस्थिता कापी कपिबुद्धिबलोदया || ३६-११८ || कपिध्यानपरा मुख्या कुव्यवस्था कुसाक्शिदा | कुमध्यस्था कुकल्पा च कुलपङ्क्तिप्रकाशिनी || ३६-११९ || कुलभ्रमरदेहस्था कुलभ्रमरनादिनी | कुलासङ्गा कुलाक्शी च कुलमत्ता कुलानिला || ३६-१२० || कलिचिन्हा कालचिन्हा कण्ठचिन्हा कवीन्द्रजा | करीन्द्रा कमलेशश्रीः कोटिकन्दर्पदर्पहा || ३६-१२१ || कोटितेजोमयी कोट्या कोटीरपद्ममालिनी | कोटीरमोहिनी कोटिः कोटिकोटिविधूद्भवा || ३६-१२२ || कोटिसूर्यसमानास्या कोटिकालानलोपमा | कोटीरहारललिता कोटिपर्वतधारिणी || ३६-१२३ || कुचयुग्मधरा देवी कुचकामप्रकाशिनी | कुचानन्दा कुचाच्छन्ना कुचकाठिन्यकारिणी || ३६-१२४ || कुचयुग्ममोहनस्था कुचमायातुरा कुचा | कुचयौवनसम्मोहा कुचमर्द्दनसौख्यदा || ३६-१२५ || काचस्था काचदेहा च काचपूरनिवासिनी | काचग्रस्था काचवर्णा कीचकप्राणनाशिनी || ३६-१२६ || कमला लोचनप्रेमा कोमलाक्शी मनुप्रिया | कमलाक्शी कमलजा कमलास्या करालजा || ३६-१२७ || कमलाङ्घिरद्वया काम्या कराख्या करमालिनी | करपद्मधरा कन्दा कन्दबुद्धिप्रदायिनी || ३६-१२८ || कमलोद्भवपुत्री च कमला पुत्रकामिनी | किरन्ती किरणाच्छन्ना किरणप्राणवासिनी || ३६-१२९ || काव्यप्रदा काव्यचित्ता काव्यसारप्रकाशिनी | कलाम्बा कल्पजननी कल्पभेदासनस्थिता || ३६-१३० || कालेच्छा कालसारस्था कालमारणघातिनी | किरणक्रमदीपस्था कर्मस्था क्रमदीपिका || ३६-१३१ || काललक्ष्मीः कालचण्डा कुलचण्डेश्वरप्रिया | काकिनीशक्तिदेहस्था कितवा किन्तकारिणी || ३६-१३२ || करञ्चा कञ्चुका क्रौञ्चा काकचञ्चुपुटस्थिता | काकाख्या काकशब्दस्था कालाग्निदहनाथीका || ३६-१३३ || कुचक्शनिलया कुत्रा कुपुत्रा क्रतुरक्शिका | कनकप्रतिभाकारा करबन्धाकृतिस्थिता || ३६-१३४ || कृतिरूपा कृतिप्राणा कृतिक्रोधनिवारिणी | कुक्शिरक्शाकरा कुक्शा कुक्शिब्रह्माण्डधारिणी || ३६-१३५ || कुक्शिदेवस्थिता कुक्शिः क्रियादक्शा क्रियातुरा | क्रियानिष्ठा क्रियानन्दा क्रतुकर्मा क्रियाप्रिया || ३६-१३६ || कुशलासवसंशक्ता कुशारिप्राणवल्लभा | कुशारिवृक्शमदिरा काशीराजवशोद्यमा || ३६-१३७ || काशीराजगृहस्था च कर्णभ्रातृगृहस्थिता | कर्णाभरणभूषाढ्या कण्ठभूषा च कण्ठिका || ३६-१३८ || कण्ठस्थानगता कण्ठा कण्ठपद्मनिवासिनी | कण्ठप्रकाशकरिणी कण्ठमाणिक्यमालिनी || ३६-१३९ || कण्ठपद्मसिद्धिकरी कण्ठाकाशनिवासिनी कण्ठपद्मसाकिनीस्था कण्ठषोडशपत्रिका || ३६-१४० || कृष्णाजिनधरा विद्या कृष्णाजिनसुवाससी | कुतकस्था कुखेलस्था कुण्डवालङ्कृताकृता || ३६-१४१ || कलगीता कालघजा कलभङ्गपरायणा | कालीचन्द्रा कला काव्या कुचस्था कुचलप्रदा || ३६-१४२ || कुचौरघातिनी कच्छा कच्छादस्था कजातना | कञ्जाछदमुखी कञ्जा कञ्जतुण्डा कजीवली || ३६-१४३ || कामराभार्सुरवाद्यस्था कियधंकारनादिनी | कणादयज्ञसूत्रस्था कीलालयज्ञसञ्ज्ञका || ३६-१४४ || कटुहासा कपाटस्था कटधूमनिवासिनी | कटिनादघोरतरा कुट्टला पाटलिप्रिया || ३६-१४५ || कामचाराब्जनेत्रा च कामचोद्गारसंक्रमा | काष्ठपर्वतसंदाहा कुष्ठाकुष्ठ निवारिणी || ३६-१४६ || कहोडमन्त्रसिद्धस्था काहला डिण्डिमप्रिया | कुलडिण्डिमवाद्यस्था कामडामरसिद्धिदा || ३६-१४७ || कुलामरवध्यस्था कुलकेकानिनादिनी | कोजागरढोलनादा कास्यवीररणस्थिता || ३६-१४८ || कालादिकरणच्छिद्रा करुणानिधिवत्सला | क्रतुश्रीदा कृतार्थश्रीः कालतारा कुलोत्तरा || ३६-१४९ || कथापूज्या कथानन्दा कथना कथनप्रिया | कार्थचिन्ता कार्थविद्या काममिथ्यापवादिनी || ३६-१५० || कदम्बपुष्पसङ्काशा कदम्बपुष्पमालिनी | कादम्बरी पानतुष्टा कायदम्भा कदोद्यमा || ३६-१५१ || कुङ्कुलेपत्रमध्यस्था कुलाधारा धरप्रिया | कुलदेवशरीरार्धा कुलधामा कलाधरा || ३६-१५२ || कामरागा भूषणाढ्या कामिनीरगुणप्रिया | कुलीना नागहस्ता च कुलीननागवाहिनी || ३६-१५३ || कामपूरस्थिता कोपा कपाली बकुलोद्भवा | कारागारजनापाल्या कारागारप्रपालिनी || ३६-१५४ || क्रियाशक्तिः कालपङ्क्तिः कार्णपङ्क्तिः कफोदया | कामफुल्लारविन्दस्था कामरूपफलाफला || ३६-१५५ || कायफला कायफेणा कान्ता नाडीफलीश्वरा | कमफेरुगता गौरी कायवाणी कुवीरगा || ३६-१५६ || कबरीमणिबन्धस्था कावेरीतीर्थसङ्गमा | कामभीतिहरा कान्ता कामवाकुभ्रमातुरा || ३६-१५७ || कविभावहरा भामा कमनीयभयापहा | कामगर्भदेवमाता कामकल्पलतामरा || ३६-१५८ || कमठप्रियमांसादा कमठा मर्कटप्रिया | किमाकारा किमाधारा कुम्भकारमनस्थिता || ३६-१५९ || काम्ययज्ञस्थिता चण्डा काम्ययज्ञोपवीतिका | कामयागसिद्धिकरी काममैथुनयामिनी || ३६-१६० || कामाख्या यमलाशस्था कालयामा कुयोगिनी | कुरुयागहतायोग्या कुरुमांसविभक्शिणी || ३६-१६१ || कुरुरक्तप्रियाकारी किङ्करप्रियकारिणी | कर्त्रीश्वरी कारणात्मा कविभक्शा कविप्रिया || ३६-१६२ || कविशत्रुप्रष्ठलग्ना कैलासोपवनस्थिता | कलित्रिधा त्रिसिद्धिस्था कलित्रिदिनसिद्धिदा || ३६-१६३ || कलङ्करहिता काली कलिकल्मषकामदा | कुलपुष्परङ्ग सूत्रमणिग्रन्थिसुशोभना || ३६-१६४ || कम्बोजवङ्गदेशस्था कुलवासुकिरक्शिका | कुलशास्त्रक्रिया शान्तिः कुलशान्तिः कुलेश्वरी || ३६-१६५ || कुशलप्रतिभा काशी कुलषट्चक्रभेदिनी | कुलषट्पद्ममध्यस्था कुलषट्पद्मदीपिनी || ३६-१६६ || कृष्णमार्जारकोलस्था कृष्णमार्जारषष्ठिका | कुलमार्जारकुपिता कुलमार्जारषोडशी || ३६-१६७ || कालान्तकवलोत्पन्ना कपिलान्तकघातिनी | कलहासा कालहश्री कलहार्था कलामला || ३६-१६८ || कक्शपपक्शरक्शा च कुक्षेत्रपक्शसंक्शया | काक्शरक्शासाक्शिणी च महामोक्शप्रतिष्ठिता || ३६-१६९ || अर्ककोटिशतच्छाया आन्वीक्शिकिकराचीता | कावेरीतीरभूमिस्था आग्नेयार्कास्त्रधारिणी || ३६-१७० || इं किं श्रीं कामकमला पातु कैलासरक्षिणी | मम श्रीं ईं बीजरूपा पातु काली शिरस्थलम् || ३६-१७१ || उरुस्थलाब्जं सकलं तमोल्का पातु कालिका | ऊडुम्बन्यर्करमणी उष्ट्रेग्रा कुलमातृका || ३६-१७२ || कृतापेक्षा कृतिमती कुङ्कारी किंलिपिस्थिता | कुंदीर्घस्वरा कॢप्ता च कें कैलासकराचीका || ३६-१७३ || कैशोरी कैं करी कैं कें बीजाख्या नेत्रयुग्मकम् | कोमा मतङ्गयजिता कौशल्यादि कुमारिका || ३६-१७४ || पातु मे कर्णयुग्मन्तु क्रौं क्रौं जीवकरालिनी | गण्डयुग्मं सदा पातु कुण्डली अङ्कवासिनी || ३६-१७५ || अर्ककोटिशताभासा अक्षराक्षरमालिनी | आशुतोषकरी हस्ता कुलदेवी निरञ्जना || ३६-१७६ || पातु मे कुलपुष्पाढ्या पृष्ठदेशं सुकृत्तमा | कुमारी कामनापूर्णा पार्श्वदेशं सदावतु || ३६-१७७ || देवी कामाख्यका देवी पातु प्रत्यङ्गिरा कटिम् | कटिस्थदेवता पातु लिङ्गमूलं सदा मम || ३६-१७८ || गुह्यदेशं काकिनी मे लिङ्गाधः कुलसिंहिका | कुलनागेश्वरी पातु नितम्बदेशमुत्तमम् || ३६-१७९ || कङ्कालमालिनी देवी मे पातु चारुमूलकम् | जंघायुग्मं सदा पातु कीतीः चक्रापहारिणी || ३६-१८० || पादयुग्मं पाकसंस्था पाकशासनरक्षिका | कुलालचक्रभ्रमरा पातु पादाङ्गुलीर्मम || ३६-१८१ || नखाग्राणि दशविधा तथा हस्तद्वयस्य च | विंशरूपा कालनाक्षा सर्वदा परिरक्षतु || ३६-१८२ || कुलच्छत्राधाररूपा कुलमण्डलगोपिता | कुलकुण्डलिनी माता कुलपण्डितमण्डिता || ३६-१८३ || काकाननी काकतुण्डी काकायुः प्रखरार्कजा | काकज्वरा काकजिह्वा काकाजिज्ञा सनस्थिता || ३६-१८४ || कपिध्वजा कपिक्रोशा कपिबाला हिकस्वरा | कालकाञ्ची विंशतिस्था सदा विंशनखाग्रहम् || ३६-१८५ || पातु देवी कालरूपा कलिकालफलालया | वाते वा पर्वते वापि शून्यागारे चतुष्पथे || ३६-१८६ || कुलेन्द्रसमयाचारा कुलाचारजनप्रिया | कुलपर्वतसंस्था च कुलकैलासवासिनी || ३६-१८७ || महादावानले पातु कुमार्गे कुत्सितग्रहे | राज्ञोऽप्रिये राजवश्ये महाशत्रुविनाशने || ३६-१८८ || कलिकालमहालक्ष्मीः क्रियालक्ष्मीः कुलाम्बरा | कलीन्द्रकीलिता कीला कीलालस्वर्गवासिनी || ३६-१८९ || दशदिक्षु सदा पातु इन्द्रादिदशलोकपा | नवच्छिन्ने सदा पातु सूर्यादिकनवग्रहा || ३६-१९० || पातु मां कुलमांसाढ्या कुलपद्मनिवासिनी | कुलद्रव्यप्रिया मध्या षोडशी भुवनेश्वरी || ३६-१९१ || विद्यावादे विवादे च मत्तकाले महाभये | दुभीक्षादिभये चैव व्याधिसङ्करपीडिते || ३६-१९२ || कालीकुल्ला कपाली च कामाख्या कामचारिणी | सदा मां कुलसंसर्गे पातु कौले सुसङ्गता || ३६-१९३ || सर्वत्र सर्वदेशे च कुलरूपा सदावतु | इत्येतत् कथितं नाथ मातुः प्रसादहेतुना || ३६-१९४ || अष्टोत्तरशतं नाम सहस्रं कुण्डलीप्रियम् | कुलकुण्डलिनीदेव्याः सर्वमन्त्रसुसिद्धये || ३६-१९५ || सर्वदेवमनूनाञ्च चैतन्याय सुसिद्धये | अणिमाद्यष्टसिद्ध्यर्थं साधकानां हिताय च || ३६-१९६ || ब्राह्मणाय प्रदातव्यं कुलद्रव्यपराय च | अकुलीनेऽब्राह्मणे च न देयः कुण्डलीस्तवः | प्रवृत्ते कुण्डलीचक्रे सर्वे वर्णा द्विजातयः || ३६-१९७ || निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक्--पृथक् | कुलीनाय प्रदातव्यं साधकाय विशेषतः || ३६-१९८ || दानादेव हि सिद्धिः स्यान्ममाज्ञाबलहेतुना | मम क्रियायां यस्तिष्ठेत्स मे पुत्रो न संशयः || ३६-१९९ || स आयाति मम पदं जीवन्मुक्तः स वासवः | आसवेन समांसेन कुलवह्नौ महानिशि || ३६-२०० || नाम प्रत्येकमुच्चार्य जुहुयात् कायसिद्धये | पञ्चाचाररतो भूत्त्वा ऊद्र्ध्वरेता भवेद्यतिः || ३६-२०१ || संवत्सरान्मम स्थाने आयाति नात्र संशयः | एहिके कायसिद्धिः स्यात् दैहिके सर्वसिद्धिदः || ३६-२०२ || वशी भूत्त्वा त्रिमार्गस्थाः स्वर्गभूतलवासिनः | अस्य भृत्याः प्रभवन्ति इन्द्रादिलोकपालकाः || ३६-२०३ || स एव योगी परमो यस्यार्थेऽयं सुनिश्चलः | स एव खेचरो भक्तो नारदादिशुकोपमः || ३६-२०४ || यो लोकः प्रजपत्येवं स शिवो न च मानुषः | स समाधिगतो नित्यो ध्यानस्थो योगिवल्लभः || ३६-२०५ || चतुर्व्यूहगतो देवः सहसा नात्र संशयः | यः प्रधारयते भक्त्या कण्ठे वा मस्तके भुजे || ३६-२०६ || स भवेत् कालिकापुत्रो विद्यानाथः स्वयंभुवि | धनेशः पुत्रवान् योगी यतीशः सर्वगो भवेत् || ३६-२०७ || वामा वामकरे धृत्त्वा सर्वसिद्धीश्वरो भवेत् || ३६-२०८ || यदि पठति मनुष्यो मानुषी वा महत्या | सकलधनजनेशी पुत्रिणी जीववत्सा | कुलपतिरिह लोके स्वर्गमोक्षैकहेतुः स भवति भवनाथो योगिनीवल्लभेशः || ३६-२०९ || पठति य इह नित्यं भक्तिभावेन मर्त्यो हरणमपि करोति प्राणविप्राणयोगः | स्तवनपठनपुण्यं कोटिजन्माघनाश| कथितुमपि न शक्तोऽहं महामांसभक्षा || ३६-२१० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे महाकुलकुण्डलिनी अष्टोत्तरसहस्रनामस्तवकवचं नाम षट्त्रिंशत्तमः पटलः || ३६ || अथ सप्तत्रिंशः पटलः आनन्दभैरव उवाच श्रुतञ्च परमं ज्ञानं धर्माधर्मविवेचनम् | सर्ववेदान्तसारं च सारात्सारं परात्परम् || ३७-१ || कुण्डलीस्तवनं श्रुत्वा पूर्णोऽहं जगदीश्वरि | ईदानीं श्रोतुमिच्छामि स्वाधिष्ठानं प्रकाशकम् || ३७-२ || यदि मे सुकृपादृष्टिरानन्दघनसञ्चये वद श्रीकुण्डलीयोगं स्वाधिष्ठानविभेदनम् || ३७-३ || येन क्रमेण भेदं स्यात्तत्प्रकारं विनिर्णय | आनन्दभैरवी उवाच महाकाल महावीर आनन्दसागरपिरय || ३७-४ || योग्योऽसि योगमार्गाणामत एव प्रकथ्यते | येन क्रमेण चक्रस्य भेदः स्यादमरो भवेत् || ३७-५ || अमरो जितचित्तारिः क्रोधजित् प्रबलो बली | धर्माधर्मज्ञानवांश्च योगी भवति सज्जनः || ३७-६ || परकालदर्शी विज्ञः स्यात् क्रतुश्रद्धापरायणः | अहङ्कारविहीनो यः स योगी भवति ध्रुवम् || ३७-७ || महावीरसुसङ्गिनी च सङ्गदोषविवजीतः | महात्मापरमं ब्रह्मज्ञानी भवति योगिराट् || ३७-८ || विख्यातः सर्वदेशे च किन्तु स्वाश्रयवजीतः | बालको विक्रमी धन्वी धनुर्बाणधरोऽव्ययः || ३७-९ || स भवेत् योगमार्गेशो विवेकी पापवजीतः | अविद्याग्रन्थिनिश्चेष्टो विवेकधर्मचातकः || ३७-१० || चतुरो विषमज्ञानवजीतो यज्ञकृत् शुचिः | स भवेद् योगिनीपुत्रो योगानामधिपो भवेत् || ३७-११ || यदि योगस्थितो मन्त्री वायवीशक्तिनिर्भरः | स एव योगी षण्मासादिति मे तन्त्रनिर्णयः || ३७-१२ || यो मे तन्त्राणि जानाति सदर्थज्ञानजानि च | स एव चतुरो योगी मम भक्तो न संशयः || ३७-१३ || यदि वायुपानरतो मन्त्री भवति साधकः || ३७-१४ || अथ स्वाधिष्ठानं कुलवरगतं षड्दलगत| प्रभाकारं विष्णोरतिशयपदं कामनिलयम् | महायोगेन्द्राणां मनसि निलयं चारुकिरण| शरच्चन्द्रज्योत्स्नायुतमतिधनं भव्यविषयम् || ३७-१५ || सदाभावक्षेत्रे सकलसुधियो वेद ... ... यदामापक्षेमे सकलसुधियो वेदपथगाः | विचारं कुर्वन्ति क्षितिगतरताः श्रीप्रभृतयः | महाविष्णोः पीताम्बर नरपते श्यामलतनोः | ( प्रकाशस्यान्तःपटस्थ नटवरस्यातिनिलयम् ) | विटच्छायामध्ये निवसति यथा गोकुलकुले || ३७-१६ || हरिध्यानं कुर्यान्निरवधिमहानन्दरसिकः | स एवात्मा साक्षादिह नववरः षोडशयुवा महासर्पारिस्थं स्थितिकरणगं नागगमन| मुखं वंशीनादध्वनिगुणधरं भावयति कः || ३७-१७ || स एवात्मा नित्यो यतिरिह दले कोमलकुले | कुलागारे सारे सरसिजयुते षड्दलवरे | सुरानन्दश्रीदं दिवि दमनकर्त्तारममद| सुधाकान्तं कृष्णं परमपुरुषं भावयति कः || ३७-१८ || महाविद्यासिद्धं कुलपतिमनोमान्ययजित| मुकुन्दं श्रीकृष्णं रसदलगतं स्वागमगत| मुरारिं पापारिं नवयुवतिहृत्पद्मसुगत| हृषीकेशं विष्णुं विषयकरणं भावयति कः || ३७-१९ || स योगेन्द्रो ज्ञानी जयति सृकृतौ कौतुकवता| रमेशं श्रीकृष्णं रसविषहरं मानसचरम् | सरस्वत्या युक्तं कुलरसमयं मुक्तिजडित| भजेच्चैतन्यान्तं सुरगुरुवरं मोक्षमयते || ३७-२० || यतीन्द्रः सश्रीकः प्रचयति निजं भाव्यविषय| पुराणं योगीन्द्रं हरिमखिलपं कामनिलयम् | महासूक्ष्मं द्वारं कुलवधुरतं वामकिरण| विशालाक्षं कृष्णं निजरसकुले कान्तममरम् || ३७-२१ || कृपासाक्षीज्ञानं गुणगदितदेहं दाहरहित| महाशौलं सत्यं कुवलयकरिं हन्ति मरणम् | अघावीशं श्रीशं शशिमुखिकराम्भोजयजित| तमात्मानं कृष्णं निजकुलदले योऽपि भजति || ३७-२२ || महाशब्दोत्पन्नं प्रकृतिविकृतिं कारणकृति| कृपासिन्धुं कृष्णं कुलवधुशतामोदमिलितम् | जगन्नाथं स्तौति क्षितिपतिवशायोपकरण| विराटं ब्रह्माण्डं करणगमहाविष्णुमरणम् || ३७-२३ || विनोदं व्याकर्तुं त्रिभुवनपतिः श्रीपतिरहो | प्रचण्डे संसारे उदयति सदाभावसदने | महामेघश्यामस्त्रिफलकरुणासागरकुले | अमूल्ये सञ्चारे विषयरसनासञ्चय विषम् || ३७-२४ || स कृष्णः श्री विष्णुः प्रकृतिगदया हन्ति सतत| अतः कृष्णो ध्येयः सुरनरगणैः पञ्चसुमुखैः | कुलाम्भोजे षट्के मनरसदले ध्यानफलितः | किराती राकिण्या नयन कमलापानमधुरम् || ३७-२५ || धराधारं पूर्णं गगननिलयं कालपुरुष| मनोगम्यं रम्यं नव नयनलावण्यरसिकम् | सदा ध्यायेत् कृष्णं कुरुगणरिपुं यः कुलपतिः | निरालम्बः श्यामः प्रकृतियमुनातीरतरुगः || ३७-२६ || कुलीना गोपीभिः परिमिलितपार्श्वस्थलसुखः | प्रधानः क्षेत्रज्ञः क्षितिपतिकराम्भोजयजितः | प्रकाशात्मा नाथः प्रचयकरुणो ध्येय इरया | मनोधर्मं च्छत्रं त्रिविधगुणगानाश्रितकरम् || ३७-२७ || त्रिकाण्डस्थं खण्डोद्भववनरसं प्राणरसिक| यदा स्तौति प्रातः समयमफले चारुवरदम् | महामोक्षक्षेत्रं कुलवधुयुतं कृष्णपरम| गुणेशं राधेशं रजनिविधुनितं वेदनिलयम् || ३७-२८ || क्रियादक्षं सूक्ष्मं समयगुणयोगाङ्कजडित| त्रिकोणस्थं गङ्गाजलगलितसारं तारकतनुम् | महाकालानन्दं गगनघनवर्णं सजलक| प्रभावारं भावं तरुणनववपुः श्रीधरमलम् || ३७-२९ || वनोत्फुलाम्भोजा मनविरचना भालकलया | महाशोभारूपं कुलपुरुषगं व्याश्रयति यः | स योगी संसारे भवति रसनायोगनिरतः | मनो यो व्याधाय प्रचुरफलदं कृष्णमखिलम् || ३७-३० || महाज्ञानोत्साहं गतिगुणवहिः प्राणनिचय| जगत्तारं ब्रह्म निरवधिमहायोगकिरणम् | यदा लोकस्तौति प्रतिदिनमिहानन्दघटित| विकारं सर्वेषां ग्रहणनिलनं भास्करविधोः || ३७-३१ || महाराहुग्रासं शतशतमहापुण्यनिकरं | कुलानन्दं विष्णुं शशिशतघटारामकिरणम् | मनोगम्यं सूक्ष्मं त्रिगुणजडितं भावयति कः || ३७-३२ || कृष्णभक्तिं मुदा कृष्णं ध्यात्वा कृत्वा यतिर्भवेत् | श्रीकृष्णचरणाम्भोजे तस्य भक्तिर्न संशयः || ३७-३३ || कृष्णब्रह्म कृष्णब्रह्मा च त्रिध्यानपरायणः | स कृष्णस्तं जनं नीत्वा ददाति अपि शङ्कर || ३७-३४ || विना कृष्णपदाम्भोजं स्वाधिष्ठानं कुतो जयम् | कृष्णध्यानान्महापद्मभेदं प्राप्नोति शङ्कर || ३७-३५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानश्रीकृष्णराकिणीसाधनं नाम सप्तत्रिंशत्तमः पटलः || ३७ || अथाष्टात्रिंशः पटलः आनन्दभैरवी उवाच शृणु नाथ प्रवक्ष्यामि श्रीकृष्णसाधनोत्तमम् | येन क्रमेण भक्तिः स्यात्कालजालवशो भवेत् || ३८-१ || मम पादाम्बुजे भक्तिर्भवत्येव न संशयः | भक्तिमान् यः साधकेन्द्रो महाविष्णुं भजेद्यदि || ३८-२ || शिवतुल्यो भवेन्नाथ मम भक्तो महीतले || ३८-३ || श्रीकृष्णं जगदीश्वरं त्रिजगतामानन्दमोक्षात्मक| सम्पूर्णं त्रिगुणावृतं गुणधरं सत्त्वाधिदैवं परम् | लिङ्गाधः स्थितिराज्यपालपुरुषं पञ्चाननस्थायिन| श्रीविष्णुं शुभदं जनो यदि भजेल्लोकः सशक्तिं सुखी || ३८-४ || आदौ कामं त्रिसर्गं कुलवधुनियुतं कामबीजं त्रिसर्गं | श्रीकृष्णं वारयुग्मं प्रणययुगलकं चन्द्रिकाकाशयुक्तम् | ब्रह्मद्वन्द्वं भजामि प्रकृति पुरुषिकां काकिनीं तत्परे च | भूयो भूयो भजामि श्रवणगलयनं वह्निजायाविलग्नम् || ३८-५ || एतन्मन्त्रं जपित्वा प्रणवमिति नमोऽन्तं तथाद्ये मिलित्वा | भूयो भूयो नमोऽन्तं त्रिभुवनसहितं क्षोभयेत्तत् क्षणेन | राजश्रीस्तस्य शीर्षे निरवधि वसुधा मन्दिरे संस्थिरा स्यात् | कालच्छेदं प्रकृत्य प्रवसति सुमुखी ब्रह्मदण्डे च काले || ३८-६ || ततः प्राणे दैवनाथ मम सन्तोषवर्द्धन | इदानीं नरसिंहस्य मन्त्रं शृणु महाप्रभो || ३८-७ || कान्तबीजं समुद्धृत्य युगलं युगलं स्मृतम् | महानृसिंहमन्त्रेण पूजयामि नमो नमः || ३८-८ || स्वाधिष्ठाने महापद्मे मनोनिष्पापहेतुना | मनो विधाय यो योगी जपेन्मन्त्रं पुनः पुनः || ३८-९ || एतन्मन्त्रजपेनापि सिद्धो भवति साधकः | एतन्मन्त्रप्रभावेण भावसिद्धिं क्षणाल्लभेत् || ३८-१० || साधको यदि भूमिस्थः साधयेत्तु हरेर्मनुम् | रेणुसंख्या क्रमेणैव सिद्धिं प्राप्नोति वीर्यतः || ३८-११ || अथ वक्ष्ये महादेव सर्ववर्णसुसारकम् | वर्णमालास्वसंशक्तो जप्त्वा सिद्धिमवाप्नुयात् || ३८-१२ || सिद्धिमन्त्रं प्रार्थयते यदि मर्त्यो निराश्रयः | निर्जने संस्थिरो भूत्त्वा एकाकी दीपवजीतः || ३८-१३ || निःशङ्कं प्रजपेन्मन्त्रं स्वाधिष्ठानाब्जसङ्गते | वशीकृतं जगत्सर्वं येन तत्क्रममाशृणु || ३८-१४ || प्रणवं पूर्वमुच्चार्य नान्तबीजं तथोद्गरेत् | वह्निबीजसमालग्नमधोदन्तस्वरान्वितम् || ३८-१५ || नादबिन्दुसमायुक्तं पुनर्वारद्वयं वदेत् | नरसिंहाय शब्दान्ते पुनर्वारत्रयं वदेत् || ३८-१६ || देवीबीजं शक्तिबीजं स्वाहान्तं मनुमुद्गरेत् | एतन्मन्त्रप्रयोगेण कुण्डलीवशमानयेत् || ३८-१७ || स्वाधिष्ठाने स्थिरीभावं प्राप्नोति साधकाग्रणीः | सर्वेषां प्राणगो भूत्वा प्रबलोऽसौ महीतले || ३८-१८ || शीतं रौद्रं समं तस्य पापापापं जयाजयम् | धर्माधर्मः सदा ज्ञानं नित्यज्ञानं समाप्नुयात् || ३८-१९ || पुनः श्रीकृष्णमन्त्राश्च सर्वदेवनिषेवकाः | यज्ज्ञात्वा देवताः सर्वा सर्वदिङ्मुखपालकाः || ३८-२० || तत्प्रयोगं महादेव शृणु सिद्धेश्च लक्षणम् | विना कृष्णाश्रयेणापि ब्रह्मा तुष्टो न कुत्रचित् || ३८-२१ || न तुष्टा कुण्डली देवी पशुभावं विना प्रभो | पशुभावे ज्ञानसिद्धिर्वीरभावे हि मोक्षभाक् || ३८-२२ || दिव्यभावे समाधिस्थो जीवन्मुक्तः स उच्यते | कान्तबीजं समुद्धृत्य शक्रवामस्वरान्वितम् || ३८-२३ || नादबिन्दुसमाक्रान्तं कृष्णसम्बोधनं पदम् | पुनः पूर्वमनुं युक्ता त्र्यक्षरात्मा महामनुः || ३८-२४ || एतन्मन्त्रजपं कृत्वा योगी भवति योगिराट् | योगोऽयं परमाह्लादकारकोऽनन्तरूपकः || ३८-२५ || बहुभिः किं कथनीयं यः करोति फलं लभेत् | ध्यायेत् श्रीगोपिकानाथं राकिणीमण्डलेश्वरम् || ३८-२६ || जगतां सत्त्वनिलयं श्रीकृष्णं गोकुलेश्वरम् स्वाधिष्ठानस्थितं श्यामं यजेद् भुजचतुष्टयम् || ३८-२७ || शङ्खचक्रगदापद्म -- महाशोभामनोरमम् | सर्वविद्यागतं काम्यं श्रीगोविन्दं सुशीतलम् || ३८-२८ || महामोहहरं नाथं वनमालाविभूषितम् | कोटिकन्याकराम्भोजजयितं सर्वसङ्गतम् || ३८-२९ || किरीटिनं महावीरं बालेन्दुं चूडयान्वितम् | गुञ्जामाला शोभिताङ्गं श्रीनाथं परमेश्वरम् || ३८-३० || पीताम्बरं मन्दहास्यं षट्पद्मदलमध्यगम् | कामिनीप्राणनिलयं वसुदेवसुतं हरिम् || ३८-३१ || एवं ध्यात्वा षड्दले च सदा वक्षःस्थकौस्तुभम् | राजराजेश्वरं शौरिं भाव्यं श्रीवत्सलाञ्छनम् || ३८-३२ || स्वाधिष्ठानगतं ध्यायेन्मुरारिसिद्धिगो नरः | एवं ध्यात्वा पुरा ब्रह्मा नारायणगुणोदयः || ३८-३३ || मनः कल्पितद्रव्यैश्च पूजयेत्परमेश्वरम् | षड्दले च महापद्मे संध्यायेत् हरिमायजेत् || ३८-३४ || षोडशोपचारयुक्तैर्मानसक्षेत्रसम्भवैः | मनः कल्पितपीठे च स्थापयित्वा हरिं गुरुम् || ३८-३५ || योगेश्वरं कृष्णमीशं राधिकाराकिणीश्वरम् | एकान्तचित्ते चारोप्य कृष्णं पीठे प्रपूजयेत् || ३८-३६ || तत्र दलाष्टकं पद्मं तत्र षट्कोणकणीकम् | वेदद्वारोपशोभञ्च स्ंनिर्म्माय मनोहरम् || ३८-३७ || पुनः पुनर्यदा ध्यायेत् षड्दलेषु दलेष्टकम् | पञ्चोपचारैर्दशकैः श्रीविष्णुं परिपूजयेत् || ३८-३८ || गन्धादयो नैवेद्यान्ता पूजापञ्चोपचारिका आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् || ३८-३९ || मधुपर्काचमनस्नान--वसनाभरणानि च सुगन्धिसुमनो धूपदीपनैवेद्यवन्दनम् || ३८-४० || प्रयोजयेदर्चनायामुपचारांस्तु षोडश विष्णोराराधने कुर्यात् सर्वत्र विधिरेष यः || ३८-४१ || विधिः स्यात् कृष्णविश्वेश समुद्भूतस्य सत्पतेः | दशोपचारकथनं श्रूयतां वल्लभ प्रभो || ३८-४२ || पाद्यमर्घ्यं तथाचामं मधुपर्काचमनं तथा | गन्धादयो नैवेद्यान्ता उपचारा दशक्रमात् || ३८-४३ || विष्णुं सम्पूज्य धीमान् हविष्याशीजीतेन्द्रियः | सर्वदा परमानन्दः कालिकावशसेवकः || ३८-४४ || सर्वज्ञानधरो वीरो विवेकी सर्वदर्शकः | संभावयेत् स्वाधिष्ठाने निरन्तरं महाशुचिः || ३८-४५ || बालकक्रियया व्याप्तो भावज्ञानी निरामयः | स भवेत् कालिकापुत्रो यः कृष्णभावतत्परः || ३८-४६ || कृष्णं सञ्चिन्तयेन्मूलकमलोद्र्ध्वे कुलात्मकम् | स भवेत्कालिकापुत्रोऽष्टाङ्गसिद्धिगुणान्वितः || ३८-४७ || मानसैः पूजनं कृत्वा शङ्खस्थापनमाचरेत् | यत्कृत्वा मानसं योगं न कुर्याद्बहिरर्चनम् || ३८-४८ || मूलमन्त्रदेवतायाः साधने दैवतं यजेत् | देवस्य दक्षिणस्थांश्च पूर्वोपास्यसुसंस्थितान् || ३८-४९ || पूजयेद् गन्ध पुष्पाद्यैस्तुल्यमन्त्रेण मन्त्रवित् | ततः श्रीकृष्णपादाब्जं ध्यानं कुर्यान्मनोलयम् || ३८-५० || एवं क्रमेण तत्पद्मे स्थिरो भवति योगिराट् | यः करोति शुद्धभावं महामोहहरं हरिम् || ३८-५१ || स्थापयित्वा च षट्पद्मे महामोक्षमवाप्नुयात् | यः प्रधानगुणज्ञश्च स मे शास्त्रार्थमाश्रयेत् || ३८-५२ || इहकाले शत्रुलोके निवसत्येव योगिराट् | पादाम्भोजे मनो दद्यान्मखकिञ्जल्कचित्रिते || ३८-५३ || जङ्घायुगे चारुरामकदलीकाण्डमण्डिते | ऊरुद्वये मत्तगजकरदण्डसमप्रभे || ३८-५४ || गङ्गावर्तगभीरे तु नाभौ शुद्धविलेऽमले | उदरे वक्षसि तथा हरौ श्रीवत्सकौस्तुभे || ३८-५५ || पूर्णचन्द्रायुतपक्षे ललाटे चारुकुण्डले | शङ्खचक्रगदाम्भोजे दोर्दण्डोपरिमण्डिते || ३८-५६ || सहस्रादित्यसङ्काशे सकिरीटकुलद्वयम् | स्थानेष्वेषु यजेन्मन्त्री विशुद्धः शुद्धचेतसा || ३८-५७ || मनो निवेश्य कृष्णे वै तन्मयो भवति ध्रुवम् | यावन्मनोलयं याति कृष्णे स्वात्मनि चिन्मये || ३८-५८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे श्रीकृष्णस्वाधिष्ठानप्रवेशो नाम अष्टात्रिंशत्तमः पटलः || ३८ || अथैकोनचत्त्वारिंशः पटलः आनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं संसारसाधनोत्तमम् | येन साधनमात्रेण योगी भवति तत्क्षणात् || ३९-१ || अनायासेन सिद्धिः स्याद् यद्यन्मनसि वर्त्तते | त्रैलोक्यं मोहयेत्क्षिप्रं त्रैलोक्यं वशमानयेत् || ३९-२ || रामेण सहितं नित्यं जगतां साक्षिणं वरम् | जामदग्न्यकराम्भोजसेवितं सर्वसेवितम् || ३९-३ || अनन्तसत्त्वनिलयं वासुकी सङ्गमाकुलम् | अष्टहस्ताग्रसुश्रीदं नानालङ्कारशोभितम् || ३९-४ || स्वाधिष्ठानगतं ध्यात्वा शीतलो जायते वशी | तत्स्तोत्रं शृणु मे नाथ यत्पाठात् सिद्धिमाप्नुयात् || ३९-५ || ब्रह्मादयः सुराधीशा मुनयः क्रतुरक्षकाः | एतत् स्तोत्रं पुरा कृत्वा जीवन्मुक्तो महीतले || ३९-६ || अतः श्रीकालिकानाथ स्तोत्रं शृणु महत्फलम् || ३९-७ || श्रीविष्णोरद्भुतकर्मणो ब्रह्मषीस्त्रिष्टुप्छन्दः श्रीविष्णुः श्रीकृष्णः श्रीनारायणो देवता सर्वस्तोत्रसारकवचमन्त्रसिद्ध्यर्थे विनियोगः || श्री कृष्णं जगतामधीशमनघं ध्यानात्सिद्धिप्रद| गोविन्दं भवसिन्धुपारकरणं सन्तारणं कारणम् | श्री विष्णुं वनमालिनं नरहरिं नारायणं गोकुल| योगेन्द्रं नरनाथमादिपुरुषं वृन्दावने भावयेत् || ३९-८ || मोक्षश्रीसहितं कृतान्तविकृतं धर्मार्णवं सुन्दर| श्रीरामं बलरामभावविमलं नित्याकुलं सत्कुलम् | श्रीश्यामं कनकादिहारविलसत्लम्बोदरं श्रीधर| तं वन्दे हरिमीश्वरं गुणवतीमायाश्रयं स्वाश्रयम् || ३९-९ || वैकुण्ठेशमशेषदोषरहितं सायुज्यमोक्षात्मक| नानारत्नविनिमीता मम पूजा राजेन्द्रचूडामणिम् | शोभामण्डलमण्डितं सुरतरुच्छायाकरं योगिन| विद्यागोपसुतावृतं गुणमयं वाक्सिद्धये भावयेत् || ३९-१० || स्वाधिष्ठाननिकेतनं परजनं विद्याधनं मायिन| श्रीनाथं कुलयोगिनं त्रिभुवनोल्लासैकबीजं प्रभुम् | संसारोत्सवभावलाभनिरतं सर्वादिदेशं सुख| वन्देऽहं वरसर्पशत्रुसफले पृष्ठे स्थिरानन्ददम् || ३९-११ || भावाष्टं भवभावयोगजडितं जाड्यापहं भास्वर| नित्यं शुद्धगुणं गभीरधिषणामोदैकहेतुं पतिम् | कीतीक्षेमकरं महाभयहरं कामाधिदैवं शिव| तत्तत्षड्दलमध्यगेहरुचिरानन्दैकदेशास्पदम् || ३९-१२ || वन्दे श्रीपतिमच्युतं नरहरिं दैत्यारिशिक्ष्याकुल| गन्धर्वप्रभृतेः सुगायनरतं वंशीधरं भावदम् | रत्नानामधिपं गतिस्थमचलं गोवर्धनाधारण| विश्वामित्रतपोधनादि मुनिभिः संसेवितं तैजसम् || ३९-१३ || वन्दे गोविन्दपादाम्बुजमजमजितं राजितं भक्तिमार्गे | सत्त्वोत्पन्नं प्रभुत्वं परगणनमितं चारुमञ्जीरहारम् | हंसाकारं धवलगरुडानन्दपृष्ठे निमग्न| बन्धूकारक्तसारान्वितचरणतलं सर्वदाशान्तरालम् || ३९-१४ || राकिण्याः प्रेमसिद्धं नववयसिगतं गीतवाद्यादिराग| रागोत्पन्नं सुफलगुणदं गोकुलानन्दचन्द्रम् | वाणी--लक्ष्मी--पिरयं तं त्रिभुवनसुजनाह्लादकर्तारमाद्य| वन्दे सिद्धान्तसारं गतिनतिरहितं सारसङ्केतिताप्तम् || ३९-१५ || कामं कामात्मकं तं विधुगतशिरसं कृष्णसम्बोधनान्त| बीजं कामं पुनस्तत् पुरुषसुरतरुं भावयित्वा भजेऽहम् | श्रीकृष्णं कृष्णकृष्णं निरवधिसुखदं सुप्रकाशं प्रसन्न| स्वाधिष्ठानाख्यपद्मेमनसि गतो भवे सिद्धिस्थलस्थम् || ३९-१६ || आकाशे चारुपद्मे रसभयवलगं रक्तवर्णं प्रकाण्ड| आत्मारामं नरेन्द्रं सकलरतिकरं कंसहन्तारमादिम् | आद्यन्तस्थानहीनं विधिहरगमनं सेन्द्रनीलामलाभ| भावोत्साहं त्रिसर्गस्थितिपरममरं भावये भावसिद्ध्यै || ३९-१७ || सर्वेषां ज्ञानदानं रसदलकमले सर्वदा त्वं करोषि | आत्मानन्दं सुधादिपिरयधनगुणिनामेकयोगप्रधानम् | मायापूर्णः प्रचयनवरसः प्रीतिदेशः प्रभेकः | श्रीराजाख्यः प्रपूर्णः मयि धनरहिते दृष्टिपातं भवादौ || ३९-१८ || काली श्रीकुण्डलिन्याः परगृहनिरतं भावकब्रह्मरूपं मुक्तिच्छत्रं पुरेशं निजधनसुखं भार्यया क्रीडयन्तम् सभाक्षेत्रं नेत्रं नयमानमयमत्पुरसंस्थाभिषेकम् || ३९-१९ || ध्यात्वाऽहं प्रणमामि सूक्ष्मकमले लोकाधिपं व्याधिप| वैकुण्ठं कृष्णमीडे कुरुभवविभवक्षेमहन्तारमन्तम् | शान्तानां ज्ञानगम्यं स्वनयनकमले पालयन्तं त्रिमार्गं वज्रारिं पूतनारिं द्वयवकनरकध्वान्तसंहारसूरम् || ३९-२० || मान्यं लोकेषु सर्वेष्वतिशयमनसं केवलं निर्मलञ्च | ओङ्कारं कारणाख्यं सुगतिमतिमतां मातृकामन्त्रसिद्धम् | सिद्धानामादिसिद्धं सुररिपुशमनं कालरूपं रिपूणा| मूलोर्ध्वे षड्दलान्ते मनसि सुविमले पूरयित्वा मुकुन्दम् || ३९-२१ || नित्यं सम्भावयेऽहं निजतनुसमता सिद्धये पूजयामि त्वं साक्षादखिलेश्वरः पिरयकरः श्रीलोकहस्ताचीतः | क्षोणीशः प्रलयात्मकः प्रतिगुणी ज्ञानी त्वमेको महान् || ३९-२२ || यद्येवं मम पामरस्य कलुषं श्रीधर्महीनान्दित| कृत्वा पादतले यदीह नियतं व्यारक्ष रक्षात्मगम् | राधाकृष्णपदामलाम्बुजतलं चैतन्यमुक्त्याकुलं सर्वत्रादिगमागमं त्रिगमनं निर्वाणमोक्षाश्रयम् || ३९-२३ || बालं वैरिविनाशनं सुखमयं कैवल्यमोक्षास्पद| दैवं देवगणाचीतं रसदले चारोपयामि प्रभो | निर्द्दष्टं भुवनाश्रयं यतिपतिं निर्वाणमोक्षस्थितं निर्वाणादिकमोदने प्रचपलं श्रीचञ्चलासङ्कुलम् || ३९-२४ || वन्देऽहं परमेश्वरं सकलदैत्यानां बलप्राणह| हंसारूढनिरक्षणं क्षणगतं वाणीपतिं भूपतिम् | वाञ्छाकल्पलतापतिं कुलपतिं विद्यापतिं गोपतिम् || ३९-२५ || श्रीविद्यापतिमादिदेवपुरुषं विश्वेश्वरप्रेमग| श्रीकुम्भोद्भवकालसत्वनिकरं त्वां भास्करं भावये | सिद्धानामभिचिन्हयोगनिरतं रक्ष त्वमादौ हि माम् || ३९-२६ || प्रभो निःसङ्केतं गुणमणिमतं श्रेयसि मत| मतामन्तः सुस्थं विगलितमहाप्रेमसुरसम् | मुदा वन्दे कृष्णं हरकरतलाम्भोजयजितम् || ३९-२७ || प्रभापुञ्जं रामाश्रयपदमदं कामकुशल| महामन्त्रच्छायां रजनिमिलितं ध्वान्तजडितम् | त्रिकोणस्थं कुस्थं कुगतिसुगतिं कारणगति| प्रलीनं संस्थानं जगति जगतां धर्ममुदयम् || ३९-२८ || रमेशं वाणीशं विधिगतपदं शम्भुनिगत| त्रिकालं योगानां नयनकमलं शब्दनिरतम् | कुलानन्दं गोपीजनहृदयगं गोपियजितं विधानं त्वामिन्द्रं गुरुतरमुपेन्द्रं हरिरिपुम् || ३९-२९ || मुदा त्वां वन्देऽहं चपलं तां मे नवहवे | कुलालापश्रद्धामय मखिलसिद्धिप्रदमनम् | मलातीतं नीतं सुरनरसतां शास्त्रभवनम् || ३९-३० || विनोदं नारीणां हृदयरसिकं शोकरहितम् | विराजं यज्ञानां हितमतिगुणं यामि शरणम् || ३९-३१ || एतत्सम्बन्धमात्री मम कुलशिरसि स्थायिनं पातु नित्यं गोपीनां प्राणनाथः प्रतिदिनमनिशं भालदेशं प्रपायात् | भालाधोदेशसंस्थं समवतु सहसा राजराजेश्वरेशः | ( गोपान्वन्वो सुरेशः ? ) स्थित्यन्तेशस्त्रिनेत्रं सुखमखिलभवः कण्ठच्छत्राभिसंस्थम् || ३९-३२ || पृष्ठस्थं पातु शौरिः प्रतिदिनममरो लिङ्गबाह्यं कटिस्थं शम्भुप्रेमाभिलाषी मम तु कुलपदं गुह्यदेशं प्रपायात् आनन्दोद्रेककारी सकलतनुगतं पातु नित्यं मुरारिः | दैत्यारिश्चोरुमूलं नृहरिरवतु मे जङ्घया पादपद्मम् || ३९-३३ || एतत्स्तोत्रं पठेद्विद्वान् नियतो भक्तिमान् शुचिः | स्थिरो भवति मासेन षड्दले सर्वसिद्धिभाक् || ३९-३४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे श्रीकृष्णस्तवनकवचं नामैकोनचत्वारिंशत्तमः पटलः || ३९ || अथ चत्त्वारिंशः पटलः आनन्दभैरवी उवाच अथ नाथ प्रवक्ष्यामि शृणुष्वावहितो मम | येन क्रमेण लोकानां योगकार्यं दृढं भवेत् || ४०-१ || सर्वत्र भावग्रस्तः सः सिद्धो भवति भैरव | यो भवेद्भैरवो देवो भुवने सर्वगो हि सः || ४०-२ || क्रियादक्षो महावीरो वीरवल्लभभावकः | भावयित्वा वर्णमालां मध्ये जप्त्वा दिवानिशम् || ४०-३ || हविष्याशी प्राणवायुरतो वेदान्तपारगः | सिद्धान्तवेत्ता सर्वेषां शास्त्राणां निर्णयपिरयः || ४०-४ || गाथाज्ञानी परानन्दो विवेकी भावतत्परः | भाववेत्ता रहस्यार्थज्ञानी कोविदवेदवित् || ४०-५ || वाक्यसिद्धिज्ञानपरः सत्यवादी दृढासनः | भावयेत् षड्गतं वर्णं ध्यानं कुर्यात् पृथक् पृथक् || ४०-६ || षट्पद्मस्थो भावयेद्वै षड्वर्णं ध्यानपूर्वकम् | वादिलान्ताक्षरं ध्यायेन्महाविद्यानिषेवकः || ४०-७ || बकारं सौन्दर्यं स्वकिरणमयं भाव्यमतुल| मुकुन्दश्रीभक्तिपिरयरमणकं पूर्वदलगम् | विशिष्टज्ञानान्तं सुखरनतं कोटिकिरण| विभाव्य श्रीलक्ष्मीं गमयति झटित् कालपुरुषम् || ४०-८ || द्विवर्णं श्रीनाथं सुखयति भकारं रसदले | त्रिकोणापार्श्वस्थां चपलशकलं शम्भुनिलयम् | महारक्ताकारं तरुणविगतं भीममकुल| कुलागारस्थानं कुलरमणीरक्तायुतमिति || ४०-९ || यदा ध्यायेत् ज्ञानी निरवधि मुदा शोकविषह| त्रिलोकानां स्थानं भुवनशरणं प्रातविसुखी | महामोक्षद्वारे भवति स महान् सर्वजडितो | विलासी सर्वेषां नवनववधूनां पिरयपतिः || ४०-१० || महाकालस्थानं स जयति सकारं यदि भजे दरीणां व्याहस्ता रुधिरकिरणं कोट्यरुणकम् | महाकालस्थानं (.....) शरणं प्रागपि सुखी | त्रिकोणां दक्षाङ्गे निगमनयनो योगयजितः || ४०-११ || विनोदी सौख्यानां सुरतरुसमानो भुवि दिवि | यकारं यो ध्यायेदमरपदवीव्याधिरहितः | महावाणीनाथं प्रणयजडितं त्वक् सुरतरु| मुकुन्दानन्दान्तः पवनमिलितं कामकरणम् || ४०-१२ || तदा लोकोऽकामी भवति नितरां काकपवनी | महाग्नेः संस्थानं परजलधरं सूर्यशतकम् | यदानन्दैर्ध्यायेत् परमधनदं यज्ञसुधया | सुधापानज्ञानी हवनकरणं काम्यफलदम् | पिरयं तद्वेरत्याः कमलगभुजङ्गेश्वरनुत| त्रिकोणापृष्ठस्थं विधिहरिहरस्य पिरयमिति || ४०-१३ || विधानं वह्नीनां कुलविमलबीजं सकरुण| असृङ् मायाखण्डं खगगणमनोरञ्जनवरम् | यदि ध्यायेदेको विभवविविधं याति सहसा | महेन्द्रः स्थानाङ्गं कमलसुखदं कृष्णनिलयम् || ४०-१४ || पिरयं सिद्धक्षेत्रं यदि सुखमयं भावयति यः | लकारं चन्द्रस्थं विधुशतकरं बिन्दुनिलयम् | विशालाक्षी राधा मधुरवचनालापकलितं रमामोदे पत्रे तरणकरणं सापहरणम् || ४०-१५ || सुवामे राकिण्या नवरसमयं मोहहरण| विभाव्य श्रीनाथं भजति स नरो ध्याननिपुणो | महामोक्षं प्राप्य प्रथमरजसं सङ्गमयति || ४०-१६ || ततो ध्येया महाविद्या राकिणीशक्तिरुत्तमा | श्रीविष्णुसहिता नित्यं योगैर्भोगविवजीतः || ४०-१७ || अकलङ्की कुलानन्दो मन्दहास्यावृतो महान् | स योगी परमं राज्यं प्राप्नोति नात्र संशयः || ४०-१८ || यावन्मूलाधारयोगं तावद् यमादिकं प्रभो | यमनियमासने काले योगं पञ्चामरान्वितम् || ४०-१९ || तावत्कुर्यान्महादेव यावत्तत् सिद्धिमाप्नुयात् | यदि पञ्चामरा सिद्धिस्तदा मायादिसिद्धिभाक् || ४०-२० || पञ्चासवा सिद्धिकाले प्राणादिवायुपञ्चमम् | धृत्वा धृत्वा पुनर्धृत्वा कुम्भयेदनिशं शनैः || ४०-२१ || शरीरे निर्मले याते वायुनिर्मलता भवेत् | सर्वरूपी महावायुनीर्मलात्मानमात्मनि || ४०-२२ || सिद्धिं ददाति योगेश यदि स्वकार्यमाश्रयेत् || ४०-२३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे आनन्दभैरवी-- भैरवसंवादे षड्दलवर्णप्रकाशो नाम चत्वारिंशत्तमः पटलः || ४० || अथैकचत्त्वारिंशः पटलः आनन्दभैरवी उवाच कृतान्तसंहारविहारभोगं रसाप्लुतश्रीकर शङ्कर प्रभो | तवाज्ञयाऽहं कथयामि सिद्धये | मयागमानन्दवशाद्धि तन्त्रम् || ४१-१ || प्रेमाभिलाषी सुजनो मुनीन्द्रो | जानाति तन्त्रार्थमनन्तसाधनम् | महाप्रभाते चराणाब्जभक्तो | गोविन्दशम्भोर्यदि भक्तिभाजनः || ४१-२ || षड्चक्रभेदार्थविशेषसाधन| जानाति यो वा स जनोऽतिदुर्लभः | स एव संसारनिषेधसाधन| सदा विहायाचल भक्तिमाप्नुयात् || ४१-३ || आनन्दभैरव उवाच यदि वा कथिता कान्ते षड्दलप्रक्रिया शुभा | राकिण्या मिलनं देव्याः कुण्डलिन्याः पराक्रमम् || ४१-४ || सार्द्धं श्रीविष्णुना कालरूपिणा बहुरूपिणा | शुद्धनिर्मलतत्त्वेन परिवारगणैः सह || ४१-५ || न तद्धि कथितं सर्वं श्रीकृष्णस्य पराक्रमम् | स्तवनं देवराकिण्या सहितं कृष्णसाधनम् || ४१-६ || मङ्गलं परमं ब्रह्मसाधनं कुलवर्द्धनम् | कृष्णप्रकाशस्तवनं राकिणीशक्तिसंयुतम् || ४१-७ || कथयस्व महाकालि यदि स्नेहोऽस्ति मां प्रति | अत्यन्तगुह्यं कथनं सहस्रनाममङ्गलम् || ४१-८ || अष्टोत्तरं महाविष्णो राकिण्या सहितं पिरये | इदानीं राकिणीस्तोत्रं वद भामिनी कामदे || ४१-९ || आनन्दभैरवी उवाच योगेन्द्र परमानन्दसिन्धो श्रीचन्द्रशेखर | शृणुष्व राकिणीस्तोत्रं परमानन्दवर्धनम् || ४१-१० || सर्वत्र सुखदं प्रोक्तं सिद्धानामपि साधनम् | एतत् स्तवनपाठेन योगी योगेन्द्रभाक् भवेत् || ४१-११ || वैष्णवीसाधने यस्तु पञ्चाचारं करोति वा | सर्वेषां साधनोत्कृष्टं जातिभ्रष्टोऽपि नो भवेत् || ४१-१२ || समता शत्रुमित्रेषु कर्माकर्मसु तत्त्ववित् | यदि वा वैष्णवे नाथ समभावः प्रजायते || ४१-१३ || पञ्चाचारक्रमेणैव सिद्धो भवति नान्यथा | राधादिगोपिकाभिश्च गोपवृन्दैः समन्ततः || ४१-१४ || पञ्चाचारं मुदा कृत्वा सर्वेषां परिपालनम् | चकार कमलानाथोऽतः पञ्चाचारमाश्रयेत् || ४१-१५ || पञ्चाचारक्रमेणैव चैतन्या कुण्डली भवेत् | कृष्णचैतन्यहेतोश्च राकिण्याश्च तथा प्रभो || ४१-१६ || चैतन्याय षड्दलस्थदेव चैतन्यहेतुना | कुण्डलीवधुराकिण्याः स्तोत्रं शृणु कुलार्णव || ४१-१७ || आन्दोलिता रसनिधौ कुलचञ्चला या | मायामयो सकलदुःखविनाशवीरा | वीरासना स्थितिगता सुलभा मुनीना| भव्या प्रपातु भविका कुलराकिणी माम् || ४१-१८ || आनन्दसिन्धु जडिताखिलसारपाना बाला कुलीननमिता दलषट्कुलस्था | कालीकलामलगुणा धनिनां धनस्था | कृष्णेश्वरी समुदयं कुरु राकिणी मे || ४१-१९ || या राकिणी त्रिजगतामुदयाय चेष्टा | संज्ञामयी कुलवती कुलवल्लभस्था | विश्वेश्वरी स्मरहरपिरयकर्मनिष्ठा | कृष्णपिरया मम सुखं परिपातु देवी || ४१-२० || षड्वर्गनाथकरपद्मनिषेविता या | राधेश्वरी पिरयकरी सुरसुन्दरी सा | माता कुलेशजननी जगतां मनुस्था | विद्या परा रिपुहरावत मे शरीरम् || ४१-२१ || गोविन्दरामरमणी नवमालिनी या | राज्येश्वरी स्मरहरा नवकामिनी वा | मे षड्दलाश्रितसुरं परिपातु नित्य| श्रीकुण्डली सुविमला कुलराकिणी सा || ४१-२२ || श्रीसुन्दरी कुलपरा कुलवृन्दवन्द्या सन्ध्याविधि प्रभवतामतिकामतीर्था | श्रीदायिनी कुलगणामलभावदात्री | नित्यं प्रपातु विषयं कुलषड्दलानाम् || ४१-२३ || चैतन्यदाननिरतां त्रिगुणाभिरामा| श्यामां नितम्बधृतसुन्दररत्नघण्टाम् | नीलाचलस्थितकरां वरदानहस्ता| श्रीकृष्णवामकमलोपरि पूजयामि || ४१-२४ || तां राकिणीं त्रिरमणीं समलापहन्त्री| सर्वस्थितां गगनमातरमम्बुजस्थाम् | पद्मासनां श्रुतिभुजां गुरुजामनन्ता| शान्तां षडम्बुजदलोपरि पूजयामि || ४१-२५ || शान्तिं कृपाकपटकोपरि नाशमुक्ति| शिवां परमवैष्णवपूजिताङ्घ्रम् | राधां सुधां वरमयीं जगतां गुणस्था| धर्मार्णवां रसदले परिपूजयामि || ४१-२६ || कर्त्तीकरां सकरुणां रमणीं त्रिसर्गा | तां राकिणीमतिदयाममलार्थचिन्ताम् | भ्रान्तिं भ्रमागमवरां स्मृतिमादिपूज्या| भार्यां हरेरतिसुखां परिपूजयामि || ४१-२७ || या कातरं निरवधिप्रणयस्ववस्था वागीश्वरी भगवती यतिकोटिनम्रा | ताम्राकृतिप्रकृतिचेतसि रक्तवर्णा | मायामयी सुरकलावति पातु मेऽङ्गम् || ४१-२८ || कल्पद्रुमाशयलता फलरूपिणी या | भर्गस्थिता पुरुषकोटिमुनिस्तुवन्ती | सा मे कुलेश्वररसं हरिहस्तपूज्या | क्षान्तिः सदा मम धनं परिपातु राधा || ४१-२९ || क्षेमङ्करी वरकरी सुकरी हरिस्था | या सौकरी भवकरी त्रिपुरा महेशी | वायुस्थिता लयमयी स्थितिमार्गसङ्गा | भङ्गपिरया सकलका परिपातु राधा || ४१-३० || गङ्गा निर्मलभावदा ममशिरोदेशं सदा रक्षतु | श्रीराधा कुलराकिणी मम कपालोर्ध्व महावाक्पिरया | मन्त्रस्था जयदा मुदा कुमुदिनी भालं भ्रुवोरन्तर| विद्या वाग्भवकुण्डलीफलवलाबाला च नेत्रत्रयम् || ४१-३१ || गण्डं चण्डसरस्वती श्रुतिकुलं कैलासशैलस्थिता | मेधा टं घटवासिनी शशीमुखी सूक्ष्मातिसूक्ष्माशया | जिह्वाग्रं चिबुकं रदावधिवहा कण्ठं गलं स्कन्धगं स्कन्देशी दशनप्रभामलमति -- वैकुण्ठधामेश्वरी || ४१-३२ || नानावर्णविलासिनी मृदुरसं शम्भोर्भवानी शिवा | पृष्ठं कर्मसु पृष्ठगा गतिकरी नित्योल्बणी भास्वती | पार्श्वं मे कुलमालिनी मम कटिं लिङ्गं नितम्बाम्बर| कामाख्या धनदायिनी सकरुणा पादद्वयं पातु सा || ४१-३३ || मातृक्रोधनिवारिणी मम शिवं षट्पत्रशोभाकर| पातु श्रीचरुवासिनी कुलतरुं गौरी परानन्ददा | चैतन्यस्थलवासिनी मम गता गोविन्दमातृपिरया | चैतन्यं सततं प्रपातु धरणी धात्री वरक्षेत्रगा || ४१-३४ || धन्या पिङ्गललोचनाम्बुजमुखी चैतन्यकर्मपिरया | सर्वत्र पिरयमाकरोतु नियतं शक्तिः क्षमाकर्तृका | कीतीस्था मम कीतीचक्रनिलयं लाक्षारुणा बल्वरी | नीचा चक्रनिवासिनी मम जया जीवं मुदा पातु माम् || ४१-३५ || एतत्स्तोत्रं पठेन्नित्यं प्राणवायुवराशुभे | षट्चक्रभेदसमये सदा पाठ्यं सुयोगिभिः || ४१-३६ || कुलविन्याससमये कुलचक्रप्रवेशने | अवश्यं प्रपठेद्विद्वान् राकिणीराधिकास्तवम् || ४१-३७ || त्रिसन्ध्यं चेदमाकुर्यात् पठित्वा च पुनः पुनः | ध्यात्वा भावपरो भूत्वा मुच्यते भवबन्धनात् || ४१-३८ || अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी | पठनात् पामरो याति ब्रह्मलोकं कुलाधिप || ४१-३९ || एतत्पठनमात्रेण शीतलो गुणवान् भवेत् | अप्रकाश्यमिदं स्तोत्रं सर्वान्तकविनाशनम् || ४१-४० || समभावं समाकृत्य जीवन्मुक्तो भवेद्वशी | पञ्चाचाररतो भूत्वा साधयेद् यदि साधनम् || ४१-४१ || कुण्डलीयोगकाले च कुलाचारं न वर्जयेत् | कुलाचारवर्जनेन महाहानिः प्रजायते || ४१-४२ || ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव च | समभावं सदा कृत्वा कुलाचारं समाश्रयेत् || ४१-४३ || कुण्डली पृथिवी देवी राकिणी स्वारिदेवता | तद्गेहगामिनी देवी राधिका राज्यकामिनी || ४१-४४ || अस्याः साधनकाले च समयाचारमाश्रयेत् | समभावे महामोक्ष इति तन्त्रार्थनिर्णयः || ४१-४५ || समभावार्थकथनं त्यक्त्वा योगी भवेत्कृती || ४१-४६ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानराकिणी--स्तोत्रं नामैकचत्वारिंशत्तमः पटलः || ४१ || अथ द्विचत्त्वारिंशः पटलः आनन्दभैरवी उवाच कथयामि महाकाल परमाद्भुतसाधनम् | कुण्डलीरूपिणी देवी राकिण्याः कुलवल्लभ || ४२-१ || मानसं द्रव्यमानीय चाथवा बाह्यद्रव्यकम् | अनष्टहृष्टचित्तश्च पूजयेत् सावधानतः || ४२-२ || भक्त्या जपेन्मूलमन्त्रं मानसं सर्वमेव च | पूजयित्वा ततो जप्त्वा होमं कुर्यात् परामृतैः || ४२-३ || समासैः पक्वनैवेद्यैः सुगन्धिकुसुमैस्तथा | स्वयम्भूकुसुमैनीत्यमर्घ्यं कृत्त्वा निवेदयेत् || ४२-४ || सुमुखं पूजयेन्नित्यं मधुमांसेन शंकर | हुत्वा हुत्वा पुनर्हुत्वा प्राणवायवग्निसंगमैः || ४२-५ || भ्रामयित्त्वा मनो बाह्ये स्थापयित्त्वा पुनः पुनः | पुनरागम्यगमनं कारयित्त्वा सुमङ्गलम् || ४२-६ || वाचयित्त्वा सुवाणीभिर्याचयित्त्वा सवापिकम् | तर्पणं चाभिषेकञ्च केवलासवमिश्रितैः || ४२-७ || मांसैर्मुद्रादिभिर्मत्स्यैः सारद्रव्यैः सपिष्टकैः | घृतादिसुफलैर्वापि यद् यदायाति कौलिके || ४२-८ || अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी | तत्तद्द्रव्यैः साधकेन्द्रो नित्यं सन्तर्प्य संजपेत् || ४२-९ || एतन्मन्त्रं पाठित्त्वा च तर्पणञ्च समाचरेत् | तर्पणान्ते चाभिषेकं सदा कुर्याच्च तान्त्रिकः || ४२-१० || मूलान्ते चाभिषिञ्चामि नमः स्वाहा पदं ततः | ततो हि प्रणमेद्भक्त्या अष्टाङ्गनतिभिः प्रभो || ४२-११ || सहस्रनाम्ना स्तवनमष्टोत्तरसमन्वितम् | अर्धाङ्ग राकिणीयुक्तं राकिणीकेशवस्तवम् || ४२-१२ || शृणु तं सकलं नाथ यत्र श्रद्धा सदा तव | श्रवणार्थं बहूक्तं तत् कृपया ते वदाम्यह || ४२-१३ || एतत् श्रवणमात्रेण सर्वपापक्षयो भवेत् | राकिणीसङ्गमं नाथ स्तवनं नाम पावनम् || ४२-१४ || ये पठन्ति श्रद्धया चाश्रद्धया वा पुनः पुनः | तस्य सर्वः पापराशिः क्षयं याति क्षणादिह || ४२-१५ || काले काले महावीरो भवत्येव हि योगिराट् | संसारोत्तारणे युक्तो महाबलपराक्रमः || ४२-१६ || ओं श्रीकृष्णो महामाया यादवो देवराकिणी | गोविन्दो विश्वजननी महाविष्णुर्महेश्वरी || ४२-१७ || मुकुन्दो मालती माला विमला विमलाकृतिः | रमानाथो महादेवी महायोगी प्रभावती || ४२-१८ || वैकुण्ठो देवजननी दहनो दहनप्रिया | दैत्यारिर्दैत्यमथिनी मुनीशो मौनभाविता || ४२-१९ || नारायणो जयकला करुणो करुणामयी | हृषीकेशः कौशिकी च केशवः केशिघातिनी || ४२-२० || किशोरापि कैशोरी महाकाली महाकला | महायज्ञो यज्ञहर्त्री दक्षेशो दक्शकन्यका || ४२-२१ || महाबली महाबाला बालको देवबालिका | चक्रधारी चक्रकरा चक्राङ्गः चक्रमदीका || ४२-२२ || अमरो युवती भीमो भया देवो दिविस्थिता | श्रीकरो वेशदा वैद्यो गुणा योगी कुलस्थिता || ४२-२३ || समयज्ञो मानसज्ञा क्रियाविज्ञः क्रियान्विता | अक्शरो वनमाला च कालरूपी कुलाक्शरा || ४२-२४ || विशालाक्शो दीर्घनेत्रा जयदो जयवाहना | शान्तः शान्तिकरी श्यामो विमलश्याम विग्रहा || ४२-२५ || कमलेशो महालक्ष्मी सत्यः साध्वी शिशुः प्रभा | विद्युताकारवदनो विद्युत्पुञ्जनभोदया || ४२-२६ || राधेश्वरो राकिणी च कुलदेवः कुलामरा | दक्शिणो दक्शिणी श्रीदा क्रियादक्शो महालया || ४२-२७ || वशिष्ठगमनो विद्या विद्येशो वाक्सरस्वती | अतीन्द्रियो योगमाता रणेशी रणपण्डिता || ४२-२८ || कृतान्तको बालकृष्णा कमनीयः सुकामना | अनन्तो अनन्तगुणदा वाणीनाथो विलक्शणा || ४२-२९ || गोपालो गोपवनिता गोगोप कुलात्मजा | मौनी मौनकरोल्लासा मानवो मानवात्मजा || ४२-३० || सर्वाच्छिन्नो मोहिनी च मायी माया शरीरजा | अक्शुण्णो वज्रदेहस्था गरुडस्थो हि गारुडी || ४२-३१ || सत्यप्रिया रुक्मिणी च सत्यप्राणोऽमृतापहा | सत्यकर्मा सत्यभामा सत्यरूपी त्रिसत्यदा || ४२-३२ || शशीशो विधुवदना कृष्णवर्णो विशालधीः | त्रिविक्रमो विक्रमस्था स्थितिमार्गः स्थितिप्रिया || ४२-३३ || श्रीमाधवो माधवी च मधुहा मधुसूदनी | वैकुण्ठनाथो विकला विवेकस्थो विवेकिनी || ४२-३४ || विवादस्थो विवादेशी कुम्भकः कुम्भकारिका | सुधापानः सुधारूपा सुवेशो देवमोहिनी || ४२-३५ || प्रक्रियाधारको धन्या धन्यार्थो धन्यविग्रहा | धरणीशो महानन्ता सानन्तो नन्दनप्रिया || ४२-३६ || प्रियो विप्रियहरा च विप्रपूज्यो द्विजप्रिया | कान्तो विधुमुखी वेद्यो विद्या वागीश्वरोऽरुणा || ४२-३७ || अकामी कामरहिता कम्रो विलचरप्रिया | पुण्डरीको विकुण्डस्था वैकुण्ठो बालभाविनी || ४२-३८ || पद्मनेत्र पद्ममाला पद्महस्तोऽम्बुजानना | पद्मनाभिः पद्मनेत्रा पद्मस्थः पद्मवाहना || ४२-३९ || वासुदेवो बृहद्गर्भा महामानी महाञ्जना | कारुण्यो बालगर्भा च आकाशस्थो विभाण्डजा || ४२-४० || तेजोराशिस्तैजसी च भयाच्छन्नो भयप्रदा | उपेन्द्रो वर्णजालस्था स्वतन्त्रस्थो विमानगा || ४२-४१ || नगेन्द्रस्थो नागिनी च नगेशो नागनन्दिनी | सार्वभौमो महाकाली नगेन्द्रः नन्दिनीसुता || ४२-४२ || कामदेवाश्रयो माया मित्रस्थो मित्रवासना | मानभङ्गकरो रावा वारणारिप्रियः प्रिया || ४२-४३ || रिपुहा राकिणी माता सुमित्रो मित्ररक्शिका | कालान्त कलहा देवी पीतवासाम्बरप्रिया || ४२-४४ || पापहर्ता पापहन्त्री निष्पापः पापनाशिनी | परानन्दप्रियो मीना मीनरूपी मलापहा || ४२-४५ || इन्द्रनीलमणिश्यामो महेन्द्रो नीलरूपिणी | नीलकण्ठप्रियो दुर्गा दुर्गादुर्गतिनाशिनी || ४२-४६ || त्रिकोणमन्दिरश्रीदो विमाया मन्दिरस्थिता | मकरन्दरसोल्लासो मकरन्दरसप्रिया || ४२-४७ || दारुणारिनिहन्ता च दारुणारिविनाशिनी | कलिकालकुलाचारः कलिकालफलावहा || ४२-४८ || कालक्षेत्रस्थितो रौद्री व्रतस्थो व्रतधारिणी | विशालाक्शो विशालास्या चमत्कारो करोद्यमा || ४२-४९ || लकारस्थो लाकिनी च लाङ्गली लोलयान्विता | नाकस्थो नाकपदका नाकाक्शो नाकरक्शका || ४२-५० || कामगो नामसम्बन्धा सामवेदविशोधिका | सामवेदः सामसन्ध्या सामगो मांसभक्शिणी || ४२-५१ || सर्वभक्शो रात्रभक्शा रेतस्थो रेतपालिनी | रात्रिकारी महारात्रिः कालरात्रो महानिशा || ४२-५२ || नानादोषहरो मात्रा मारहन्ता सुरापहा | चन्दनाङ्गी नन्दपुत्री नन्दपालः विलोपिनी || ४२-५३ || मुद्राकारी महामुद्रा मुद्रितो मुद्रिता रतिः | शाक्तो लाक्शा वेदलाक्शी लोपामुद्रा नरोत्तमा || ४२-५४ || महाज्ञानधरोऽज्ञानी नीरा मानहरोऽमरा | सत्कीतीस्थो महाकीतीः कुलाख्यो कुलकीतीता || ४२-५५ || आशावासी वासना सा कुलवेत्ता सुगोपिता | अश्वत्थवृक्शनिलयो वृक्शसारनिवासिनी || ४२-५६ || नित्यवृक्शो नित्यलता कॢप्तः कॢप्तपदस्थितः | कल्पवृक्शो कल्पलता सुकालः कालभक्शिका || ४२-५७ || सर्वालङ्कारभूषाढ्यो सर्वालङ्कारभूषिता | अकलङ्की निराहारा दुनीरीक्ष्यो निरापदा || ४२-५८ || कामकर्ता कामकान्ता कामरूपी महाजवा | जयन्तो याजयन्ती च जयाख्य जयदायिनी || ४२-५९ || त्रिजीवनो जीवमाता कुशलाख्यो विसुन्दरा | केशधारी केशिनी च कामजो कामजाड्यदा || ४२-६० || किङ्करस्थो विकारस्था मानसंज्ञो मनीषिणी | मिथ्याहरो महामिथ्या मिथ्यासर्गो निराकृति || ४२-६१ || नागयज्ञोपवीतश्च नागमालाविभूषिता | नागाख्यो नागकुलपा नायको नायिका वधूः || ४२-६२ || नायकक्षेमदो नारी नरो नारायणप्रिया | किरातवर्णो रासज्ञी तारको गुणतारिका || ४२-६३ || शङ्कराख्योऽम्बुजाकारा कृपणः कृपणावती | देशगो देशसन्तोषा दर्शो दर्शनिवासिनी || ४२-६४ || दर्शनज्ञो दर्शनस्था दृग् दृदिक्शा सुरोऽसुराः | सुरपालो देवरक्शा त्रिरक्शो रक्शदेवता || ४२-६५ || श्रीरामसेवी सुखदा सुखदो व्यासवासिनी | वृन्दावनस्थो वृन्दा च वृन्दावन्यो महत्तनू || ४२-६६ || ब्रह्मरूपी त्रितारी च तारकाक्शो हि तारिणी | तन्त्रर्थज्ञः तन्त्रविद्या सुतन्त्रज्ञः सुतन्त्रिका || ४२-६७ || तृप्तः सुतृप्ता लोकानां तर्पणस्थो विलासिनी | मयूरा मन्दिररतो मथुरा मन्दिरेऽमला || ४२-६८ || मन्दिरो मन्दिरादेवी निर्मायी मायसंहरा | श्रीवत्सहृदयो वत्सा वत्सलो भक्तवत्सला || ४२-६९ || भक्तप्रियो भक्तगम्या भक्तो भक्तिः प्रभुः प्रभा | जरो जरा वरो रावा हविर्हेमा क्शमः क्शिति || ४२-७० || क्शोणीपो विजयोल्लासा विजयोजयरूपिणी | जयदाता दातृजाया बलिपो बलिपालिका || ४२-७१ || कृष्णमार्जाररूपी च कृष्णमार्जाररूपिणी | घोटकस्थो हयस्था च गजगो गजवाहना || ४२-७२ || गजेश्वरो गजाधारा गजो गर्जनतत्परा | गयासुरो गयादेवी गजदर्पो गजापीता || ४२-७३ || कामनाफलसिद्ध्यर्थी कामनाफलसिद्धिदा | धर्मदाता धर्मविद्या मोक्शदो मोक्शदायिनी || ४२-७४ || मोक्शाश्रयो मोक्शकर्त्री नन्दगोपाल ईश्वरी | श्रीपतिः श्रीमहाकाली किरणो वायुरूपिणी || ४२-७५ || वायवाहारी वायुनिष्ठा वायुबीजयशस्विनी | जेता जयन्ती यागस्थो यागविद्या शिवः शिवा || ४२-७६ || वासवो वासवस्थी च वासाख्यो धनविग्रहा | आखण्डलो विखण्डा च खण्डस्थो खण्डखञ्जनी || ४२-७७ || खड्गहस्तो बाणहस्ता बाणगो बाणवाहना | सिद्धान्तज्ञो ध्वान्तहन्त्री धनस्थो धान्यवद्धीनी || ४२-७८ || लोकानुरागो रागस्था स्थितः स्थापकभावना | स्थानभ्रष्टोऽपदस्था च शरच्चन्द्रनिभानना || ४२-७९ || चन्द्रोदयश्चन्द्रवर्णा चारुचन्द्रो रुचिस्थिता | रुचिकारी रुचिप्रीता रचनो रचनासना || ४२-८० || राजराजो राजकन्या भुवनो भुवनाश्रया | सर्वज्ञः सर्वतोभद्रा वाचालो लयधातिनी || ४२-८१ || लिङ्गरूपधरो लिङ्गा कलिङ्गः कालकेशरी | केवलानन्दरूपाख्यो निर्वाणमोक्शदायिनी || ४२-८२ || महामेघगाढ. महानन्दरूपा | महामेघजालो महाघोररूपा | महामेघमालः सदाकारपाला | महामेघमालामलालोलकाली || ४२-८३ || वियद्व्यापको व्यापिका सर्वदेहे महाशूरवीरो महाधर्मवीरा | महाकालरूपी महाचण्डरूपा | विवेकी मदैकी कुलेशः कुलेशी || ४२-८४ || सुमार्गी सुगीता शुचिस्वो विनिता | महार्को वितर्का सुतर्कोऽवितर्का | कृतीन्द्रो महेन्द्री भगो भाग्यचन्द्रा | चतुर्थो महार्था नगः कीतीचन्द्रा || ४२-८५ || विशिष्टो महेष्टिर्मनस्वी सुतुष्टि-- | र्महाषड्दलस्थो महासुप्रकाशा | गलच्चन्द्रधारामृतस्निग्धदेहो | गलत्कोटिसूर्यप्रकाशाभिलाषा || ४२-८६ || महाचण्डवेगो महाकुण्डवेगी | महारुण्डखण्डो महामुण्डखण्डा | कुलालभ्रमच्चक्रसारः प्रकारा | कुलालो मलाका रचक्रप्रसारी || ४२-८७ || कुलालक्रियावान् महाघोरखण्डः कुलालक्रमेण भ्रमज्ञानखण्डा | प्रतिष्ठः प्रतिष्ठा प्रतीक्शः प्रतीक्शा | महाख्यो महाख्या सुकालोऽतिदीक्शा || ४२-८८ || महापञ्चमाचारतुष्टः प्रचेष्टा | महापञ्चमा प्रेमहा कान्तचेष्टा | महामत्तवेशो महामङ्गलेशी | सुरेशः क्शपेशी वरो दीर्घवेशा || ४२-८९ || चरो बाह्यनिष्ठा चरश्चारुवर्णा | कुलाद्योऽकुलाद्या यतिर्यागवाद्या | कुलोकापहन्ता महामानहन्त्री | महाविष्णुयोगी महाविष्णुयोगा || ४२-९० || क्शितिक्शोभहन्ता क्शितिक्शुब्धबाधा | महार्घो महार्घा धनी राज्यकार्या | महारात्रि सान्द्रान्धकारप्रकाशो | महारात्रि सान्द्रान्धकारप्रवेशा || ४२-९१ || महाभीमगम्भीरशब्दप्रशब्दो | महाभीमगम्भीरशब्दापशब्दा | कुला ज्ञानदात्री यमो यामयात्रा | वशी सूक्ष्मवेशाश्वगो नाममात्रा || ४२-९२ || हिरण्याक्शहन्ता महाशत्रुहन्त्री | विनाशप्रियो बाणनाशप्रिया च | महाडाकिनीशो महाराकिणीशो | महाडाकिनी सा महाराकिणी सा || ४२-९३ || मुकुन्दो महेन्द्रो महाभद्रचन्द्रा | क्शितित्यागकर्ता महायोगकर्त्री | हितो मारहन्त्री महेशेश इन्द्रा | गतिक्शोभभावो महाभावपुञ्जा || ४२-९४ || शशीनां समूहो विधोः कोटिशक्तिः | कदम्बाश्रितो वारमुख्या सतीना| महोल्लासदाता महाकालमाता | स्वयं सर्वपुत्रः स्वयं लोकपुत्री || ४२-९५ || महापापहन्ता महाभावभर्त्री | हरिः कातीकी कातीको देवसेना | जयाप्तो विलिप्ता कुलाप्तो गणाप्ता | सुवीर्यो सभाषा क्शितीशोऽभियाता || ४२-९६ || भवान् भावलक्ष्मीः प्रियः प्रेमसूक्ष्मा | जनेशो धनेशी कृपो मानभङ्गा | कठोरोत्कटानां महाबुद्धिदाता | कृतिस्था गुणज्ञो गुणानन्दविज्ञा || ४२-९७ || महाकालपूज्यो महाकालपूज्या | खगाख्यो नगाख्या खरः खड्गहस्ता | अथर्वोऽथर्वान्दोलितस्थः महार्था | खगक्शोभनाशा हविः कूटहाला || ४२-९८ || महापद्म मालाधृतो गाणपत्या | गणस्थो गभीरा गुरुः ज्ञानगम्या | घटप्राणदाता घनाकाररूपा | भयार्थोङबीजाङवारीङकर्ता || ४२-९९ || भवो भावमाता नरो यामध्याता | चलान्तोऽचलाख्या चयोऽञ्जालिका च छलज्ञश्छलाढ्या छकारश्छकारा | जयो जीवनस्था जलेशो जलेशा || ४२-१०० || जपञ्जापकारी जगज्जीवनीशा जगत्प्राणनाथो जगद्ध्लादकारी | झरो झर्झरीशा झनत्कारशब्दो | झनञ्झञ्जनानादझङ्काररावा || ४२-१०१ || ञचैतन्यकारी ञकैवल्यनारी | हनोल्लासधारी टनत्टङ्कहस्ता | ठरेशो पविष्टश्ठकारादिकोटी | डरो डाकिनीशो डरेशो डमारा || ४२-१०२ || ढमेशो हि ढक्का वरस्थानबीजो | णवर्णा तमालतनुः स्थाननिष्ठा | थकारार्णमानस्थनिस्थोऽसंख्या | दयावान् दयार्द्रा धनेशो धनाढ्या || ४२-१०३ || नवीनो नगेभागतीर्णाङ्गहारो | नगेशी परः पारणी सादिपाला | फलात्मा फला फाल्गुनी फेणनाशः | फलाभूषणाढ्या वशी वासरम्या || ४२-१०४ || भगात्मा भवस्त्री महाबीजमानो | महाबीजमाला मुकुन्दः सुसूक्ष्मा | यतिस्था यशस्था रतानन्दकर्ता | रतिर्लाकिनीशो लयार्थ प्रचण्डा || ४२-१०५ || प्रवालाङ्गधारी प्रवालाङ्गमाला | हलोहालहेलापदः पादताला | वशीन्द्रः प्रकाशो वरस्थानवासा | शिवः श्रीधराङ्गः शलाका शिला च || ४२-१०६ || षडाधारवासी षडाधारविद्या | षडाम्भोजसंस्थः षडब्जोपविष्टा | सदा साधरोग्रोपविष्टाऽपरागी | सुसूक्तापयस्था पलाश्रयस्थिता || ४२-१०७ || हरस्थोग्रकर्मा हरानन्दधारा लघुस्थो | लिपिस्था क्शयीक्शुब्धक संख्या | अनन्तो निर्वाणाहराकारबीजा | उरस्थोऽप्युरुस्था उरा ऊर्ध्वरूपा || ४२-१०८ || ऋचस्थो हि ॠगालसो दीर्घऌस्था | त्वमेको हि चैंबीजगुर्वी गुणस्था | सदौङ्कारवर्णा ह्सौंकारबीजा | असङ्कारचन्द्रो ह्युसः कारवीरा || ४२-१०९ || हरीन्द्रो हरीशा हरिः कृष्णरूपा | शिवो वेदभाषा च शौरिः प्रसङ्गा | गणाध्यक्शरूपी परानन्दभक्शा | परेशो गणेशी रसो वासपूज्या || ४२-११० || चकोरि कुलप्राणबुद्धिस्थितिस्था | स्वयं कामधेनुस्वरूपी विरूपा | श्रीहिरण्यप्रभः श्री हिरण्यप्रभाङ्गी | प्रभातार्कवर्णोऽरुणाकारणाङ्गी || ४२-१११ || विभा कोटिधारा धराधार कोषा | रणीशो प्रत्यादिकूटोऽधरो .. धारणा शौरिरार्या | महायज्ञसंस्थो महायज्ञनिष्ठा | सदाकर्मसङ्गः सदामङ्गरङ्गा || ४२-११२ || किरातीपति राकिणी कालपुत्री | शिलाकोट निर्माणदोहा विशाला | कलार्ककलस्थो कलाकिङ्किणीस्था | किशोरः किशोरी कुरुक्षेत्रकन्या || ४२-११३ || महालाङ्गलिश्री बलोद्धामकृष्णः | कुलालादिविद्याऽभयो भावशून्या | महालाकिनी काकिनी शाकिनीशो | महासुप्रकाशा परो हाकिनीशा || ४२-११४ || कुरुक्षेत्रवासी कुरुप्रेममूती | र्महाभूतिभोगी महायोगिनी च | कुलाङ्गारकारो कुलाङ्गीशकन्या | तृतीयस्तृतीयाऽद्वितीयोऽद्वितीया || ४२-११५ || महाकन्दवासी महानन्दकाशी | पुरग्रामवासी महापीठदेशा | जगन्नाथ वक्शः स्थलस्थो वरेण्या-- | च्युतानन्दकर्ता रसानन्दकर्त्री || ४२-११६ || जगद्दीपकलो जगद्दीपकाली | महाकामरूपी महाकामपीठा | महाकामपीठस्थिरो भूतशुद्धि -- | र्महाभूतशुद्धिः महाभूतसिद्धिः || ४२-११७ || प्रभान्तः प्रवीणा गुरुस्थो गिरिस्था | गलद्धारधारी महाभक्तवेषा | क्शणक्शुन्निवृत्तिनीवृत्तान्तरात्मा | सदन्तर्गतस्था लयस्थानगामी || ४२-११८ || लयानन्दकाम्या विसर्गाप्तवर्गो | विशालाक्शमार्गा कुलार्णः कुलार्णा | मनस्था मनःश्रीः भयानन्ददाता सदा | लाणगीता गजज्ञानदाता महामेरुपाया || ४२-११९ || तरोर्मूलवासी तरज्ञोपदर्शा सुरेशः | समेशः सुरेशा सुखी खड्गनिष्ठा | भयत्राणकर्ता भयज्ञानहन्त्री | जनानां मखस्थो मखानन्दभङ्गा || ४२-१२० || महासत्पथस्थो महासत्पथज्ञा | महाबिन्दुमानो महाबिन्दुमाना | खगेन्द्रोपविष्टो विसर्गान्तरस्था | विसर्गप्रविष्टो महाबिन्दुनादा || ४२-१२१ || सुधानन्दभक्तो विधानन्दमुक्तिः | शिवानन्दसुस्थो विनानन्दधात्री | महावाहनाह्लादकारी सुवाहा | सुरानन्दकारा गिरानन्दकारी || ४२-१२२ || हयानन्दकान्तिः मतङ्गस्थदेवो | मतङ्गाधिदेवी महामत्तरूपः | तदेको महाचक्रपाणिः प्रचण्डा-- | खिलापस्थलस्थोऽविहम्नीशपत्नी || ४२-१२३ || शिखानन्दकर्ता शिखासारवासी | सुशाकम्भरी क्रोष्टरी वेदवेदीसुगन्धा | युगो योगकन्या दवो दीर्घकन्या शरण्यः शरण्या | मुनिज्ञानगम्या सुधन्यः सुधन्या || ४२-१२४ || शशी वेदजन्या यमी यामवामा | ह्यकामो ह्यकामा सदा ग्रामकामा | धृतीशः धृतीशा सदा हाटकस्थाऽ-- | यनेशोऽयनेशी भकारो भगीरा || ४२-१२५ || चलत्खञ्जनस्थः खलत्खेलनस्था | विवाती किराती खिलाङ्गोऽखिलाङ्गी | बृहत्खेचरस्थो बृहत्खेचरी च | महानागराजो महानागमाला || ४२-१२६ || हकारार्द्धसंज्ञा वृतोहारमाला | महाकालनेमिप्रहा पार्वती च | तमिस्रा तमिस्रावृतो दुःखहत्या | विपन्नो विपन्ना गुणानन्दकन्या || ४२-१२७ || सदा दुःखहन्ता महादुःखहन्त्री | प्रभातार्क वर्णः प्रभातारुणश्रीः | महापर्वतप्रेमभावोपपन्नो | महादेवपत्नीशभावोपपन्ना || ४२-१२८ || महामोक्शनीलप्रिया भक्तिदाता | नयानन्द भक्तिप्रदा देवमाता || ४२-१२९ || इत्येतत्कथितं नाथ महास्तोत्रं मनोरम | सहस्रनामयोगाऽङ्गमष्टोत्तरसमन्वितमम् || ४२-१३० || यः पठेत् प्रातरुत्थाय शुचिर्वाशुचिमानसः | भक्त्या शान्तिमवाप्नोति अनायासेन योगिराट् || ४२-१३१ || प्रत्यहं ध्यानमाकृत्य त्रिसन्ध्यं यः पठेत् शुचिः | षण्मासात् परमो योगी सत्यं सत्यं सुरेश्वर || ४२-१३२ || अकालमृत्युहरणं सर्वव्याधिविनाशनम् | अपमृत्यवादिहरणं वारमेकं पठेद्यदि || ४२-१३३ || पठित्त्वा ये न गच्छन्ति विपत्काले महानिशि | अनायासेन ते यान्ति महाघोरे भयार्णवे || ४२-१३४ || अकाले यः पठेन्नित्यंं सुकालस्तत्क्षणाद्भवेत् | राजस्वहरणे चैव सुवृत्तिहरणादिके || ४२-१३५ || मासैकपठनादेव राजस्वं स लभेद् धुरवम् | विचरन्ति महावीराः स्वर्गे मर्त्ये रसातले || ४२-१३६ || गणेशतुल्यवलिनो महाक्रोधशरीरिणः | एतत्स्तोत्रप्रसादेन जीवन्मुक्तो महीतले || ४२-१३७ || महानामस्तोत्रसारं धर्माधर्मनिरूपणम् | अकस्मात् सिद्धिदं काम्यं काम्यं परमसिद्धिदम् || ४२-१३८ || महाकुलकुण्डलिन्याः भवान्याः साधने शुभे | अभेद्यभेदने चैव महापातकनाशने || ४२-१३९ || महाघोरतरे काले पठित्वा सिद्धिमाप्नुयात् | षट्चक्रस्तम्भनं नाथ प्रत्यहं यः करोति हि || ४२-१४० || मनोगतिस्तस्य हस्ते स शिवो न तु मानुषः | योगाभ्यासं यः करोति न स्तवः पठ्यते यदि || ४२-१४१ || योगभ्रष्टो भवेत् क्षिप्रं कुलाचारविलङ्घनात् | कुलीनाय प्रदातव्यं न खल्वकुलेश्वरम् || ४२-१४२ || कुलाचारं समाकृत्य ब्राह्मणाः क्षत्रियादयः | योगिनः प्रभवन्त्येव स्तोत्रपाठात् सदामराः || ४२-१४३ || आनन्दभैरव उवाच वद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् | महाविषं कालकूटं पीत्त्वा देवादिरक्षणात् || ४२-१४४ || कण्ठस्थाः देवताः सर्र्वा भस्मीभूताः सुसम्भृताः | महाविषज्वालया च मम देहस्थदेवताः || ४२-१४५ || कैवल्यनिरताः सर्वे प्रार्थयन्ति निरन्तरम् | षट्चक्रं कथयित्वा तु सन्तोष्ं मे कुरु प्रभो | षट्चक्रभेदकथनममृतश्रवणादिकम् || ४२-१४६ || कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे | अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् || ४२-१४७ || कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय | आनन्दभैरवी उवाच निगूढार्थ महाकाल कालेश जगदीश्वर || ४२-१४८ || भैरवानन्दनिलय कालकूटनिषेवण | इदानीं शृणु योगार्थ मयि संयोग एव च || ४२-१४९ || श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् | ममोद्भवः खेऽमले च सर्वाकारविवजीते || ४२-१५० || भूरमध्ये सर्वदेहे च स्थापयित्वा च मां नरः | भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् || ४२-१५१ || मम रूपं महाकाल सत्त्वरजस्तमः प्रियम् | केवलं रजोयोगेन शरीरं नापि तिष्ठति || ४२-१५२ || तथा केवलयोगेन तमसा नापि तिष्ठति | तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति | अतस्त्रिगुणयोगेन धारयामि नवाङ्गकम् || ४२-१५३ || शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः | आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च || ४२-१५४ || सर्वशेषे सत्त्वगुणं नरो योगीश्वरो भवेत् | गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्द्रियः || ४२-१५५ || शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् | सदा सत्त्वगुणाच्छन्नं पुरुषं काल एव च || ४२-१५६ || पश्यतीह न कदाचिज्जरामृत्युविवजीतम् | तं जनं परमं शान्तं निर्मलं द्वैतवजीतम् || ४२-१५७ || सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति | जले वा पर्वते वापि महारण्ये रणस्थले || ४२-१५८ || भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे | सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर || ४२-१५९ || महायोगं शृणु प्राणवल्लभ श्रीनिकेतन | योगार्थं परमं ब्रह्मयोगार्थ परन्तपः || ४२-१६० || ये जानन्ति महायोगं मिरयन्ते न च ते नराः | कृत्वा कृत्वा षड्दलस्य साधनं कृत्स्नसाधनम् || ४२-१६१ || ततः कुर्यान्मूलपद्मे कुण्डलीपरिचालनम् | मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् || ४२-१६२ || एकान्तनिर्मले देशे दुभीक्षादिविवजीते | वर्षमेकासने योगी योगमार्गपरो भवेत् || ४२-१६३ || पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा | महापद्मासनं कृत्वा तथा चासनमञ्जनम् || ४२-१६४ || तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च | योगाभ्यासे सदा कुर्यात् मन्त्रसिद्ध्यादिकर्मणि || ४२-१६५ || चक्रासनं सदा योगी योगसाधनकर्मणि | बद्धचक्रासनं नाम महाचक्रासनं तथा || ४२-१६६ || कृत्वा पुनः प्रकर्तव्यं बद्धयोगेश्वरासनम् | योगेश्वरासनं कृत्वा महायोगेश्वरासनम् || ४२-१६७ || वीरासनं ततः कुर्यात् महावीरासनं तथा | बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् || ४२-१६८ || ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् | महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् || ४२-१६९ || मयूरासनमेवं हि महामयूरमेव च | बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् || ४२-१७० || एतत् सर्वं प्रवक्तव्यं विचार्य सुमनःप्रिय | अभिषेकप्रकरणे आसनादिप्रकाशकम् || ४२-१७१ || कथितव्यं विशेषेण इदानीं शृणु षट्क्रमम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ४२-१७२ || ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः | एतेषां षड्गुणानन्दाः शक्तयः परदेवताः || ४२-१७३ || षट्चक्रभेदनरता महाविद्याधिदेवताः | एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् || ४२-१७४ || एतत्प्रकारकरणे यश्च प्रत्यहमादरात् | क्रियानिविष्टः सर्वत्र भावनाग्रहरूपधृक् || ४२-१७५ || स पश्यति जगन्नाथं कमलोपगतं हरिम् | आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली || ४२-१७६ || ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् | सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः || ४२-१७७ || शनैः शनैर्महाकाल कैलासदर्शनं भवेत् | क्रमेण सर्वसिद्धिः स्यात् अष्टाङ्गयोगसाधनात् || ४२-१७८ || अष्टाङ्गसाधने काले यद्यत् कर्मं करोति हि | तत्सर्वं परियत्नेन शृणु सादरपूर्वकम् | तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति || ४२-१७९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे द्विचत्त्वारिंशत्तमः पटलः || ४२ || अथ त्रिचत्त्वारिंशः पटलः आनन्दभैरवी उवाच अथ कामातुराणाञ्च कामनिर्मूलहेतुना | कथयामि महाकाल यत् कृत्वा कामिनीवशम् || ४३-१ || तत्प्रकारं प्रवक्ष्यामि योगसाधनहेतुना | हस्तासनं समाकृत्य ऊद्र्ध्वे पद्मासनं चरेत् || ४३-२ || शिरोमूले करद्वन्द्वं नियोज्य जपमाचरेत् | अल्पाल्पधारणं कुर्यात् श्वाससंख्यां समाचरेत् || ४३-३ || श्वाससंख्यां तदा कुर्याद् यदा कुम्भकसुस्थिरः | विना श्वाससंख्यां च कुतो योगिवरो वशी || ४३-४ || विना संख्याप्रयोगेण बिना कुयोगवारणात् | कदाचिन्न प्रकर्तव्यं संख्याकुम्भकवजीतः || ४३-५ || अल्पाल्पकुम्भकं कुर्यात् खेचरपिरयकर्मणि | सर्वकाले प्रकर्तव्यं सर्वकाले सुखी भवेत् || ४३-६ || आनन्दकल्पमाकृत्य विजयाद्यासवादिभिः | क्रमेण भेदनं कुर्यात् ततः साधकयोगिराट् || ४३-७ || योगिनामपरिच्छिन्नं भावं विद्युत्प्रभाकरम् | विद्युत्कोटिसमाभासं वारिधारासमाकुलम् || ४३-८ || यद्येवं सुतभावज्ञा विपाकेन पतन्ति ते | ते यान्ति परमं स्थानं ते यान्ति कोटिराज्यपाः || ४३-९ || ते भोगिनो योगिनश्च ते लोकपालकाः स्मृताः | ते महद्गुणसम्भोग्या मिरयन्ते न कदा कुतः || ४३-१० || ते भवन्ति महाश्रेष्ठास्ते भवन्ति सुधाकराः | ते भेदकरणे युक्तास्ते मनुष्या न देवताः || ४३-११ || ते सर्वे यान्ति सर्वत्र ते शिवास्ते च किङ्कराः | ते मे भक्ता महाकाल इति मे स्वागमोदयम् || ४३-१२ || ये भजन्ति तव पदाऽम्भोजं भावपरायणाः | ते ज्ञानिनो भवन्त्येव तेषां कालो वशो भवेत् || ४३-१३ || ये प्राणवायुसंयोगा ये प्राणपरिरक्षकाः | आत्महत्यां परीहाय ब्रह्मलोकं मुदान्विताः || ४३-१४ || यान्ति नाथ ध्यानपराः संसारार्थविवजीताः | अरण्यवासिनो ये च नारण्यवासिनो नराः || ४३-१५ || एकान्तनिर्जने देशे सर्वविघ्नविवजीते | षट्चक्रभेदमाकृत्य ते नराः फलभागिनः || ४३-१६ || महाकालफलं यस्तु सदेच्छति सतां गतिम् | स एव योगी भूमध्ये स्थित्वा सर्वत्रगो भवेत् || ४३-१७ || सर्वदेशे सदा पूज्यः सर्वेशो निर्मलोऽद्वयः | अनाद्यनन्तविभवः कालात्मा स भवेत् क्षणात् || ४३-१८ || एतेषां साधनं शीघ्रं सिद्धिविद्यासुकल्पनम् | एतद्रूपं निजं ध्यात्वा भेदं कृत्वा निजस्थलम् || ४३-१९ || मूलाधारं स्वाधिष्ठानं भेदज्ञानी विभेद्य च | कुर्यात् परमसन्दर्भं मणिपूरे विचक्षणः || ४३-२० || कृत्वा च दर्शनं विद्वान् श्रीकृष्णचरणाम्बुजम् | स्वाधिष्ठानादिदेवेन्द्रं शक्तियुक्तं निरञ्जनम् || ४३-२१ || राकिणीराधिका व्याप्तं त्रिलोकरक्षणं परम् | परमाकाशनिलयं त्रैगुण्यं वारिरूपिणम् || ४३-२२ || वाञ्छाकल्पतरोर्मूलवासिनं शिववैष्णवम् | विलोक्यानन्दहृदयोऽशङ्कः सर्वत्र दर्शकः || ४३-२३ || कृत्वा योगी सदाभ्यासी मणिपूरं विलोकयेत् | मणिपूरं महाचिन्हं सिद्धिक्षेत्रं सुधामयम् || ४३-२४ || हिरण्यकोटिदानेन गोकोटिदानहेतुना | कोटिब्राह्मणभोज्येन यत्फलं लभते नरः || ४३-२५ || तत्फलं लभते ध्यात्वा मणिपूरं मनोरमम् | मणिपूरं महास्थानं योगिनामप्यदर्शनम् || ४३-२६ || सूक्ष्मातिसूक्ष्मं परमं ज्ञानिनां ज्ञानगोचरम् | अप्रकाश्यं महागुह्यं योगयोगेन लभ्यते || ४३-२७ || आनन्दभैरव उवाच योगार्थं यत्र कमले कोटिविद्युत्समप्रभे | कोटिकालाग्निमिलिते कोटिचन्द्रविनिमीते || ४३-२८ || कोटिसूर्यादिकिरणे मनः केन विलीयते | सूचीरन्ध्रे यथा सूत्रं तदेव फलदं सुखम् || ४३-२९ || यन्न दृष्टं श्रुतं क्वापि ज्ञानं न तत्र सुन्दरि | तत्र केन प्रकारेण मनोनिवेशनं भवेत् || ४३-३० || यत्र न गमनं नॄणां तस्य देवस्य यत्फलम् | तत्फलं किं न जानाति अदृष्टे गमनं कुतः || ४३-३१ || कुतो राज्ञां नसम्पत्तिः कुतो वा स्वार्थदर्शनम् | कुतो वा जायते सिद्धिर्भेदने किं फलं भवेत् || ४३-३२ || तत्त्वं जानासि देवेशि तत्प्रकारं प्रकाशय | आनन्दभैरवी उवाच यदुक्तं तद्धि सकलं सफलं परमेश्वर || ४३-३३ || तत्र पूर्वं योगधर्मस्वाश्रयं शृणु तत्क्रमम् | पूर्वस्मरणमात्रेण जीवन्मुक्तो भविष्यसि || ४३-३४ || जीव एव महाभाग लोकानां मोक्षबन्धगः | स जीवो वायुरूपेण महाबलपराक्रमः || ४३-३५ || गच्छति प्रत्यहं नित्यं सर्वदा च पुनः पुनः | पुनरायाति धरणीं स्वभावेन निरन्तरम् || ४३-३६ || नानाभावपिरयः सोऽपि नानाकारनिरूपकः | नानाधर्मपिरयः शुद्धोऽशुद्धवेशधरो महान् || ४३-३७ || कन्दर्पनिलयो योगी स योगी परमार्थवित् | स ज्ञानी निरहङ्कारी सोऽहङ्कारी शरीरधृक् || ४३-३८ || सर्वगन्धपिरयोऽदृश्यो भावयेत्तां रहस्यवित् | स एव निष्कलः शुद्धः सदा ध्यानपरायणः || ४३-३९ || यदा चात्मनि ब्रह्माण्डे ब्रह्मणि त्वयि शङ्करे | तन्मयो विलयं याति तदा भावो महान् स्मृतः || ४३-४० || तद्भावः परमं ज्ञानं न कथ्यं विपरीतकम् | आधारं सुसुखं नित्यं स्वल्पकालविवजीतम् || ४३-४१ || अत्यन्तधर्म सन्धानं प्राप्य योगी भवेन्नरः | शनैः शनैः प्रगन्तव्यं तत्र तत्र सुदर्शनम् || ४३-४२ || तत्र तत्र महासिद्धो भूत्त्वा संसारपुत्रवान् | योगिनां बहुकालस्थं मृतानामल्पकालकम् || ४३-४३ || श्वासधारणमाकृत्य बहुकालं सुखी भवेत् | यथा बृहस्पतिः श्रीमान् यथा सूर्यो दिवाकरः || ४३-४४ || तथा प्रकाशमाकुर्यात् कोटिभिः स्तोत्रनामभिः | स्तुत्वा भूत्वा महाद्रव्यैस्तर्पयित्वा यथाक्रमम् || ४३-४५ || अभिषिक्तः पुनर्ध्यात्वा पूजयित्वा यथाविधि | मानसोपचारद्रव्यैः स्वधायुक्तैरथापि वा || ४३-४६ || परमानन्दितो भूत्त्वा भावयेत् पीठदेवताः | भावयित्वा ततो जप्त्वा धर्माधर्मौ विचिन्तयेत् || ४३-४७ || देवतायां मनो योज्य स्थापयित्वा स्वपीठके | पुनरुत्फुल्लकमलं मुद्रितं परिकारयेत् || ४३-४८ || षड्दलं र्मूच्छितं कृत्वा दलाग्रे संविशेत् सुधीः | सदानन्दः सर्वमयो वेदवेदान्तनामभिः || ४३-४९ || स्तवकोटिभिरेकत्र ध्यात्वा संहारमुद्रया | अधोमुखे दशदलकमलाग्रे नियोजयेत् || ४३-५० || षड्दलाग्रं महाकाल नियोज्य गमनं चरेत् | ततो गच्छेत् प्रज्वलिते पद्मे दशदले पुरे || ४३-५१ || प्रविश्य कणीकामध्ये तन्मयस्तत्क्षणाद् भवेत् | तत्क्षणात्तन्मयो भूत्वा कुण्डलीचक्रसंस्थितः || ४३-५२ || असाध्यसाधनं सर्वं मणिपूरस्थनिर्मलम् | मणिपूरे महापीठे ध्यानगम्ये सति प्रभो || ४३-५३ || मनोनिवेशनं कृत्वा नरो मुच्येत सङ्कटात् | मनोयोगी मनोभोगी मनोभक्तो मनोयुवा || ४३-५४ || मन एव मनुष्याणां कारणं त्राणमोक्षयोः | कारणं सर्वभावानां तद्भावं सन्त्यजेद् बुधः || ४३-५५ || सर्वभावं विहायापि महाभावं समाश्रयेत् | भावेन लभ्यते मोक्षो भावेन लभ्यते सुखम् || ४३-५६ || एतद्भावं सदा कुर्याद् भावाद् भवति योगिराट् | भावेन भक्तिमाप्नोति विषयाद् भावमाश्रयेत् || ४३-५७ || विषयं विकृतिग्राह्यं सुकृतिज्ञानवजीतम् | त्यक्त्वा दिव्यं महापीठं मणिपूरं समाश्रयेत् || ४३-८ || महायन्त्रे मनो दत्वा निर्माणं कारयेद् बुधः | मणिभिर्ग्रथनं कृत्वा नानामणिविभूषितम् || ४३-५० || सुपीठं कुलपीठे वा लिङ्गपीठमथापि वा | श्रीविद्यापीठमालिख्य विभाव्य च पुनः पुनः || ४३-६० || ततः प्रस्फुटिते पद्मे दलाग्रे षड्दलस्य च | स्थापयित्वा महाविष्णुं पूजयित्वा सुसंयतः || ४३-६१ || जप्त्वा च तन्मयो भूत्वा निधाय मणिपूरके | दृढाकारमूर्ध्वगतं षड्दलं परिरक्षयेत् || ४३-६२ || ततश्चोद्र्ध्वतरे स्थाने महोच्चोत्तरसुन्दरे | मनोनिवेशनं कृत्वा शक्तिं रुद्रं समाश्रयेत् || ४३-६३ || चैतन्यरूपिणीं शक्तिं चैतन्यं रुद्ररूपिणम् | तत्र भद्रात्मकं रौद्रं रौद्रीं प्रकाशकारिणीम् || ४३-६४ || भक्त्या पुनः पुनर्ध्यायेदूर्ध्वरेतास्तमीश्वरम् | प्रगच्छन्ति चोद्र्ध्वमार्गे ध्येया योगिभिरेव च || ४३-६५ || अहं देवी परानन्दा मणिपूरनिवासिनी | तथा श्रीलाकिनीशक्तिः श्रीरुद्रस्त्वं न संशयः || ४३-६६ || रुद्ररूपी महादेवो रुद्ररूपा सरस्वती | सर्वदा ऊद्र्ध्वगामी च सा शक्तिरूद्र्ध्वगामिनी || ४३-६७ || ऊद्र्ध्वमार्गं काशयन्तीं योगिनीं योगमातरम् | महारुद्रं तथा ध्यात्वा मणिपूरे सुनिर्मले || ४३-६८ || ऊद्र्ध्वमुखं समाकुर्याद् महापद्मं मनोरमम् | मणिपूरं महाकान्तं मणिकोटिसुनिर्मलम् || ४३-६९ || कोटिकोटिशरच्चन्द्र पूर्णज्योतिःसमाकरम् | ऊद्र्ध्वमुखं समाकुर्यात् स्वयंभावेन जायते || ४३-७० || यदि चोद्र्ध्वमुखं पद्मं यन्त्रमण्डलसंयुतम् | अतिकोमलपत्रेषु भाति चात्यद्भुतङ्करम् || ४३-७१ || लेपयित्वा योजयित्वा स्थापयित्वा पुनः पुनः | प्रापयित्वा महारुद्रं त्रैलोक्यजननीं शिवाम् || ४३-७२ || रुद्राणीं रौद्रशक्तिञ्च लाकिनीं लोकसाक्षिणीम् | कुम्भकं प्राणवायोश्च प्राणवायोश्च योजनम् || ४३-७३ || एकत्र मिलनं कृत्वा भावनं परिकारयेत् | भावेन लभ्यते मोक्षो भाव एव निजपिरयः || ४३-७४ || मनो निवेश्य तत्रस्थो रुद्राराधनमाचरेत् | तथा श्रीलाकिनीदेव्याः परमाद्भुतसाधनम् || ४३-७५ || शृणुष्व परमानन्द भैरव पिरयवल्लभ | ममोपदेशं सन्त्यज्य कोऽपि सिद्धो न सम्भवेत् || ४३-७६ || ममाज्ञाबलयोगेन सिद्धो भवति मानवः | मुक्तिमूलं महाभावं मुक्तिमूलं हि साधनम् || ४३-७७ || मुक्तिक्रमेण कालेन सिद्धो भवति साधकः | मम योगक्रमेणैव मम तन्त्रावलोकनात् || ४३-७८ || कोऽपि नाथ ब्रह्मयोगी भवत्येव न चाखिले | सर्वे च योगिनः शीघ्रं प्रभवन्ति न संशयः || ४३-७९ || स्फुटाकारदलं कृत्वा विन्यासं तत्र कारयेत् | महायोगिकुलन्यासं विद्यान्यासं समाचरेत् || ४३-८० || सर्वन्यासं निजन्यासं ज्ञानजालं समाचरेत् | मानसक्रियया व्याप्तं देहं मधुरसम्प्लुतम् || ४३-८१ || शिवरूपिणमात्मानं वैष्णवं ज्ञानचक्षुषम् | एकाकारं मूलमन्त्रध्यानं तत्र समाचरेत् || ४३-८२ || ध्यात्वा चार्घ्यं समाकुर्यात् कुलचक्रक्रमेण तु | आत्मानमपरिच्छिन्नं विचिन्त्य पुनरेव च || ४३-८३ || सन्ध्यायेन्निजचैतन्यदेवतां कुलदेवताम् | पाद्यार्ध्यादिक्रमेणैव पूजयित्वाऽप्यहनीशम् || ४३-८४ || परिवारांस्ततो ध्यात्वा तत्सर्वान् परिपूजयेत् | धूपदीपौ ततो दद्याद् निजपूजाविधानतः || ४३-८५ || प्राणायामं दीपनादौ कुर्यात् साधक एव च | भक्त्या ध्यात्वा मनुं जप्त्वा मणिपूरस्थदैवते || ४३-८६ || जपं समर्प्य विधिना प्राणायामं पुनस्त्रयम् | प्रणम्य स्तोत्रकवचैः स्वदेवीं हृदि चार्पयेत् || ४३-८७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरचक्रभेदप्रकारो नाम त्रिचत्वारिंशत्तमः पटलः || ४३ || अथ चतुश्चत्त्वारिंशः पटलः आनन्दभैरवी उवाच मणिपूरविभेदार्थं शृणु वक्ष्यामि तत्त्वतः | यं ज्ञात्वा मूढलोकाश्च प्रविशन्ति महाघटे || ४४-१ || अमूढत्वं प्राप्नुवन्ति भवन्ति योगिनोऽमराः | खेचरत्वं प्राप्नुवन्ति सांख्ययोगनिषेविणः || ४४-२ || महापातकमुख्यानां नाशं शीघ्रं महारिपुम् | कियत्कालेऽनले दोषे जले पर्वतकानने || ४४-३ || कुर्वन्ति च दिदृक्षूणां देवतावशमेव च | मणिपूरं महापीठं ध्यायेद् यः प्राणसंयमम् || ४४-४ || तथा पञ्चाऽऽसवासिद्धिं कृत्वा पूरं विभेदयेत् | त्रिलोक जननीं सत्यां शिवामाद्यां त्रियोगिनीम् || ४४-५ || मूलाधारात् समुत्पत्य गच्छन्ती रसषड्दले | प्रकाशं षड्दलं कृत्त्वा प्रगच्छन्ती प्रभान्विता || ४४-६ || मणिपूरे महाचक्रे त्रैलोक्यजपसाधने | सिद्धीनां निलये काम्ये कमनीये मनःपिरये || ४४-७ || मनः पिरया महादेवी सर्वोल्लासनकारिणी | खेचरी महदानन्दमण्डिता मन्त्रयोगिनी || ४४-८ || अनुग्रहकरी सिद्धा विभाव्या तत एव हि | आनन्दघन सन्दोहमात्मज्ञानं सुनिर्मलम् || ४४-९ || मणिपूरं संविभाव्य किन्न सिद्ध्यति भूतले | अणिमा लघिमा व्याप्तिर्महाश्रेष्ठादिसिद्धिभाक् || ४४-१० || कौलो वा वार मुख्यो वा ज्ञानी वा साधकोत्तमः | योगाभ्यासं यः करोति मणिपूरं समाश्रयेत् || ४४-११ || मणिपूरस्थितं देवं यः स्तौति नियतः शुचिः | स्तवराजस्य पाठेन प्रबुद्धा कुण्डली भवेत् || ४४-१२ || सा देवी परमा माया मणिपूरे स्थिता शिवा | प्रबुद्धां कास्यत्येव ततः सिद्धो भवेन्मनुः || ४४-१३ || सिद्धे मनौ पराप्राप्तिरिति मे तन्त्रनिर्णयः | यदि चैतन्यमिच्छन्ति कुण्डलिन्याः पराक्रमम् || ४४-१४ || जानाति निजदेहे च महोदयमनुत्तमम् | तेषां चैतन्यहेतोश्च देवतानां कुलेश्वर || ४४-१५ || महास्तोत्रं समाकुर्यात् प्रत्यहं सिद्धिहेतुना | सिद्धिकार्यं धर्मकार्यं मणिपूरे समाप्नुयात् || ४४-१६ || मणिपूरनिवासिन्याः भेदनं ज्ञानसाधनम् | सहस्रनामममलं सिद्धिद्रव्यनिरूपणम् || ४४-१७ || नित्यसिद्धिं काम्यसिद्धिं मणिपूरे समाश्रयेत् | प्राणबुद्ध्या स्वेष्टदेवीं पूजयेल्लाकिनीं पराम् || ४४-१८ || स्वदेवतां पूजयेद् वै मणिपूरे महालये | मणिपूरस्थितां रौद्रीं महाशक्तिं महोदयाम् || ४४-१९ || सर्वसञ्चारिणीं योग्यां महायोगिपिरयां पराम् | निजदेवीपदाम्भोज पूजावत् पूजनं चरेत् || ४४-२० || पूजां समाप्य विधिना स्तोत्रं देव्याः समाचरेत् | तत्प्राणवायुरूपेण सिद्धीनां नाशहेतवे || ४४-२१ || कृतं स्तोत्रं कोटिनाम ब्रह्मणा गुणकात्मना | तत्सर्वं प्रकरोष्येतत् प्रकारं ज्ञानशङ्कर || ४४-२२ || एतत्स्तोत्रप्रसादेन योगिनस्ते महौजसः | अहङ्कारघटी ज्ञानं महाव्याधिनिवारणम् || ४४-२३ || महास्तवनमेवं हि साक्षादानन्दवर्धनम् | नय भक्तिप्रदं शुद्धं शुद्धानामप्यगोचरम् || ४४-२४ || शिवां शक्यामाद्यां दशदलगतां रुद्रमहिषी| विशालाक्षीं सूक्ष्मां शशियुतजटाजूटमुकुटाम् | महाविद्युत्कोटिपिरयजडितपीठे त्रिनयना| महालाकिन्याख्यां दशदल कलां भावयति कः || ४४-२५ || मृणालान्तर्ध्वान्तः प्रकटतटसंहारसुभगा| कुलक्षेत्रोल्लासां चरमपददां दीपकलिकाम् | सदानन्दाकारां गतिगुणहरां चारुकिरणा| प्रभावर्णश्यामां रुचिरवदनां भावयति कः || ४४-२६ || प्रतीक्षानन्दाब्धि प्रकटचरणाम्भोजयुगला| वियद्वर्णां कान्तां सुरवरसुपूजाविधिरताम् | महासूक्ष्मद्वारप्रचलनकरीं भेदनकरी| दिवायोगाह्लादपिरयजनशिवां भावयति कः || ४४-२७ || अयोध्यापीठस्थामरुणकमनीं प्रेमगलिता| महारौद्रीं भीमां शतशतरविप्रेमनिकराम् | महादुःखार्तानां नयनशुभगां भावविरहा| सतीं सीतामिन्द्रोत्सवनवघटां भावयति कः || ४४-२८ || सुधाब्धेराह्लादप्रकरणसुरां सौरभकरा| क्रियारूपां योग्यां भुवमणिपूरप्रकृतिगाम् | गुरोः स्थानोद्योगां समनदहनां शीतलवरा| त्रितत्त्वां तत्त्वज्ञां स(श)मरहरशक्तिं भजति कः || ४४-२९ || विकाराकाराङ्गीं तरुणरविकोटिश्रियमिमा| कुलाधारां सारां परमरसधारां जयवराम् | कृपाच्छन्नाकामां परमरसभाण्डेषु शुभदा| भजेदिन्द्रां रुद्रां शशिमुखकराह्लादनिकराम् || ४४-३० || रसाब्धौ विश्रान्तिं कुपितजनशान्तिं सकरुणा| त्रिलोकज्ञानस्थां मदननिलयां योगनिकराम् | मणिद्वीपच्छायां दशदलकलां केवलभवा| भवानीं रुद्राणीं वरदमणिपूरे भजति कः || ४४-३१ || कृपाब्धौ किं किं किमनुगतसुतां मौलिनमिता| शिवाङ्कां मूलस्थां सकलमणिपूरस्थिरभवाम् | हिरण्याक्षीं तक्षां क्षयकरणरश्मिच्छविशता| विनोदीं पञ्चास्यपिरयगुणधरां भावयति कः || ४४-३२ || महापद्माख्यां सकलधनदानाकुलचला| चलानन्दोद्रेक--प्रचयरससिन्धूद्भवहृदि | हृदानन्दो ध्यायेत् सकलगुणदात्रीं सुखमयी| कलां सूक्ष्मात्यन्तां तिमिरदहनां कोटिधनदाम् || ४४-३३ || दशकं यः पठेन्नित्यं श्रीविद्यां सुखदायिनीम् | ध्यात्वा हृदयपद्माधो निर्मलात्मा सदा पठेत् || ४४-३४ || मणिपूरस्थितं देवं रुद्रं पश्यति योगिराट् | रुद्राणीसहितं शम्भुं दृष्ट्वा मुक्तो भवेत् क्षणात् || ४४-३५ || जीवन्मुक्तः स एवात्मा योगिनीवल्लभो भवेत् | योगात्मा परमात्मा च स हि साक्षादनीश्वरः || ४४-३६ || स भित्वा मणि पूराब्धिं निर्मलं ज्योतिरुज्ज्वलम् | शम्भोरीश्वरयोगज्ञक्रियानाथस्य श्रीपतेः || ४४-३७ || निकटे याति देव्याश्च स्थाने योगी न संशयः || ४४-३८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे मणिपूरभेदने भैरवीभैरवसंवादे त्रितत्त्वलाकिनीशक्तिस्तवनं नाम चतुश्चत्त्वारिंशत्तमः पटलः || ४४ || अथ पञ्चचत्त्वारिंशः पटलः आनन्दभैरवी उवाच अथ कालक्रमं वक्ष्ये यत्काले योगिराड् भवेत् | तत्कालं प्राणवायूनां निलयं सूक्ष्मसञ्चयम् || ४५-१ || पुनः पुनः सञ्चयने दृढो भवति संवशी | क्रियायां सञ्चरन्त्येव योगिन्यो योगमातरः || ४५-२ || यत्काले यत्प्रकर्त्तव्यं भानुरूप्यकुलार्णव | काले काले वशो याति परमात्मा निरामयः || ४५-३ || विना प्रयोगसारेण विना जाप्येन शङ्कर | कः सिद्धो जायते ज्ञानी योगी भवति कुत्र वा || ४५-४ || अभ्यासमन्त्रयोगेन शनैर्योगी भवेन्नरः | प्रभाते ज्ञानशौचञ्च कुण्डलीभावनादिकम् || ४५-५ || तन्मध्ये चापि संस्कुर्याद् योगं पञ्चामरादिकम् | ततो मन्त्रस्नानकार्यं मस्तके जलसेचनम् || ४५-६ || सन्ध्यावन्दन कार्यञ्च ततः कुर्यात् पृथक् पृथक् | तत उत्थाय सद्भूमौ शुद्धकोमलजासने || ४५-७ || उपविश्य सदाभ्यासी शुद्धकायासनञ्चरेत् | तत्कार्यसमये नाथ ध्यानं चैतन्यमेव च || ४५-८ || कुण्डलिन्याः सदा कुर्यात् तन्मध्ये जपमेव च | आसनं सुन्दरं कुर्यात् सव्यापसव्यभेदतः || ४५-९ || आसनादिकमाकृत्य शेषे सुस्थासनं चरेत् | सुस्थासनं समाकृत्य चोर्ध्वपद्मासनं चरेत् || ४५-१० || मस्तकाधः केशमध्ये हस्तौ दत्त्वा मनुं जपेत् | चतुरशीतित्रिगुणमासनं भञ्जनं तथा || ४५-११ || प्रत्यासनं क्रमेणैव एतेषां द्विगुणं पुनः | एतेषामासनादीनां वक्तव्या सङ्ख्यका पुनः || ४५-१२ || अष्टाङ्गसाधने नाथ वक्तव्यं सर्वमासनम् | प्राणायामं षोडशकमथवा द्वादशादिकम् || ४५-१३ || स्वकर्णागोचरं कृत्वा पिबेद्वायुं सदा बुधः | ततः समाप्य तत्कार्यं मन्त्रयोगं समभ्यसेत् || ४५-१४ || समाप्य मन्त्रयोगं च प्राणायामत्रयं चरेत् | तत उत्थाय नद्यादिं विलोक्य चान्तरात्मनि || ४५-१५ || स्नानं कृत्त्वा महायोगी मानसादिक्रमेण तु | तत्रैव मानसं जापं समाप्य जपमेव च || ४५-१६ || एकप्राणायामं कुर्यात् कृत्त्वा तीरे विशेत् सुधीः | पिधाय पीतवसनं धर्माधर्मं विचिन्तयेत् || ४५-१७ || ततः सन्ध्यावन्दनं च कृत्त्वा पूजाविधिं चरेत् | सर्वत्र कुम्भकं कृत्त्वा भावयित्त्वा पुनः पुनः || ४५-१८ || मणिपूरे महापीठे ध्यात्वा देवीं कुलेश्वरीम् | पूजयित्त्वा विधानेन प्राणायामं पुनश्चरेत् || ४५-१९ || ततः कुर्यात् साधकेन्द्रो विधिना कवचस्तवम् | सर्वत्र प्राणसंयोगाद् योगी भवति निश्चितम् || ४५-२० || अथवा कालजालानां वारणाय महषीभिः | एतत् कार्यं समाकुर्याद् योगनिर्णयसिद्धये || ४५-२१ || विना योगप्रसादेन (न) कालः संवशो भवेत् | कालेन योगमाप्नोति योगध्यानं स्वकालकम् || ४५-२२ || योगाधीनं परं ब्रह्म योगाधीनं परन्तपः | योगाधीना सर्वसिद्धिस्तस्माद् योगं समाश्रयेत् || ४५-२३ || योगेन ज्ञानमाप्नोति ज्ञानान्मोक्षमवाप्नुयात् | तत्क्रमं शृणु भूचक्रे सर्वसिद्ध्यादिसाधनम् || ४५-२४ || सिद्धिसाधनमन्त्रेण योगी भवति भूपतिः | शीघ्रं राजा भवेद् योगी शीघ्रं योगी भवेद् यतिः || ४५-२५ || शीघ्रं योगी भवेद्विप्रो यदि स्वधर्ममाश्रयेत् | स्वधर्मनिष्ठताज्ञानं सज्ज्ञानं परमात्मनः || ४५-२६ || तज्ज्ञानेन लभेद् योगं योगाधीनाश्च सिद्धयः | सिद्ध्यधीनं परं ब्रह्म तस्माद् योगं समाश्रयेत् || ४५-२७ || स्वधर्मनिष्ठताज्ञानं स तज्ज्ञानं समाश्रयेत् | योगयोगाद्भवेन्मोक्षो मम तन्त्रार्थनिर्णयः || ४५-२८ || योगी ब्रह्मा मुरारिश्च तथा योगी महेश्वरः | तथा योगी महाकालः कौलो योगी न संशयः || ४५-२९ || मणिपूरभेदने तु यत्नं कुर्यात् सदा बुधः | यदि चेन्मणिपूरस्थदेवताभेदको भवेत् || ४५-३० || सर्वक्षणं सुखी भूत्वा चिरं तिष्ठति निश्चितम् | महाप्रभं सुन्दरञ्च महामोहनिघातनम् || ४५-३१ || मेघाभं विद्युताभं च पूर्णतेजोमयं परम् | मणिभिर्ग्रथितं पद्मं मणीनां पूरमेव च || ४५-३२ || सूर्यकान्तैश्चन्द्रकान्तैर्वह्निकान्तैर्महोज्ज्वलैः | इत्यादिमणिभिः सर्वं परं कान्तिगुणोदयम् || ४५-३३ || निविडे जलदे मेघे कोटिविद्युत्प्रभा यथा | तत्प्रकारं भावनीयं सिद्धानां ज्ञानगोचरम् || ४५-३४ || अत्यन्तसूक्ष्ममार्गस्थं नित्यस्थानं हि योगिनाम् | मणिभिः शोभितं पद्मं मणिपूरं तथोच्यते || ४५-३५ || दशकोमलपत्रैश्च समायुक्तं मनोहरम् | डादिफान्तवर्णयुक्तं स्थिरविद्युत्समाकुलम् || ४५-३६ || शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् | आदौ वर्णरूपकाणां ध्यानं कुर्यात् स्वधामयः || ४५-३७ || महापद्मे मनो दत्वा निर्मलं परिभावयेत् | डादिफान्ताक्षराणां च ध्यानाज्ज्ञानस्थिरो भवेत् || ४५-३८ || मनोधैर्यमुपागम्य दिव्यभक्तिं समालभेत् | वर्णध्यानं प्रवक्ष्यामि शृणुष्व परमेश्वर || ४५-३९ || यद्विभाव्यामरो भूत्वा चिरं तिष्ठति मानवः | महाधैर्यक्रियां कुर्याद् वायुपानं शनैः शनैः || ४५-४० || यत्र यत्र मनो याति तन्मयस्तत्क्षणाद् भवेत् | पूर्वादिदलमारभ्य ध्यानं कुर्यात् पृथग् पृथक् || ४५-४१ || डां डां डां डाकिनीन्ता डमरुवररतां तारिणीं ताररूपा| डिं डिं डिं डामरस्थां डमरुडमगृहे डङ्कडिंकिं मनुस्थाम् | डं डं डं डामरेशीं डिमिडिमिडिमिगध्वाननिर्माणडोरा| डों डों डों डाकडं डः प्रडुम डमुडां दाडिमामाश्रयामि || ४५-४२ || ढां ढां ढां गाढढक्कां वरनिकरकरां बाढमाबाढमन्त्रा| ढिं ढिं ढिं नागरूपां भज भज विमलानन्दचित्तप्रकाशः | श्रीं ढें ढं वज्रढूं खा खवट मटमरं स्वाहया टोंटबीजा| ढों ढों ढों ढक्कढक्कः पिरयढुनकरुणाकामिनीं लाकिनीं ताम् || ४५-४३ || बाणस्थित्यसंस्थां रुचिनकरवणाकारणा वाणवाणि| वीणां वेणूत्सवाढ्यां मणिगुणकरुणां नं खटीजप्रवीणम् | वेणुस्थानां सुमानां मणिमयपवमामन्त्रमालाविलोला| सिन्दूरारक्तवर्णां तरुणघननवीनामलां भावयामि || ४५-४४ || तारां तारकमञ्जालविमलां तालादिसिद्धिप्रदा| ताडङ्कामतितेजसा मुनिमनोयोगं वहन्तीं पराम् | तां तारां तुलसीं तुलां तनुतटां तर्कोद्भवां तान्त्रिका| श्रीसूर्यायुततेजसीं भज मनः श्रीमातरं तापसीम् || ४५-४५ || व्यग्रस्थां स्थानसुस्थां स्थितिपथपथिकां थार्णकूटां थमाली| गाथां योगां विपथां थमिति थमिति थं वह्निजायां स्थिरासाम् | चन्द्रज्योत्स्नास्थलस्थां स्थिरपदमथनामुज्ज्वलामासनस्था| स्थैर्यां स्थैर्याभिरामां प्रणव नव सुधां चन्द्रवर्णां भजामि || ४५-४६ || द्रां द्रीं द्रूं दीर्घदंष्ट्रं दशनभयकरां साट्टहासां कुलेशी| दोषच्छत्रापहन्त्रीं दिवितरणदशादायिनीमादरस्थाम् | श्लिष्टाह्लादप्रदीप्तामखिलधनपदां दीपनीं भावयामि || ४५-४७ || धर्मां श्रीं ध्यानशिक्षां धरणिधरधरां धूमधूमावतीं ता| धूस्तूराकारवक्रां कुवलयधरणीं धारयन्तीं कराब्जम् | विद्युन्मध्यार्ककोटिज्वलनधरसुधां कोकिलाक्षीं सुसूक्ष्मा| ध्यात्वा ह्लादैकसिद्धिं धरणिधननिधिं सिद्धिविद्यां भजामि || ४५-४८ || नित्यां नित्यपरायणां त्रिनयनां बन्धूकपुष्पोज्ज्वला| कोट्यर्कायुतसंस्थिरां नवनवां हस्तद्वयाम्भोरुहाम् | नानालक्षणधारणामलविधुश्रीकोटिरश्मिस्थिता| सानन्दां नगनन्दिनीं त्रिगुणगां नं नं प्रभां भावये || ४५-४९ || प्रीतिं प्रेममयीं परात्परतरां प्रेष्ठप्रभापूरिता| पूर्णां पूर्णगुणोपरि प्रलपनां मांसपिरयां पञ्चमाम् | व्यापारोपनिपातकापलपना पानाय पीयूषपा| चित्तं प्रापय पीतकान्तवसनां पौराणिकीं पार्वतीम् || ४५-५० || स्फें स्फें समें फणिवाहनां फणफणां फुल्लारविन्दानना| फेरूणां वरघोरनादविकटास्फालप्रफुल्लेन्मुखीम् फं फं फं फणिकङ्कणां फणिति फं मन्त्रैकसिद्धेः फला| भक्त्या ध्यानमहं करोमि नियतं वाञ्छाफलप्राप्तये || ४५-५१ || विद्युताङ्कारमध्ये तु बिजलीरक्तवर्णकान् | एवं ध्यात्वाखिलान् वर्णान्रक्तविद्युद् दलोद्यताम् || ४५-५२ || सदा ध्यायेत् कुण्डलिनीं कणीकामध्यगामिनीम् | वरहस्तां विशालाक्षीं चन्द्रावयवलक्षणाम् || ४५-५३ || चारुचन्दनदिग्धाङ्गीं फणिहारविभूषणाम् | द्विभुजां कोटिकिरणां भालसिन्दूरशोभिताम् || ४५-५४ || त्रिनेत्रां कालरूपस्थां लाकिनीं लयकारिणीम् | सिद्धिमार्गसाधनाय ध्यायेद् वर्णान् दश क्रमात् || ४५-५५ || चतुर्भुजां षड्भुजां च अष्टहस्तां परापराम् | दुर्गां दशभुजां देवीं निजवाहनसुस्थिताम् || ४५-५६ || सर्वास्त्रधारिणीं सर्वां हस्तद्वादशशोभिताम् | चतुर्दशभुजां रौद्रीं तथा षोडशपालिनीम् || ४५-५७ || अष्टादशभुजां श्यामां हस्तविंशतिधारिणीम् | एवं ध्यात्वा पूजयित्वा रुद्राणीस्तोत्रमापठेत् || ४५-५८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे | षट्चक्रप्रकाशे भैरवीभैरवसंवादे वर्णध्यानकथन | नाम पञ्चचत्वारिंशत्तमः पटलः || ४५ || अथ षट्चत्त्वारिंशः पटलः आनन्दभैरवी उवाच शृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम् | श्रुत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके || ४६-१ || महासिद्धो भवेदेव महाकालवशो भवेत् | त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा || ४६-२ || रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत् | तच्छ्रुत्त्वा मुनयः सर्वे योगिनो योगदर्शकाः || ४६-३ || सर्वे देवाः सर्वलोकाधिपाः स्युः प्राणरक्षकाः | एतत् स्तवनमात्रेण ब्रह्मा ब्रह्मत्वमाप्नुयात् || ४६-४ || विष्णुवीष्णुत्वमाप्नोति देवत्वं सर्वदेवताः | इदानीं शृणु तत्स्तोत्रमष्टाङ्गयोग साधनम् || ४६-५ || एतत्स्तवनपाठेन चाष्टाङ्गकुलदेवताः | वशीभूताः प्रभवन्ति सप्तस्वर्गस्थदेवताः || ४६-६ || अस्य महारुद्रशक्तिस्तोत्रस्य महाकालभैरवऋषिरनुष्टुप्छन्दः श्रीमछ्रीरूपिणी देवता वां बीजं द्रां शक्तिः समौं स्फें कीलकं महोग्रादि देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः || महारौद्री रुद्रारुणारवरवक्रोधनिकरा | विकारा धर्माणां हरतु विषयं देहि परमम् | विवेकं सत्पुत्रं त्वमपि जगतामादिपुरुषं | विभाकोटिग्रामस्खलननिचला लोचनचला || ४६-७ || त्वमेका त्रैलोक्यं व्यवसि सततं मे शुभभवा | अनन्ता सा चातीन्द्रियगणकला नागवसना | श्रियं दातुं नित्यं समुदयति रश्मिस्तव शिवे | शिवाह्लादानन्दा जडितमनमन्दा कुरु मुदा || ४६-८ || महालोभं पापं हर हर हरे हीरकनिभे | विषानन्दोद्घाता मम तनु विषं वेशवशिनि | सुधानन्दं देहि क्षयमपि हरक्रोधमतुलं | मदं कामं मोहं कुलजननि दिव्यं वितर तत् || ४६-९ || तपस्यासद्भावं त्वमपि च ददासीह यदि वा | प्रदीप्ता सद्व्याप्ता भवति तव दाने मम मनः | प्रफुल्लातिश्रीदे जय मम न भक्तिं निजशुभां | समीडे त्वामेकां भुवनजनरक्षां कुरु सदा || ४६-१० || विचार्य स्वे तन्त्रे रचयसि सुखं नित्यमिलितं | महाखड्गप्रख्या त्रिभुवनकरा रुद्रदयिता | सुराणां संरक्षां यदि कुरु मुदा पीठनिकरे | मणिद्वीपे तेजोमयि हि मणिपूरेऽमलपदम् || ४६-११ || महाक्षेत्रे युद्धोत्सवभयहरा त्वं कुलकला | किराती सर्वाणी मम कुलगतं पालय लये | लयज्ञानानन्दं रचय हृदये योगजननि | यतीनां रक्षायै कुलयुवति विद्ये उदयति || ४६-१२ || प्रतिष्ठा कीतीस्ते त्वमवतरसि त्रासि तिमिरा-- | न्न जाने त्वत् तत्त्वं तरुणि महिमानं सुखमयम् | महापारावारां निधिभवजलेशं कुरु जयम् | हिरण्याह्लादस्था त्वमपि करुणासागरमयी || ४६-१३ || विधातारं विष्णुं सुरवरणवन्दीन् परजनान् | प्रपासि त्वं सिद्धा सुखभुवनभङ्गक्षयकरा | किरन्ती सानन्दा किरणशतकोटिं त्रिभुवने | त्वमेका कल्याणि गिरिशरमणिं पाहि सततम् || ४६-१४ || त्वदीयं सुखान्तं समीच्छामि सत्यं | विसर्गेन्दुवर्णात्मकं कामनाख्यम् | कृपादृष्टिपाता मनः पाहि शुद्धा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-१५ || जगत्तारिणी त्वं जगव्यापिनी त्वं | जगज्ज्वालरूपा जगद्धर्मरूपा | अनैकान्तिकत्त्वात्त्वमानन्दरूपा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-१६ || विधानं जनानां कुरु त्वं त्वमीशा | क्षपाक्षा मचित्ता पिरयानन्ददात्री | त्वमाज्ञाम्बुजस्था त्वमार्या गुरूणां | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-१७ || प्रभामण्डलस्था स्थितित्यागसंस्था | स्थलाम्भोजमाला त्वमालग्नकण्ठा | शिवश्यामवर्णा महापिङ्गलार्णा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-१८ || चतुर्थश्रुतिस्थाचलश्चन्द्रसंस्था | महावेदभाषा त्वमेका जगत्याम् | महाभक्तिभावाश्रितं मां प्रसिद्धे | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-१९ || जगद्धामचेष्टे जगद्बुद्धिनिष्ठे | जगद्यौवनस्था जगद्भावसंस्था | समावर्त्तमध्ये महाघूणीतं मां | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२० || महा सृष्टिसंहारकालक्रमस्था | महामांसभक्षा सदानन्दरूपा | महाशाक्य मौनीन्द्रपूज्ये सुरेज्ये | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२१ || चतुःषष्टितन्त्रार्ण वाह्लादकत्वा-- | न्महाभौतिकत्वान्महासिद्धिविद्या | छलच्छिन्नदेहा छलानन्नसंज्ञा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२२ || शिवत्वं महत्त्वं समत्वामलत्वा-- | दनैकान्तिकत्वं ददासि त्वमाद्या | सुधासागरस्था महामोहनस्था | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२३ || महासिंहपृष्ठे पदाम्भोजलक्ष्मी-- र्मम श्रीशिरोमण्डलस्थं प्रपातु | भवानन्दसन्तानकल्पेऽवदेहं | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२४ || स्थिरा सा महाविद्युदाकारहारा | महाचञ्चला चाचला ज्ञानजन्या | सदा भावनत्वात्सदा ज्ञापनस्था | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२५ || कुलानन्दमोहा महाकौलकन्या | कुलक्षेत्ररक्षा कुलच्छत्रकारा | महाचञ्चलत्वान्महावायुघूर्णा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२६ || चिरंजीविनी भामिनी भूमिबीजा | भयाभावहन्त्री शरत्कोटिचन्द्रा | विभूतिर्भयाहारकर्त्री प्रकृष्टा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२७ || महावीरभावाश्रया भावरूपा | विशेषाविशेषे महाशैववीरा | विसर्गापवर्गाश्रयार्णोज्ज्वलत्त्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२८ || महापञ्चमत्वान्महामोदकत्वान् महाकौलिकात्वादसञ्चारणत्वात् | कुलप्रेमभावक्रियानिश्चलत्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-२९ || वसोः सिद्धिदात्री शिवानन्दकर्त्री | महामैथुनानन्दसम्भेदनत्वात् | सुखाश्वासतत्त्वात्तपः प्राणरक्षा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३० || गलत्प्रेमभावा कुलज्ञानतत्त्वात् | पिरया श्रीकृपात्वं भवाधारमूत्तीः | महैश्वर्यहेतोर्महाराजकन्या | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३१ || महामोक्षविद्या महानिर्मलत्वात् | प्रभापञ्चचूडस्य सिद्धिपिरया च | महानादबिन्दुप्रयासाभिरामा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३२ || महाविद्रुमाकारवर्णाभिरामा | कुलाह्लादसूत्रादिसंसाधनत्वात् | महद्राज्यविद्याधना सङ्घटत्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३३ || तवाङ्घ्रद्वयाम्भोज पूजासुखत्वा-- न्महाकालरूपा स्वयं सर्वविद्या | विकारादि सम्बन्धविशेषणत्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३४ || शिवत्वं शुभत्वं महाशैलकन्ये | पिरयत्वं परत्वं महापावनत्वम् | समाधेहि तत्त्वादनैकान्तिकत्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३५ || महाचेतनादेवनादोन नत्वाद-- | संख्यामतीनां मनोयोगमुख्या | विरोधापहन्त्री रिपुप्राणहन्त्री | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३६ || चतुवींशतिक्रोधतत्त्वानुकूले | वियत्खण्डचन्द्रोज्ज्वले कीलकस्थे | सदा मां प्रपातु प्रचण्डार्कवर्णा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३७ || शुभं कामधेनुस्वरूपं स्वदेहं | सदा दर्शने श्रद्धया चारुवर्णा | हिमांशुप्रभाकोटिवर्णेऽत्वपूर्णे | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३८ || महाकामबीजान्विता खण्डयन्ती | महादोषजालं शनैरावहन्ती | शिवाभद्रकाली स्थिरानन्दमाला | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-३९ || महाकालकूटाशिनं तीक्ष्णनेत्रं | सदा पाहि शम्भुं भयार्द्रातिवेलम् | भवापालनत्वादसंख्यानिवासा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४० || हरन्ती विषाढ्यं वहन्ती कलाद्यं | रटन्ती नटन्ती विशाला भ्रमन्ती | श्रियः पालनी पालिका बालिकात्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४१ || भवानन्दहेतोः सदा श्रद्धया वा | पदाम्भोजमध्ये मनोयोगकाले | परासंख्यते कामसंक्षालनत्वात् | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४२ || क्षितिक्षोभनाशाय सिद्धादिविद्या | कुलाढ्याखिलाढ्यानना सूक्ष्ममध्या | प्रयत्नं करोषि क्षयानन्ददाना | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४३ || महाधैर्यमाहृत्यजं जप्यते यैस् -- | तवाद्याभिधानानि कालिप्रभाते | तदैवापि काले ददासीह सिद्धिं | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४४ || चिरं स्थापयन्ती चिरं भासयन्ती | त्वमाख्या गुरूणां कुलानन्दविद्ये | स्वधाकारतुष्टा कलावह्निजाया | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४५ || सुरानन्दकाले फलोद्भूतचिन्हा | चितामध्यदेशे महासिद्धिदात्रि | त्रिभिन्ना विभिन्ना महारुद्रविद्ये | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४६ || महापूवी कात्यायनि क्रोधमूले | विवेकादिकं धर्ममादौ ददासि | त्रयाणां सुराणां मुदारक्षणाय | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४७ || विशुद्धस्फुटत्त्वान्महाकौतुकत्वा-- | त्तनुध्यानमोहादनन्ते कृतत्त्वात् | कुलारक्षणात्मा महालक्षणात्मा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४८ || दहन्ती रिपूणां कुलञ्चात्मदेशं | क्षणादेव सूक्ष्मासुसूक्ष्मा सती सा | ममानन्ददेशं सदा पालय श्री | त्त्वमेका परब्रह्मरूपेण सिद्धा || ४६-४९ || चतुर्थाश्रमस्थाश्रमं पाहि रुद्रे | महोग्रप्रतापे महारौद्रि भद्रे | महापातकादिक्षयत्वामृतत्त्वा-- त्त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५० || महावायुरम्ये महाज्ञानगम्ये | महामन्त्रजाप्यादिसिद्धिप्रसिद्धे | लयं देहि बाह्यानिलाघातनत्वा-- त्त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५१ || न जानामि किं वामरो वापि विष्णु-- | र्महाकौलिको वा न जानाति पूजाम् | कुलाद्यासनन्ते सुरेन्द्रादिपाठे | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५२ || मदीयं प्रलोभ्यं महाभद्रकालि | प्रकाशेन कर्त्तुं समर्था भव त्वम् | पदाब्जे च हन्तुं महापापसर्गे | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५३ || वहन्ती कपालं स्खलन्तीमपार्थं | महाहेममाला महाकाशयन्ती | शिवो मङ्गलं मे तु वैश्वानरीशे | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५४ || प्रचण्डा प्रसन्ना भवक्षोभहेतो-- | वीवादादिघाताय शान्तिः प्रतुष्टिः | कियत्कालसंस्था प्रसन्नान्तरात्मा | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५५ || महावायुपाना क्रियामोक्षकाले | कुलज्ञानदाना दिवारूपिणी त्वम् | प्रभुत्वं विधेहि क्षमे कामकर्त्री | त्वमेका परब्रह्मरूपेण सिद्धा || ४६-५६ || यदि श्रीवराद्ये ममाख्या ससिद्धिं | विदेहीति चित्ते समाधाय भक्तः | समाप्नोति शीघ्रं सदा प्रार्थ्यते यैः | सदा पठ्यते वा मुदा वारमेकम् || ४६-५७ || महाकालशम्भो महाज्ञानसिद्धः | सदा कालवश्ये पठेदेकचित्तः | महाभक्तिभावं लभेद् वेद मुक्तिं | महादेवभक्तिं त्रिकालेन योगम् || ४६-५८ || मणेः पीठमध्ये महारुद्रकान्तां | महालाकिनीं कुण्डलीं भावयन्ती | महापुण्यलाभं स्तवं ब्रह्मसारं | महाकान्तलाभाय पुण्याय सिद्ध्यै || ४६-५९ || महाकालि रुद्राणि भद्राणि कृष्णे | भवानन्दमूत्तीप्रकाशाय कुर्यात् | किलानन्दमाकृत्य सम्पूज्यते यै-- र्महादेवि चण्डे तव ध्याननिष्ठा || ४६-६० || महामोक्षभावं समाप्नोति शीघ्रं महाशुद्धता कामहा कालरूपी || ४६-६१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे मणिपूरभेदनक्रमे भैरवीभैरवसंवादे रुद्रशक्तिलाकिनीस्तोत्रं नाम | षट्चत्त्वारिंशः पटलः || ४६ || अथ सप्तचत्त्वारिंशः पटलः श्रीआनन्दभैरवी उवाच शृणु कैलासनाथाब्ज चक्रमण्डलसंस्थितिम् | षट्चक्रभेदमाहात्म्यं सावधानावधारय || ४७-१ || अप्रकाश्यमिदं मन्त्रं मणिपूरविभेदनम् | अष्टैश्वर्यसाधनाय जीवन्मुक्तिप्रदाय च || ४७-२ || कथयामि महाकाल यज्ज्ञात्वा योगिनोऽमराः | क्रियासाधनमात्रेण केन योगेन एव हि || ४७-३ || साधनादेव सर्वज्ञः सर्वार्थज्ञानवान् भवेत् | रुद्राणीसहितं रुद्रं ध्यात्वा सम्पूज्य सञ्जपेत् || ४७-४ || अथ वक्ष्ये महामन्त्रं पूजाप्रकरणं तथा | मणिपूरे स्थितो मन्त्री रुद्राणीयजनं चरेत् || ४७-५ || सम्प्रति मन्त्रस्योद्धारं करोमि कालकूटप | प्रणवं पूर्वमुच्चार्य नमः शब्दं ततो वदेत् || ४७-६ || ते शब्दान्ते समुद्धृत्य रुद्रशब्दं ततः परम् | रूपिण्यै पदमुच्चार्य रुद्राणी मन्त्रमीरितम् || ४७-७ || ततो महारुद्रमन्त्रं वक्ष्यामि तत्त्वतः शृणु | प्रणवान्ते नमस्शब्दं ते महाशब्दमुच्चरेत् || ४७-८ || रुद्राय पदमुद्धृत्य महारुद्रमनुः स्मृतः | ततोऽन्यत्कालरूपेश रुद्राणीमन्त्रमाशृणु || ४७-९ || डादिफान्तैः सर्ववर्णैराद्यन्ते पुटितं मनोः | सर्वशेषे वह्निजाया महामन्त्रोत्तमोत्तमः || ४७-१० || अस्य जापनमात्रेण षट्पद्म साधने जयी | एवं प्रकारं रुद्रस्य चाथवान्यप्रकारकम् || ४७-११ || रुद्राणां विविधं मन्त्रं कोटितन्त्रे विनिर्णयम् | मणिपूरे सदा ध्यायेद् योगसाधनहेतुना || ४७-१२ || सर्वत्र मानसं कार्यं ध्यानपूजाविधानकम् | प्रमोदाख्यातिमनुभिर्मृत्युञ्जयादिभिस्तथा || ४७-१३ || चैतन्यं कारयेत् शीघ्रं मणिपूरस्थदेवयोः | अथ वक्ष्ये महेशस्य रुद्रस्य परमात्मनः || ४७-१४ || प्रासादाख्यं महामन्त्रं त्रैलोक्यफलसिद्धिदम् | सान्तमोङ्कारसंयुक्तं नादबिन्दुविभूषितम् || ४७-१५ || प्रासादाख्ये मनुः प्रोक्तो भजतां कामदोमणिः | प्रणवं पूर्वमुच्चार्य स्वाहान्तं जपते यदि || ४७-१६ || स्तम्भनादीनि कर्माणि स करोति न संशयः | अथवा मृत्युजेतारं महामन्त्रं महामनुम् || ४७-१७ || जपेन्मानसजापेन यज्जाप्यं प्राणरक्षकम् | तारं स्थिरा सकर्णेन्दुर्भृगुः सर्गसमन्वितः || ४७-१८ || त्र्यक्षरात्मा निगदितो मन्त्रो मृत्युञ्जयात्मकः | अथवान्यप्रकारेण जपेन्मृत्युञ्जयात्मकम् || ४७-१९ || मृत्युञ्जयं समुद्धत्य पालय द्वितयं ततः | मृत्युञ्जयं समुद्धृत्य पुनरेव विलोमतः || ४७-२० || द्वादशाक्षरमन्त्रोऽयं मृत्युञ्जयाभिधोऽपरः | ध्यानं (पूजां) तथा न्यासं शृणु वक्ष्यामि शङ्कर || ४७-२१ || रुद्रमन्त्रेण पुटितं योजयेन्मृत्युहारणम् | तथा हि रुद्रकान्ताया मन्त्रेण पुटितं शिवम् || ४७-२२ || जपित्वा पूजयित्वा च नरो गोप्ता भवेद्वशी | प्रातःकृत्यादिकं कृत्वा हविष्याशी जितेन्द्रियः || ४७-२३ || अतिसावधानपरो विधिसेवापरायणः | स्नानसन्ध्यादिकं कृत्वा आसनादिकमाश्रयेत् || ४७-२४ || समाप्य आसनं सर्वं पीतवस्त्रे पिधाय च | अथवा शुक्लवस्त्रे द्वे परिधाय मनोहरे || ४७-२५ || कोमलाद्यासने गत्वा प्रक्षाल्यपादयुग्मकम | द्विराचम्य विधानेन पूजायां स्वस्तिकासने || ४७-२६ || वीरासने तथा पद्मासनयोन्यासने तथा | उपविश्य निर्मलात्मा पूजामार्गपरो भवेत् || ४७-२७ || सर्वाणि द्रव्यभोज्यानि मनसा कल्पितानि च | तदलाभे सलाभे वा मनःकल्पितशोधनम् || ४७-२८ || करणीयं सर्वदैव निजबाह्येऽपि चालयेत् | यथा लभ्यानि द्रव्याणि संशोध्य तत्र योजयेत् || ४७-२९ || ततः कुर्याद् विशेषेण प्राणायामं मनोरमम् | चतुःषष्टिमात्रया वा तथा षोडशमात्रया || ४७-३० || तद्द्वादशमात्रया वा संख्यया वायुमाश्रयेत् | प्राणायामं समाप्याथ रुद्रन्यासं समाचरेत् || ४७-३१ || श्रीकण्ठादिमहावीरन्यासं कुर्यात् प्रयत्नतः | रुद्रन्यासं प्रवक्ष्यामि मनुयोगादिसिद्धये || ४७-३२ || एतन्न्यासाभिकरणे नरो रुद्रसमो भवेत् | सदा कुर्यान्महान्यासं सर्वसिद्धिप्रकाशनात् || ४७-३३ || शक्तिहीनं शक्तियुक्तं महान्यासं प्रकीतीतम् | शक्तियुक्तं समाकृत्य महाशक्तो भवेद् बली || ४७-३४ || शक्तिहीनं तथा कार्यं सर्वविघ्नविनाशनात् | मातृकापद्मचक्रे तु मातृकावर्गसंयुतम् || ४७-३५ || मातृकापुटितं मन्त्रं किं वा मन्त्रेण संपुटम् | कृत्वा मन्त्री न्यासजालं सावधानेन कारयेत् || ४७-३६ || विक्रमी सिंहतुल्यः स्यात्तं दृष्ट्वा यान्ति शत्रवः | मौनी भूत्वा समाकृत्य कुलचक्रस्य भेदनम् || ४७-३७ || मणिपूरे स्थिरो भूत्वा महातेजोमयो भवेत् | तेषां नाम प्रवक्ष्यामि पञ्चाशदेकसंख्यया || ४७-३८ || पञ्चाशदेकशक्तीनां तथा नाम शृणु प्रभो | सर्वेषामभिधानान्ते ईशाय नम उच्चरेत् || ४७-३९ || एकैकं मातृकावर्णं नाम्न आद्ये नियोजयेत् | शक्तियुक्तं सदा नाम ईशान्तं सन्त्यजेत् तथा || ४७-४० || भेदने शक्तियुक्तस्तु न्यासं कुर्यान्महायतिः | कुशासने सिद्धिहेतोश्चैलाजिनकुशोत्तरम् || ४७-४१ || बद्धैकमासनं योगी न्यासजालं समाचरेत् | अथवा द्वीपिचर्मादि कोमलाद्यासनेऽपि वा || ४७-४२ || योगाभ्यासी न्यासजालं कृत्वा सावभयो भवेत् | भद्रकाली गृहे स्थित्वा ये कुर्वन्ति निरन्तरम् || ४७-४३ || महान्यासं महादेव तत्क्षणादमरो भवेत् | आयुरारोग्यसम्पत्तिं सम्प्राप्नोति महाश्रियम् || ४७-४४ || समायाति मम स्थाने न्यासयोगप्रसादतः | न्यासधारणयोगेन मणिपूरे हृदो भवेत् || ४७-४५ || आदौ तन्नाम वक्तव्यं पश्चात्शक्त्याभिव्ननकम् | श्रीकण्ठश्चाप्यनन्तश्च सूक्ष्मा त्रिमूतीरेव च || ४७-४६ || अमरेश्वरश्चार्घीशो भावभूतिस्ततः परम् | अतिथीशस्थाण्वीशो हरो झिण्टीश एव च || ४७-४७ || भौतिकः सद्योजातश्चाप्यनुग्रहेश्वरस्तथा | अक्रूरोऽपि महासेनो निर्जरादिश्च षोडश || ४७-४८ || एते देवा महारुद्र षोडशस्वरविग्रहाः | क्रोधीशश्चापि चण्डेशः पञ्चान्तकः शिवोत्तमः || ४७-४९ || एकरुद्रस्तथा कूर्म एकनेत्रेश्वरस्ततः | चतुराननोऽजेशश्च सर्वः सोमेश एव च || ४७-५० || लाङ्गलीशो दारुकेशोऽर्द्धनारीश्वर एव च | ( उमाकान्तेश आषाढिः डिण्डीशोऽत्रीश एव च मीनेशश्चापि मेषेशो लोहितेशः शिखीश्वरः | छगलण्डे द्विरण्डेशो महाकालेश्वरस्ततः |) वाणीशश्च भुजङ्गेशः पिनाकीशस्ततः परम् || ४७-५१ || खड्गीश श्चरकेशश्च श्येनो भृग्वीश एव च नकुलीशः शिवेशश्च संवर्त्तकेश एव च || ४७-५२ || एते रुद्राः समाख्याताः सर्वकाले कुलेश्वराः | यस्य नाम्नश्चान्तभाते ईशशब्दो न विद्यते || ४७-५३ || केशान्तं नाम संस्कृत्य न्यासं मौलीशमाचरेत् | कामं मोहादिनाशार्थं यः करोति निरन्तरम् || ४७-५४ || मातृकावर्णघटितं मातृकास्थलके न्यसेत् | शक्तियुक्तं यदा न्यासं तत्कालेऽपीशयोजनम् | अथवा रुद्रशक्त्या च तथा रुद्रेण सम्पुटम् || ४७-५५ || निजमन्त्रेण वा नाथ पुटितं मातृकास्थले | शक्त्या च ग्रथनं कृत्वा संसारं सन्तरेत् क्षणात् || ४७-५६ || तत्प्रकारं शृणु प्राणनाथ शङ्कर वल्लभ | पूर्णोदरी च गिरिजा शाल्मली तदनन्तरम् || ४७-५७ || लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा ततः परम् | सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततः परम् || ४७-५८ || कुण्डोदरी चोद्र्ध्वमुखी तथा विकृतमुख्यपि ज्वालामुखी वह्निमुखी लोलजिह्वा ततः परम् || ४७-५९ || विद्यामुखी तथा नाथ एताश्च स्वरशक्तयः | काद्यार्णशक्तिविद्याश्च वक्ष्यामि पार्वतीश्वर || ४७-६० || महाकालीसरस्वत्योर्महालक्ष्म्यास्ततः परम् | द्राविणी नागरी भूयः खेचरी चापि मञ्जरी || ४७-६१ || रूपिणी बिम्बिनी पश्चात् काकोदरी च पूतना | भद्रकाली योगिनी च शङ्खिनी र्गज्जिनी तथा || ४७-६२ || कालरात्रिः कुञ्जिका च कपद्दनी ततः परम् | वज्रा जया ततो नाथ सुमुखेश्वर्यपि प्रभो || ४७-६३ || रेवती माधवी चैव वारुणी वायवी तथा | वक्षोविदारिणी चैव सहजालक्ष्म्यथ प्रभो || ४७-६४ || व्यापिनी चैव माया च रुद्राङ्कपीठदेवताः | सर्वाभरणसंयुक्ता सिन्दूरारुणविग्रहाः || ४७-६५ || धृतशूलकपालादि बाणशक्तिप्रखेटकाः | वराभयकरा नित्याः सर्पवाहनवाहनाः || ४७-६६ || श्रीकण्ठाद्या महारुद्रा धृतशूलकपालकाः | खड्गखेटकशक्तीषु गदामूसलधारकाः || ४७-६७ || नानास्त्रधारका नित्या बन्धूककोटिसुन्दराः | रक्तचन्दनदिग्धाङ्गाः पञ्चचूडधराः पराः || ४७-६८ || रक्तोत्पलमहामालालङ्कारकरपङ्कजाः | पीठन्यासं ततः कुर्यात् मम तन्त्रानुसारतः || ४७-६९ || सर्वत्रमूलपुटितमथवा वर्णसम्पुटम् | कृत्वा पीठन्यासकार्यं विधानेन वदामि तत् || ४७-७० || ओं अनन्ताय नमश्च नमो हृदि ततः परम् | ओं पद्माय नमः शब्दं हृदये च ततः परम् || ४७-७१ || ओं सूर्यमण्डलाय द्वादशान्ते कलात्मने | ओं नमः पदं समुच्चार्य चान्ते च हृदये प्रभो || ४७-७२ || ओं उं सोममण्डलाय षोडशकलात्मने नमः | सर्वत्र हृदये कार्यं पीठन्यासं मनोलयम् || ४७-७३ || ओं मं वह्निमण्डलाय दशकलात्मने नमः | ओं सं सत्त्वाय नमश्च ओं रं रजसे नमः || ४७-७४ || ओं तं तमसे नमश्च पूर्वादिकेशरेषु च | ओं तं आत्मने नमश्च ओं सर्वव्यापिने नमः || ४७-७५ || ओं अं अन्तरात्मने च ओं मनोन्मन्यै नमश्च | तदुपरि ततो वदेत् नमोऽन्ते शून्यवासिने || ४७-७६ || ओं पं परमात्मने च नमोऽन्ते कालरूपिणे | ओं ह्रीं ज्ञानात्मने चान्ते नमोऽन्ते वर्णवासिने || ४७-७७ || पीठशक्तेस्ततो न्यासं कुर्यात् साधकयोगिराट् | हृत्पद्मस्यापि पूर्वादि केशरेषु च संन्यसेत् || ४७-७८ || ओं वामायै नमश्चान्ते ओं ज्येष्ठायै नमो वदेत् | ओं सर्वभूतदमन्यै नमः शब्दं समुच्चरेत् || ४७-७९ || ( ओं रौद्रायै नमश्चान्ते ओं काल्यै च नमो वदेत् | ओं कलविकरिण्यै नमः शब्दं ततो वदेत् | ओं बलप्रमथन्यै नमो व भोऽन्ते च पुनर्वदेत् |) एता विन्यस्य देवेश मध्ये विन्यासमाचरेत् | हृत्पद्मस्य कणीकायां कृत्वा भावनमाचरेत् || ४७-८० || ओं मनोन्मन्यै नमश्च तदुपरि ततो वदेत् | ओं नमो भगवतेऽन्ते च सकलपदमुच्चरेत् | गुणाय शक्तियुक्ताय अनन्ताय पदं ततः || ४७-८१ || ( योगपीठात्मने चान्ते नमः शब्दं समुच्चरेत् | ततः कुर्यान्महादेव ऋष्यादिन्यासमेव च | रुद्रशक्त्या ऋषेवीष्णुस्तथा मृत्युञ्जयस्य च |) कहोड मुनिपुत्रश्च ऋषिरस्य प्रकीतीतः | महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् || ४७-८२ || संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः | गुरुत्वान्मस्तके चास्य न्यासस्तु परिकीतीतः || ४७-८३ || सर्वेषां मन्त्रतत्त्वानां छादनाद् छन्द उच्यते | अक्षरात्वात्पदत्वाच्च मुखे च्छन्दः समीरितम् || ४७-८४ || सर्वेषामेव जन्तूनां प्रेषणात्प्रेरणात्तथा | हृदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् || ४७-८५ || ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रः फलभाग्भवेत् | दौर्बल्यं याति मन्त्राणां विनियोगमजानताम् || ४७-८६ || न्यसेन्मूध्नी ऋषिन्यासं छन्दोन्यासं मुखाम्बुजे | देवतान्यासमाकुर्यात् हृदयाम्भोरुहे सुधीः || ४७-८७ || मूके गुह्ये बीजन्यासं शक्तिन्यासं तु पादयोः | सर्वाङ्गे कीलकन्यासमाचरेत् यत्नतः सुधीः || ४७-८८ || शिवशक्त्यात्मकन्यासं शिरस्येव समाचरेत् | शिरसि प्राणरक्षायै महाविष्णुऋषये नमः || ४७-८९ || मुखे पङ्क्तच्छन्दसे वै नमःशब्दं समुच्चरेत् | हृदि महारुद्राय शक्तियुक्ताय संवदेत् || ४७-९० || देवतायै नमः शब्दं करन्यासं ततश्चरेत् | ततोऽङ्गन्यासमाकृत्य ध्यानं कुर्यात् प्रयत्नतः || ४७-९१ || वह्निना दीर्घबीजेन मन्त्रस्याङ्गक्रियां चरेत् | रुद्रध्यानं प्रवक्ष्यामि ध्यानाद् भवति भूपतिः || ४७-९२ || रौद्रं रौद्रात्मकं तं प्रकृतिपुरुषं गंभीरगीताभिधानं | शूलं खड्गं दधानं वरमभयकरं पद्ममेकं प्रचण्डम् | सञ्चारं रश्मिजालं शशिशतकिरणं कामधेनुस्वरूपं | ध्यायेद्रौद्रीं स्वशक्तिं प्रलयमयतनुं सूर्यकोटिप्रकाशम् || ४७-९३ || एवं ध्यात्वा सुमनसैश्च सम्पूज्यार्घ्य विधिञ्चरेत् | कृत्वार्घ्यं रुद्रमन्त्रेण पीठपूजां समाचरेत् || ४७-९४ || वामा ज्येष्ठा तथा रौद्री काली कलपदादिका | विकरण्याक्षरा प्रोक्ता बलादिविकरण्यथ || ४७-९५ || बलप्रमथनी पश्चात् सर्वभूतदमन्यथ | मनोन्मनीति सम्प्रोक्ताः शिवस्य पीठशक्तयः || ४७-९६ || पूजयेद् गन्धपुष्पाद्यैः पीठशक्तिः क्रमेण तु | प्रणवादि नमोऽन्तेन पूजा कार्या विधानतः || ४७-९७ || पुनर्ध्यात्वा च पाद्यार्घ्यैरावाह्य परिपूजयेत् | पाद्यमर्घ्यमाचमनीयं स्नानीयं पुनराचमनम् || ४७-९८ || गन्धपुष्पबिल्वदलैः पूर्वावरणमर्चयेत् | वं हृदयाय नम इत्यादिषडङ्गपूजनम् || ४७-९९ || मध्ये चतुदीक्षु चैवं शेषे वारद्वयं वदेत् | इन्द्रादीन् लोकपालांश्च पूजयित्वा ततोऽर्चयेत् || ४७-१०० || वज्रादींश्च महाकाल धूपदीपैनीवेदयेत् | नैवेद्यं बहु कृत्वा (च) पानार्थं जलदानकम्१०१ || शरीरशोधनं कृत्वा प्राणायामं ततश्चरेत् | जपेत् शतत्रयं मन्त्री विशुद्धः शुद्धचेतसा || ४७-१०२ || अष्टोत्तरं योजयित्वा गजान्तकसहस्रकम् | अथवाष्टोत्तरशतं जप्त्वा समर्पणं चरेत् || ४७-१०३ || प्राणायामत्रयं कुर्यान्निजमन्त्र प्रसिद्धये | ततः प्रणाममाकुर्यात् शक्तिचैतन्यहेतुना || ४७-१०४ || नमो रुद्राय देवाय कोटिसूर्र्येन्दुमूर्त्तये | सर्वाय ज्ञानदानाय नमस्ते शूलधारिणे || ४७-१०५ || नमस्ते कालरुद्राय कालाय वेदरूपिणे | वेदमार्गप्रदर्शाय शत्रुसंक्षयकारिणे || ४७-१०६ || रौद्राय शक्तियुक्ताय शङ्कराय नमो नमः | चतुर्भुजाय वेदाय महाकाशस्वरूपिणे || ४७-१०७ || वरपद्मशूलखड्गधारिणे ब्रह्मणे नमः .... रुद्रशक्त्यर्चनं कृत्वा महारुद्रेण संयुतम् || ४७-१०८ || मणिपूरे दृढो याति सत्यं सत्यं कुलेश्वर | शक्त्यर्च्चनविधिं वक्ष्ये मूलमन्त्रेण पूजनम् || ४७-१०९ || सर्वत्र कारयेन्मन्त्री अष्टैश्वर्यजयाय च | आदौ ऋषिन्यासकार्यं वक्ष्यामि शृणु तत्त्वतः || ४७-११० || शिरसीह रुद्रशक्तिर्महाविष्णुपदं ततः | ऋषये नम उच्चार्य मुखे हस्तं नियोजयेत् || ४७-१११ || पङ्क्तछन्दसे नमश्च हृदि हस्तं नियोजयेत् | महारुद्राणीति पदं लाकिनीपदमेव च || ४७-११२ || त्रिशक्त्यन्ते महाविद्या देवतायै नमस्ततः | गुह्ये ओं पदमुच्चार्य निजबीजाय ते नमः || ४७-११३ || सर्वाङ्गे सकलायैव वज्राय कीलकाय च | नमः पदं समुच्चार्य ऋष्यादिन्यासमेव च || ४७-११४ || रुद्रवत्सकलं कार्यं कराङ्गन्यासकर्मणि | आदावृष्यादिकन्यासः करशुद्धिस्ततः परम् || ४७-११५ || अङ्गुलिव्यापकन्यासो हृदादिन्यास एव च | रुद्रशक्तिमहाषोढान्यासञ्च तदनन्तरम् || ४७-११६ || मन्त्रन्यासं ततः कृत्वा व्यापकन्यासमाचरेत् | तालत्रयञ्च दिग्बन्धः प्राणायामस्ततः परम् || ४७-११७ || ध्यानं कुर्याद्विशेषेण रुद्रशक्त्या महाप्रभो || ४७-११८ || रुद्राणीं रुद्रकान्तां नवरसजडितां कुङ्कुमाशक्तगात्रां | लोकेशीं षड्भुजान्तां त्रिभुवनयजितां कोटिसौदामिनीभाम् | पद्मस्थां पद्महस्तां वरभयकरां खड्गशक्तिं दधानां | ध्यायेद् रौद्रीं त्रिनेत्रां शवदमनशशिश्रेणिभूषामलाङ्गीम् || ४७-११९|| रुद्रवत् पूजनं कार्यं रुद्रशक्त्याश्च शङ्कर | दशोपचारैः पूजा वा तथा पञ्चोपचारकैः || ४७-१२० || अष्टादशोपचारैर्वा षोडशाद्युपचारकैः | अलाभे तु प्रकर्त्तव्यं मानसेन निवेदयेत् || ४७-१२१ || सर्वत्र मानसं कार्यं कोटि कोटिगुणं भवेत् | पूजां समाप्य विधिना जलं दत्वा जपादिके || ४७-१२२ || प्राणायामत्रयं कृत्वा जप्त्वाष्टोत्तरकं शतम् | सहस्रं वा मुहुर्जप्त्वा अष्टोत्तरसमन्वितम् || ४७-१२३ || जपं समर्पयेद्विद्वान् गुह्यातिगुह्यमन्त्रकैः | प्राणायामत्रयं पश्चात् कुर्यात् साधकसत्तमः || ४७-१२४ || वन्दनं भक्तियुक्तेन कुर्याद् योगादिसिद्धये | महारौद्र नमस्तेऽस्तु लाकिन्यै ते नमो नमः || ४७-१२५ || शान्त्यै तुष्ट्यै नमो नित्यं दुर्गायै ते नमो नमः | रुद्रशक्त्यै नमो नित्यं मणिपूरनिवासिनी || ४७-१२६ || अष्टसिद्धिं योगसिद्धिं देहि तुभ्यं नमो नमः | सर्वग्रन्थिछेदिकायै परब्रह्मस्वरूपिणी || ४७-१२७ || मां रक्ष पालय त्वं हि मणिपूरे नमो नमः | प्रणम्य विधिनानेन पूजासमापनञ्चरेत् || ४७-१२८ || पुनस्तत्र पूजयेद् वै प्रासादाख्यं महाप्रभुम् | तथा मृत्युञ्जयं देवं मणिपूरे प्रपूजयेत् || ४७-१२९ || प्राणायामादिकं कृत्वा श्रीकण्ठन्यासमाचरेत् | पूर्णोदर्यादिसहितं कृत्वा पीठं न्यसेत्सुधीः || ४७-१३० || पीठमनुं प्रविन्यस्य ऋष्यादिन्यासमाचरेत् | ऋषिरस्य वासुदेवः पङ्क्तिश्छन्द उदाहृतम् || ४७-१३१ || सदाशिवो देवता च अङ्गुलिन्यासमाचरेत् | हामङ्गुष्ठाभ्यां नमः पश्चात् ह्रीं तर्जनीभ्यां ततः परम् | खां नमः पदमन्ते च षड्दीर्घभाजयान्वितम् || ४७-१३२ || एवं करन्यासमाकार्यं विधानेन समाचरेत् | शूद्रस्तु एतत्पर्यन्तं कार्यं होमादिकं च यत् || ४७-१३३ || न कुर्यात् पार्वतीनाथ तथा स्त्रीलोक इत्यपि | यदि ज्ञानी भवेद् देव स देवो न तु मानुषः || ४७-१३४ || चाण्डालादीनि वा जातौ स्थितो ब्राह्मणोत्तमः | ज्ञानवान् वादसंवादे वजीतो न्यासमाचरेत् || ४७-१३५ || न्यासस्तन्मयता बुद्धिः सोऽहंभावेन पूजयेत् | स एव ज्ञानी परमो वेदशास्त्रविशारदः || ४७-१३६ || न्यासपूजादिकं तस्य सर्वदा नात्र संशयः | यावद्देहे ह्यहंबुद्धिस्तावन्मरणधारकः || ४७-१३७ || तद्वजीतो मृत्युजेता न्यासपूजादिकं कृतः | षड्दीर्घभाजा बीजेन हकारेण सबिन्दुना || ४७-१३८ || करयोरंगुलिद्वन्द्वं विन्यसेत् संक्रमेण तु | ईशानाद्याः पञ्चमूर्त्तीवीन्यसेत् साधकोत्तमः || ४७-१३९ || ततः कुर्यान्महादेव ऊद्र्ध्वः प्राग्दक्षिणोत्तरे | मुखेषु विन्यसेन्मन्त्री चाङ्गुलिभिः परस्परम् || ४७-१४० || तत्तद्बीजैः प्रयत्नेन तत्तन्मूर्त्तीः प्रविन्यसेत् | अङ्गुष्ठयोः शेषभागे हौ ईशानाय ओं नमः || ४७-१४१ || षड्दीर्घभाजाबीजेन हकारेण सबिन्दुना | तत्पुरुषमघोरञ्च वामदेवं ततः परम् || ४७-१४२ || सद्योजातं क्रमेणैव अङ्गुली द्वे ततः परम् | विन्यसेत्साधकश्रेष्ठो नमोऽन्तं परमेश्वर || ४७-१४३ || शिरोवदनहृद्गुह्यपादेषु विन्यसेत्सुधीः | तत्तदङ्गुलिभिश्चैव तत्क्रमेण प्रविन्यसेत् || ४७-१४४ || पञ्चमूर्त्तीर्न्यसेन्नाथ तत्प्रकारं शृणुष्व तत् | ईशानादिस्वबीजं तु प्रकारेण प्रविन्यसेत् || ४७-१४५ || शूद्रः कुर्यान्न्यासजालमेतत् पर्यन्तमेव हि | तत ऊर्ध्वप्राग्दक्षिणपश्चिमोत्तरसंमुखे || ४७-१४६ || ईशानस्य पञ्चकला ब्रह्मऋग् वेदसंयुताः | पञ्चपादादिका नाथ प्रणवादिनमोऽन्तिकाः || ४७-१४७ || ईशानं सर्वविद्यानां ओं नलिन्यै ततः परम् | कलायै नम एवापि सर्वत्रैवं क्रमेण तु || ४७-१४८ || ईश्वरः सर्वभूतानां तदङ्गं पदकं ततः | दयायै कलायै नमश्चापि ब्रह्मादिपदं ततः || ४७-१४९ || ओं ब्रह्मेष्टदायै चान्ते कलायै नम इत्यपि | ततः शिवोऽस्तु मे पदं ओं सावित्र्यै पदं वदेत् || ४७-१५० || कलायै नम एवं हि सदाशिवो पदन्ततः | ओमन्ते चांशुमालिन्यै कलायै पद इत्यपि || ४७-१५१ || दिङ्मुखे स न्यसेन्मन्त्री पूर्वादिक्रमयोगतः | तत्पुरुषस्य चतस्रः कला न्यसेत् सदा वशी || ४७-१५२ || ओं तत्पुरुषायपदं विद्महे तदनन्तरम् | ओं शान्त्यै पदस्यान्ते कलायै नम इत्यपि || ४७-१५३ || महादेवाय शब्दान्ते धीमहीति ततः पदम् | ओं विद्यायै पदस्यान्ते कलायै नम इत्यपि || ४७-१५४ || तन्नो रुद्रः पदं पश्चात् ओं प्रतिष्ठायै पदं लिखेत् | श्री दुर्गायै कलायै नमश्चाथ प्रचोदयात् || ४७-१५५ || ओं निवृत्यै कलायै च नमः पदं समुच्चरेत् | ततोऽष्टस्थानमध्ये तु अघोराष्टकला न्यसेत् || ४७-१५६ || हृद्ग्रीवां मध्यगतलं तथा नाभिषु पृष्ठके | तथा वक्षसि चाघोरा अष्टौ कला न्यसेत् सुधीः || ४७-१५७ || अघोरेभ्य उमान्ते वै उमायै पदमुच्चरेत् | कलायै नम एवाथ अघोरेभ्यः पदं वदेत् || ४७-१५८ || ओं मोहायै पदस्यान्ते कलायै नम इत्यपि | अघोरपदमुच्चार्य क्षमायै शब्दमुच्चरेत् || ४७-१५९ || कलायै नम एवाथ घोरतरेभ्य एव च | ओं निद्रायै पदस्यान्ते कलायै नम इत्यपि || ४७-१६० || सर्वतः सर्वं ओं अन्ते व्याधये शब्दमुच्चरेत् | कलायै नम एवाथ सर्वेभ्यः पदमुच्चरेत् || ४७-१६१ || ओं मृत्यवे पदस्यान्ते कलायै नम इत्यपि | नमस्तेऽस्तु पदस्यान्ते ओम् क्षुधायै पदं वदेत् || ४७-१६२ || कलायै नम एवाथ रुद्ररूपेऽथ एव च | ओम् कृष्णायै पदस्यान्ते कलायै नम इत्यपि || ४७-१६३ || वामदेवस्य देवस्य त्रयोदश कला न्यसेत् | एतेषु स्थानपद्मेषु तत्प्रकारं शृणु प्रभो || ४७-१६४ || गुह्येऽण्ड शेषमध्ये तु ऊरुयुग्मे ततः पदम् | जानुद्वये तथा जङ्घायुगले स्फिग्द्वये तथा || ४७-१६५ || कट्यां पार्श्वयुगे चैव क्रमेण भावको न्यसेत् | आदौ प्रणवमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः || ४७-१६६ || वामदेवाय शब्दान्ते नमो ज्येष्ठायशब्दतः || ४७-१६७ || नमो रुद्राय शब्दान्ते नमः शब्दं समुच्चरेत् | कालाय नम एवान्ते कलविकरणाय च || ४७-१६८ || नमो बलविकरणाय बलप्रमथनाय च | ओम् वामदेवाय नमः ओम् वज्राय ततः परम् || ४७-१६९ || कलायै नम एवाथ ज्येष्ठाय नम इत्यपि | ओम् रक्षायै पदस्यान्ते कलायै नम इत्यपि || ४७-१७० || रुद्राय नम ओम् रत्यै कलायै नम इत्यपि | कालाय नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् || ४७-१७१ || कलायै नम इत्यन्ते पालिन्यै शब्दमुच्चरेत् | कामायै शब्दमुच्चार्य कलायै नम एव हि || ४७-१७२ || विकरणाय नमोन्ते प्रणवञ्चोञ्चरेद्बुधः | संयमिन्यै पदान्ते च कलायै नम इत्यपि || ४७-१७३ || बल ओम् शब्दमुच्चार्य क्रोधायैपदमुच्चरेत् | कलायै नम एवाथ विकलायै नमस्ततः || ४७-१७४ || ओं वृद्ध्यै पदकस्यान्ते कलायै नम इत्यपि | बल ओं शब्दमुच्चार्य स्थिरायै शब्दमुच्चरेत् || ४७-१७५ || कलायै नम एवाथ प्रमथनाय नमस्ततः | ओं रौद्रपदस्यान्ते कलायै नम इत्यथ || ४७-१७६ || सर्वभूतदमनाय नम ओं पदमुच्चरेत् | भ्रामिन्यै पदकस्यान्ते कलायै नम इत्यपि || ४७-१७७ || नम ओं शब्दमुच्चार्य मोहिन्यै पदकं स्मरेत् | कलायै नम एवाथ उन्मनाय नमस्ततः || ४७-१७८ || ओं जयायै पदस्यान्ते कलायै नम उच्चरेत् | ततो न्यासं महाकाल सद्योजातस्य ताः कलाः || ४७-१७९ || सद्योजातं प्रपद्यामि ओम् वृद्ध्यै पदमुच्चरेत् | कलायै नम एवाथ सद्योजाताय वै नमः || ४७-१८० || ओम् वृद्ध्यै पदकस्यान्ते कलायै नम इत्यपि | भवे पदे ततः पश्चाद् ओम् सद्यः पदमुच्चरेत् || ४७-१८१ || कलायै नम एवाथ अभवे ओम् ततः परम् | ओम् मेधायै पदस्यान्ते कलायै नम उच्यते || ४७-१८२ || ततो भजस्व मां शब्दं ओम् प्रज्ञायै पदं वदेत् | कलायै नम एवाथ भव ओम् शब्दमुच्चरेत || ४७-१८३ || प्रभायै पदमुच्चार्य कलायै नम इत्यपि | तद्भवाय नमः पश्चात् ओम् सुधायै नमस्ततः || ४७-१८४ || कलायै नम उच्चार्य न्ससेदष्टौ कलाः प्रभोः | ईशानाख्यास्ततो नाथ भक्तः पञ्च ऋचो न्यसेत् || ४७-१८५ || पञ्चाङ्गुलिषु योगेश क्रमशः कामनाशनात् | प्रणवं पूर्वमुच्चार्य ततो मन्त्रं स्मरेत्सुधीः || ४७-१८६ || ईशानः सर्वविद्यानां ईश्वरस्तदनन्तरम् | उच्चरेत्सर्वभूतानां ब्रह्माधिपतिरित्यपि || ४७-१८७ || ब्रह्मणोधिपतिः पश्चात् शिवो मेऽस्तु सदाशिवः प्रणवं पूर्वमुच्चार्य ततस्तत्पुरुषाय च || ४७-१८८ || विद्महे पदतः पश्चात् महादेवाय धीमहि | ततो रुद्रः पदस्यान्ते प्रचोदयात्पुनर्वदेत् || ४७-१८९ || प्रणवं पूर्वमुद्धृत्य ततो मन्त्रं स्मरेत् सुधीः | अघोरेभ्योऽथ घोरेभ्यो घोरशब्दं समुच्चरेत् || ४७-१९० || घोरतरेभ्य एवान्ते सर्वतः सर्वशब्दकम् | सर्वेभ्योऽन्ते नमस्तेऽस्तु रुद्ररूपेभ्य एव च || ४७-१९१ || अष्टौ स्थानेषु चैतेषु सर्वपापनिवृत्तये | पार्श्वयोर्हस्तयोश्चैव नासिकायाञ्च मस्तके || ४७-१९२ || बाहुयुग्मे महावीर मणिपूरविभेदकः | तत्प्रकारं प्रवक्ष्येऽहं सावधानोऽवधारय || ४७-१९३ || बलप्रमथनाय नमोऽन्ते च सर्वभूतपदं वदेत् | दमनाय नमोऽन्ते तु नमः शब्दं समुच्चरेत् || ४७-१९४ || उन्मनाय नमः पश्चात् पुनः प्रणवमुद्धरेत् | सद्योजातं प्रपद्यामि सद्योजाताय वै नमः || ४७-१९५ || भवे भवेनादिभवे भजस्व मां ततः परम् भवोद्भवाय शब्दान्ते नमो मन्त्रं मुदा न्यसेत् || ४७-१९६ || अङ्गुलीभ्यां समाहृत्य पञ्च ऋचानया प्रभो एवं क्रमेण सन्नयासं कुर्यादेषु स्थलेषु च || ४७-१९७ || र्मूध्निहृद्गुह्यपादेषु न्यसेदेता ऋचो मुदा ततः कुर्यान्महाकाल चाङ्गन्यासान्तरं शुभम् || ४७-१९८ || तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय | वाग्भवं पूर्वमुच्चार्य कामबीजं ततः परम् || ४७-१९९ || वकारं शत्रुसंयुक्तं दक्षकार्णेन्दुसंयुतम् | चन्द्रबीजं वामनेत्रथान्तवह्निविधून्न्तम् || ४७-२०० || केवलं चन्द्रबीजं तु सविसर्गमनुं ततः | सर्वज्ञाय पदस्यान्ते हृदयाय नमः पदम् || ४७-२०१ || अमृते पदमुच्चार्य कामबीजं ततः पदम् | तेजोज्वालापदं मालिनेऽन्ते च कॢप्ताय ब्रह्मणेऽपि वसेत्ततः || ४७-२०२ || स्वाहान्तं तत एवाथ ज्वलितशिखिशब्दकम् | शिखायानादिबोधाय शिखायै वषडित्यथ || ४७-२०३ || वजिरणे वज्रहस्ताय स्वतन्त्राय पदं वदेत् | कवचाय तारशब्दं ततोऽन्यद् बीजमुच्चरेत् || ४७-२०४ || नाकारं बिन्दुसंयुक्तं वामनेत्रं सबिन्दुकम् | पशुशब्दं तारमन्त्रं अनन्तशक्तये पदम् || ४७-२०५ || अस्त्राय फडिति प्रोच्य एवं विन्यस्य योगिराट् | मणिपूरे मनो योज्य ध्यायेच्चैतन्यमुत्तमम् || ४७-२०६ || ओम् मुक्तापीतपयोदमौक्तिकजवावर्णैर्मुखैःपञ्चभिः त्र्यक्षैरञ्चितमीशमिन्दुमुकुटं पूर्णेन्दुकोटिप्रभम् | शूलं टङ्ककृपाणवज्रदहनान्नागेन्द्रघण्टाङ्कुशान् | पाशं भीतिहरं दधानममिताकल्पोज्ज्वलाङ्गं भजे || ४७-२०७ || एवं ध्यात्वा मानसोपचारैः सम्पूज्य पूजकः | अर्घ्यस्थापनमाकुर्यान्निजमन्त्राभिशोधनम् || ४७-२०८ || शैवोक्तपीठमन्वन्तां पीठपूजां ततश्चरेत् | पुनर्ध्यात्वा समावाह्य चावाहनादिमुद्रया || ४७-२०९ || पञ्चपुष्पाञ्जलिदानपर्यन्तं परिपूजयेत् | पञ्चपुष्पाञ्जलिं दत्त्वा वदनार्चनमाचरेत् || ४७-२१० || शिवावरुणदेवांश्च पूजयेत्तत् क्रमं शृणु | एशान्यां पूजयेद्विद्वान् ईशानाय नमस्ततः || ४७-२११ || पूर्वे ओं तत्पुरुषाय नमः शब्दं समुच्चरेत् | दक्षिणे ओं अघोराय नमः शब्दं समुच्चरेत् || ४७-२१२ || उत्तरे ओं वामशब्दं देवाय नम उच्चरेत् | पश्चिमे प्रणवं पश्चात् सद्योजाताय एव हि || ४७-२१३ || नमोऽन्तं पूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् | ईशानादिचतुष्केषु निवृत्तीत्यादीन् प्रपूजयेत् || ४७-२१४ || प्रणवान्ते निवृत्यै च नमश्चान्ते ततोऽर्चयेत् | एवं प्रतिष्ठां विद्यां च शान्तिं सम्पूज्य यत्नतः || ४७-२१५ || प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च | योजयित्वा महापूजाविधौ कुर्यात् समर्पणम् || ४७-२१६ || दशदलस्य मध्ये तु विभाव्याष्टदलं सुधीः | तत्रैव पूजनं कुर्यात् अष्टाङ्गयोगसिद्धये || ४७-२१७ || प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च | पूजयेद्देवदेवेशं गन्धपुष्पाक्षतादिभिः || ४७-२१८ || अनन्तेशं पूजयेद्वै तथा सूक्ष्मेशमेव च | शिवोत्तमेशं सम्पूज्य एकनेत्रेशमेव च || ४७-२१९ || एकरुद्रेशमेवं हि त्रिमूर्त्तीशं ततोऽर्चयेत् | भक्त्या समर्चयेत्तत्र श्रीकण्ठेशं शिखण्डिनम् || ४७-२२० || तद्बाह्यपत्रिकाग्रेषु उत्तरादिक्रमेण तु उमाद्यादेवताः पूज्याः प्रणवादिनमोऽन्तिकाः || ४७-२२१ || उमादेवीं समभ्यर्च्य तथा चण्डेश्वरं ततः | नन्दिनञ्च महाकालं गणेशं वृषभं तथा || ४७-२२२ || भृङ्गरीटः स्कन्दपुत्रौ तद्बाह्ये क्रमतोऽर्चयेत् | इन्द्रादीन् लोकपालाश्च गन्धदीपैः समर्चयेत् || ४७-२२३ || वज्रादींश्च क्रमेणैव पूजयेत्साधकोत्तमः | धूपदीपादिनैवेद्यपानार्थं पुनराचमनम् || ४७-२२४ || संहारमुद्रया चोर्ध्वे स्थापयेद्रुद्ररूपिणम् | विसर्जनान्तं तत्कर्म उत्सृष्टपूजनादिकम् || ४७-२२५ || समाप्य विधिनानेन पूजाकर्म समापयेत् | प्रत्यहं मानसं जापं होममर्चनतर्पणे || ४७-२२६ || वर्धयेत् साधकश्रेष्ठो भक्तिभावपरायणः | पञ्चलक्षजपेनास्या पुरश्चरणमिष्यते || ४७-२२७ || एवं ध्यात्वा जपेन्मन्त्रं पञ्चलक्षं मधुप्लुतैः | प्रसूनैः करवीरोत्थैरथवा जुहुयात् सुधीः || ४७-२२८ || सर्वदा मानसं कार्यं द्रव्यालाभेऽनिशं चरेत् | तद्दशांशं प्रजुहुयात्तद्दशांशञ्च तर्पणम् || ४७-२२९ || तद्दशांशं चाभिषेकं दशांशं विप्रभोजनम् | एवं जपं साधनञ्च पुरा नारायणो मुनिः || ४७-२३० || कृत्वा सर्वसत्त्वमयः शीतलो योगिराड् भवेत् | यः करोति साधनानि सोऽचिरादमरो भवेत् || ४७-२३१ || पूजान्ते पूजाशेषे च पूजामध्यक्रमेण च | प्रणमेत् साधकश्रेष्ठो वरुणात् पापभूपतेः || ४७-२३२ || ओं नमः परमकल्याण नमस्ते विश्वभावन नमस्ते पार्वतीनाथ उमाकान्त नमोऽस्तु ते || ४७-२३३ || विश्वात्मने विचिन्त्याय गुणाय निर्गुणाय च | धर्माय ज्ञानमोक्षाय नमस्ते सर्वयोगिने || ४७-२३४ || नमस्ते कालरूपाय त्रैलोक्यरक्षणाय च | गोलोकघातकायैव चण्डेशाय नमोऽस्तु ते || ४७-२३५ || सद्योजाताय देवाय नमस्ते शूलधारिणे | कालान्ताय च कान्ताय चैतन्याय नमो नमः || ४७-२३६ || कुलात्मकाय कौलाय चन्द्रशेखर ते नमः | उमानाथ नमस्तुभ्यं योगीन्द्राय नमो नमः || ४७-२३७ || सर्वाय सर्वपूज्याय ध्यानस्थाय गुणात्मने | पार्वती प्राणनाथाय नमस्ते परमात्मने || ४७-२३८ || एतत्स्तोत्रं पठित्वा च स्तौति यः परमेश्वरम् | याति रुद्रकुलस्थानं मणिपूरं विभिद्यते || ४७-२३९ || एतत्स्तोत्रप्रपाठेन तुष्टो भवति शङ्करः | खेचरत्वं पदं नित्यं ददाति परमेश्वरः || ४७-२४० || ततो वक्ष्ये महादेव मृत्युञ्जयविधानकम् | यत् कृत्वा परमब्रह्ममयो भवति साधकः || ४७-२४१ || मृत्युञ्जयस्य मन्त्रं वै जपते यदि मानुषः | कोटिवर्षशतं स्थित्वा लीनो भवति ब्रह्मणि || ४७-२४२ || सर्वव्यापकरूपेण स तिष्ठति सदाशिव | तत्प्रकारं प्रवक्ष्यामि सावधानोऽवधारय || ४७-२४३ || आदौ पूजां विधानेन वक्ष्यामि सारनिमीताम् | श्रीकण्ठसपूर्णोदर्याश्च न्यासं चास्ये समाचरेत् || ४७-२४४ || ततो हृदयमध्ये तु स्वहस्ताङ्गुलिमुद्रया | तद्वयान्यस्य देवेश तत्प्रकाशं प्रचक्ष्यते || ४७-२४५ || प्रणवादि नमोऽन्तेन चतुर्थ्यन्तपदेन च | योजयित्वा न्यसेन्मन्त्री मन्त्रभावपरायणः || ४७-२४६ || आधारशक्तिमेवं हि प्रकृतितदनन्तरम् | कूर्ममनन्तं तत्पश्चात् पृथिवीं क्षीरसागरम् || ४७-२४७ || श्वेतद्वीपं ततः पश्चान्मणिमण्डपमेव च | कल्पवृक्षे ततो नाथ विन्यसेन्मणिवेदिकाम् || ४७-२४८ || रत्नसिंहासनं तत्र हृदयाम्भोजमण्डले | दक्षवामस्कन्धभागे वामोरौ दक्षिणे तथा || ४७-२४९ || मुखे वामपार्श्वभागे नाभौ दक्षपार्श्वके | प्रणवादिनमोऽन्तेन चतुर्थ्यन्तपदेन च || ४७-२५० || सर्वत्र न्यासमाकुर्यात्तेषां नाम शृणु प्रभो | क्रमेण सर्वं कर्त्तव्यं क्रमभङ्गो न चाचरेत् || ४७-२५१ || धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं तदनन्तरम् | अधर्ममपि चाज्ञानमवैराग्यं ततः परम् || ४७-२५२ || अनैश्वर्यं क्रमेणापि विन्यसेत् साधकोत्तमः | पुनर्वारं हृदम्भोजे न्यसेदेकमनाः सुधीः || ४७-२५३ || अनन्तपद्ममेवं तु अं सूर्यमण्डलं तथा द्विषट्कलात्मना सार्धं सं सोममण्डलं तथा || ४७-२५४ || षोडशकलात्मानञ्च मं वह्निमण्डलं तथा दशकलात्मना सार्धं सं सत्वं तदनन्तरम् || ४७-२५५ || रं बीजं रजसं तत्र तं तमसमेव च आं आत्मने न्यसेन्मन्त्री अं अन्तरात्मने नमः || ४७-२५६ || पं बीजं परमात्मानं मायाज्ञानात्मने नमः इत्यन्तं न्यस्य देवेश मन्त्रसिद्धिमवाप्स्यसि || ४७-२५७ || मणिपूरे मन्त्रसिद्धिं सर्वसिद्धिमवाप्नुयात् यः करोति सदा न्यासं ध्यानपूजापरायणः || ४७-२५८ || वामां ज्येष्ठां तथा रौद्रीं कालीं कलपदादिकाम् | विकरण्याह्वया युक्ता बलविकरणीं तथा || ४७-२५९ || बलप्रमथिनीं चैव न्यसेत् साधकसत्तमः | ततः सर्वभूतदमनीं मनोन्मनीं ततो न्यसेत् || ४७-२६० || तदुपरि न्यसेन्नाथ ओं नमो भगवते पदम् | सकलगुणात्मनः शक्तिं चान्ते युक्ताय पदमावदेत् || ४७-२६१ || अनन्ताय पदस्यान्ते योगपीठात्मने पदम् | नमोऽन्तोऽयं महामन्त्रः सर्वोपरि न्यसेत्सुधीः || ४७-२६२ || ततो नाथ समाकुर्यात् साधको गतभीः स्वयम् | ऋष्यादिन्यासमाकुर्यात् तत्प्रकारं शृणु प्रभो || ४७-२६३ || शिरसि पदमुच्चार्य कहोडऋषये नमः | तदुपरि ततो नाथ महाविष्णुपदं वदेत् || ४७-२६४ || ऋषये नम इत्युक्त्वा मुखे देवीपदं वदेत् | गायत्रीच्छन्दसे पश्चान्नमः शब्दं समुच्चरेत् || ४७-२६५ || हृदि मृत्युञ्जयायैवं दैवतायै नमः पदम् | ऋषिः कहोडो देव्याश्च गायत्रीच्छन्द ईरितम् || ४७-२६६ || मृत्युञ्जयो महादेवो देवतास्य प्रकीतीता | कराङ्गन्यासकौ कुर्यात् षड्दीर्घभाजया सह || ४७-२६७ || सकारेण महाकाल तत्प्रकारं शृणु प्रभो | सामङ्गुष्ठाभ्यां चान्ते च नमः शब्दं क्रमेण तु || ४७-२६८ || एवं कराङ्गुलीन्यासं कुर्यादेव महाप्रभो | षड्दीर्घभाजा मन्त्रेण सकारेण सबिन्दुना || ४७-२६९ || कराङ्गन्यासमाकुर्यात् कुलतन्त्रक्रमेण तु | ततो ध्यानं समाकुर्यात् शुभभावपरायणः || ४७-२७० || इन्द्वर्कानललोचनं स्मितमुखं पद्मद्वयान्तास्पदं | मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुच्छविम् | कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलं | कान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये || ४७-२७१ || एवं ध्यात्वा मानसोपचारद्रव्यैः प्रपूजयेत् | अर्घ्यस्थापनमाकृत्य तत्तन्मन्त्रेण साधकः || ४७-२७२ || पूजयेत्पीठमन्वन्ता तत्तन्मन्त्रेण साधकः | पुनर्ध्यात्वा समावाह्य मूलमन्त्रेण मन्त्रवित् || ४७-२७३ || पाद्यादिभिः पूजयेद्वै गन्धपुष्पादिशोभितैः | पञ्चपुष्पाञ्जलिं दत्वा परिवारान् प्रपूजयेत् || ४७-२७४ || केशरेष्वग्निनिरृतिवायवीशानेषु पूजयेत् | मध्ये दिक्षु च तन्मध्ये सा बीजं तत्र चोच्चरेत् || ४७-२७५ || हृदयाय नमश्चान्ते सीं बीजं तदनन्तरम् | शिरसे स्वाहया सार्धं सु बीजं तदनन्तरम् || ४७-२७६ || शिखायै वषडित्यादि सैं बीजं तदनन्तरम् | कवचाय पदस्यान्ते तारबीजं समुच्चरेत् || ४७-२७७ || सों बीजं पूर्वमुच्चार्य नेत्रत्रयाय इत्यपि | वौषडादिमध्यपदं चतुदीक्षु ततः परम् || ४७-२७८ || सश्चान्तेऽस्त्राय शब्दान्ते फडित्येव समर्चयेत् | षडङ्गानि पूजयित्वा तद्बहिः प्रतिपूजयेत् || ४७-२७९ || इन्द्रादींल्लोकपालांश्च वज्रादींश्च तथा प्रभो | धूपदीपादिनैवेद्यपानादीनि प्रदापयेत् || ४७-२८० || विधिना वादनं कुर्यान्मृत्युञ्जयसुतोषणात् | विसर्जनान्तं यत्कर्म समाप्य विधिनामुना || ४७-२८१ || संहारमुद्रया चैव हृदये चानयेद् बुधः | प्रसन्नहृदयो भूत्वा चरणोदकमापिबेत् || ४७-२८२ || एतन्मात्रेण देवेश सर्वसिद्धिं समाप्नुयात् | पिबामि चरणद्वन्द्वाम्भोजनिःसृतकं भजे || ४७-२८३ || अमरत्वं सदा देहि मृत्युञ्जय नमोऽस्तुते || ४७-२८४ || इति श्रीरुद्रयामले उत्तरतन्त्रे मन्त्रप्रकाशो नाम सप्तचत्वारिंशः पटलः || ४७ || अथाष्टचत्त्वारिंशः पटलः आनन्दभैरव उवाच श्रुतं च साधनं पुण्यं महारुद्रस्य सुन्दरि | मणिपूरे प्रकाशञ्च कथितं ज्ञाननिर्णयम् || ४८-१ || अकस्मात् सिद्धिसम्पत्तिं नुतिं वद महापिरयाम् | यस्य श्रवणमात्रेण पाठेन योगिनीवशम् || ४८-२ || श्रीआनन्दभैरवी उवाच परमानन्ददेवेश योगानामधिप प्रभो | स्तोत्रं रुद्रस्य वक्ष्यामि सारात्सारं परात्परम् || ४८-३ || यज्ज्ञात्वा योगिनः सर्वे षट्चक्रपरिभेदकाः | आकाशगामिनः सर्वे र्स्वगमोक्षाभिलाषुकाः || ४८-४ || महादेवसमाः सर्वे देवाश्च स्वर्गभोगिनः | सर्वरक्षाकरं स्तोत्रं ये पठन्ति निरन्तरम् || ४८-५ || ते यान्ति ब्रह्मसदनं सिद्धमुख्या महीतले || ४८-६ || ओं भजामि शम्भुं सुखमोक्षहेतुं | रुद्रं महाशक्तिसमाकुलाङ्गम् | रौद्रात्मकं चारुहिमांशुशेखरं | कालं गणेशं सुमुखाय शङ्करम् || ४८-७ || मृत्युञ्जयं जीवनरक्षकं परं | शिवं परब्रह्मशरीरमङ्गलम् | हिमांशुकोटिच्छविमादधानं | भजामि पद्मद्वयमध्यसंस्थितम् || ४८-८ || सर्वात्मकं कामविनाशमूलं | तं चन्द्रचूडं मणिपूरवासिनम् | चतुर्भुजं ज्ञानसमुद्रयाढ्यं | पाशं मृगाक्षं गुणसूत्रव्याप्तम् || ४८-९ || धरामयं तेजसमिन्दुकोटिं | वायुं जलेशं गगनात्मकं परम् | भजामि रुद्रं कुललाकिनीगतं | सर्वाङ्गयोगं जयदं सुरेश्वरम् || ४८-१० || शुक्रं महाभीमनयं पुराणं | प्राणात्मकं व्याघिविनाशमूलम् | यज्ञात्मकं कामनिवारणं गुरुं | भजामि विश्वेश्वरशङ्करं शिवम् || ४८-११ || वेदागमानामतिमूलदेशं | तदुद्भवं भद्रहितं परापरम् | कालान्तकं ब्रह्मसनातनपिरयं | भजामि शम्भुं गगनादिरूढम् || ४८-१२ || शिवागमं शब्दमयं विभाकरम् | भास्वत्प्रचण्डानलविग्रहं ग्रहम् | ग्रहस्थितं ज्ञानकरं करालम् भजामि शम्भुं प्रकृतीश्वरं हरम् || ४८-१३ || छायाकरं योगकरं सुखेन्द्रं | मत्तं महामत्तकुलोत्सवाढ्यम् | योगेश्वरं योगकलानिधिं विधिं | विधानवक्तारमहं भजामि || ४८-१४ || हेमाचलालङ्कृतशुद्धवेशं | वराभयादाननिदानमूलम् | भजामि कान्तं वनमालशोभितं | चामूलपद्मामलमालिनं कुलम् || ४८-१५ || स्वयं पुराणं पुरुषेश्वरं गुरुं | मिथ्याभयाह्लादविभाविनं भजे | भावपिरयं प्रेमकलाधरं शिवं | गिरीश्वरं चारुपदारविन्दम् || ४८-१६ || ध्यानपिरयं ज्ञानगभीरयोगं | भाग्यास्पदं भाग्यसमं सुलक्षणम् | शूलायुधं शूलविभूषिताङ्गं | श्रीशङ्करं मोक्षफलक्रियं भजे || ४८-१७ || नमो नमो रुद्रगणेभ्य एवं | मृत्युञ्जयेभ्यः कुलचञ्चलेभ्यः | शक्तिपिरयेभ्यो विजयादिभूतये | शिवाय धन्याय नमो नमस्ते || ४८-१८ || बाह्यं त्रिशूलं वरसूक्ष्मभावं | विशालनेत्रं तनुमध्यगामिनम् | महाविपद् दुःखविनाशबीजं | प्रज्ञादयाकान्तिकरं भजामि || ४८-१९ || पुरान्तकं पूर्णशरीरिणं गुरुं | स्मरारिमाद्यं निजतर्कमार्गम् | अनादिदेवं दिवि दोषघातिनम् | भजामि पञ्चाक्षरपुण्यसाधनम् || ४८-२० || दिगग्बरं पद्ममुखं करस्थं | स्थितिक्रियायोगनियोजनं भवम् | भावात्मकं भद्रशरीरिणं शिवं | भजामि पञ्चाननमर्कवर्णम् || ४८-२१ || मायामयं पङ्कजदामकोमलं | दिग्व्यापिनं दण्डधरं हरेश्वरम् | त्रिपक्षकं त्र्यक्षरबीजभावं | त्रिपद्ममूलं त्रिगुणं भजामि || ४८-२२ || विद्याधरं वेदविधानकार्यं | कायागतं नीतनिनादतोषम् | नित्यं चतुर्वर्गफलादिमूलं | वेदादिसूत्रं प्रणमामि योगम् || ४८-२३ || वेदान्तवेद्यं कुलशास्त्रविज्ञं | क्रियामयं योगस्वधर्मदानम् | भक्तेश्वरं भक्तिपरायणं वरं | भक्तं महाबुद्धिकरं भजाम्यहम् || ४८-२४ || गतागतं गम्यमगम्यभावं | समुल्लसत्कोटिकलावतंसम् | भावात्मकं भावमयं सुखासुखं | भजामि भर्गं प्रथमारुणप्रभम् || ४८-२५ || बिन्दुस्वरूपं परिवादवादिनं | मध्याह्नसूर्यायुतसन्निभं नवम् | विभूतिदानं निजदानदानं | दानात्मकं तं प्रणमामि देवम् || ४८-२६ || कुम्भापहं शत्रुनिकुम्भघातिनं | दैत्यारिमीशं कुलकामिनीशम् | प्रीत्यान्वितं चिन्त्यमचिन्त्यभावं | प्रभाकराह्लादमहं भजामि || ४८-२७ || त्रिमूत्तीमूलाय जयाय शम्भवे | हिताय लोकस्य वपुर्धराय | नमो भयाच्छिन्नविघातिने पते | नमो नमो विश्वशरीरधारिणे || ४८-२८ || तपःफलाय प्रकृतिग्रहाय | गुणात्मने सिद्धिकराय योगिने | नमः प्रसिद्धाय दयातुराय | वाञ्छाफलोत्साहविवर्धनाय ते || ४८-२९ || शिवममरमहान्तं पूर्णयोगाश्रयन्तं | धरणिधरकराब्जैर्वर्धमानं त्रिसर्गम् | विसम मरणघातं मृत्युपूज्यं जनेशं | विधिगणपतिसेव्यं पूजये भावयामि || ४८-३० || एतत्स्तोत्रं पठेद् विद्वान् मुनिर्योगपरायणः | नित्यं जगन्नाथगुरुं भावयित्वा पुनः पुनः || ४८-३१ || मणिपूरे वायुनिष्ठो नित्यं स्तोत्रं पठेद् यदि | जीवन्मुक्तश्च देहान्ते परं निर्वाणमाप्नुयात् || ४८-३२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने रुद्रमृत्युञ्जयस्तवनं | नाम अष्टचत्वारिंशत्तमः पटलः || ४८ || अथैकोनपञ्चाशत्तमः पटलः आनन्दभैरवी उवाच षट्चक्रभेदनार्थाय सर्वसिद्धसुसिद्धये | वक्ष्यामि लाकिनीदेवीस्तोत्रं परमदुर्लभम् || ४९-१ || यत्पाठादतिसन्तोषं प्राप्नोति यतिरीश्वर | तत्क्रियासारसम्पन्नं स्तवनं लाकिनीपिरयम् || ४९-२ || अस्य श्रीलाकिनीस्तोत्रस्य महाविष्णुकहोडऋषिर्गायत्रीच्छन्दो महासिद्धिदमृत्युञ्जय-- महारुद्र लाकिनी सरस्वतीदेवता मणिपूरभेदने जपे विनियोगः || ओम् बीजाक्षरमूतीमाती हरिणीमार्यां जयां बुद्धिदां | दीनानामपराधकोटिहननीं संज्ञामणिं योगिनाम् | त्वामाद्यामनुरागिणीं गुणगणामोदैकहेतुस्थलां | स्थित्यन्तःकृतकौतुकीम वरदे वन्दे मुदा लाकिनीम् || ४९-३ || हेरम्बार्चनसिद्धिदाद्वयगता कोटिप्रभा भास्करा साकारा किरणोज्ज्वला सुखमयी वेदध्वनिप्राणिनी | कोपाको पितलक्षणा तरुतराकल्पाशया संशया कृत्वैवं वरवणीनी समवतु श्रीलाकिनी कङ्किनी || ४९-४ || केयूरामलहारमालशुभगा वीरासना स्थायिनी भार्या रुद्रपतेः प्रवालविमला वक्त्रोत्पल स्रग्धरा | माता योगवतां सती परा परपदा माध्वीरसाच्छादिता | त्वं मां पाहि कृपामयी यमगतं मृत्युञ्जये श्रीधरे || ४९-५ || आकाङ्क्षीकुलसङ्ख्यका क्षयकरी शत्रुप्रभादेर्दया | भक्तानामतिदुःखहा शशिमुखी योन्यानना कामुकी | कामस्थानमकामदोषशतकं शीघ्रं त्वलक्षेमदा | जीवन्मुक्तिपदं विधेहि समरे सर्गद्रुहस्य पिरयम् || ४९-६ || त्वं पञ्चाननपूजिता त्वमशिता त्वं बालविद्यागति-- | स्त्वं सत्यं कवितासु वाक्यकविता त्वं केवलानन्ददा | त्वं लाक्षारुणरूपिणी त्वमवरा त्वं लिङ्गसंहारिणी | त्वं साक्षादमृतप्रदा त्वमजरा त्वं लाकिनी पातु माम् || ४९-७ || नानामङ्गलधर्मराज्यजडिता संस्कारबोधाश्रया | लिङ्गस्थाचलपुत्रिका नवगृहे सङ्कामयन्ती शिवा | मे लिङ्गोपरि रुद्रनाथ विपथव्याभेदनं सङ्गमं | शीघ्रं कारय देवि मोक्षतुरिकं कोटीव चन्द्रोज्ज्वला || ४९-८ || चन्द्राभासकलाश्रया श्रयति या शब्दच्छटा या समा | माया मोहभिदा दया दयति या कृष्णक्रिया मोहिनी | लक्ष्मीर्नीलकलेवरामलमणेः पूर्वं सदा रक्षतु | श्रीविद्या भयदायिनी त्वमपि सा मे नाभिमूलोदया || ४९-९ || मात्रा मुद्रामनननिलया मालिनी मन्त्रविद्या | विश्वेशानी शयनरहिता शीतवातातपस्था | सत्यासत्या वचनभवगा गौरि माता त्वमेव | प्राणान् रक्ष प्रथमकिरणामाश्रये त्वामनन्ताम् || ४९-१० || सिद्धासिद्धा शशिरविकला केवलाम्भोजसंस्था | स्थित्यानन्दा नयनस्वचलाम्भोजमध्यप्रकाशा | नित्यं श्रद्धागतिपथकरा कर्त्री कामानहर्त्री | नाद्यस्तोत्रं भज भज भजे त्वामनन्तां स्वरूपे || ४९-११ || पीतापीता पवनगमना धारणध्यानयोगा | कालाकाला कलिकुलकला निष्कला ज्ञानरूपा | कृष्णानन्दा मदनकुहरा केकरा शङ्करी वा | त्वं श्रीघात्री धवलकमलं नाभिमूले प्रवक्ष्ये || ४९-१२ || श्वेता श्वेतारुणशतकरा भावनाज्ञानसिद्धिः | प्रीताप्रीता परमगहना चारुणामाननायाः | त्वं सा विद्या विधिबुधवरा धारणाज्ञानगम्या | रम्यारम्या रमणनिरता नीरदा पातु नाभिम् || ४९-१३ || मन्दोद्बन्धपिरयवधुलता नीरवानावहन्त्री | क्षेत्राक्षेत्रा परचरगता भुक्तिमुक्तिप्रकाशा | कौलाकौलाज्ञापितनयना गञ्जना वातमुग्धा | मुग्धामुग्धामतिधनपतेर्नाभिसंस्थेऽवनाभिम् || ४९-१४ || हंसी सिंहासनगतपदा चक्रविद्या सुसूक्ष्मा | श्रीविद्या त्वं नवविलचरा सुन्दरी रक्तवर्णा | स्वर्णाम्भोजोपरि शुभमना चक्रमध्ये प्रतिष्ठा सर्वा वर्णा परिजनदयानाभिपद्मं च रक्षा || ४९-१५ || ब्रह्मानन्दा नृपगणमहापूजया शोभिताङ्गी | श्रीश्रीविद्यासकलविभवा भावनीया महेन्द्रैः | सिद्धस्थाने मणिमयगृहे मूलसिंहासनस्था | पद्मे चाष्टान्वितयुगदले नाभिमूले ममाव || ४९-१६ || योगज्ञानं द्विविधविभवं वेदविद्याप्रकाशं | मे चाष्टाङ्गं समवतु मुदा षोडशी भैरवस्था | चन्द्रोल्का त्वं भवभयहरा शोकतापापहन्त्री | नाभावब्जे उदयति सुरो यस्तमीशे प्ररक्ष || ४९-१७ || संशिष्टा त्वं विरत करुणे शीतले शीतशैले | साक्षादन्यप्रचयवचना पार्वणा पर्वपूरा | विद्युत्पूरं समसुखमयं पाहि पञ्चानना या | त्वं सा देवी शुभमणिगृहे शीतलत्वं विधेहि || ४९-१८ || छन्दोगानां सकलविषयच्छेदिनी चार्णमाता माला लाक्षरुणकिरणभा गोपपूज्या गिरीज्या | मातस्त्वं मे स्वमणिभवनं पाहि सूक्ष्मा भवानी | वानस्थानाश्रय जय कराचाङ्गिरा चान्नपूर्णा || ४९-१९ || चन्द्रोल्लासाऽवयवसुखदा दीर्घकेशी विशाला | त्वं मातङ्गी जननि जगतां बालिका विप्रचण्डा | ज्योत्स्नाजाले उदयति सदा रक्तभाषप्रभासा | त्वं मे रुद्र हरिहरतनुं नाभिमूले प्ररक्ष || ४९-२० || वाणीनाम्ना रचयति वचः सुन्दरी वर्णनस्था | स्थित्यन्तस्था चलतनुधरा धामसन्धामरा सा | बोधानन्दप्रकृतितनुभिर्व्यापिनी ज्ञानमुग्धा | मातस्त्वं मे मणिदलगृहं पाहि सर्वाङ्गविद्ये || ४९-२१ || विद्या चण्डामलसितसृजा चन्दनालिप्तदेहा | विश्वेशानि भगवति शिवे त्वं क्षयामोघरूपा | जाया शम्भोर्जटिलशिवगता मोक्षदा मानसंस्था | चित्तं शुभ्रं कुरु विषयछेदनं छेदिनि त्वम् || ४९-२२ || मणिमयकुलगेहे कोटिविद्युत्प्रकाशेऽ-- भयवरमपि देहि कोधविद्ये मयि त्वम् | सकलसुखविभोगं पालय प्राणरूपं | चरणतलविलग्नं मामनाथं परेशि || ४९-२३ || भुवनगहनहेतोः कायसर्गा विनास्ते | विधिमखसुरनाथं मानुषादि त्रिसर्गम् | मम मणिकुलपद्मे नित्यरूपाभिधानं | जयति खलु तदानीं स्तोत्रसारप्रकारम् || ४९-२४ || भवतु चरणपद्मे लाकिनी देवकन्ये | विरचय मनुशास्त्रं सिद्धमन्त्रप्रकारम् | वह वह भवभावं त्राहि मां चन्द्रगेहे | कठिनहृदयनाशं शङ्करि त्वं कुरुष्व || ४९-२५ || कमलवनसमीपे वन्यमध्येऽतिगुह्ये विषयविषयिनाशं कौलिके त्वं विकृत्य | भवनिजमणिपीठे स्थापयित्वा निदानं | हर हरदयिते त्वं दोषषट्कं विवादम् || ४९-२६ || घोरे सान्द्रान्धकारे मम निजकुलदृग्दानकत्री प्रसन्ने | वाञ्छाकल्पद्रुमस्था त्वमिह कुशलदा दायभागाविभागा | त्वं काली नन्दिनीस्था नयकरुणघटा मध्यगा माघका त्वं | भीमा भीत्यापहन्त्री हरपदनयनो लाकिनी नाभिमाव || ४९-२७ || एतत्स्तोत्रं पठेद् विद्वान् योगज्ञानी निराश्रयः | महासुखगतो वीरो विभवायामृताय च || ४९-२८ || भोगमोक्षौ करे तस्य चैहिके योगिराड् भवेत् | परे याति महादेवी पादपद्मे न संशयः || ४९-२९ || एहिके चिरजीवित्वं ददाति कामदायिनी | मणिपूरे स्थितो याति कुलमार्गप्रसादतः || ४९-३० || कुलमार्गेण यत्स्थानं लयं विश्वेश्वरीपदम् | तल्लया मणिपूरस्था देवता पश्यति ध्रुवम् || ४९-३१ || पूजान्ते प्रपठेत् स्तोत्रं भक्तिभावपरायणः | शीघ्रमेव हि योगी स्यात् कुलमार्गप्रसादतः || ४९-३२ || इति श्रीरुद्रयामले उत्तरतन्त्रे लाकिनीशस्तवनं नाम एकोनपञ्चाशत्तमः पटलः || ४९ || अथ पञ्चाशत्तमः पटलः आनन्दभैरवी उवाच नाथ कान्त प्रवक्ष्यामि सिद्धसाधनमुत्तमम् | येन साधनमात्रेण नरो योगी भवेद् ध्रुवम् || ५०-१ || त्रिवीरं त्रिविधं प्रोक्तमुत्तमाधममध्यमम् | तत्रैव त्रिविधं सङ्गमूर्ध्वपातालभूतलम् || ५०-२ || सप्त ऊर्ध्वं तथा नाथ सप्त भूतलमेव च | सप्त पातालमेवं हि सप्तत्रिसप्तसंख्यकम् || ५०-३ || तन्मध्ये त्रिविधं भावं दिव्यवीरपशुक्रमम् | दिवि तिष्ठन्ति देवाश्च वीरास्तिष्ठन्ति भूतले || ५०-४ || पशवः सन्ति पाताले क्रमशः क्रमशः प्रभो | सर्वत्र त्रिगुणच्छन्नं सत्त्वरजस्तमादिकम् || ५०-५ || सत्त्वगुणं स्वर्गमध्ये सर्वे विष्णुपरायणाः | तदा सर्वे दृढाः स्वर्गे भूतले च रजोगुणम् || ५०-६ || ब्रह्मसेवापराः सर्वे ब्रह्मज्ञानिन एव च | पाताले शिवसेवाश्च शिवरूपिण एव च || ५०-७ || तमोगुणात् पशोर्भावं तमोदृष्टिं समाप्य च | ततो विहाय तज्ज्ञानं वीरो भवति साधकः || ५०-८ || वीरभावे ज्ञानदृष्टिं ब्रह्मसिद्धिं समाप्य च | देवता भवति क्षिप्रं सत्त्वे निर्मलभावके || ५०-९ || स्थिरो भूत्वा महादेवो भवत्येव क्रमेण तु | आकाशगामिनी सिद्धिः क्रमशो भवति ध्रुवम् || ५०-१० || मूलाधारस्य चाधो वै पातालतलवासिनः | तदूर्ध्वे ब्रह्मलोके तु भूतलादिनिवासिनः || ५०-११ || तदूर्ध्वे सत्त्वनिलयं स्वाधिष्ठानं हि दैवतम् विधिविद्याप्रकाशश्च वरदेवस्य सम्पदम् || ५०-१२ || तदूर्ध्वे सर्वरूपञ्च सर्वज्ञानाश्रयं परम् | परस्थानं महादेव मणिपूरं मनोहरम् || ५०-१३ || रुद्रशक्त्यात्मकं चक्रं श्रीविद्याचक्रमण्डलम् | लाकिनी परमा माया महारुद्रेण सेविता || ५०-१४ || मणिपूरप्रकाशाय रुद्रशक्तिवीभाति च | सर्वज्ञानानन्दमयं सर्वसिद्धिप्रकारकम् || ५०-१५ || महासूक्ष्मशब्दमयं कुण्डलं ज्ञानसाधनम् | यस्याः साधनमात्रेण योगी भवति भैरव || ५०-१६ || प्रकार एव सेवायां महासिद्धीश्वरो भवेत् | सर्वे च पशवः सन्ति तलवद् भूतले नराः || ५०-१७ || तेषां ज्ञानप्रकाशाय वीरभावः प्रकाशितः | वीरभावं मुदा प्राप्य क्रमेण देवता भवेत् || ५०-१८ || यत्काले वीरभावादिसिद्धिं प्राप्नोति मानवः | तत्कालनिर्णयं वक्ष्ये वीराद्देवत्वमाप्नुयात् || ५०-१९ || मासेनाकषीणी सिद्धिर्मासेन वाक्पतिर्भवेत् | मासत्रयेण संयोगाज्जायते सुरवल्लभः || ५०-२० || एवं चतुष्टये मासि भवेद् दिक्पालगोचरः | पञ्चमे पञ्चबाणः स्यात् षष्ठे रुद्रो न संशयः || ५०-२१ || वीरभावं समाश्रित्य सर्वदा योगमाश्रयेत् | पशोरधीनं देवेश वीरभावं मनोहरम् || ५०-२२ || वीराधीनं दिव्यभावं दिव्येन रुद्रतर्पणम् | रुद्रदर्शनमात्रेण जीवन्मुक्तो भवेद् ध्रुवम् || ५०-२३ || जीवन्मुक्तिपदं प्राप्य किन्न सिध्यति भूतले | मनोनिवेशमाकृत्य पशुभावाश्रितो नरः || ५०-२४ || वीरभावं समाश्रित्य चादौ योगं समाश्रयेत् | सर्वदा चाभ्यसेद् योगं मन्त्रन्यासपरायणः || ५०-२५ || योगसिद्धिं ज्ञानसिद्धिं मोक्षसिद्धिं ततः परम् | यदि मोक्षमिहेच्छन्ति पशवः शास्त्रमोहिताः || ५०-२६ || समज्ञानं वीरभावमाश्रित्य योगमाप्नुयात् | योगाभ्यासस्य चाद्ये च शरीरं परिशोधयेत् || ५०-२७ || आदौ पञ्चामराः कार्याः सर्वकार्यनिराश्रयाः | केवलं योगमाश्रित्य सदा पञ्चामरा भवेत् || ५०-२८ || द्विप्रकारं महाकाल पञ्चामराभिधानकम् | नेती दन्ती तथा धौती नेउली क्षालनं तथा || ५०-२९ || एकप्रकारमेवं हि कथितं परमेश्वर | दन्ती नेती तथा धौति नेउली क्षालनक्रमात् || ५०-३० || एवं वा नित्यमाकुर्याद् योगसिद्धिसमृद्धये | पञ्चामरासाधनादिकाले कुर्यान्निजक्रियाम् || ५०-३१ || ओषधी पञ्चमं ग्राह्यं पञ्चयोगसुसिद्धये | बिल्वपत्रं जयापत्रं तुलसीश्यामपत्रकम् || ५०-३२ || निर्गुण्डीपत्रमेवं तु दूर्वाग्रन्थिरसेन च | एषां प्रकृतिनामानि वक्ष्यामि शृणु शङ्कर || ५०-३३ || अमरा बिल्वपत्रं तु चामरा विजयादलम् | अमरलता ग्रन्थिदूर्वा निर्गुण्डी चामरेश्वरी || ५०-३४ || अमरा श्यामतुलसी पञ्चामरास्तरूद्भवाः | कथिता योगसिद्ध्यर्थे तत्प्रमाणं क्रमात् शृणु || ५०-३५ || पञ्चतोलकमानं तु विजयापत्रमेव च | अन्येषां तोलकं चैकं संशोध्य भक्षणं चरेत् || ५०-३६ || एतद्भक्षणमात्रेण पञ्चयोगे जयी भवेत् | पुनस्तेषां महाकाल मनुं वक्ष्यामि तत्त्वतः || ५०-३७ || सकलं चामरायोगं मन्त्रेणानेन भक्षयेत् | तातद्वयं समुद्धृत्य ऋयुगं तदनन्तरम् || ५०-३८ || विसर्गबिन्दुसंयुक्तं तत्पश्चादमृतामुखि | मरणं मारयद्वन्द्वं योगसिद्धिं ततः परम् || ५०-३९ || देहि देहि पदस्यान्ते स्वाहान्तं मन्त्रमुत्तमम् | एतन्मन्त्रेण चोत्पाट्य मन्त्रयित्वा प्रभक्षयेत् || ५०-४० || एतत्काण्डस्य मन्त्रं तु तत्रैव परियोजयेत् | निर्गुण्डीमन्त्रराजं तु शृणु वक्ष्यामि भैरव || ५०-४१ || कामबीजत्रयं पश्चात् कालीबीजत्रयं तथा | सर्वयोगं ततः पश्चात् साधयद्वयमेव च || ५०-४२ || अमृतत्वं मयि शक्तं समर्पयद्वयं ततः | स्वाहान्तमनुना चाथ चोत्पाट्य भक्षणं चरेत् || ५०-४३ || बिल्वपत्रं प्रगृह्णीयात्तन्मन्त्रं शृणु भैरव | लज्जाबीजं कामबीजं शक्तिबीजं ततः परम् || ५०-४४ || ब्रह्मबीजं ततः पश्चाद् गौरसुन्दरि चावदेत् | मां स्थापय महायोगे पालयद्वयमेव च || ५०-४५ || शङ्करप्रेमगलिते स्वाहान्तं मन्त्रमुच्चरेत् | तुलसीपत्रं संशोध्य चोत्पाट्य मनुनाऽमुना || ५०-४६ || विष्णुपिरये महामाये शिवयोगप्रसाधिनि | मायाच्छेदं ततः पश्चात् संसारं हारयद्वयम् || ५०-४७ || अमरत्वं देहि देहि स्वाहान्तं प्रणवादिकम् | शृणु श्रीविजयापत्रशोधनं हि चतुवीधम् || ५०-४८ || चतुर्वर्णं स्वमन्त्रेण परिशोध्य कुलाकुलम् | तत्क्रमं परिवक्ष्यामि सावधानाऽवधारय || ५०-४९ || प्रणवं पूर्वमुच्चार्य देवीबीजं ततः परम् | स्वाहान्तं मन्त्रमुद्धृत्य संशोध्य भक्षयेत् सुधीः || ५०-५० || एकीकृत्य महादेव चैतन्मन्त्रेण मन्त्रयेत् | अमृतेऽमृतशब्दान्ते तद्भवे पदं ततः || ५०-५१ || श्रीबीजं मन्मथं बीजं लज्जाबीजद्वयं क्रमात् | क्रमेण च समुद्धृत्य विजये ज्ञानसुन्दरि || ५०-५२ || योगमोक्षप्रदे पश्चात् कायशोधिनि पावनि | मम पश्चात् कायसिद्धिं देहि देहि ततः परम् || ५०-५३ || अमृतवषीणि शब्दान्ते अमृतं तदनन्तरम् | आकर्षयद्वयं पश्चात् सिद्धिं देह्यनलपिरये || ५०-५४ || एतन्मन्त्रेण संशोध्य सावधानेन भक्षयेत् | न्यूनाधिकं न कर्तव्यं शनैरभ्यासमाचरेत् || ५०-५५ || यावत् प्रमाणभक्षः स्यात् प्रमाणे चाधिकं न च | एतद्भोजनमाकृत्य पयः पानं समाचरेत् || ५०-५६ || तत्प्रकारं शृणु प्राणनाथ ईश्वर शङ्कर | मरीचबीजं संशोध्य दुग्धशोधनमाचरेत् || ५०-५७ || एतत्प्रकारं द्विविधं तत्प्रकारं वदाम्यहम् | वाञ्छाकल्पतरोर्मूले गुरुं ध्यात्वा पुनः पुनः || ५०-५८ || मानसोपचारद्रव्यैः पूजयित्वा विधानतः | मरीचं तोलकार्धं तु शोधयेन्मनुनामुना || ५०-५९ || श्रीकृष्णबीजमुद्धृत्य पृथ्वीबीजत्रयं तथा | घोरघोरतरे पश्चान्मरीचकुलसुन्दरि || ५०-६० || नीला त्वं भव देहे मे शरीरं शोधयद्वयम् | द्विठान्तोऽयं मनुः प्रोक्तस्तत्पश्चाद् दुग्धशोधनम् || ५०-६१ || आदौ मरीचं भुक्त्वा तु दुग्धपानं महाबलम् | चर्वयित्वा मरीचं तु दुग्धपानं महाबलम् || ५०-६२ || कृष्णबीजं समुद्धृत्य कामेश्वरीमनुं ततः | शिवबीजद्वयं पश्चात् कृष्णगोवसवासिनी || ५०-६३ || योगविग्रहमुद्धृत्य मम कामप्रसाधिनि | तत्पश्चाद् योगसिद्धीनामीश्वरि क्षेत्रवासिनि || ५०-६४ || शरीरं वसमन्ते च चालयद्वयमेव च | विघ्नान् वारययुग्मं तु स्वाहान्तोऽयं महामनुः || ५०-६५ || द्वादशवारमुच्चार्य चाथवा पञ्चवारकम् | वारत्रयं मुदा शोध्य सर्वत्रायं विधिः स्मृतः || ५०-६६ || यदि पिबेत् खेचरत्वं तथा दुग्धं द्विपादकम् | यदि चेत् केवलं दुग्धं तदा प्रस्थं चतुर्दश || ५०-६७ || लघ्वाहारी महाज्ञानी पञ्चमादि विरागवित् | मणिपूरे मनोयोगं समाकृत्यामरो भवेत् || ५०-६८ || चतुर्वर्गः करे तस्य यो मणेः पीठमाश्रयेत् | श्रीआनन्दभैरव उवाच मणिपूरभेदनार्थं मनोयोगसुसिद्धये || ५०-६९ || खेचरादिमहायोगसिद्धये सर्वसिद्धये | मृत्युञ्जयस्य देवस्य रुद्रशक्त्याश्च दर्शनात् || ५०-७० || तथा पीठस्थिरार्थाय कालजालवशाय च | सहस्रनामबीजानि चाष्टोत्तरशतानि च || ५०-७१ || मृत्युञ्जयस्य लाकिन्याः स्तोत्रं मकारकूटकम् | कथयस्व वरारोहे यदि स्नेहोऽस्ति मां प्रति || ५०-७२ || ज्ञानदे परमेशानि शरीरं मम रक्षतु || ५०-७३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरण भैरवभैरवीसंवादे मणिभेदप्रकाशो नाम पञ्चाशत्तमः पटलः || ५० || अथैकपञ्चाशत्तमः पटलः आनन्दभैरवी उवाच अथ सम्भेदनार्र्थाय वक्ष्ये षट्पङ्कजस्य च | महारुद्रस्य देवस्य श्री श्रीमृत्युञ्जयस्य च || ५१-१ || लाकिनी शक्तिसहितं सहस्रनाममङ्गलम् | अष्टोत्तरशतव्याप्तं निगूढं भव सिद्धये || ५१-२ || धारयित्वा पठित्वा च श्रुत्वा वा नाममङ्गलम् | शृणुष्व परमानन्द योगेन्द्र चन्द्रशेखर || ५१-३ || तवाह्लादप्रणयनात् सर्वसम्पत्तिप्राप्तये | मणियोगसुसिद्ध्यर्थं सावधानाऽवधारय || ५१-४ || अष्टोत्तरसहस्रनाममङ्गलस्य कहोड ऋषिर्गायत्रीच्छन्दो महारुद्रमृत्युञ्जयलाकिनी-- सरस्वतीदेवता सर्वाभीष्टशचीपीठयोगसिद्ध्यर्थे विनियोगः | ओं मृत्युञ्जय रुद्रादि लाकिन्यादि सरस्वती | मृत्युजेता महारौद्री महारुद्रसरस्वती || ५१-५ || महारौद्रो मृत्युहरो महामणिविभूषिता | महादेवो महावक्त्रो महामाया महेश्वरी || ५१-६ || महावीरो महाकालो महाचण्डेश्वरी स्नुषा | महावातो महाभेदो वीरभद्रा महातुरा || ५१-७ || महाचण्डेश्वरो मीनो मणिपूरप्रकाशिका | महामत्तो महारात्रो महावीरासनस्थिता || ५१-८ || मायावी मारहन्ता च मातङ्गी मङ्गलेश्वरी | मृत्युहारी मुनिश्रेष्ठा मनोहारी मनोयवा || ५१-९ || मण्डलस्थो मनीलाङ्गो मान्या मोहनमौलिनी | मत्तवेशो महाबाणो महाबला महालया || ५१-१० || मारी हारी महामारी मदिरामत्तगामिनी | महामायाश्रयो मौनी महामाया मरुत्प्रिया || ५१-११ || मुद्राशी मदिरापी च मनोयोगा महोदया | मांसाशी मीनभक्शश्च मोहिनी मेघवाहना || ५१-१२ || मानभङ्गप्रियो मान्या महामान्यो महाबला | महाबाणधरो मुख्यो महाविद्या महीयसी || ५१-१३ || महाशूलधरोऽनन्तो महाबली महाकुला | मलयाद्रिनिवासी च मतिर्मालासनप्रिया || ५१-१४ || मायापतिर्महारुद्रो मरुणाहतकारिणी | मालाधारी शङ्खमाली मञ्जरी मांसभक्शिणी || ५१-१५ || महालक्शणसम्पन्नो महालक्शणलक्शणा | महाज्ञानी महावेगी मौषली मुषलप्रिया || ५१-१६ || महोख्यो मालिनीनाथो मन्दराद्रिनिवासिनी | मौनीनामन्तरस्थश्च मानभङ्गा मनःस्विनी || ५१-१७ || महाविद्यापतिर्मध्यो मध्ये पर्वतवासिनी | मदिरापो मन्दहरो मदनामदनासना || ५१-१८ || मदनस्थो मदक्षेत्रो महाहिमनिवासिनी | महान् महात्मा माङ्गल्यो महामङ्गलधारिणी || ५१-१९ || महाहीनशरीरश्च मनोहरतदुद्भवा | मायाशक्तिपतिर्मोहा महामोहनिवासिनी || ५१-२० || महच्चितो निर्मलात्मा महतामशुचिस्थित | मत्तकुञ्जरपृष्ठस्थो मत्तकुञ्जरगामिनी || ५१-२१ || मकरो मरुतानन्दो माकरी मृगपूजिता | मणीपूज्या मनोरूपी मेदमांसविभोजिनी || ५१-२२ || महाकामी महाधीरो महामहिषमद्नी | महिषासुरबुद्धिस्थो महिषासुरनाशिनी || ५१-२३ || महिषस्थो महेशस्थो मधुकैटभनाशिनी | मधुनाथश्च मधुपो मधुमांसादिसिद्धिदा || ५१-२४ || महाभैरवपूज्यश्च महाभैरवपूजिता | महाकान्ति प्रियानन्दो महाकान्तिस्थिताऽमरा || ५१-२५ || मालाकोटिधरो मालो मुण्डमालाविभूषिता | मण्डलज्ञाननिरतो मणिमण्डलवासिनी || ५१-२६ || महाविभूतिक्रोधस्थो मिथ्यादोषसरस्वती | मेरुस्थो मेरुनिलय मेनकानुजरूपिणि || ५१-२७ || महाशैलासन मेरुमोहिनी मेघवाहिनी | मञ्जुघोषो मञ्जुनाथो मोहमुद्गरधारिणी || ५१-२८ || मेढ्र्स्थो मणिपीठस्थो मूलरूपा मनोहरा | मङ्गलार्थो महायोगी मत्तमेहसमुद्भवा || ५१-२९ || मतिस्थित मनोमानो मनोमाता महोन्मनी | मन्दबुद्धिहरो मृत्युर्मृत्युहन्त्री मनःप्रिया || ५१-३० || महाभक्तो महाशक्तो महाशक्तिर्मदातुरा | मणिपुरप्रकाशश्च मणिपुरविभेदिनी || ५१-३१ || मकारकूटनिलयो माना मानमनोहरी | माक्शरो मातृकावर्णों मातृकाबीजमालिनी || ५१-३२ || महातेजा महारश्मिर्मन्युग स्यान् मधुप्रिया | मधुमांससमुत्पन्नो मधुमांसविहारिणी || ५१-३३ || मैथुनानन्दनिरतो मैथुनालापमोहिनी | मुरारिप्रेमसंतुष्टो मुरारिकरसेविता || ५१-३४ || माल्यचन्दनदिग्धाङ्गो मालिनी मन्त्रजीविका | मन्त्रजालस्थितो मन्त्री मन्त्रिणांमन्त्रसिद्धिदा || ५१-३५ || मन्त्रचैतन्यकारी च मन्त्रसिद्धिप्रिया सती | महातीर्थप्रियो मेषो महासिंहासनस्थिता || ५१-३६ || महाक्रोधसमुत्पन्नो महती बुद्धिदायिनी | मरणज्ञानरहितो महामरणनाशिनी || ५१-३७ || मरणोद्भूतहन्ता च महामुद्रान्विता मुदा | महामोदकरो मारो मारस्था मारनाशिनी || ५१-३८ || महाहेतुहरो हर्ता महापुरनिवासिनी | महाकौलिकपालश्च महादैत्यनिवारिणी || ५१-३९ || मार्तण्डकोटिकिरणो मृतिहन्त्री मृतिस्थिता | महाशैलोऽमलो मायी महाकालगुणोदया || ५१-४० || महाजयो महारुद्रो महारुद्रारुणाकरा | मनोवर्णमृजोमाख्यो मुद्रा तरुणरूपिणी || ५१-४१ || मुण्डमालाधरो मार्यो मार्यपुष्पमृजामनी | मङ्गलप्रेमभावस्था महाविद्युत्प्रभाऽचला || ५१-४२ || मुद्राधारी मतस्थैर्यो मतभेदप्रकारिणी | महापुराणवेत्ता च महापौराणिकाऽमृता || ५१-४३ || मौनविद्यो महाविद्या महाधननिवासिनी | मघवा माघमध्यस्था महासैन्या महोरगा || ५१-४४ || महाफणिधरो मात्रा मातृका मन्त्रवासिनी | महाविभूतिदानाढ्ये मेरुवाहनवाहना || ५१-४५ || महाह्लादो महामित्रो महामैत्रेयपूजिता | मार्कण्डेयसिद्धिदाता मार्कण्डेयायुषिस्थिता || ५१-४६ || मार्कण्डेयो मुहुःप्रीतो मातृकामण्डलेश्वरी | मानसंस्थो मानदाता मनोधारणतत्परा || ५१-४७ || मयदानवचित्तस्थो मयदानवचित्रिणी | महागुणधरानन्दो महालिङ्गविहारिणी || ५१-४८ || महेश्वरस्थितो मूलो मूलविद्याकुलोदया | मायापो मोहनोन्मादी महागुरुनिवासिनी || ५१-४९ || महाशुक्लाम्बरधरो मलयागुरुधूपिता | मधूपिनी मधूल्लासो माध्वीरससमाश्रया || ५१-५० || महागुरुर्महादेहो महोत्साहा महोत्पला | मध्यपङ्कजसंस्थाता मध्याम्बुजनिवासिनी || ५१-५१ || मारीभयहरो मल्लो मल्लग्रहविरोधिनी | महामुण्डलयोन्मादी मदघूणीतलोचना || ५१-५२ || महासद्योजातकालो महाकपिलवतीनी | मेघवाहो महावक्त्रो मनसामणिधारिणी || ५१-५३ || मरणाश्रयहन्ता च महागुर्वीगणस्थिता | महापद्मस्थितो मन्त्रो मन्त्रविद्यानिधीश्वरी || ५१-५४ || मकरासनसंस्थाता महामृत्युविनाशिनी | मोहनो मोहिनीनाथो मत्तनर्तनवासिनी || ५१-५५ || महाकालकुलोल्लासी महाकामादिनाशिनी | मूलपद्मनिवासी च महामूलकुलोदया || ५१-५६ || मासाख्यो मांसनिलया मङ्गलस्था महागुणा | मायाछन्नतरो मीनो मीमांसागुणवादिनी || ५१-५७ || मीमांसाकारको मायी मार्जारसिद्धिदायिनी | मेदिनीवल्लभक्षेमो मेदिनीज्ञानमोदिनी || ५१-५८ || मौषलीश मृषार्थस्थो मनकल्पितकेशरी | मनस श्रीधरो जापो मन्दहाससुशोभिता || ५१-५९ || मैनाको मेनकापुत्रो मायाछन्ना महाक्रिया | महाक्रिया च लोमाण्डो मण्डलासनशोभिता || ५१-६० || मायाधारणकर्ता च महाद्वेषविनाशिनी | मुक्तकेशी मुक्तदेहो मुक्तिदा मुक्तिमानिनी || ५१-६१ || मुक्ताहारधरो मुक्तो मुक्तिमार्गप्रकाशिनी | महामुक्तिक्रियाच्छन्नो महोच्चगिरिनन्दिनी || ५१-६२ || मूषलाद्यस्त्रहन्ता च महागौरीमनःक्रिया | महाधनी महामानी मनोमत्ता मनोलया || ५१-६३ || महारणगत सान्तो महावीणाविनोदिनी | महाशत्रुनिहन्ता च महास्त्रजालमालिनी || ५१-६४ || शिवो रुद्रो वलीशानी कितवामोदवधीनी | चन्द्रचूडाधरो वेदो मदोन्मत्ता महोज्ज्वला || ५१-६५ || विगलत्कोटिचन्द्राभो विधुकोटिसमोदया | अग्निज्वालाधरो वीरो ज्वालामालासहस्रधा || ५१-६६ || भर्गप्रियकरो धर्मो महाधामीकतत्परा | धर्मध्वजो धर्मकर्ता धर्मगुप्ति प्रसृत्त्वरी || ५१-६७ || महाविद्रुमपूरस्थो विद्रुमाभायुतप्रभा | पुष्पमालाधरो मान्य शत्रूणां कुलनाशिनी || ५१-६८ || कोजागरो विसर्गस्थो बीजमालाविभूषिता | बीजचन्द्रो बीजपूरो बीजाभा विघ्ननाशिनी || ५१-६९ || विशिष्टो विधिमोक्शस्थो वेदाङ्गपरिपूरिणी | किरातिनीपति श्रीमान् विज्ञाविज्ञजनप्रिया || ५१-७० || वर्धस्थो वर्धसम्पन्नो वर्णमालाविभूषिता | महाद्रुमगत शूरो विलसत्कोटिचन्द्रभा || ५१-७१ || महाकुमारनिलयो महाकामकुमारिका | कामजालक्रियानाथो विकला कमलासना || ५१-७२ || खण्डबुद्धिहरो भावो भवतीति दुरासना | असंख्यको रूपसंख्यो नामसंख्यादिपूरणी || ५१-७३ || सद्मनाद्यमना कोषकिङ्किणीजालमालिनी | चन्द्रायुतमुखाम्भोजो विभायुतसमानना || ५१-७४ || कालबुद्धिहरो बालो भगवत्यम्बिकाऽण्डजा | मुण्डहस्तश्चातुराद्यः विवादरहिताऽवृता || ५१-७५ || पञ्चमाचारकुशलो महापञ्चमलालसा | विकारशून्यो दुर्धर्षो द्विपदा मानुषक्रिया || ५१-७६ || मयदानवकर्मस्थो विधातृकर्मबोधिनी | कलिकालक्रियारूढ. वायवीघर्घरध्वनि || ५१-७७ || सर्वसञ्चारकर्ता च सर्वसञ्चारकत्रीका | मन्दमन्दगतिप्रेमा मन्दमन्दगतिस्थिता || ५१-७८ || साट्टहासो विधुकला चाघोराघोरयातना | महानरकहर्ता च नरकादिविपाकहा || ५१-७९ || पञ्चरश्मिसमुद्भूतो नगादिबलघातिनी | गरुडासनसम्पूज्यो गरुडप्रेमवधीनी || ५१-८० || अश्वत्थवृक्शनिलयो वटवृक्शतलस्थिता | चिराङ्गो प्रथमाबुद्धि प्रपञ्चसारसङ्गति || ५१-८१ || स्थितिकर्ता स्थितिच्छाया विमदा छत्रधारिणी | दाडिमाभासकुसुमो दाडिमोद्भवपुष्पिका || ५१-८२ || द्राढ्यो द्रवीभरतिका रतिकालापवधीनी | रत्नगर्भो रत्नमाला रत्नेश्वर इवागति || ५१-८३ || प्रसिद्धः पावनी पुच्छा पुच्छसुस्थ परापरा | खेचरी खेचर स्वस्थो महाखड्गधरा जया || ५१-८४ || किशोरभावखेलस्थो विखनादिप्रकारिका | महाशब्दप्रकाशश्च महाशब्दप्रकाशिका || ५१-८५ || चारुहासो विपधन्ता शत्रुमित्रगणस्थिता | वज्रदण्डधरो व्याघ्रो वियत्खेलनखञ्जना || ५१-८६ || गदाधर शीलधारी शशिकर्पूरगाऽबला | वसनासनकारी च वसनावसनप्रिया || ५१-८७ || महाविद्याधरो गुप्तो विशिष्टगोपनक्रिया | गुप्तगीतागायनस्थो गुप्तशास्त्रगलप्रदा || ५१-८८ || योगविद्यापुराणश्च यागविद्या विभाकला | एककालो द्विकालश्चात्र कालफलाम्बुजा || ५१-८९ || अष्टादशभुजो रौद्री भुजगा विघ्ननाशिनी | विद्यागोपनकारी च विद्यासिद्धिप्रदायिनी || ५१-९० || विजयानन्दगो मन्दो महाकालमहेश्वरी | भूतिदानरतो मार्गों महद्गीताप्रकाशिनी || ५१-९१ || केशाद्यावेशसन्तानो मङ्गलाभा कुलान्तरा | द्विभुजो वेदबाहुश्च षड्भुजा कामचारिणी || ५१-९२ || चन्द्रकान्तमाल्यधरो लोकातिलोकरागिणी | त्रिभङ्गदेहनिकरो विभाङ्गस्था विनोदिनी || ५१-९३ || त्रिकूटस्थस्त्रिभावस्थस्त्रिशरीरा त्रिकालजा | एकवक्त्रो द्विवक्त्रश्च वक्त्रशून्या शिशुप्रिया || ५१-९४ || श्री विद्यामन्त्रजालस्थो विज्ञानी कुशलेश्वरी | घटासरगतो गौरा गौरवी गौरिकाऽचला || ५१-९५ || गुरुज्ञानगतो गन्धो गन्धभोग्या गिरिध्वजा | छायामण्डलमध्यस्थो विकटा पुष्करानना || ५१-९६ || कामाख्यो निरहङ्कार कामरूपनृपाङ्गजा | सुलभो दुर्लभो दुःखी सूक्ष्मातिसूक्ष्मरूपिणी || ५१-९७ || बीजजापपशो क्रूरो विमोहगुणनाशिनी | अर्धरो निपुणोल्लाशो विभुरूपा सरस्वती || ५१-९८ || अनन्तघोषनिलयो विहङ्गगणगामिनी | अच्युतेश प्रकाण्डस्थ प्रचण्डफालवाहिनी || ५१-९९ || अभ्रान्तो भ्रान्तिरहिता श्रान्तो यान्ति प्रतिष्ठिता | अव्यर्थो व्यर्थवाक्यस्थो विशङ्काशङ्कयान्विता || ५१-१०० || यमुनापतिप पीनो महाकालवसावहा | जम्बूद्वीपेश्वर पार पारावारकृतासनी || ५१-१०१ || वज्रदण्डधर शान्तो मिथ्यागतिरतीन्द्रिया | अनन्तशयनो न्यूनः परमाह्लादवधीनी || ५१-१०२ || शिष्टाश्रणिलयो व्याख्यो वसन्तकालसुप्रिया | विरजान्दोलितो भिन्नो विशुद्धगुणमण्डिता || ५१-१०३ || अञ्जनेशः खञ्जनेश पललासवभक्शिणी | अङ्गभाषाकृतिस्नाता सुधारसफलातुरा || ५१-१०४ || फलबीजधरो दौर्गो द्वारपालनपल्लवा | पिप्पलादः कारणश्च विख्यातिरतिवल्लभा || ५१-१०५ || संहारविग्रहो विप्रो विषण्णा कामरूपिणी | अवलापो नापनापो विकॢप्ता कंसनाशिनी || ५१-१०६ || हठात्कारेणतो चामो नाचामो विनयक्रिया | सर्व सर्वसुखाच्छन्नो जिताजितगुणोदया || ५१-१०७ || भास्वत्किरीटो राङ्कारी वरुणेशीतलान्तरा | अमूल्यरत्नदानाढ्यो दिवारात्रिस्त्रिखण्डजा || ५१-१०८ || मारबीजमहामानो हरबीजादिसंस्थिता | अनन्तवासुकीशानो लाकिनी काकिनी द्विधा || ५१-१०९ || कोटिध्वजो बृहद्गर्गश्चामुण्डा रणचण्डिका | उमेशो रत्नमालेशी विकुम्भगणपूजित || ५१-११० || निकुम्भपूजित कृष्णो विष्णुपत्नी सुधात्मिका | अल्पकालहरः कुन्तो महाकुन्तास्त्रधारिणी || ५१-१११ || ब्रह्मास्त्रधारक क्शिप्तो वनमालाविभूषिता | एकाक्शर द्वयक्शरश्च षोडशाक्शरसंभवा || ५१-११२ || अतिगम्भीरवातस्थो महागम्भीरवाद्यगा | त्रिविधात्मा त्रिदेशात्मा तृतीयात्राणकारिणी || ५१-११३ || कियत्कालचलानन्दो विहङ्गगमनासना | गीर्वाण बाणहन्ता च बाणहस्ता विधूच्छला || ५१-११४ || बिन्दुधर्मोज्ज्वलोदारो वियज्ज्वलनकारिणी | विवासा व्यासपूज्यश्च नवदेशीप्रधानिका || ५१-११५ || विलोलवदनो वामो विरोमा मोदकारिणी | हिरण्यहारभूषाङ्गः कलिङ्गनन्दिनीशगा || ५१-११६ || अनन्यक्शीणवक्शश्च क्शितिक्शोभविनाशिका | क्शणक्षेत्रप्रसादाङ्गो वशिष्ठादिऋषीश्वरी || ५१-११७ || रेवातीरनिवासी च गङ्गातीरनिवासिनी | चाङ्गेशः पुष्करेशश्च व्यासभाषाविशेषिका || ५१-११८ || अमलानाथसंज्ञश्च रामेश्वरसुपूजिता | रमानाथ प्रभु प्राप्ति कीतीदुर्गाभिधानिका || ५१-११९ || लम्बोदर प्रेमकालो लम्बोदरकुलप्रिया | स्वर्गदेहो ध्यानमानो लोचनायतधारिणी || ५१-१२० || अव्यर्थवचनप्रक्ष्यो विद्यावागीश्वरप्रिया | अब्दमानस्मृतिप्राण कलिङ्गनगरेश्वरी || ५१-१२१ || अतिगुह्यतरज्ञानी गुप्तचन्द्रात्मिकाऽव्यया | मणिनागगतो गन्ता वागीशानी बलप्रदा || ५१-१२२ || कुलासनगतो नाशो विनाशा नाशसुप्रिया | विनाशमूलः कूलस्थः संहारकुलकेश्वरी || ५१-१२३ || त्रिवाक्यगुणविप्रेन्द्रो महदाश्चर्यचित्रिणी | आशुतोषगुणाच्छन्न मदविह्वलमण्डला || ५१-१२४ || विरूपाक्शी लेलिहश्च महामुद्राप्रकाशिनी | अष्टादशाक्शरो रुद्रो मकरन्दसुबिन्दुगा || ५१-१२५ || छत्रचामरधारी च छत्रदात्री त्रिपौण्ड्र्जा | इन्द्रात्मको विधाता च धनदा नादकारिणी || ५१-१२६ || कुण्डलीपरमानन्दो मधुपुष्पसमुद्भवा | बिल्ववृक्शस्थितो रुद्रो नयनाम्बुजवासिनी || ५१-१२७ || हिरण्यगर्भ कौमारो विरूपाक्शा ऋतुप्रिया | श्रीवृक्शनिलयश्यामो महाकुलतरूद्भवा || ५१-१२८ || कुलवृक्शस्थितो विद्वान् हिरण्यरजतप्रिया | कुलपः प्राणप प्राणा पञ्चचूडधराधरा || ५१-१२९ || उषती वेदिकानाथो नर्मधर्मविवेचिका | शीतलाप्त शीतहीनो मनःस्थैर्यकरी क्शया || ५१-१३० || कुक्शिस्थ क्शणभङ्गस्थो गिरिपीठनिवासिनी | अर्धकायः प्रसन्नात्मा प्रसन्नवनवासिनी || ५१-१३१ || प्रतिष्ठेश प्राणधर्मा ज्योतीरूपा ऋतुप्रिया | धर्मध्वजपताकेशो बलाका रसवद्धीनी || ५१-१३२ || मेरुशृङ्गगतो धूर्तो धूर्तमत्ता खलस्पृहा | सेवासिद्धिप्रदोऽनन्तोऽनन्तकार्यविभेदिका || ५१-१३३ || भाविनामत्त्वजानज्ञो विराटपीठवासिनी | विच्छेदच्छेदभेदश्च छलन्शास्त्रप्रकाशिका || ५१-१३४ || चारुकर्म्या संस्कृतश्च तप्तहाटकरूपिणी | परानन्दरसज्ञानी रससन्तानमन्त्रिणी || ५१-१३५ || प्रतीक्श सूक्ष्मशब्दश्च प्रसङ्गसङ्गतिप्रिया | अमायी सागरोद्भूतो बन्ध्यादोषविवजीता || ५१-१३६ || जितधर्मो ज्वलच्छत्री व्यापिका फलवाहना | व्याघ्रचर्माम्बरो योगी महापीना वरप्रदा || ५१-१३७ || वरदाता सारदाता ज्ञानदा वरवाहिनी | चारुकेशधरो मापो विशाला गुणदाऽम्बरा || ५१-१३८ || ताडङ्कमालानिर्मालधरस्ताडङ्कमोहिनी | पञ्चालदेश संभूतो विशुद्धस्वरवल्लभा || ५१-१३९ || किरातपूजितो व्याधो मनुचिन्तापरायणा | शिव वाक्यरतो वामो भृगुरामकुलेश्वरी || ५१-१४० || स्वयम्भू कुसुमाच्छन्नो विधिविद्याप्रकाशिनी | प्रभाकरतनूद्भूतो विशल्यकरणीश्वरी || ५१-१४१ || उषतीश्वर सम्पर्की योगविज्ञानवासिनी | उत्तमो मध्यमो व्याख्यो वाच्यावाच्यवराङ्गना || ५१-१४२ || आंबीजवादरोषाढ्या मन्दरोदरकारिणी | कृष्णसिद्धान्तसंस्थानो युद्धसाधनचचीका || ५१-१४३ || मथुरासुन्दरीनाथो मथुरापीठवासिनी | पलायनविशून्यश्च प्रकृतिप्रत्ययस्थिता || ५१-१४४ || प्रकृतिप्राणनिलयो विकृतिज्ञाननाशिनी | सर्वशास्त्रविभेदश्च मत्तसिंहासनासना || ५१-१४५ || इतिहासप्रियो धीरो विमलाऽमलरूपिणी | मणिसिंहासनस्थश्च मणिपरजयोदया || ५१-१४६ || भद्रकालीजपानन्दो भद्राभद्रप्रकाशिनी | श्रीभद्रो भद्रनाथश्च भयभङ्गविहिंसिनी || ५१-१४७ || आत्मारामो विधेयात्मा शूलपाणिप्रियाऽन्तरा | अतिविद्यादृढाभ्यासो विशेषवित्तदायिनी || ५१-१४८ || अजराऽमरकान्तिश्च कान्तिकोटिधरा शुभा | पशुपाल पद्मसंस्थ श्रीशपाशुपताऽस्त्रदा || ५१-१४९ || सर्वशास्त्रधरो दृप्तो ज्ञानिनी ज्ञानवधीनी | द्वितीयानाथ ईशार्द्धो बादरायणमोहिनी || ५१-१५० || शवमांसाशनो भीमो भीमनेत्रा भयानका | शिवज्ञानक्रमो दक्श क्रियायोगपरायणा || ५१-१५१ || दानस्थो दानसम्पन्नो दन्तुरा पार्वतीपरा | प्रियानन्दो दिवाकर्ता निशानिषादघातिनी || ५१-१५२ || अष्टहस्तो विलोलाक्शो मनःस्थापनकारिणी | मृदुपुत्रो मृदुच्छत्रो विभाऽङ्गपुण्यनन्दिनी || ५१-१५३ || अन्तरिक्शगतो मूलो मूलपुत्रप्रकाशिनी | अभीतिदाननिरतो विधुमालामनोहरी || ५१-१५४ || चतुरास्रजाह्नवीशो गिरिकन्या कुतूहली | शिशुपालरिपुप्राणो विदेशपदरक्षिणी || ५१-१५५ || विलक्शणो विधिज्ञाता मानहन्त्री त्रिविक्रमा | त्रिकोणाननयोगीशो निम्ननाभिर्नगेश्वरी || ५१-१५६ || नवीन गुणसम्पन्नो नवकन्याकुलाचला | त्रिविधेशो विशङ्केतो विज्वरा ज्वरदायिनी || ५१-१५७ || अतिधामीकपुत्रश्च चारुसिंहासनस्थिता | स्थापकोत्तमवर्गाणां सतां सिद्धिप्रकाशिनी || ५१-१५८ || सिद्धप्रियो विशालाक्शो ध्वंसकर्त्री निरञ्जना | शक्तीशो विकलेशश्च क्रतुकर्मफलोदया || ५१-१५९ || विफलेशो वियद्गामी ललिता बुद्धिवाहना | मलयाद्रितप क्षेम क्शयकर्त्री रजोगुणा || ५१-१६० || द्विरुण्डको द्वारपालो बलेवीघ्नविनाशिनी | मायापद्मगतो मानो मारीविद्याविनाशिनी || ५१-१६१ || हिंगुलाजस्थित सिद्धो विदुषां वादसारिणी | श्रीपतीश श्रीकरेश श्रीविद्या भुवनेश्वरी || ५१-१६२ || मतिप्रथमजो धन्यो मिथिलानाथपुत्रिका | रामचन्द्रप्रिय प्राप्तो रघुनाथकुलेश्वरी || ५१-१६३ || कूर्मः कूर्मगतो वीरो वसावर्गा गिरीश्वरी | राजराजेश्वरीबालो रतिपीठगुणान्तरा || ५१-१६४ || कामरूपधरोल्लासो विदग्धा कामरूपिणी | अतिथीश सर्वभर्ता नानालङ्कारशोभिता || ५१-१६५ || नानालङ्कारभूषाङ्गो नरमालाविभूषिता | जगन्नाथो जगद्व्यापी जगतामिष्टसिद्धिदा || ५१-१६६ || जगत्कामो जगद्व्यापी जयन्ती जयदायिनी | जयकारी जीवकारी जयदा जीवनी जया || ५१-१६७ || जयो गणेश श्रीदाता महापीठनिवासिनी | विषम सामवेदस्थो यजुर्वेदांशयोगया || ५१-१६८ || त्रिकालगुणगम्भीरो द्वाविंशतिकराम्बुजा | सहस्रबाहु सारस्थो भागगा भवभाविनी || ५१-१६९ || भवनादिकरो मार्गो विनीता नयनाम्बुजा | सर्वत्राकर्षकोऽखण्ड सर्वज्ञानाभिकषीणी || ५१-१७० || जिताशयो जितविप्रः कलङ्कगुणवजीता | निराधारो निरालम्बो विषया ज्ञानवजीता || ५१-१७१ || अतिविस्तारवदनो विवादखलनाशिनी | भार्यानाथः क्शोभनाशो रिपूणां कुलपूजिता || ५१-१७२ || आशवो भूरिवर्गाणां चारुकुन्तलमण्डिता | अतिबुद्धिधरो सूक्ष्मो रजनीध्वान्तनाशिनी || ५१-१७३ || ज्योत्स्नाजालकरो योगी वियोगशायिनी युगा | युगगामी योगगामी जयदा लाकिनी शिवा || ५१-१७४ || संज्ञाबुद्धिकरो भावो भवभीतिविमोहिनी | सुन्दर सुन्दरानन्दो रतिकारतिसुन्दरी || ५१-१७५ || रतिज्ञानी रतिसुखो रतिनाथप्रकाशिनी | बुद्धरूपी बोधमात्रो वैरोधो द्वैतवजीता || ५१-१७६ || भूरिभावहरानन्दो भूरिसन्तानदायिनी | यज्ञसाधनकर्ता च सुयज्ञ पञ्चमोचना || ५१-१७७ || कोटिकोटिचन्द्रतेजः कोटिकोटिरुचिच्छटा | कोटिकोटिचञ्चलाभो द्विकोट्ययुतचञ्चला || ५१-१७८ || कोटिसूर्याच्छन्नदेह कोटिकोटिरविप्रभा | कोटिचन्द्रकान्तमणि कोटीन्दुकान्तनिर्मला || ५१-१७९ || शतकोटिविधुमणि शतकोटीन्दुकान्तगा | विलसत्कोटिकालाग्नि कोटिकालानलोपमा || ५१-१८० || कोटिवह्निगतो वह्नि वह्निजाया द्विगोद्भवा | महातेजो वह्निवारिः कालाग्निहारधारिणी || ५१-१८१ || कालाग्निरुद्रो भगवान् कालाग्निरुद्ररूपिणी | कालात्मा कलिकालात्मा कलिका कुललाकिनी || ५१-१८२ || मृत्युजितो मृत्युतेजा मृत्युञ्जयमनुप्रिया | महामृत्युहरो मृत्युरपमृत्युविनाशिनी || ५१-१८३ || जयो जयेशो जयदो जयदा जयवधीनी | जयकरो जगद्धर्मो जगज्जीवनरक्शिणी || ५१-१८४ || सर्वजित् सर्वरूपी च सर्वदा सर्वभाविनी | इत्येतत् कथितं नाथ महाविद्याभिधानकम् || ५१-१८५ || शब्दब्रह्ममयं साक्षात् कल्पवृक्षस्वरूपकम् | अष्टोत्तरसहस्राख्यं शतसंख्यासमाकुलम् || ५१-१८६ || त्रैलोक्यमङ्गलक्षेत्रं सिद्धविद्याफलप्रदम् | सकलं निष्कलं साक्षात् कल्पद्रुमकलान्वितम् || ५१-१८७ || योगिनामात्मविज्ञानमात्मज्ञानकरं परम् | यः पठेद् भावसम्पूर्णो मिथ्याधर्मविवजीतः || ५१-१८८ || रुद्रपीठे स्वयं भूत्त्वा महायोगी भवेद्ध्रुवम् | अकस्मात्सिद्धिमाप्नोति चाधमांमाल्यदायिनीम् || ५१-१८९ || राजलक्ष्मीधनैश्वर्यमतिधैर्य हयादिकम् | कुञ्जरं सुन्दरं वीरं पुत्रं राज्यं सुखं जयम् || ५१-१९० || राजराजेश्वरत्वं च दिव्यवाहनमेव च | अक्लेशपञ्चमासिद्धिं ततः प्राप्नोति मध्यमाम् || ५१-१९१ || अत्यन्तदुःखहननं गुरुत्वं लोकमण्डले | देवानां भक्तिसंख्याञ्च दिव्यभावं सदा सुखम् || ५१-१९२ || आयुर्वृद्धिं लोकवश्यं पूर्णकोशं हि गोधनम् | देवानां राज्यभवनं प्रत्यक्षे स्वप्नकालके || ५१-१९३ || दीर्घदृष्टिभयत्यागं चाल्पकार्यविवजीतम् | सदा धर्मप्रियत्वं च धर्मज्ञानं महागुणम् || ५१-१९४ || विवेकाङ्कुरमानन्दं श्रीवाणीसुकृपान्वितम् | तत उत्तमयोगस्थां सिद्धिंप्राप्नोति साधकः || ५१-१९५ || अनन्तगुणसंस्थानं मायार्थभूतिवर्जनम् | एकान्तस्थानवसतिं योगशास्त्रनियोजनम् || ५१-१९६ || सर्वाकाङ्क्षाविशून्यत्वं दैवतैकान्तसेवनम् | खेचरत्वं सर्वगतिं भावसिद्धिं सुरप्रियम् || ५१-१९७ || सदा रौद्रक्रियायोगं विभूत्यष्टाङ्गसिद्धिदम् | दृढज्ञानं सर्वशास्त्रकारित्वं रससागरम् || ५१-१९८ || एकभावं द्वैतशून्यं महापदनियोजनम् | महागुणवतीविद्यापतित्वं शान्तिमेव च || ५१-१९९ || प्राप्नोति साधकश्रेष्ठो यः पठेद् भावनिश्चलः | त्रिकालमेककालं वा द्विकालं वा पठेत् सुधीः || ५१-२०० || शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः | पुरश्चरणमाकृत्य पठित्वा च पुनः पुनः || ५१-२०१ || अष्टैश्वर्ययुतो भूत्वा मनोगतिमवाप्नुयात् | सर्वत्र कुशलं व्याप्तं यः पठेन्नियतः शुचिः || ५१-२०२ || षट्चक्रमणिपीठञ्च भित्त्वाऽनाहतगो भवेत् | अनाहतं ततो भित्त्वा विशुद्धसङ्गमो भवेत् || ५१-२०३ || विशुद्धपद्मं भित्त्वा च शीर्षे द्विदलगो भवेत् | द्विदलादिमहापद्मं भित्त्वैतत् स्तोत्रपाठतः || ५१-२०४ || चतुर्वर्गां क्रियां कृत्वा चान्ते निर्वाणमोक्षभाक् | योगिनां योगसिद्ध्यर्थे सर्वभूतदयोदयम् || ५१-२०५ || निर्वाणमोक्षसिद्ध्यर्थे कथितं परमेश्वर | एतत्स्तवनपाठेन किं न सिद्ध्यति भूतले || ५१-२०६ || कुलं कुलक्रमेणैव साधयेद् योगसाधनम् | योगान्ते योगमध्ये च योगाद्ये प्रपठेत् स्तवम् || ५१-२०७ || कृत्तिकारोहिणीयोगयात्रायां मिथुने तथा | श्रवणायां मेषगणे कुजे चेन्दुसमाकुले || ५१-२०८ || शनिवारे च सङ्क्रान्त्यां कुजवारे पुनः पुनः | सन्ध्याकाले लिखेत् स्तोत्रं ध्यानधारणयोगिराट् || ५१-२०९ || भूर्जपत्रे लिखित्वा च कण्ठे शीर्षे प्रधारयेत् | अथवा रात्रियोगे च कुलचक्रे लिखेत् सुधीः || ५१-२१० || सर्वत्र कुलयोगेन पठन् सिद्धिमवाप्नुयात् | एतन्नाम्ना प्रजुहुयात् कालिकाकृतिमान् भवेत् || ५१-२११ || तद्दशांशक्रमेणैव हुत्वा योगीह सर्वदा | मणिपूरे दृढो भूत्वा रुद्रशक्तिकृपां लभेत् || ५१-२१२ || इति श्रीरुद्रयामले लाकिनीशाष्टोत्तरशतसहस्रनामविन्यासे एकपञ्चाशत्तमः पटलः || ५१ || अथ द्विपञ्चाशत्तमः पटलः श्रीआनन्दभैरव उवाच कथयस्व वरारोहे मणिपूरमनुक्रमम् | यज्ज्ञात्वा मुनयः सर्वे चाष्टसिद्धिमवाप्नुयुः || ५२-१ || प्रजपन् गच्छति क्षिप्रं अनायास मनाहते | मन्त्रार्थं मन्त्रचैतन्यं निजविग्रहरक्षणम् || ५२-२ || तत्परापरग्रन्थिस्थं विचार्य वक्तुमर्हसि | श्रीआनन्दभैरवी उवाच महाभैरव कालाग्ने मनुज्ञानं निशामय || ५२-३ || कथयामि तव स्नेहादतिकोमलसाधनम् | मन्त्राणां मन्त्रचैतन्यं विषयानि शृणु प्रभो || ५२-४ || मणिपूरे त्वनायासे यत्प्रसादात् स्थिरो भवेत् | एतत्करणमात्रेण योगी भवति निश्चितम् || ५२-५ || कोटिकोटिमन्त्रजालं तदर्थकोटयः स्मृताः | एतन्मध्ये सारभागं कथयामि कुलार्णव || ५२-६ || सर्वत्र समभावेन संस्मरन् मन्त्रमुत्तमम् | शरीरमपरिच्छिन्नं ब्रह्माण्डं सचराचरम् || ५२-७ || मूलादि मणिपूरान्तं त्रिगुणं मनुरूपकम् | वर्णमालामुपादाय मुहुर्मुहुर्जपेत् सुधीः || ५२-८ || पूर्णतेजोमयीं ध्यायेत् कोटिकालाग्निरूपिणीम् | स्वदेवतां सदा ध्यायेन्मूलादिब्रह्मरन्ध्रके || ५२-९ || तन्मूतीमपरिच्छिन्नां गूढस्थाननिवासिनीम् | गभीरोर्ध्वगलानन्दां सुधासागरवासिनीम् || ५२-१० || यज्ज्ञात्वा ब्रह्मतुल्यं स्याद् ब्रह्मरन्ध्रे विभावनात् | मूलरन्ध्रे मुदा ध्यायेत् कोटिकालानलोज्ज्वलम् || ५२-११ || ज्वलन्तं ध्यानमाकुर्यादूर्ध्वशिखाप्रभाकरम् | सुधारसमोदमुग्धं हव्याग्निसदृशोज्ज्वलम् || ५२-१२ || ललाटं चिन्तयेत् कान्तं पूर्णेन्दुकोटिसङ्कुलम् | विगलद्रसपुञ्जं तु तद्रसप्रोज्ज्वलाननम् || ५२-१३ || स्थिरवायुस्थिराकारं मन्त्रार्थं चेति भावयेत् | अथवा शुद्धसङ्काशं पूर्णब्रह्ममयूखगम् || ५२-१४ || मूलादिब्रह्मरन्ध्रान्तं मूलं ध्यात्वा पुनः पुनः | विचिन्तयेत् सूक्ष्मरूपां महागुर्वीं स्वदेवताम् || ५२-१५ || मन्त्रार्थं चेति तज्ज्ञानं तज्ज्ञानान्मोक्षमाप्नुयात् | मन्त्रार्थज्ञानमात्रेण सिद्धिनिर्वाणमाप्नुयात् || ५२-१६ || न स्थूलं नातिसूक्ष्मं गुणमयवपुषं विश्वनाथं स्वशक्तिं | स्वानन्दानन्दचित्तं कलिफलमचलं चञ्चलं शुक्लरक्तम् | पीनापीनादिरूपं त्रिगुणगगमनं मूलपद्मादिवक्त्रे | विश्वात्मानं कुलाख्यं मनुगुणजडितं भावयेत्सिद्धलोकः || ५२-१७ || चतुः षष्टिक्षेत्रे त्रिगुणजननीं ध्याननिपुणां | (महा)मन्त्राकारां भुवनकरुणां बोधविषये | महाविद्यामाद्यां मनुमयरसाच्छन्नतनुता-- मवाप्यामन्दाब्धौ कुलपथि भजन्तीह रसिकाः || ५२-१८ || समस्तं शून्यार्थं रजतघटनारायणमयं | विसर्गं बिन्दुस्थं रविशशिकला वह्निकिरणम् | जगद् व्यापाराङ्गं भवविरहितं भावजडितं विकाराधाराहं दशदलबिले स्थापयति धीः || ५२-१९ || सुरासुरभयप्रदं तरुणरूपशोभाकरं | मनोहरकलेवरं सकलदेहसंज्ञापनम् | भजन्ति मुनयो नृपा यतय इन्द्रदेवादयो | दशच्छदनिकेतने प्रकृतिदेहमध्यस्थितम् || ५२-२० || प्रचण्डवचनाश्रयं ध्वनिकलापसम्मर्दनं | महोत्कटतपःप्रियं भजति चाशुतोषं शिवम् | निधाय हृदि पङ्कजे किमपि नाभिमूलेऽपि वा | विभावगुणभावनं परिकरोति योगी महान् || ५२-२१ || स्वकीयगुणसत्त्वके कठिनचित्तसंज्ञार्पणं | चतुर्भुजकलेवरे दशकलाधरेन्दीवरे | मनोहरहरं परमसारमाद्याक्षरं | प्रकृत्य परमेश्वरे प्रणवरूपमारोपये || ५२-२२ || विविक्तमतिनिर्मलं कमलहासमाल्याश्रयं | शिवं शतकभास्करं सकलदेहमध्येऽपि वा | भुजायुतधरं धराधरधरं हि मुद्राधरं | भजन्ति कुलकामिनीपतय ईशवेश्मास्पदा || ५२-२३ || सदा चरणपङ्कजे विवहानिमुद्राप्तये | कृपामयसलक्षणं गतिगसत्वसम्भावनम् | सदैकगुणभावनं परमदेवदेवस्य या | त्रिलोकजननीपते रमणमेव कुर्याद्वशी || ५२-२४ || एवं कृत्वा निरालम्बविश्वासध्यानवान्नरः | अकस्मान्मन्त्रचैतन्यं प्राप्नोत्यर्थविनिर्णयम् || ५२-२५ || इति श्रीरुद्रयामले उत्तरतन्त्रे मन्त्रार्थ चैतन्यविन्यासो नाम | द्विपञ्चाशत्तमः पटलः || ५२ || अथ त्रिपञ्चाशत्तमः पटलः श्रीआनन्दभैरवी उवाच आनन्दसागराम्भोजमध्यस्थ परमप्रिय | इदानीं कालजालादिवारणं शृणु भैरव || ५३-१ || सम्पूर्य सञ्चयाच्छन्नं वायुं स्वाभाविकीगतिम् | कुम्भयित्वा स्वभावेन चिरकालं सुखी भवेत् || ५३-२ || शनैः शनैः रेचयित्वा सर्वदा तद्गतो भवेत् | कालजालवशो याति तत्क्षणान्नात्र संशयः || ५३-३ || विना वायवाकुञ्चनेन न सिध्यति च को जनः | वायुचालनमात्रेण सूक्ष्ममार्गोद्गमेन च || ५३-४ || सिध्यत्येव महायोगी कालजालवशोऽपि च | कालवशं न करोति मोहादतिसुखायते || ५३-५ || कालभक्षो भवेत् सोऽपि मिरयते नात्र संशयः | मणिपुरे मनो दत्त्वा साधयेद् देवताः सदा || ५३-६ || स्तोत्रं ध्यानं नाम गुणं पठित्वा च पुनः पुनः | मनोयोगञ्च सर्वत्र वायुना कारयेद् बुधः || ५३-७ || कुम्भयित्वा धारयित्वा रेचयित्वा पुनः पुनः | सर्वकालवशं नीत्वा जितात्मा चामरो भवेत् || ५३-८ || लोभमोहौ वर्जयित्वा कामक्रोधादिपातकम् | सर्वदा वायुपानञ्च कृत्वा रहसि संवशी || ५३-९ || नित्यं वायुसाधनानि षट्चक्रभेदनाय च | शनैः शनैर्धारयेद्वै चिरजीवित्वसाधनात् || ५३-१० || यदि न चिरजीवी स्यात् कालात्मा वायुसेवकः | षट्चक्रभावसिद्ध्यन्ते ज्ञानी मृत्युवशो भवेत् || ५३-११ || अतः कुर्याच्छिवज्ञानं वायुसंसिद्धकारणम् | तत्क्रियासाधनार्थाय आदौ पञ्चामराविधिम् || ५३-१२ || कुर्यात् साधकमुख्यश्च निजकायप्रसाधनात् | नेतीयोगं तदा कुर्याद् यथा भवति संवशी || ५३-१३ || धौतीयोगं तदा कुर्याद् यथा भवति संवशी | नेउलीयोगमाकुर्याद् यत्र लोको न विद्यते || ५३-१४ || दन्तीयोगं तदा कुर्याद् यदा मुख्यक्रियावतः | तदा क्षणेन यः कुर्याद् यदा तृष्णाविवजीतः || ५३-१५ || तृष्णानाशो भवेन्मोक्ष इति मे योगनिर्णयः | विशेषेण प्रवक्ष्येऽहं शृणु कैलासपावन || ५३-१६ || एतत्कार्यं पुरा कृत्वा दिवि देवा मुनीश्वराः | कायसिद्धिं मुदा कृत्वा छायामायाविवजीताः || ५३-१७ || सर्वत्र गामिनः सर्वे धर्मशास्त्रार्थपण्डिताः | चिरजीविन एवापि सकलश्रीसमन्विताः || ५३-१८ || तत्तद्भेदान् प्रवक्ष्यामि साधनं कायरक्षणम् | यः करोति महादेव कायसाधनमुत्तमम् || ५३-१९ || स आयाति ममानन्दसदने नात्र संशयः | प्रभाते च समुत्थाय ब्राह्मे कालफलोदये || ५३-२० || सहस्रारे गुरोः पादपङ्कजध्यानमाचरेत् | विचिन्तयेत्ततः श्रीमान् गुरुरूपां सरस्वतीम् || ५३-२१ || स्वदेवतां परानन्दरसिको योगबुद्धिमान् | प्रणम्य शिरसा नित्यं शौचकार्यं समाचरेत् || ५३-२२ || शौचक्रियाक्रमेणैव सिद्धः शुचिगुणान्वितः | प्रगच्छेच्छौचकार्यार्थं घटमानं तु यत्नतः || ५३-२३ || मृत्तिकाप्रस्थमानञ्च नीत्वा शौचं समाचरेत् | कुल्कुलं सप्तदशकं वर्चत्यागं पुनः पुनः || ५३-२४ || ततस्तर्जन्या चालोड्य वामहस्तस्य शङ्कर | गुदरन्ध्रे समायोज्य क्षालनं हि पुनः पुनः || ५३-२५ || यावच्च विससंत्यागं निःशेषेण मलक्षयम् | तावन्मृत्पयसा क्षाल्य शोधयेदुदरं सुधीः || ५३-२६ || यावन्न जायते सौख्यं तावत्कालं समाचरेत् | तत उत्थाय विधिना मृत्तिकाशौचमाचरेत् || ५३-२७ || येन क्रमेण विष्ठाया गन्धनाशोऽपि जायते | पादद्वयं समाक्षाल्य चान्तःशौचं समाश्रयेत् || ५३-२८ || तत्क्रियासफलं वक्ष्ये शृणु योगेश्वर प्रभो | सूक्ष्मवस्त्रसमुद्भूतं डोरकं सूक्ष्मरन्ध्रके || ५३-२९ || नासिकाया दृढतरं कोमलं चातिनिर्मलम् | शनैः शनैनीयोज्याथ जिह्वामूले निवेशयेत् || ५३-३० || जिह्वामूलात् सदादाय वारं द्वादशकं सुधीः | मन्दमन्दाघर्षणं तु कृत्वा भेदं समानयेत् || ५३-३१ || मायात्रयेण बीजेन देवीबीजत्रयेण च | रमाबीजत्रयेणापि योगिन्यै नम इत्यपि || ५३-३२ || एतन्मन्त्रेण योगीन्द्रो नेतीयोगं समाचरेत् | शिरःस्थाङ्गं समाकृत्य कण्ठशोधनमाचरेत् || ५३-३३ || ततो वक्षःशोधनं तु ततो नाभेश्च शोधनम् | क्रमेण कुर्यात् कायार्थे तत्प्रकारं शृणु प्रभो || ५३-३४ || धौतीक्रियां समाकुर्यात् तप्तोदकनिसेवनम् | शुक्लवस्त्रं सूक्ष्मसूत्रं चाष्टाङ्गुलप्रमाणकम् || ५३-३५ || द्वात्रिंशद्धस्तमानं तु पूर्णसंख्या उदीरिता | मन्त्री प्रथमतः कुर्यात् चतुरङ्गुलवस्त्रकम् || ५३-३६ || दीर्घे पञ्चहस्तमानं तप्तोदकसमन्वितम् | भक्षयेत् शेषजिह्वाग्रे संस्थाप्य वसनं सुखम् || ५३-३७ || तर्जनीमध्यमाङ्गुष्ठमुद्राभिर्भक्षयेत् सुधीः | क्रमेण वर्धयेन्नित्यं दीर्घे च प्रसवे तथा || ५३-३८ || एतन्मन्त्रेण देवेश पूर्वोक्तमनुना तथा | सर्वत्र पूर्वबीजेन संशोध्य बीजमुच्चरेत् || ५३-३९ || शक्तिबीजत्रयं पश्चात् कामबीजत्रयं तथा | लक्ष्मीबीजत्रयं पश्चान्महाघौतनिवासिनी || ५३-४० || मेवाडीमलमन्त्रे तु क्षालयद्वयमेव च | भार्या वहेत्ततः पश्चादुदरे सन्निवेशयेत् || ५३-४१ || शनैनीवेशमाकृत्य यावत् सर्वः प्रजायते | एतद्योगप्रसादेन वायवी सुकृपा भवेत् || ५३-४२ || ततः कुर्यात् साधकेन्द्रो विग्रहक्षेमकारणात् | नेउलीपरमं योगं गात्रदृढनिबन्धनम् || ५३-४३ || घूर्णायमानमाकुर्यादुदरं परमेश्वर | सर्वदा चालनं कुर्यात् प्राणवायुप्रधारणम् || ५३-४४ || वामे घूणीतमाकृत्य दक्षिणे घूणीतं चरेत् | एवं क्रमेण देवेश पुटपाकं समाचरेत् || ५३-४५ || एतन्मन्त्रेण देवेश शुभासने हठो भवेत् | ब्रह्मबीजत्रयं पश्चात् कालीबीजत्रयं ततः || ५३-४६ || देवीप्रणवयुग्मं तु गात्रस्थायै नमो द्विठः | तदन्ते नाडिकादीनां क्षालनं परमाद्भुतम् || ५३-४७ || वक्षःस्थानं महादेव दन्तीयोगेन कारयेत् | गजमानं दन्तकाष्ठं निर्मलं सुन्दरं मतम् || ५३-४८ || दन्तकाष्ठं क्षालयेद्वै मनुना साधकाग्रणीः | मायाबीजत्रयं पश्चाद् भैरवीबीजकत्रयम् || ५३-४९ || मदीनीबीजयुगलं दन्तकाष्ठनिवासिनी | मे हृद्ग्रन्थिं छेदय इति युगलं वह्निसुन्दरी || ५३-५० || क्रमेण विधिनानेन गलरन्ध्रे निवेशयेत् | यावन्नाभेरधो याति यावत् सुखमयानि च || ५३-५१ || तावद्दन्तीयोगकार्यं प्रभाते सर्वकार्यकम् | एतदन्ते ततः कुर्यान्नाडीक्षालनमेव च || ५३-५२ || तन्मन्त्रं शृणु वीरेन्द्र चामरत्वप्रदायकम् | आदौ प्रणवमुद्धृत्य दीर्घप्रणवयुग्मकम् || ५३-५३ || भुवनेशीबीजयुग्मं चन्द्रबीजत्रयं ततः | कृष्णबीजत्रयं पश्चादर्कबीजत्रयं ततः || ५३-५४ || वाग्भवत्रयमुद्धृत्य वह्निबीजत्रयं ततः | श्रीबीजं मन्मथं लक्ष्मीं शीतले तदनन्तरम् || ५३-५५ || स्वोदरं नाडिकामूलं मलक्षालययुग्मकम् | स्वाहान्तमनुना नित्यं क्षालयेन्नाडिकाधमाः || ५३-५६ || यावत्तृष्णानाशकः स्यात्तावत्कालं समाचरेत् | यावदुद्गमशक्तित्वं त्रिदण्डावधि धारणा || ५३-५७ || तावन्न जायते नाथ क्षालनं सुखसाधनम् | यदि भाग्यवशादेव त्रिदण्डवायुकुम्भकम् || ५३-५८ || स्वयमेव समायाति नाडिकाक्षालनं शुभम् | यावत्सूक्ष्मानिलालापं मधुपानं निरन्तरम् || ५३-५९ || पादाम्भोजनिःसृतं तु परमानन्दवर्धनम् | तत्सुखेनापरिच्छिन्नं संज्ञाननिर्मलेन च || ५३-६० || चिदानन्दस्वरूपेण आनन्दाश्रुविमोचनम् | तदा हि हृदयग्रन्थिभेदनं देहवर्धनम् || ५३-६१ || तदा हि पुलकं स्थैर्यं देहावेशस्थिरं तथा | तदा षट्कञ्ज सिद्धान्तज्ञानं चैतन्यनिर्मलम् || ५३-६२ || चिदानन्दमयो भूत्वा तृष्णाज्ञानविवजीतः | जीवन्मुक्तः परानन्दरसिकः प्रणयप्रियः || ५३-६३ || स्थिरचेता महायोगी भवत्येव न संशयः | आस्तिको देवभक्तश्च निन्दावादविवजीतः || ५३-६४ || स एवात्मा महाज्ञानी भवत्येव न संशयः | पञ्चयोगं समाकृत्य नित्यादिकमनुत्तमम् || ५३-६५ || स्नानं कुर्याद्विधानेन तीर्थराजनिकेतने | इडा गङ्गाजले वापि पिङ्गला यमुनाजले || ५३-६६ || सुषुम्नायां सरस्वत्यां वसुपुष्करकोटिषु | तथापि बाह्यस्नाने तु सर्वाङ्गमस्तकं विना || ५३-६७ || सप्तवारं समासिञ्चेत् मस्तकं बाह्यवारिणा | मार्जनेनापि मनुना मूलमन्त्रेण वा पुनः || ५३-६८ || ततोऽङ्गं मार्जयित्वा च सन्ध्यावन्दनमाचरेत् | बाह्यसन्ध्यां तु मन्त्रेणैवान्तरे प्रकृतीश्वरम् || ५३-६९ || ऊर्ध्वाधस्तैजसं बिन्दुं नादमण्डलसम्पुटम् | सन्ध्यावन्दनमाकृत्य महौषधिं प्रभक्षयेत् || ५३-७० || मूलमन्त्रेणाभिमन्त्र्य पञ्चगव्यं कुलेश्वर | ततः कुर्यान्महापूजां स्वस्वमन्त्रोक्तसाधिताम् || ५३-७१ || षट्चक्रार्थं ततो ध्यायेद् यदुक्तं विधिना प्रभो | कुण्डलिन्या महापूजा सहस्रनाममङ्गलम् || ५३-७२ || देवतानां पठेद्धीमान् सर्वकाले सुसिद्धये | मूलाधारं मुदा भित्वा सूक्ष्मवायुद्वयेन च || ५३-७३ || ततो भेदं स्वाधिष्ठानं राकिणीविष्णुसङ्गमम् | तयोरनुक्रमं नाथ सहस्रनाममङ्गलम् || ५३-७४ || अन्यन्तगुह्यकथनं सत्त्वभक्तिप्रकारकम् | भित्वा भेदं मुदा कुर्यान्मणिपीठस्थदेवयोः || ५३-७५ || ध्यानं ज्ञानं स्तवं नित्यं यजनं नामकीर्तनम् | चैतन्यं रुद्रलाकिन्यास्तथा मृत्युञ्जयस्य च || ५३-७६ || नित्यं गुरुमयं ध्यात्वा सर्वगामिनमीश्वरम् | चिरजीवी महायोगी भवत्येव न संशयः || ५३-७७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे मणिपूरभेदो नाम त्रिपञ्चाशत्तमः पटलः || ५३ || अथ चतुःपञ्चाशत्तमः पटलः आनन्दभैरवी उवाच परापराविभेदज्ञ निगूढज्ञानसाधनम् | इदानीं शृणु सर्वज्ञ पञ्चद्रव्यादिसाधनम् || ५४-१ || षट्चक्रपद्मभेदार्थं यत्क्रमाज्जायते क्षणात् | अमरश्चामरा चैव सर्वसिद्धिप्रदायिका || ५४-२ || ब्रह्मज्ञानसाधनी च ब्रह्मानन्दस्वरूपिणी | अमरलता तथा ध्येया दूर्वासंज्ञा प्रतिष्ठिता || ५४-३ || सिद्धामरा च निर्गुण्डी सर्वसिद्धिप्रदायिका | नीलामरा ततो ग्राह्या नीलतुलसीसङ्गिता || ५४-४ || अमरुः समयापत्रं चामरा विल्वपत्रिका | शिवप्रिया सदा पूज्या पूर्वोक्तावासमाश्रयेत् || ५४-५ || एतद्भक्षणमन्त्राणि शृणु कैलासभूपते | ब्राह्मणी क्षत्रिया वैश्या शूद्रा चक्रमतो जया || ५४-६ || तत्तन्मन्त्रेण संशोध्य भक्षयेन्मनुनामुना | सर्वासाम मरादीनां भक्षणे समुदीरिता || ५४-७ || प्रणवं दीर्घप्रणवं कपिले ज्ञानसाधनि | मम योगं साधयेति युगं स्वरेण सम्पुटम् || ५४-८ || शाखासमूहसम्पूर्णे महौषधिनिवासिनि | मामेकममरं देहि कुरु युग्मं ततो द्विठः || ५४-९ || अमराशनमन्त्राणि शृणुष्व पार्वतीश्वर | यस्य स्मरणमात्रेण नरो नारायणो भवेत् || ५४-१० || शिववद् विहरेल्लोके बिल्वपत्रस्य भक्षणात् | श्रीबीजत्रयमुद्धृत्य वाग्देवीत्रितयं ततः || ५४-११ || लक्ष्मीकामेश्वरीबीजं रमाकामत्रयं त्रयम् | सिद्धविश्वेशि परमे निगूढतरुवासिनि || ५४-१२ || मामेकं ज्ञानतत्त्वेऽन्ते नियोजय युगं द्विठः | एतन्मन्त्रेण वीरेन्द्रो विधितत्त्वाख्यमुद्रया || ५४-१३ || शोधयित्वा पुनर्नाथ चामरां शोधयेत्ततः | दूर्वा देवी त्रिभुवने अमृतत्त्वप्रदायिनि || ५४-१४ || ग्रन्थिच्छेदभेदवारी प्रणवाद्ये परे रमा | ततो हि विष्णुबीजञ्च किङ्कणी बीजमुद्धरेत् || ५४-१५ || राजराजेश्वरीबीजं श्रीबीजं त्रीणि तत्परम् | सुधाखण्डे मामिहान्ते सिद्धामरपदं लिखेत् || ५४-१६ || देहि देहि नमः स्वाहाशब्दमुच्चार्य शोधयेत् | एतद्भक्षणमात्रेण चिरकालं सुखी भवेत् || ५४-१७ || सर्वसंयोगमात्रेण सिद्धो भवति साधकः | सिद्धामराशोधनं तु शृणु श्रीचन्द्रशेखर || ५४-१८ || सिद्धामरा च निर्गुण्डी त्रिषु लोकेषु गोपिता | एतत्प्रधानं मूलञ्च पत्रं वा चालयेत् सुधीः || ५४-१९ || मूलाभावे दलं ग्राह्यं दलाभावे न मूलकम् | आनयेत् साधकश्रेष्ठः शोभनेन दिनेन तु || ५४-२० || तदा भवति सिद्धिश्च कौलानां नियमो नहि | कौलिके सर्वसिद्धिश्च कौलिके योगसाधनम् || ५४-२१ || कुलाचारविहीनानां योगभोगादिकं कथम् | विना योगेन भोगादिसञ्चयो जायते कथम् || ५४-२२ || योगसाधनमात्रेण भोगसाधनमालभेत् | तद्भोगं परमं ज्ञानं कालामृतनिसेवनम् || ५४-२३ || विषयाह्लादभोगादिरनायासेन वर्धते | शरीरिणामादिकार्य शरीरस्य प्रभो प्रियम् || ५४-२४ || शीतलामृतरूपाढ्यं व्यक्ताव्यक्तप्रकारकम् | आदिसाधनमेवं हि कथितं स्नेहहेतुना || ५४-२५ || वल्लभ प्राणरक्षार्थे शोकातीवारणाय च | पुनस्तु कथये तुभ्यं निर्गुण्डीशोधनं मनुम् || ५४-२६ || ओं निर्गुण्डि महामाये महायवनिवासिनि | आयुरारोग्यजननि ब्रह्मशब्दनिवासिनि || ५४-२७ || मदीयं सकलं कायं शुद्धं कुरु युगं ततः | नान्तयुग्मं बिन्दुनादभूषितं चारुतेजसम् || ५४-२८ || चतुर्दशस्वरव्याप्तं (ठयुगं) बिन्दुभूषितम् | लक्ष्मीबीजत्रयं पश्चाद् रमाबीजमयं लिखेत् || ५४-२९ || वज्रकायं देहि देहि शब्दान्ते वह्निसुन्दरी | एतन्मन्त्रेण संशोध्य भक्षयेत् साधकोत्तमः || ५४-३० || ततोऽमरो भवेत् क्षिप्रं नात्र कार्या विचारणा | तुलसीशोधनं वक्ष्ये शृणुष्व परमेश्वर || ५४-३१ || यत्कृत्वा च निरोगी स्याद् बलवान् विजितेन्द्रियः | प्रणवं वैष्णवी देवी सत्त्वज्ञाननिवासिनि || ५४-३२ || कामबीजत्रयान्ते तु मां रक्ष युगलं द्विठः | एतच्छोधनमाकृत्य भक्षणं यः करोति च || ५४-३३ || कायसिद्धिर्भवेत्तस्य ध्यानधारणयोगिनः || ५४-३४ || इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे पञ्चसिद्धद्रव्यशोधनं नाम चतुःपञ्चाशत्तमः पटलः || ५४ || अथ पञ्चपञ्चाशत्तमः पटलः श्रीआनन्दभैरवी उवाच कथयामि तव स्नेहात् कायवश्यविशेषणात् | हठयोगं प्रकथितमिदानीं शृणुत क्रमम् || ५५-१ || मणिपूरस्थितं रुद्रं त्रैलोक्ये पवनाक्षयम् | कथयामि शिवानन्द शिवशङ्कर मङ्गल || ५५-२ || स्वाधिष्ठानोर्ध्वदेशे च परमानन्दसागरम् | नाभिमूलं मेघजालमध्य विद्युच्छताकुलम् || ५५-३ || रहस्यातिरहस्यं च योगिनामतिसारगम् | तन्नाभिमूलदेशे च नीलपद्मं महाप्रभम् || ५५-४ || तद्दलाग्रे सदा भान्ति डादिफान्ताक्षराणि च | तद् बाह्ये शोभितं रूपं त्रिकोणमनलस्य च || ५५-५ || प्रभातसूर्यसङ्काशं शिखाकारं निरञ्जनम् | तत्राग्निबीजरूपं च रूपातीतं गुणान्तरम् || ५५-६ || विचिन्तयेन्मेषपृष्ठवाहनं चारुणाकृतिम् | चतुर्बाहुं त्रिनयनं चारुदेहधरं परम् || ५५-७ || तत्क्रोडे भाति रुद्रेशः सिन्दूरारुणविग्रहः | ब्रह्मरूपी त्रिनयनः सृष्टिसंहारकारकः || ५५-८ || विभूतिभूषिताङ्गस्तु लोकानामिष्टदो विभुः | तस्य वामे सदा भाति लाकिनी परदेवता || ५५-९ || चतुर्भुजा महादेवी त्रिनेत्रा सौख्यदायिनी | श्यामाङ्गी पीतवसना विचित्रालङ्कृतामरा || ५५-१० || सर्वसिद्धिप्रदा माता सर्वत्र सर्वपालिका | सदा रक्षतु मां देवी विद्याभिः कुलपालिका || ५५-११ || एवं ध्यात्वा पूजयित्वा जपयागस्तवादिभिः | ततः सिद्धो भवेन्मन्त्री मणिपूरप्रसादतः || ५५-१२ || मणिपूरफलं वक्ष्ये समासेन शृणुष्व तत् | कोटिवर्षशतेनापि फलं वक्तुं न शक्यते || ५५-१३ || मणिपूरानन्तरं हि प्रवक्तव्यमनाहतम् | स्तोत्रं ध्यानं नामधेयं सहस्रगुणशङ्करम् || ५५-१४ || फलमत्यन्तगुह्यं च सुहृत्पद्मोपसिद्धिदम् | आत्मज्ञानं मोक्षसिद्धिं प्रेमभक्त्यादिलाभकम् || ५५-१५ || संहर्ता जनसङ्घानां पालकः कमलाकरः | अकस्माज्ज्ञानसन्दोहलक्ष्मीं प्राप्नोति योगिराट् || ५५-१६ || इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे मणिपूरभेदो नाम पञ्चपञ्चाशत्तमः पटलः || ५५ || अथ षट्पञ्चाशत्तमः पटलः श्रीआनन्दभैरव उवाच वद कामिनि कौमारि सुरानन्दे कुलेश्वरि | हृदयाम्भोजविन्यासमधुना वक्तुमर्हसि || ५६-१ || यस्य विज्ञानमात्रेण नरो योगेश्वरो भवेत् | सर्वसिद्धिक्रियास्थानं योगिनामतिदुर्लभम् || ५६-२ || सर्वतत्त्वस्वरूपं च सिद्धिमार्गप्रकाशकम् | हृदयाम्भोज विज्ञानान्मार्तण्डभैरवो भवेत् || ५६-३ || श्रोतुमिच्छामि तत्सर्वं षट्चक्रसारमङ्गलम् | स्नेहाद् दृष्टिक्रमेणैव भक्तियोगोद्भवेन च || ५६-४ || भेदनं भावनं ज्ञानं चित्तदर्शनमेव च | मन्त्रोद्धारञ्च सङ्केतं सर्वज्ञादिगुणोदयम् || ५६-५ || यजनं काकिनीदेव्या ईश्वरस्य गुणात्मनः | स्तवनं कवचं सर्वं सहस्रनाममङ्गलम् || ५६-६ || वायूनां मण्डलज्ञानं समासेन वदस्व मे | त्वमेव शरणं देवि त्राहि मां दुःखसङ्कटात् || ५६-७ || महाकाल भयाभाव भक्तिभावपरायण | ममानन्दभैरवेश शृणु वक्ष्यामि तत्त्वतः || ५६-८ || यदुक्तं भवता चात्र चाश्रुतं चाद्भुतं मतम् | नोक्तं कुत्रापि सर्वेश तव स्नेहात् प्रकाशितम् || ५६-९ || अप्रकाश्यमिदं रत्नं दुःखजालनिवारणम् | सावधानेन सर्वेश कुरु त्वं योगसाधनम् || ५६-१० || मयि योगं महादेव कृत्वा कालवशं नय | मयि योगं न करोति सिद्धिभक्तिक्रियादिकम् || ५६-११ || अकस्मान्मरणं तस्य कालभक्षो न संशयः | केवलं मां हृदम्भोजे परिपूर्णफलोदये || ५६-१२ || सर्वाकारे मनोराज्ये नानाकौतुकसङ्कुले | पूजयित्वा सदा ध्यायेत् काकिनीं मां न संशयः || ५६-१३ || स योगी जायते नाथ हृदम्बुजप्रसादतः | हृत्पङ्केरुहमध्यस्थाः सर्वे देवाः सवासवाः || ५६-१४ || मामर्चयन्ति ते नित्यं भक्तिभावपरायणाः | ये ध्यायन्ति महावीर ते पश्यन्ति सवासवान् || ५६-१५ || क्रमेण प्राणसंयोगान् मां पश्यन्ति न संशयः | मामेकं काकिनीध्यानं स्थिरवायुं प्रचण्डकम् || ५६-१६ || पश्यन्ति योगिनः काये अष्टैश्वर्यं महाप्रभम् | केवलं भक्तियोगेन नित्ययोगे स्युरुत्तमाः || ५६-१७ || पद्मध्यानं प्रथमतः कृत्वा सिद्धो भवेन्नरः | तद्धयानं शृणु वीरेश योगिनामिह दुर्लभम् || ५६-१८ || हृत्पद्मं कुलपालितं सुललितं हंसेन संशोधितं | बन्धूकामलदीप्तिकोटिजडितं सम्भावितं साधकैः | अत्युत्कृष्टमयूखपुञ्जमिलितं सिन्दूरपूरारुणं | ध्यात्वा पश्यति यो नरः प्रतिदिनं काद्यारुणैरावृतम् || ५६-१९ || स स्यात्कोटिधनेश्वरो नरवरो भूयात्त्वभावार्णवे | यो नित्यं लिपिभावनं प्रकुरुते नित्येश्वरालोकनात् | तद्धयानं क्रमतो वदामि सकलं येन प्रसिद्धो भवे-- | दानन्दार्णवमध्यपद्मकलितं काद्यर्कवर्णोज्ज्वलम् || ५६-२० || दले पूर्वे ध्यायेदतिविमलवर्णं कमिति वा प्रभातार्कच्छायारुणकिरणयोगं युगमयम् | चतुर्बाहुं नित्यं त्रिनयनमनन्तं रविगतं | भवाद्याशक्तिस्थं स्वभवनघटाशोभिततनुम् || ५६-२१ || द्वितीये पत्रेऽस्मिन् खमरुणसमूहाश्रयपदं | पदं श्रीतारिण्या अनिलगगनयोः प्रियकरम् | मुदा ध्यायेदेवं परममनिलं देवभुजगं | सुवर्णालङ्कारं त्रिनयनममौल्यं सुखमयम् || ५६-२२ || तृतीये पत्रेऽस्मिन् विधुयुतकपालं त्रिनयनं | स्वसिन्दूराकारं द्वियुगभुजशोभाभवमहम् | सदा ध्यायेदेवं परमपुरुषं श्रीगणपतिं | स्फुरद्रक्ताकारं तरुणमणिमालं जितमदम् || ५६-२३ || चतुः पत्रे ध्यायेद्यमरुणशतं घोरनिनदं | क्रियादक्षं मूतीं त्रिनयनसरोजं युगभुजम् | वराभीतिप्रोच्छत्स्फटिकजपमालादिसहितं | फणालङ्काराङ्गं शिव शिव मुखेशोत्तममहम् || ५६-२४ || ङंबीजं सिन्दूरारुणममखिलनाथं त्रिनयनं | महामोक्षस्थानं मणिकनकरत्नाद्यभरणम् | चतुर्बाहुं रुद्रं जगति भवमेकं गुणविभुं | कपालं श्रीमालं वरमभयकं बिभ्रतमहम् || ५६-२५ || चतुर्बाहूल्लासं कमलवरमालासिसहितं | विभुं तं ध्यायेऽहं विधुशतमुखं तं त्रिनयनम् | प्रभातार्कप्रायं सकलमणिरत्नाभरणकं | महाज्योत्स्नाजालं परमरसबिन्दूद्भवतनुम् || ५६-२६ || तमेकं नेत्रस्थं छममलकरं नूतनरविं | चतुर्बाहुं ध्याये वरतनुकपालेषु सहितम् | सुधाधारापानं कनकजपमालाऽवृततनुं | त्रिनेत्रं योगेन्द्रं वसुदलगतं चारुवदनम् || ५६-२७ || चतुर्वक्त्रं ध्याये जमजममरं सारुणतनुं | विशालाक्षं सूक्ष्मं समरसमयं ब्रह्मवपुषम् | चतुर्बाहुं देवं त्रिभुवनपदं सारघटितं | महाशङ्खं रुद्रं वरमभयकं विभ्रतबलम् || ५६-२८ || महाकायं तेजोमयमपि चरुं बीजमखिलं | मुदा ध्याये कामापहमतिमुखं चाष्टमदले | महासिन्दूराद्रिं दिनकरकलाकोटिविमलं | त्रिनेत्रं पञ्चास्यं दशभुजयुतं सर्ववपुषम् || ५६-२९ || ञबीजं सार्धेन्दूद्भव शिखमखेशं त्रिनयनं | चतुर्बाहुं ध्याये सुकमलगदाचक्रनियुतम् | महामालाव्याप्तं सुकनकशुभाऽलङ्कृतगुरुं | प्रभातार्कं विश्वाचीतजडिलरूपं रविदले || ५६-३० || मनोरूपाच्छन्नं त्रिनयनमधीशारुणदले | टबीजं बिन्द्विन्द्वं जपवटिवराभीत्यसिधरम् | तमेकं सोमेशं मणिमयचलत्कुण्डलधरं | मुदा ध्याये शम्भुं हृदि शिवदले सिद्धकमले || ५६-३१ || त्रिनेत्रं कामाख्यं शिशुकरुणया सिद्धिफलदं | सुरत्नाऽलङ्कारच्छविरुचितनूनां समनघम् | ठकारं बिन्द्विन्द्वं नवरविघटाकोटिकिरणं | दले चार्के ध्याये कमलवरमालाशिशुधरम् || ५६-३२ || एतच्छुद्धमनोलयस्य भवनं चैतन्यसंसिद्धये | वर्णानां जपभावनं यदि सदा चिन्तामणेर्मण्डलम् | योगीन्द्रः कुरुते वशिष्ठसदृशो वाचां पतिर्भूतले | वाक्सिद्धिं चिरकालवासमखिले देवो हि नो मानुषः || ५६-३३ || वाञ्छाचिन्तामणिगृहं हृदयाम्भोजमण्डलम् | तन्मध्ये पवनस्थानं मण्डलाकारमुल्बणम् || ५६-३४ || बुद्धिप्रतिभया व्याप्तं तन्मध्ये पवनाक्षरम् | आच्छन्नधूमसङ्काशं प्रसिद्धस्थानमुत्तमम् || ५६-३५ || तन्मध्ये देवतापीठं षट्कोणं मण्डलं परम् | तन्मध्ये भावयेदिष्टं स्वस्वकल्पोक्तसाधितम् || ५६-३६ || वायोर्ध्यानं तत्र कुर्यादत्यन्तसूक्ष्मरूपिणम् | निराकारं परं ब्रह्म साकारं शब्दरूपिणम् || ५६-३७ || निरक्षरं स्वाक्षराढ्यं महोग्रं स्थिररूपिणम् | चतुर्बाहुं जगद्व्याप्तं कृष्णसारासनं यवम् || ५६-३८ || लोकत्रयाणां वरदं करुणासिन्धुरूपिणम् | पञ्चभूतात्मकं रौद्रं प्राणसञ्ज्ञं किरीटिनम् || ५६-३९ || संबिभ्रतं वराभीतिघण्टाडमरुसेवकान् | ईशनाम्ना परिचितं परहंसं कुलेश्वरम् || ५६-४० || सर्वाऽलङ्कारशोभाङ्गं विवेकोदयकारणम् | विचिन्तयेत् साधकेन्द्रः परिवारगणावृतम् || ५६-४१ || तत्र पङ्केरुहे ध्यायेदीश्वरं वर्णरूपिणम् | त्रैलोक्यमङ्गलं नाथं चतुर्बाहुं किरीटिनम् || ५६-४२ || रत्नमालाशोभिताङ्गं शुक्लवर्णं महाप्रभम् | ईश्वरं योगिनामीशं वरदं परमेश्वरम् || ५६-४३ || वराभीतिशङ्खपद्मश्रिया जुष्टं पुरातनम् | रत्नाभरणभूषाङ्गं हृदयाम्भोजवासिनम् || ५६-४४ || वाञ्छातिरिक्तफलदं भावसिद्धिप्रकाशकम् | परमहंसमीशानं ध्यायेद् हृत्पद्ममण्डले || ५६-४५ || तत्पार्श्वे ध्यानमाकुर्यात् काकिनीं परमेश्वरीम् | त्रैलोक्यपूजितां देवीं काकचञ्चुप्रकाशिनीम् || ५६-४६ || चतुर्भुजां पीतवर्णां पीतवस्त्रोपशोभिताम् | नवविद्युत्कोटिरूपां विलोलनेत्रपङ्कजाम् || ५६-४७ || कपालशशिशूलास्त्रवरदानसमाकुलाम् | विचित्ररत्ननिर्माणस्वर्णाऽलङ्कारभूषिताम् || ५६-४८ || त्रैलोक्यललितां सूक्ष्मां वराभयकराम्बुजाम् | सुधापानरतां मत्तां पूर्णरूपां कुलेश्वरीम् || ५६-४९ || रत्नकङ्कणमालाढ्यां परमानन्दभैरवीम् | हृदयाम्भोजमध्यस्थां ध्यायेऽहं हंसगामिनीम् || ५६-५० || तत्पीठमध्यनिकरे त्रिकोणं परिचिन्तयेत् | पीठशक्तिं सुवर्णाढ्यां विद्युत्कोटिसमोदयाम् || ५६-५१ || काकिनीसदृशीं मत्तां पूर्णान्तः करणोद्यताम् | सर्वाऽलङ्कारभूषाढ्यां परिवारगणावृताम् || ५६-५२ || तद्दक्षिणे पार्श्वभागे चिन्तयेत्त्वामलिङ्गकम् | सुवर्णशुद्धसङ्काशं निर्मलं चारुतेजसम् || ५६-५३ || महालक्ष्मीप्रियानन्दं सर्वाकारं निरञ्जनम् | ज्ञानयोगोदयं ब्रह्मरूपिणं बहुरूपिणम् || ५६-५४ || प्रदीपकलिकाकारं चिन्तयेदीश्वरं शिवम् | एतेषां ज्ञानमाकृत्य वागीशो भवति क्षणात् || ५६-५५ || वाक्यसिद्धिं तत्र नाथ चिन्तयेत् प्रसिद्धये | तत्र भानोर्मण्डलञ्च चिन्तयेत् साधकाग्रणीः || ५६-५६ || पद्मकिञ्जल्कमध्ये तु चिन्तयेदरुणायुतम् | मासैकसाधनादेव योगी स्याच्छीतलाङ्गधृक् || ५६-५७ || द्विमासे ग्रन्थिभेदः स्यादनन्तगुणवान् भवेत् | त्रिमासे योगयोग्यः स्यात् सर्पादिविषनाशकृत् || ५६-५८ || चतुर्मासे निर्मलात्मा भावकः स्थिरमानसः | पञ्चमे मासि सम्प्राप्ते वायवी कृपयान्विता || ५६-५९ || स्थिरवायुः स्थिरा दृष्टिरतीव सुखसम्पदः | ततो दिने दिने वृद्धिर्वायूनामनुकम्पया || ५६-६० || षण्मासात् पापसंत्यक्तो मुक्तवद् भ्रमते चिरम् | जले चाग्नौ च भूगर्ते कदाचिन्न मिरयेत हि || ५६-६१ || ईश्वरात्मा महाज्ञानी निःशङ्को निरुपद्रवः | महाविवेकसिद्धान्तज्ञानी भेदविवजीतः || ५६-६२ || स भूत्वा चिरजीवी च भुक्तिभागी दिने दिने | सप्तमे कल्पसन्त्यक्तो मदनो दोषविग्रहः || ५६-६३ || नित्यानन्दगुणप्राप्तिर्भूमित्यागो दिने दिने | अष्टमे सर्वशत्रुघ्नो रामनामविवजीतः || ५६-६४ || अणिमादिदर्शनञ्च ब्रह्मगोविन्ददर्शनम् | नवमे क्षालनासिद्धिर्भूमित्यागस्त्रिहस्तकः || ५६-६५ || दशमे योगसिद्धिश्च षट्चक्रादिप्रदर्शनम् | ब्रह्मरन्ध्रभेदनज्ञो महाआनन्दविग्रहः || ५६-६६ || एकादशे सर्वसिद्धिः पञ्चभूतमयाङ्गधृक् | सप्तस्वर्गालोकनञ्च षट्शिवप्रियदर्शनम् || ५६-६७ || द्वादशे देवसन्मानं देवता--पाददर्शनम् | अत्यन्तं सुखसन्तानं मायाजालनिवारणम् || ५६-६८ || सर्वविद्यासर्वसिद्धिदीव्यभक्तिः शुभोदया | ते वीरास्ते च योगीन्द्रास्ते दिव्यास्ते च भैरवाः || ५६-६९ || ते सर्वे मृत्युजेतारस्ते भक्ता मुक्तिभागिनः | ये तिष्ठन्ति महारण्ये निर्जने पर्वते चिरम् || ५६-७० || धारयन्ति साधयन्ति योगमेतत् कुलेश्वर | योगे योगाद् भवेन्मोक्ष इति मे तत्त्वनिर्णयः || ५६-७१ || संसारोत्तारणे मुक्तिर्योगशब्देन कथ्यते | लोके हि दुर्लभं योगं योगात्परतरं नहि || ५६-७२ || योगं पञ्चविधं प्रोक्तमेकं विषयसम्मतम् | द्वितीयञ्च द्विभेदञ्च पूजायोगं तृतीयकम् || ५६-७३ || भक्तियोगं परं ब्रह्मयोगसारं कुलेश्वर | सर्वत्रापि मनोयोगाद् बद्धो मुक्तो भवेद् ध्रुवम् || ५६-७४ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादेऽनाहतपद्मविन्यासो नाम षट्पञ्चाशत्तमः पटलः || ५६ || अथ सप्तपञ्चाशत्तमः पटलः श्रीआनन्दभैरवी उवाच अथातः सम्प्रवक्ष्यामि विवेकगुणलक्षणम् | वर्णध्यानानन्तरं हि पूजनं तन्महाफलम् || ५७-१ || पूजया लभेत पूजां विवेकं भावसम्भवम् | काकिनीश्वरसंयोगं भावं परमदुर्लभम् || ५७-२ || यजनं काकिनीदेव्या ईश्वरस्यापि भावनम् | पूजाभावे महासिद्धिर्जायते तत्क्षणाच्छिव || ५७-३ || भावेन लभ्यते पूजा विवेकं पूजया लभेत् | विवेकं ब्रह्मभावं तु प्राप्नोति कोटिजन्मनि || ५७-४ || अथवा लभ्यते शीघ्रं तवापि मदनुग्रहैः | तत्प्रकारं शृणु प्राणवल्लभ त्रिपुरेश्वर || ५७-५ || यस्य विज्ञानमात्रेण भवेत् परमभावकः | विचिन्तयेद्वर्णपार्श्वे चतुदीक्षु क्रमेण तु || ५७-६ || सिद्धेश्वरान् योगयुक्तान् महापुरुषसंश्रितान् | ब्रह्माणं परमं हंसं रुद्रं विश्वेश्वरं प्रभुम् || ५७-७ || मृत्युञ्जयं महाकालं नीलकण्ठं सुरेश्वरम् | श्रीविष्णुं कमलानाथं पञ्चचूडं कुमारकम् || ५७-८ || चन्द्रं सूर्यं प्रजानाथं दक्षं मुनीन्द्रमेव च | प्रचेतसं मरीचिञ्च कश्यपं पुलहं तथा || ५७-९ || वशिष्ठञ्च भृगुञ्चैव गौतमं कपिलं मुनिम् | पुलस्त्यञ्च क्रतुञ्चैव प्रह्लादं कर्दमं तथा || ५७-१० || अथर्वाङ्गिरसषीञ्च बालखिल्यान् मरीचिपान् | मानसञ्चान्तरीक्षञ्च विद्याश्च पवनं विभुम् || ५७-११ || तेजसञ्च जलञ्चैव महीस्पर्शञ्च शब्दकम् | तथा रूपं रसं गन्धं प्रकृतिञ्च विकारकम् || ५७-१२ || यञ्चान्यत् कारणं सर्वं भुवाक्षयं चराचरम् | तत्पार्श्वगामिनो देवा सेन्द्रा भ्रमन्ति नित्यशः || ५७-१३ || अगस्त्यश्च महातेजा मार्कंण्डेयश्च वीर्यवान् | यमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा || ५७-१४ || दुर्वासाश्च महाभाग ऋष्यशृगंश्च धामीकः | सनत्कुमारो भगवान् योगाचार्यो महातपाः || ५७-१५ || असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् | ऋषभाजीतशक्रश्च महावीर्यस्तथा मणिः || ५७-१६ || आयुर्वेदं तथाष्टाङ्गमेते भान्ति स्वमूर्तयः | चन्द्रमाः सह नक्षत्रैरादित्यैश्च गभस्तिभिः || ५७-१७ || वायव ऋतवश्चैव सङ्कल्पः प्राण एव च | मूतीमन्तो महात्मानो महाव्रतपरायणाः || ५७-१८ || एते चान्ये च बहव ईश्वरं समुपासते | एते पार्श्वे चिन्तनीया वर्णानां साधकोत्तमैः || ५७-१९ || तत्पार्श्वस्थः प्रभाकोटिधारकः प्रतिभाति च | अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तथा दमः || ५७-२० || तत्र गन्धर्वमुख्याश्च सहिताप्सरसस्तथा | विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः || ५७-२१ || शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च | शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च || ५७-२२ || मन्त्रो रथन्तरश्चैव हविष्मान् वसुमानपि | आदित्याः साधिराजानो नानावृन्दैरुपासिताः || ५७-२३ || मरुतो विश्वकर्मा च वसवश्च कपालिनः | तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ || ५७-२४ || ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा विधिः | अथर्ववेदश्च तथा सर्वशास्त्राणि चैव हि || ५७-२५ || इतिहासोपदेशश्च वेदाङ्गानि च सर्वशः | ग्रहा यज्ञाश्च सोमाश्च दैवतानि च सर्वशः || ५७-२६ || सावित्री तारिणी दुर्गा वाणी सप्तविधा तथा | मेधा धृतिः स्मृतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा || ५७-२७ || सामानि श्रुतिशास्त्राणि गाथास्तु विविधास्तथा | भाष्याणि तर्कयुक्तानि देहवन्ति विभान्ति च || ५७-२८ || नाटिका विविधाः कार्याः कथाख्यायिककारिकाः | अत्र तिष्ठन्ति ये पुण्या ये पुण्या गुरुपूजकाः || ५७-२९ || क्षणा लवा मुहूर्ताश्च दिवारात्रिश्च सर्वतः | अर्धमासास्तथामासाः ऋतवः षट् च शङ्कर || ५७-३० || संवत्सराः पञ्चयुगं मासा रात्रिश्चतुवीधा | कालचक्रञ्च यद्दव्यं नित्यमक्षयमव्ययम् || ५७-३१ || धर्मचक्रस्तथा चापि नित्यमास्ते महेश्वर | अदितिश्च दितिश्चैव रुद्रश्च विनता तथा || ५७-३२ || कालिका युवती देवी सुरसा चाथ गौतमी | प्राधा कद्रुश्च वै देव्यो देवतानाञ्च मातरः || ५७-३३ || रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथा परा | पृथिवीसञ्ज्ञिता देवी ह्रीः स्वाहा कीती रेव च || ५७-३४ || सुरा देवी शची चैव तथा पुष्टिररुन्धती | संसिद्धि सिद्धिदा विद्या महादेवी रतिस्तथा || ५७-३५ || एताश्चान्याश्च वै देव्य उपतस्थुरलङ्कृताः | आदित्यावसवो रुद्रा मरुतश्चाश्विनावपि || ५७-३६ || विश्वेदेवाश्च साध्याश्च पितरश्च महर्षयः | राजर्षयस्तत्र भान्ति हरिश्चन्द्रादयः प्रभो || ५७-३७ || सर्वे हेमकुण्डलिनः सर्वाऽलङ्कारभूषिताः | भावुका गीतवाद्यादि निस्वनैर्मग्नदेहिनः || ५७-३८ || भावयन्ति महेशानीं काकिनीं परमेश्वरीम् | वर्णरूपां नित्यकलां महेश्वरपतिव्रताम् || ५७-३९ || ईश्वरं भावयन्त्येते पूजयन्ति निरन्तरम् | वेष्टिताः सुन्दराकाराः अष्टसिद्धिसमृद्धिदाः || ५७-४० || एताः पूज्या महाकाल वर्णपार्श्वचराः प्रभाः | प्रसीद नाथ स्वामीति नाम्ना मनसि पूजयेत् || ५७-४१ || ऽऽवर्णेश्वर प्रियानन्दां काकिनीं पूजयाम्यहम्ऽऽ इति मन्त्रेणैव पूज्या वर्णरूपा सरस्वती || ५७-४२ || तदा प्रसन्नाः सिद्ध्यन्ति श्रीकाकिन्याः कलौ युगे || ५७-४३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे काकिनीश्वरवर्णपार्श्व चरयजनं नाम सप्तपञ्चाशत्तमः पटलः || ५७ || अथाष्टपञ्चाशत्तमः पटलः श्रीआनन्दभैरवी उवाच अथाष्टसिद्धिमाहात्म्यं शृणु श्रीचन्द्रशेखर | मन्त्रोद्धारं तथा न्यासं कवचाङ्ग तव प्रियम् || ५८-१ || स्तोत्रं सहस्रनामाख्यं साष्टोत्तरमनुप्रियम् | साकारध्यानमखिलं सालोक्यादिपदप्रदम् || ५८-२ || यस्य करणमात्रेण सुरो भवति मानुषः | वृक्षबीजाद् भवेद् वृक्षः श्रद्धयाश्च फलोदयः || ५८-३ || तथा तथैव मन्त्राणामुदयो बीजयोगतः | बीजं तु परमं ज्ञानं बीजाधीनं चराचरम् || ५८-४ || बीजमाश्रित्य सर्वेन्द्राः प्रतिभान्ति महौजसः | कोटिसूर्यप्रतीकाशाः प्राणस्थाननिवासिनः || ५८-५ || के चाप्ययुतसूर्याभाः शतसूर्यसमप्रभाः | केचिद् द्वादशसूर्याभाः को जनश्चैकभासुराः || ५८-६ || कोपि नाम मुनिर्दीप्तः कोपि चन्द्रसमप्रभः | कोपि श्रीकान्तिकिरणः शङ्खचक्रगदाधरः || ५८-७ || एते बीजसमुद्भूता निर्बीजाश्च पञ्चदेवताः | ब्रह्मविष्णुशिवानन्दभैरवाः प्राणदेवताः || ५८-८ || ब्रह्माब्रह्मस्वरूपेण श्वासमार्गप्रवेशकः | विष्णुर्वैष्णवतत्त्वेन कुम्भकान्तर्गतः प्रभुः || ५८-९ || शिवः संहाररूपेण महाप्रलयगः प्रभुः | आनन्दभैरवः श्रीमान् मूलज्ञानीपरात्परः || ५८-१० || मूलाम्भोजाद् ब्रह्मरन्ध्रं यावत्तत्र प्रवेशिका | प्राणविद्यास्वरूपेण बीजरूपा सनातनी || ५८-११ || सा भाव्या योगिभिनीत्यं योगाङ्गैरतिभाव्यते | योगशास्त्रं विना नाथ के जानन्ति महर्षयः || ५८-१२ || अत्यन्तदुःखसाध्या सा योगिज्ञेया मनोयवा | नानारूपा बृहद्रूपा श्वासोच्छ्वासप्रकाशिनी || ५८-१३ || हृदयाम्भोजमध्यस्था ईश्वरस्थानवासिनी | कालचञ्चुप्रकाशा सा सर्वभूतहृदिस्थिता || ५८-१४ || सर्वेषां ज्ञानकर्त्ती च सर्वानन्दकरी हृदि | सा देवी काकिनी विद्या ईश्वरी परमा कला || ५८-१५ || विभाव्या कोटिसूर्याभा कोटिचन्द्रसमानना | तस्या मन्त्रं महामन्त्रं ब्रह्ममन्त्रं हि योगिनाम् || ५८-१६ || शृणुनाथ कुलानन्द भैरव्यादिमनुं मुदा | एतन्मत्रप्रभावेण परात्मानं वशं नयेत् || ५८-१७ || दीर्घप्रणवमुच्चार्य वामनेत्रं समुद्धरेत् | मायान्ते वाग्भवं बीजं कामबीजं समुद्धरेत् || ५८-१८ || कामबीजं तथैश्वर्ये नमोऽन्ते वह्निकामिनी | एतन्मन्त्रप्रसादेन भवेत् कालवशः क्षणात् || ५८-१९ || अत्यन्तसुखमाप्नोति भयाज्ञानापहो भवेत् | कामेन पुटितं मन्त्रं वाग्भवेनापि वा प्रभो || ५८-२० || स्वमन्त्रपुटितं कृत्वा सिद्धिः स्यादचिरादिह | अथान्यमन्त्रं वक्ष्यामि सावधानोऽवधारय || ५८-२१ || भद्रकालीं समुद्धृत्य किङ्किणीबीजमुद्धरेत् | बालाबीजं समुद्धृत्य माहेश्वर्यै नमो द्विठः || ५८-२२ || केवलं मूलमन्त्रेण पुटितं मूलमन्त्रकैः | पूजयेत् परया भक्त्या हृदयाम्भोजमण्डले || ५८-२३ || अप्रकाश्यमिमं मन्त्रं सर्वतन्त्रेषु गोपितम् | लक्षजपेन सिद्धिः स्याद् हृदयाब्जे स्थरो भवेत् || ५८-२४ || अकस्माद्दीपकलिकाकारं जीवं प्रपश्यति | ततो भवेन्महायोगी ईश्वरीमन्त्रसाधनात् || ५८-२५ || ध्यानं वक्ष्यामि पूजाया गुह्याद् गुह्यतरं परम् | ध्यात्वा पाद्यादिभिर्नाथ मनःकल्पितपुष्पकैः || ५८-२६ || पूजयेत्परया भक्त्या मन्त्रध्यानपरायणः || ५८-२७ || शशधरशतकोटिश्रीमयूखप्रभायाः | या सुरतरुगुणशोभा निर्मला वेदहस्ता | अरुणकिरणभाला हारमाला विलोला | हृदयकमलमध्ये श्रीश्वरीं तां भजामि || ५८-२८ || एवं सर्वस्वरूपां तां विभाव्य हृदयाम्बुजे | पुनः पुनः पूजयेद्वै त्रैलोक्योद्भवपुष्पकैः || ५८-२९ || अवश्यं सिद्धिमाप्नोति पूजायोगप्रभावतः | आयुरारोग्यजननं पूजनं सुमहाफलम् || ५८-३० || ततो जपेन्महामन्त्रं वर्णामालाक्रमेण तु | प्राणायामं ततः कृत्वा न्यसेत् सर्वाङ्गमध्यके || ५८-३१ || मातृकाग्रन्थिनिकरे न्यसेत् पूर्वोक्तनामभिः | यदुक्तं पूर्वपटले तेषां नामाभिरेव च || ५८-३२ || विन्यस्य मन्त्रपुटितं मन्त्रन्यासं ततश्चरेत् | काकिन्या अष्टशक्तीनां न्यासं कुर्यात्ततः परम् || ५८-३३ || काकजिह्वाद्विकाण्डेशी कामाख्या काकिनी ध्वजा | काकिनी काकमाला च काकचञ्चुप्रकाशिनी || ५८-३४ || कोकिलाचाष्टशक्तीनां नाम्ना विन्यस्य मस्तके | कण्ठकूपे न्यसेत्पश्चात् षोडशस्वरसम्पुटम् || ५८-३५ || हृदये विन्यसेन्नाथ कादिद्वादशसम्पुटम् | मन्त्रं विन्यस्य विधिना नाभौ मन्त्रेण सम्पुटम् || ५८-३६ || डादिफान्तं तु विन्यस्य बादिलान्तं स्वलिङ्गके | मूलाधारे मूलमन्त्रपुटितं वादिसान्तकम् || ५८-३७ || विन्यस्य व्यापकं न्यासं कृत्वाङ्गानि च बन्धयेत् | ततः प्राणायाममेकं कृत्वा प्राणान् समाश्रयेत् || ५८-३८ || ततः स्तोत्रं पठेद्धीमान् तत्सर्वं शृणु शङ्कर | हविष्याशी वशीभूत्वा साधयेदिह सिद्धये || ५८-३९ || इति श्रीरुद्रयामले उत्तरतन्त्रे काकिनीसिद्धिसाधन नामाष्टपञ्चाशत्तमः पटलः || ५८ || अथैकोनषष्टितमः पटलः श्रीआनन्दभैरवी उवाच ज्ञानेश्वरी शुभकरी परिभावनीया | योगेश्वरैर्हरिहरैर्गुरुभिर्महेन्द्रैः | तां काकिनीं परशिवां परमेशपत्नीं | संस्तौमि चारुहृदयाम्बुजपीठमध्ये || ५९-१ || एकाकिनी त्रिजगतामतिनाशकाले | त्वां काकिनीं समरकार्णा(ण्ड)ककाकपत्नीम् | त्वं साक्षिणी भुवनभङ्गविधौ सकास्ते | भूषण्डकाकमहिषीव वयं भजामः || ५९-२ || एकाकिनीं सकलधारणकालयोगे | आधार्य देहसमये सति काकिनीं त्वाम् | वायवासने मनस आशु विकारनाशे | काकेन्द्रचञ्चुचलितामहमेवमीडे || ५९-३ || भावोदये प्रणयिनीमगतौ च भावा | आह्लादयोगविभवे भुवनेश्वरीं त्वाम् | मन्दारहाररुचिरे परमेश्वरि त्वं | रक्षां कुरु प्रथमतो मतिमाश्रयामि || ५९-४ || चन्द्रोदये सुखमयी द्युतिकोटिदीप्ता | गोप्यागमे सुमतिभिः स्वमनांसि शुद्धा | सा त्वं सुखात्वं भव भावविपूजनीये | रक्षां कुरु प्रथमभास्करमङ्घिरमीडे || ५९-५ || ते पादपङ्कजमजस्रमहं भजामि | सानन्दबिन्दु विमलासनभावपुञ्जे | गुञ्जावटीविमलमाल्यसुशोभिताङ्गे | स्यामेव मे चरमभावसमूहदात्री || ५९-६ || पञ्चानने दशभुजे सकलास्त्रयुक्ते | विद्ये भये नरहरे नरहारभूषे | प्रेतासने त्रिनयने जननी त्वमेव | रक्षे शुभे चरणपङ्कजमाश्रयामि || ५९-७ || श्री सुन्दरि प्रणतरक्षिणि वेदमात-- | स्तारेश्वरी त्वमपि रक्ष विनाशकाले | यद्येकभक्त इतिहासपुराणवक्ता | नित्यानुरक्तहरपादसरोजमीडे || ५९-८ || ते श्रीपदं भुवनसारमनन्तसेव्यं | योगास्पदं कृतिभिराश्रयमेकयोगम् | सर्वे भजन्ति निजमोक्षफलाय नित्यं | दीनोऽहमम्ब भुवनेशि मुदा भजामि || ५९-९ || त्रैलोक्यपूजितपदं हृदयाम्बुजस्थं | चित्तप्रकाशकमले स्वसुखानुभूतम् | मायाश्रयं सकलसिद्धिनिदानरूपं | मञ्जीरहारविनतं वरमाश्रयामि || ५९-१० || कौटीरहारकमलप्रियमाल्यशोभे | शोभाकरे स्थिरतरा भव मे हृदब्जे | भूमण्डले हि बलवान्कृतकृत्य एव त्वामीश्वरीं हृदि मुदा सुखमाश्रयामि || ५९-११ || नित्ये पुरा भजति योगसुसिद्धयेऽसौ | शम्भुगीरीश इति चेश्वरपार्श्वगामि | सायुज्यनाथपदवीं गत ईशकान्ते | एकाकिनी कुलवताङ्घिरयुगं किमन्यैः || ५९-१२ || ध्यायन्ति योगिन इहाघसमूहशैलं | संहार हेतुकसदाघविनाशनाय | चित्तोत्सवाय विभवाय जयाय भूमेः | दीनोऽहमाशु विभजामि पदं श्रिये ते || ५९-१३ || कृष्णे सिते विमलपीतनिभे सुरक्ते | वर्णाश्रये त्वमव मामतिदीनमेकम् | पुत्रं तवैव चरणाम्बुजमेव कान्तं | नीलाम्बुजे स्थिरतरं कुरु कामदात्रि || ५९-१४ || सर्वेश्वरी प्रियकरि भवभावहन्त्रि | नाना ध्वनिप्रणतकामदुघे विचित्रे | रत्नाम्बरे सुखपदं यदि देहि दास्यं | त्वं चारुवर्णगलिते पदमाश्रयामि || ५९-१५ || रत्नाकरे सकरुणेऽरुणकोटिवर्णे | स्वर्णादिनिमीतसृजापविशोभिताङ्गी | त्वं काकिनी यदि कटाक्षनिपातमेकं | सर्वं कुरुष्व सुखमोक्षपथप्रमोदी || ५९-१६ || आद्ये प्रवालविमलेऽमलमाल्यशोभे | सूक्ष्मेऽतिसूक्ष्मनिकरे करुणानिधाने | ( क ) बाले वले प्रचले चपले प्रलापे | योगेशि पादकमलं कुलमाश्रयामि || ५९-१७ || ( ख ) त्वं षोडशी खरतरा खरखड्गहस्ते | खड्गेश्वरी प्रखरवाक्यमाथाढ्यवक्त्रे | म खर्जूरहाररुचिरे खलहन्त्रि तुभ्यं | नित्यं नमो नम उपेन्द्रगिरीन्द्रसेव्ये || ५९-१८ || ( ग ) गीतानते तरुतरे प्रणमामि नित्यं | गात्रेश्वरी गतिहरे गणनाथसेव्ये | गायन्ति ते चरणपङ्कजसारगीतं | रक्षाप्रचण्डकलुषादनुपेक्षणीयम् || ५९-१९ || ( घ ) दीर्घस्वरे घनवरे घनघोरनादे | घोरानने नवघने घटनाघनानाम् | घोरास्पदे घटगते घटशून्यकत्री | त्वं काकिनी समवतु क्षितिदोषजालात् || ५९-२० || ( ङ ) आनुस्वरे स्मरहरे ननु रूपविद्ये | संयोगिनीप्रबलशत्रुविनाशभूते | रक्षेऽतिरक्ष करुणां कुरु देहि मोक्षं | ( च ) चण्डि प्रचण्डनयने चरणं भजे ते || ५९-२१ || ( छ ) छत्रप्रदे छलहरे छदवासिनी त्वं | छद्मस्थिते हृदयपङ्कजदक्षयोगे | ( ज ) त्वां पूजये जयधरे यदुनाथजन्यो | जाये जयं यदिह देहि पदं भजामि || ५९-२२ || ( झ ) झङ्के झनज्वलयतीह रिपं पिबन्ति | त्वं कौशिकी सकलदेहविशोधनी त्वम् | ( न ) नित्येऽनुनासिकपदे सकलार्थदे त्वं | ( ञ ) रक्षां कुरुष्व विपदे कुलपुञ्जगुञ्जे || ५९-२३ || ( ट ) टङ्कारगेऽट्टहसने टललेऽट्टहासे | ( ठ ) ठाक्कारिणी सठहरा परिनिष्ठिता त्वम् | सिंहेष्टपृष्ठनिलयेऽस्थिरयोगभावं हृत्पद्मके कुरु सदा सकलार्थदात्रि || ५९-२४ || एतत्स्तोत्रं पठेद्धीमान् ध्यानन्यासपरायणः | विभाव्य स्तौति यो योगी स योगी मोक्षभाग्भवेत् || ५९-२५ || हृत्पङ्करुहमध्यस्थं स पश्यति जगत्त्रयम् | अष्टसिद्धियुतः शीघ्रं जीवन्मुक्तो भवेन्नरः || ५९-२६ || इति श्रीरुद्रयामले महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे काकिनीस्तोत्रविन्यासो नामोनषष्टितमः पटलः || ५९ || अथ षष्टितमः पटलः आनन्दभैरव उवाच वद कान्ते परानन्दे रहस्यं कुलसुन्दरि | यस्य विज्ञानमात्रेण भवेद् गङ्गाधरो हरिः || ६०-१ || ईश्वरस्य स्तवब्रह्मपरं निर्वाणसाधनम् | शोभाकोटियोगपतेर्योगेन्द्रस्य परापतेः || ६०-२ || ईश्वरं के न मानन्ति ब्रह्मविष्णुशिवादयः | तस्य स्मरणमात्रेण महावाग्ग्मी च मृत्युजित् || ६०-३ || मन्त्री वेदान्तसिद्धान्तं तं भजन्ति महर्षयः | देवा मनुष्या गन्धर्वास्तं भजन्ति महेश्वरम् || ६०-४ || अकालमृत्युहरणं सर्वदा सर्वतोमुखम् | सदा तस्य स्तवं दिव्यं श्रोतुमिच्छामि शाङ्करि || ६०-५ || श्रीआनन्दभैरवी उवाच कौल त्वं शृणु शङ्करप्रियकरं स्तोत्रं तदीशस्य च | श्रीनाथाय नमः कुलेश परमप्राणेश तुभ्यं मुदा | सानन्दाय नमो भवाय पतये लोकेश्वरायो ओं नमो | भूतेशाय गणाधिपाय यतये श्रीशूलिने ते नमः || ६०-६ || कान्ताय प्रणवाय योगपतये योगेश्वरायो ओं नमो | महारायाक्षरेश्वराय महते नित्याय नित्यं नमः | स्वाधिष्ठानविभेदकाय हरये मूलाब्जसम्भेदिने | नाभेरम्बुजभेदिने हृदयाम्भोद्भदकायों नमः || ६०-७ || कालाय प्रणवाय मायवशिने नित्यं नमो भास्वते | मोक्षाय प्रमथेश्वराय कवये खट्वाङ्गहस्ताय ते | भक्तिश्रीनिधये महेन्द्रखचराय मायाश्रयार्यो नमो | विज्ञानाय शिवाय सूक्ष्मगतये गूढाय भूयो नमः || ६०-८ || सर्वज्ञाय जयाय भूतिपतये भूतेश्वराय प्रभो | पञ्चास्याय हराय देवपतये गौरीश्वराय श्रिये | भोगायान्तरगामिने हरिहरायानन्दचिद्रूपिणे | कल्याणाय भगाय शुद्धमतिभिनीत्यं नमस्ते नमः || ६०-९ || गोविन्दप्रियवल्लभाय विधये ब्रह्मादिकोत्पत्तये | उत्पत्तिस्थितिसंहृतिप्रकृतये बाह्याय विश्वेश्वर | तुभ्यं काल नमो नमः प्रलययोगोल्लासिने भूभृते | विज्ञाताय गिरीन्द्रपूजित विभो भूताधिपायानिशम् || ६०-१० || गौरीशाय गणाचीताय मनसे मान्याय भूवासिने | भूतोत्साहमहीशनाथशशिचूडाय प्रधानाय ते | नित्यं नित्यकलाकुलाय फणिचूड.य प्रबुद्धाय ते | तेजःशान्तिपते सतां पतिपते निर्वाससे ते नमः || ६०-११ || शोभाकोटियुताय चन्द्रकिरणाह्लादाय सूक्ष्माय ते तुभ्यं नाथ नमो नमः प्रणमतामानन्दसिन्धूत्सवा | हेरम्ब श्रयकातीकेयजनकानन्दप्रियाय प्रभो | पित्रे सर्वसुखाय सर्वपतये श्रीनीलकण्ठेश्वर || ६०-१२ || त्रिब्रह्मापीतभूतये सुरतये श्रीभास्वते योगिना-- मानन्दोदयकारिणे कुलपते ते नाथ तुभ्यं नमः | ब्रह्मानन्दकुलाय रौप्यगिरये सौन्दर्यसंसिद्धये सर्वानन्दकराय सम्परतरायाढ्याय सत्यं नमः || ६०-१३ || काशीशं कौशिकीशं सुरतरुकिरणं कारणाख्यं सुखाख्यं | गौरीशं गङ्गिरीशं गुरुमगुरुगिरिश्रेणिलिप्ताङ्गवङ्गम् | घोषाख्यं मञ्जुघोषं घनगणघटितं घोरसङ्घट्टनादं चार्वीशं राघवेशं घनहृदि घटमामीश्वरं घौटकेश || ६०-१४ || लाक्षाभाण्डं विशालो वसति तव करे स्थावरो जङ्गमो वा | भूताध्यक्षो वशिष्ठः स्वपरिजनकुले सर्वदा पाहि शम्भो | भक्तिज्ञानं न दातुं चपलमलमणिश्रेणिमाला विलोला | लोकाभीतो कलङ्की विधिशतमुकुटश्रीपदाम्भोरुहं ते || ६०-१५ || धूर्तः शौरिः प्रशान्तो विमलमधुरसामोदमानोऽप्रमत्तो | मायामोहापदेवी सुरमदमदनो दानसम्मानदाता | त्वं नाथं श्रीपदाम्भोरुहविमलतले ते कथं ना सुरक्षे | पूर्वास्यो दक्षिणास्यो धनपतिवदनः पश्चिमास्यो मुनिस्त्वम् || ६०-१६ || भेदी सिद्धान्तविद्याधरनिधिकिरणः कारणोऽनन्तशक्ति-- र्यः साक्षात् कामधेनुः स च धनपतिपः सर्वभोगानुरागी | पादाम्भोजे हि नित्यं कलगिरिसुतानाथ ते योगिपत्वं | चित्तं मे चञ्चलाख्यं शशिधरकिरणो वाक्पते योगसिद्धिः || ६०-१७|| कपर्दी श्रीखड्गासिवरगदया वेदभुजया | घनच्छायासङ्कोचरचनावशच्छद्मविजयः | जयी जेता जायेर्जयमनुकरोतु श्रियतमो | ज्वलज्झंझावाते क्षणधर इह क्रोध इति मे || ६०-१८ || अथाऽऽज्ञा चक्रान्तर्गतविवरमाच्छन्नजटिलः | प्रतिज्ञाभङ्गस्थकटकशतकोटिप्रकटितः | कुठारस्ते क्रोधी कमठकटवासी कठिनहा | ककाराद्यं नत्वा दशकिरणमानोऽवतु सदा || ६०-१९ || सुधाखण्डादेव्याः स्तवनपठनेन प्रियकरं | पदाम्भोजं चेति प्रचयति स्वभाग्यं कुलपते | प्रधाने भूखण्डे जयति यदि मृत्युञ्जयपदं | विनोदं भूयोगं पचति सहसा प्रेमतरलः || ६०-२० || यद्येवं प्रपठेदिदमनियतं कौलावलीसंयुतं | स्तोत्रं साररहस्यभारपरमानन्दैकचित्तस्थलम् | योगीन्द्रावगतित्वमुक्तफलदं सर्वेश्वरत्वं पदं | चन्द्रादित्यसमागतं परपदाह्लादैकमात्रं लभेत् || ६०-२१ || ते शम्भो यदि पादाम्भोरुहमङ्गलवल्लिका | पूज्यते सर्वदा योगी निर्वाणगुणसिद्धये || ६०-२२ || किन्न सिद्धयति भ्रूमध्ये शिवभक्तिप्रसादतः || ६०-२३ || इति श्री रुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने अनाहत पद्मे सुरस्तवनं नाम षष्टितमः पटलः || ६० || अथैकषष्टितमः पटलः श्रीआनन्दभैरव उवाच वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते | ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले || ६१-१ || कालिके कालरात्रिस्थे महाकालनिषेविते | शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् || ६१-२ || सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् | अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् || ६१-३ || ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् | सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् || ६१-४ || परानन्दकरं ब्रह्म निर्वाणपदलालितम् | स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने || ६१-५ || इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि | स्नेहानन्दरसोद्रेकसम्बन्धान् कथय द्रुतम् || ६१-६ || श्रीआनन्दभैरवी उवाच ईश्वर श्रीनीलकण्ठ नागमालाविभूषित | नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वर || ६१-७ || काकिनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम् | अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम् || ६१-८ || आयुरारोग्यजननं शृणुष्वावहितो मम | अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम् || ६१-९ || साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम् | सार्वज्ञगुह्यसंस्कारं संस्कारादिफलप्रदम् || ६१-१० || वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम् | महादारिद्र्यशमनं महैश्वर्यप्रदायकम् || ६१-११ || जपेद्यः प्रातरि प्रीतो मध्याह्नेऽस्तमिते रवौ | नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः || ६१-१२ || काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् | आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा || ६१-१३ || ध्यायेद् देवीं महाकालीं काकिनीं कालरूपिणीम् | परानन्दरसोन्मत्तां श्यामां कामदुघां पराम् || ६१-१४ || चतुर्भुजां खड्गचर्मवरपद्मधरां हराम् | शत्रुक्षयकरीं रत्नाऽलङ्कारकोटिमण्डिताम् || ६१-१५ || तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम् | केयूरहारललितां ताटङ्कद्वयशोभिताम् || ६१-१६ || ईश्वरीं कामरत्नाख्यां काकचञ्चुपुटाननाम् | सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम् || ६१-१७ || हृत्पद्मकणीकामध्याकाशसौदामिनीप्रभाम् | एवं ध्यात्वा पठेन्नाममङ्गलानि पुनः पुनः || ६१-१८ || ईश्वरं कोटिसूर्याभं ध्यायेद्धृदयमण्डले | चतुर्भुजं वीररूपं लावण्यं भावसम्भवम् || ६१-१९ || श्यामं हिरण्यभूषाङ्गं चन्द्रकोटिसुशीतलम् | अभयं वरदं पद्मं महाखड्गधरं विभुम् || ६१-२० || किरीटिनं महाकायं स्मितहास्यं प्रकाशकम् | हृदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम् || ६१-२१ || कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम् | एवं विचिन्त्य मनसा योगिनं परमेश्वरम् || ६१-२२ || ततः पठेत् सहस्राख्यं वदामि शृणु तत्प्रभो || ६१-२३ || अस्य श्रीकाकिनीश्वरसहस्रनामस्तोत्रस्य ब्रह्माऋषिर्गायत्रीच्छन्दो जगदीश्वर काकिनी देवता निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः | ओं ईश्वरः काकिनीशान ईशान कमलेश्वरी | ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी || ६१-२४ || ईशमोक्षः कामधेनुः कपर्दीशः कपदीनी | कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी || ६१-२५ || कलादेशः सुकविता कारणः करुणामयी | कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी || ६१-२६ || किरातरूपी कैवल्या किरणः कामनाशना | कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा || ६१-२७ || किशोरः कीशुनमिता केशवेशः कुलेश्वरी | केशकिञ्जल्ककुटिलः कामराजकुतूहला || ६१-२८ || करकोटिधरः कूटा क्रियाक्रूरः क्रियावती | कुम्भहा कुम्भहन्त्री च कटकच्छकलावती || ६१-२९ || कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना | कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला || ६१-३० || कुणपः कौलपाकाशा स्वकान्तः कामवासिनी | सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया || ६१-३१ || कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला | कुमारः केशरी विद्या कामहा कुलपण्डिता || ६१-३२ || कल्कीशः कमनीयाङ्गी कुशलः कुशलावती | केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता || ६१-३३ || कुसुमानन्दमालाढ्यः कुसुमामलमालिका | कवीन्द्रः काव्यसम्भूतः काममञ्जीररञ्जिनी || ६१-३४ || कुशासनस्थः कौशल्याकुलपः कल्पपादपा | कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी || ६१-३५ || कठोरस्थः काचनिभा करालः कालवासिनी | कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी || ६१-३६ || कटधूमाकृतिच्छायो विकटासनसंस्थिता | कायधारी कूपकरी करवीरागतः कृषी || ६१-३७ || कालगम्भीरनादान्ता विकलालापमानसा | प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कषीणीश्वरी || ६१-३८ || भगवान् वारुणीवर्णा विवर्णो वर्णरूपिणी | सुवर्णवर्णो हेमाभो महान् महेन्द्रपूजिता || ६१-३९ || महात्मा महतीशानी मेहेशो मत्तगामिनी | महावीरो महावेगा महालक्ष्मीश्वरो मतिः || ६१-४० || महादेवो महादेवी महानन्दो महाकला | महाकालो महाकाली महाबलो महाबला || ६१-४१ || महामान्यो महामान्या महाधन्यो महाधनी | महामालो महामाला महाकाशो महाकाशा || ६१-४२ || महायशो महायज्ञा महाराजो महारजा | महाविद्यो महाविद्या महामुख्यो महामखी || ६१-४३ || महारात्रो महारात्रिर्महाधीरो महाशया | महाक्षेत्रो महाक्षेत्रा कुरुक्षेत्रः कुरुप्रिया || ६१-४४ || महाचण्डो महोग्रा च महामत्तो महामतिः | महावेदो महावेदा महोत्साहो महोत्सवा || ६१-४५ || महाकल्पो महाकल्पा महायोगो महागतिः | महाभद्रो महाभद्रा महासूक्ष्मो महाचला || ६१-४६ || महावाक्यो महावाणी महायज्वा महाजवा | महामूतीर्महाकान्ता महाधर्मो महाधना || ६१-४७ || महामहोग्रो महिषी महाभोग्यो महाप्रभा | महाक्षेमो महामाया महामाया महारमा || ६१-४८ || महेन्द्रपूजिता माता विभालो मण्डलेश्वरी | महाविकालो विकला प्रतलस्थललामगा || ६१-४९ || कैवल्यदाता कैवल्या कौतुकस्थो विकषीणी | वालाप्रतिर्वालपत्नी बलरामो वलाङ्गजा || ६१-५० || अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी | पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी || ६१-५१ || प्रपञ्चः पञ्चरसगा निष्प्रपञ्चः कृपामयी | कामरूपी कामरूपा कामक्रोधविवजीता || ६१-५२ || कामात्मा कामनिलया कामाख्या कामचञ्चला | कामपुष्पधरः कामा कामेशः कामपुष्पिणी || ६१-५३ || महामुद्राधरो मुद्रा सन्मुद्रः काममुद्रिका | चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा || ६१-५४ || चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरूपिणी | सूर्याभो वीरकिरणा सूर्यकोटिविभाविता || ६१-५५ || मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया | प्रजापतीशः कल्याणी दक्षेशः कुलरोहिणी || ६१-५६ || अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता | काश्यपेशः काश्यपेशी भृग्वीशो भार्गवेश्वरी || ६१-५७ || वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा | पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता || ६१-५८ || अगस्त्यार्च्योऽगस्त्यमाता प्रह्लादेशो वलीश्वरी | कर्दमेशः कर्दमाद्या बालको बालपूजिता || ६१-५९ || मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती | रूपातीता रूपशून्या विरूपो रूपमोहिनी || ६१-६० || विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी | रसज्ञो रसिकानन्दा विरसो रसवजीता || ६१-६१ || सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया | दुर्वाशाः प्राणनिलयः साङ्ख्ययोगसमुद्भवा || ६१-६२ || असङ्ख्येयो मांसभक्षा सुमांसाशी मनोरमा | नरमांसविभोक्ता च नरमांसविनोदिनी || ६१-६३ || मीनवक्त्रप्रियो मीना मीनभुङ्मीनभक्षिणी | रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा || ६१-६४ || पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता | विधातृवरदो वेद्या वेदो वेदकुमारिका || ६१-६५ || श्यामेशो सितवर्णा च चासितोऽसितरूपिणी | महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया || ६१-६६ || आसवा ढ्योऽमनादेवी निर्मलासवपामरा | विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी || ६१-६७ || मणिमालाधरो मालामातृकेशः प्रसन्नधीः | जरामृत्युहरो गौरी गायनस्थो जरामरा || ६१-६८ || सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो हृद्गता सती | अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी || ६१-६९ || मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी | मन्त्रार्थचैतन्यकरो मन्त्रसिद्धिप्रकाशिनी || ६१-७० || मन्त्रज्ञो मन्त्रनिलया मन्त्रार्थामन्त्रमन्त्रिणी | बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा || ६१-७१ || मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा | बीजस्वरूपो बीजेशी बीजमालेऽति बीजिका || ६१-७२ || बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी | बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी || ६१-७३ || महाबीजधरो बीजा बीजाढ्या बीजवल्लभा | मेघमाला मेघमालो वनमाली हलायुधा || ६१-७४ || कृष्णाजिनधरो रौद्रा रौद्रा रौद्रगणाश्रया | रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा || ६१-७५ || विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा | नारदेशः प्रधानेशी वारणेशो वनेश्वरी || ६१-७६ || कृष्णेश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना | कामेश्वरो राघवेशी बालेशी वा बाणपूजितः || ६१-७७ || भवानीशो भवानी च भवेन्द्रो भववल्लभा | भवानन्दोऽतिसूक्ष्माख्या भवमूतीर्भवेश्वरी || ६१-७८ || भवच्छायो भवानन्दो भवभीतिहरो वला | भाषाज्ञानीभाषमाला महाजीवोऽतिवासना || ६१-७९ || लोभापम्दो लोभकर्त्री प्रलोभो लोभवधीनी | मोहातीतो मोहमाता मोहजालो महावती || ६१-८० || मोहमुद्गरधारी च मोहमुद्गरधारिणी | मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी || ६१-८१ || कामलापकरोऽकामा सत्कामो कामनाशिनी | बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचना || ६१-८२ || पद्ममालः पद्ममाला श्रीदेवो देवरक्षिणी | असितोऽप्यसिता चैव आह्लादो देवमातृका || ६१-८३ || नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा | नारायणेश्वरः कीतीः सत्कीतीः कीतीवधीनी || ६१-८४ || कातीकेशः कातीकी च विकर्ता गहनाश्रया | विरक्तो गरुडारूढा गरुडस्थो हि गारुडी || ६१-८५ || गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा | गौराङ्गेशो गौरकन्या गङ्गेशः प्राङ्गणेश्वरी || ६१-८६ || प्रतिकेशो विशाला च निरालोको निरीन्द्रिया | प्रेतबीजस्वरूपश्च प्रेताऽलङ्कारभूषिता || ६१-८७ || प्रेमगेहः प्रेमहन्त्री हरीन्द्रो हरिणेक्षणा | कालेशः कालिकेशानी कौलिकेशश्च काकिनी || ६१-८८ || कालमञ्जीरधारी च कालमञ्जीरमोहिनी | करालवदनः काली कैवल्यदानदः कथा || ६१-८९ || कमलापालकः कुन्ती कैकेयीशः सुतः कला | कालानलः कुलज्ञा च कुलगामी कुलाश्रया || ६१-९० || कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा | कुलजिह्वः कुलानन्दा कृष्णः कृष्णसमुद्भवा || ६१-९१ || कृष्णेशः कृष्णमहिषी काकस्थः काकचञ्चुका | कालधर्मः कालरूपा कालः कालप्रकाशिनी || ६१-९२ || कालजः कालकन्या च कालेशः कालसुन्दरी | खड्गहस्तः खर्पराढ्या खरगः खरखड्गनी || ६१-९३ || खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी | गीतप्रियो गायनस्था गणपालो गृहाश्रया || ६१-९४ || गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा | गारुडीशो हि गान्धर्वी गतीशो गार्हवह्निजा || ६१-९५ || गणगन्धर्वगोपालो गणगन्धर्वगो गता | गभीरमानी सम्भेदो गभीरकोटिसागरा || ६१-९६ || गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः | गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा || ६१-९७ || गन्धमोहितसर्वाङ्गो गन्धचञ्चलमोहिनी | गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता || ६१-९८ || गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता | गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता || ६१-९९ || गन्धमादनसम्भूतपुष्पमाल्यविभूषितः | रत्ना द्यशेषालङ्कारमालामण्डितविग्रहः || ६१-१०० || स्वर्णाद्यशेषालङ्कारहारमालाविमण्डिता | करवीरा युतप्रख्यरक्तलोचनपङ्कजः || ६१-१०१ || जवाकोटिकोटिशत चारुलोचनपङ्कजा | घनकोटिमहानास्य पङ्कजालोलविग्रहा || ६१-१०२ || घर्घरध्वनिमानन्दकाव्याम्बुधिमुखाम्बुजा | घोरचित्रसर्पराज मालाकोटिशताङ्कभृत् || ६१-१०३ || घनघोरमहानाग चित्रमालाविभूषिता | घण्टाकोटिमहानादमानन्दलोलविग्रहः || ६१-१०४ || घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा | घटकोटिकोटिशतसहस्रमङ्गलासना || ६१-१०५ || घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा | घातको रिपुकोटीनां शुम्भादीनां तथा सताम् || ६१-१०६ || घातिनीदैत्यघोराश्च शङ्खानां सततं तथा | चार्वाकमतसङ्घातचतुराननपङ्कजः || ६१-१०७ || चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी | चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत् || ६१-१०८ || चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा | चन्द्रज्योत्स्नायुतप्रख्यहारभूषितमस्तकः || ६१-१०९ || चन्द्रबिम्बसहस्राभायुतभूषितमस्तकः | चारुचन्द्रकान्तमणिमणिहारायुताङ्गभृत् || ६१-११० || चन्दनागुरुकस्तूरी कुङ्कुमासक्तमालिनी | चण्डमुण्डमहामुण्डायुतनिर्मलमाल्यभृत् || ६१-१११ || चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी चण्डाट्टहासघोराढ्यवदनाम्भोजचञ्चलः || ६१-११२ || चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा | चलदम्भोजनयनानन्दपुष्पकरमोहितः || ६१-११३ || चलदिन्दुभाषमाणावग्रहखेदचन्द्रिका | चन्द्रार्धकोटिकिरणचूडामण्डलमण्डितः || ६१-११४ || चन्द्रचूडाम्भोजमाला उत्तमाङ्गविमण्डितः | चलदर्कसहस्रान्त रत्नहारविभूषितः || ६१-११५ || चलदर्ककोटिशतमुखाम्भोजतपोज्ज्वला | चारुरत्नासनाम्भोजचन्द्रिकामध्यसंस्थितः || ६१-११६ || चारुद्वादशपत्रादि कणीकासुप्रकाशिका | चमत्कार--ग--टङ्कारधुनर्बाणकराम्बुजः || ६१-११७ || चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा | चलदम्बुजनेत्रार्कवह्निचन्द्रत्रयान्वितः || ६१-११८ || चलत्सहस्रसङ्ख्यात पङ्कजादिप्रकाशिका | चमत्काराट्टहासास्य स्मितपङ्कजराजयः || ६१-११९ || चमत्कारमहाघोरसाट्टाट्टहासशोभिता | छायासहस्रसंसारशीतलानिलशीतलः || ६१-१२० || छदपद्मप्रभामानसिंहासनसमास्थिता | छलत्कोटिदैत्यराजमुण्डमालाविभूषितः || ६१-१२१ || छिन्नादिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी | चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः || ६१-१२२ || अस्त्रकास्त्रादिब्रह्मास्त्रसहस्रकोटिधारिणी | अजामांसादिसद्भक्ष--रसामोदप्रवाहगः || ६१-१२३ || छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी | जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः || ६१-१२४ || जायागणहृदम्भोज बुद्धिज्ञानप्रकाशिनी | जनार्दनप्रेमभाव महाधनसुखप्रदः || ६१-१२५ || जगदीशकुलानन्दसिन्धुपङ्कजवासिनी | जीवनास्थादिजनकः परमानन्दयोगिनाम् || ६१-१२६ || जननी योगशास्त्राणां भक्तानां पादपद्मयोः | रुक्षपवननिर्वातमहोल्कापातकारुणः || ६१-१२७ || झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी | झनत्कारौघसंहारकरदण्डविशानधृक् || ६१-१२८ || झर्झरीनायिकार्ययादिकराम्भोजनिषेविता | टङ्कारभावसंहारमहाजागरवेशधृक् || ६१-१२९ || टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी | टलनानलसङ्घट्टपट्टाम्बरविभूषितः || ६१-१३० || टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी | ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः || ६१-१३१ || ठं ठं ठं प्रखराह्लादनादसम्वादवादिनी | ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः || ६१-१३२ || ठं ठं ठं बीजवह्निस्थ हातुकभ्रूविभूषिता | डामरप्रखराह्लादसिद्धिविद्याप्रकाशकः || ६१-१३३ || डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा | डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका || ६१-१३४ || ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः | ढौं ढौं ढौं ढौकढक्कलं वह्निजायामनुप्रियः || ६१-१३५ || ढं ढं ढं ढौं ढ ढं ढ कृत्येत्थाहेति वासिनी | तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः || ६१-१३६ || तारिण्यादिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा | तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित् || ६१-१३७ || तालवेतालदैतालश्रीतालादिसुसिद्धदा | तरुकल्पलतापुष्पकलबीजप्रकाशकः || ६१-१३८ || डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा | अकारकूटविन्द्विन्दुमालामण्डितविग्रहः || ६१-१३९ || स्थातृप्रस्थप्रथागाथास्थूलस्थित्यन्तसंहरा | दरीकुञ्जहेममालावनमालादिभूषितः || ६१-१४० || दारिद्र्यदुःखदहनकालानलशतोपमः | दशसाहस्रवक्त्राम्भोरुहशोभितविग्रहः || ६१-१४१ || पाशाभयवराह्लादधनधर्मादिवधीनी | धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा || ६१-१४२ || ध्यानयोगज्ञानयोगमन्त्रयोगफलप्रदा | नामकोटिशतानन्तसुकीतीगुणमोहनः || ६१-१४३ || निमित्तफलसद्भावभावाभावविवजीता | परमानन्दपदवी दानलोलपदाम्बुजः || ६१-१४४ || प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी | फेरवीगणसन्मानवसुसिद्धिप्रदायकः || ६१-१४५ || फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरूपिणी | वराङ्गनाकोटिकोटिकराम्भोजनिसेविता || ६१-१४६ || वरदानज्ञानदान मोक्षदातिचञ्चला | भैरवानन्दनाथाख्य शतकोटिमुदान्वितः || ६१-१४७ || भावसिद्धिक्रियासिद्धि साष्टाङ्गसिद्धिदायिनी | मकारपञ्चकाह्लादमहामोदशरीरधृक् || ६१-१४८ || मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी | यजमानक्रियायोगविभागफलदायकः || ६१-१४९ || यशः सहस्रकोटिस्थ गुणगायनतत्परा | रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः || ६१-१५० || काकिनीशाकिनीशक्तियोगादि काकिनीकला | लक्षणायुतकोटीन्दुललाटतिलकान्वितः || ६१-१५१ || लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता | वातायुतसहस्राङ्गघूर्णायमानभूधरः || ६१-१५२ || विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला | श्रीसीतापतिशुद्धाङ्ग व्याप्तेन्द्रनीलसन्निभः || ६१-१५३ || शीतनीलाशतानन्दसागरप्रेमभक्तिदा | षट्पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी || ६१-१५४ || महोमीस्थषडाधारप्रसन्नहृदयाम्बुजा | श्यामप्रेमकलाबन्धसर्वाङ्गकुलनायकः || ६१-१५५ || संसारसारशास्त्रादि सम्बन्धसुन्दराश्रया | ह्रसौः प्रेतमहाबीजमालाचित्रितकण्ठधृक् || ६१-१५६ || हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता | लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक् || ६१-१५७ || लक्ष्मीलक्षजपानन्दसिद्धिसिद्धान्तवणीनी | क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः || ६१-१५८ || क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तत्रिलोचना | अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी || ६१-१५९ || उमेश उटकन्येशी ऋद्धिस्थहृस्थगोमुखी | गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी || ६१-१६० || एणाचीशप्रियानन्द एरावतकुलेश्वरी | ओढ्र्पुष्पानन्तदीप्त ओढ्र्पुष्पानखाग्रका || ६१-१६१ || एहृत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया | अङ्गस्थाङ्गदेवस्था अर्यस्थश्चार्यमेश्वरी || ६१-१६२ || मातृकावर्णनिलयः सर्वमातृकलान्विता | मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी || ६१-१६३ || अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता | स्थावरानन्ददेवेशो विसर्गान्तरगामिनी || ६१-१६४ || अकलङ्को निष्कलङ्को निराधारो निराश्रया | निराश्रयो निराधारो निर्बीजो बीजयोगिनी || ६१-१६५ || निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा | आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी || ६१-१६६ || सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी | नानादेशसमुद्भूतो नानालङ्कारलङ्कृता || ६१-१६७ || नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी | विषयाख्यविषानन्दा विषयाशी विषापहा || ६१-१६८ || विषयातीतभावस्थो विषयानन्दघातिनी | विषयच्छेदनास्त्रस्थो विषयज्ञाननाशिनी || ६१-१६९ || संसारछेदकच्छायो भवच्छायो भवान्तका | संसारार्थप्रवर्तश्च संसारपरिवतीका || ६१-१७० || संसारमोहहन्ता च संसारार्णवतारिणी | संसारघटकश्रीदासंसारध्वान्तमोहिनी || ६१-१७१ || पञ्चतत्त्वस्वरूपश्च पञ्चतत्त्वप्रबोधिनी | पाथीवः पृथिवीशानी पृथुपूज्यः पुरातनी || ६१-१७२ || वरुणेशो वारुणा च वारिदेशो जलोद्यमा | मरुस्थो जीवनस्था च जलभुग्जलवाहना || ६१-१७३ || तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी | तेजस्थस्तेजसो माला तेजः कीतीः स्वरश्मिगा || ६१-१७४ || पवनेशश्चानिलस्था परमात्मा निनान्तरा | वायुपूरककारी च वायुकुम्भकवधीनी || ६१-१७५ || वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका | कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी || ६१-१७६ || वायवाकाशाधाररूपी वायुसञ्चारकारिणी | वायुसिद्धिकरो दात्री वायुयोगी च वायुगा || ६१-१७७ || आकाशप्रकरो ब्राह्मी आकाशान्तर्गतद्रिगा | आकाशकुम्भकानन्दो गगनाह्लादवधीनी || ६१-१७८ || गगनाच्छन्नदेहस्थो गगनाभेदकारिणी | गगनादिमहासिद्धो गगनग्रन्थिभेदिनी || ६१-१७९ || कलकर्मा महाकाली कालयोगी च कालिका | कालछत्रः कालहत्या कालदेवो हि कालिका || ६१-१८० || कालब्रह्मस्वरूपश्च कालितत्त्वार्थरक्षिणी | दिगम्बरो दिक्पतिस्था दिगात्मा दिगिभास्वरा || ६१-१८१ || दिक्पालस्थो दिक्प्रसन्ना दिग्वलो दिक्कुलेश्वरी | दिगघोरो दिग्वसना दिग्वीरा दिक्पतीश्वरी || ६१-१८२ || आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका | आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहिनी || ६१-१८३ || आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरूपिणी | आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी || ६१-१८४ || आत्मविकारहन्ता च विद्यात्मीयादिदेवता | मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी || ६१-१८५ || मनोभवनिहन्ता च मनोभवविवधीनी | मनश्चान्तरीक्षयोगो निराकारगुणोदया || ६१-१८६ || मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी | मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः || ६१-१८७ || नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी | नवीनगुणकर्मादिसाकारः खगगामिनी || ६१-१८८ || अत्युन्मत्ता महावाणी वायवीशो महानिला | सर्वपापापहन्ता च सर्वव्याधिनिवारिणी || ६१-१८९ || द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी | भूषण्डगणतातश्च भूःषण्डरुधिरप्रदा || ६१-१९० || काकावलीशः सर्वेशी काकपुच्छधरो जया | अजितेशो जितानन्दा वीरभद्रः प्रभावती || ६१-१९१ || अन्तर्नाडीगतप्राणो वैशेषिकगुणोदया | रत्ननिमीतपीठस्थः सिंहस्था रथगामिनी || ६१-१९२ || कुलकोटीश्वराचार्यो वासुदेवनिषेविता | आधारविरहज्ञानी सर्वाधारस्वरूपिणी || ६१-१९३ || सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला | इन्द्रेशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी || ६१-१९४ || अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी | आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया || ६१-१९५ || प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी | मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी || ६१-१९६ || सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी | प्रचण्डनयनानन्दो मञ्जीरकलरञ्जिनी || ६१-१९७ || कलमञ्जीरपादाब्जो बलमृत्युपरायणा | कुलमालाव्यापिताङ्गः कुलेन्द्रः कुलपण्डिता || ६१-१९८ || बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका | कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा || ६१-१९९ || अकालजननीनाथो विदग्धात्मा प्रियङ्करी | वेदाद्यो वेदजननी वैराग्यस्थो विरागदा || ६१-२०० || स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी | दन्तुरेशो दन्तुरु च दन्तीशो दशनप्रभा || ६१-२०१ || दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया | मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी || ६१-२०२ || मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया | सुरामंसमहामीनमुद्रामैथुनसुप्रिया || ६१-२०३ || कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा | हृत्कण्ठभ्रूसहस्रारभेदनोऽन्ते विभेदिनी || ६१-२०४ || प्रसन्नहृदयाम्भोजः प्रसन्नहृदयाम्बुजा | प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी || ६१-२०५ || प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी || ६१-२०६ || प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया | प्रभातरविरश्मिगः प्रथमभानुशोभान्विता | प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः | प्रभापटलपाटलप्रचयधर्मपुञ्जाचीता || ६१-२०७ || सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता | सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता | गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा | भवार्णवगतारको जलधिकर्णधारप्रिया || ६१-२०८ || सुरासुरकुलोद्भवः सुररिपुप्रसिद्धिस्थिता | सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा | अभीप्सितफलप्रदः सुरवरादिसिद्धिप्रदा | प्रियाङ्गज कुलार्थदः सुतधनापवर्गप्रदा || ६१-२०९ || शिवस्वशिवकाकिनी हरहरा च भीमस्वना | क्षितीश इषुरक्षका समनदर्पहन्तोदया | गुणेश्वर उमापती हृदयपद्मभेदी गतिः | क्षपाकरललाटधृक् स्वसुखमार्गसन्दायिनी || ६१-२१० || श्मशानतटनिष्पट प्रचटहासकालङ्कृता | हठत्शठमनस्तटे सुरकपाटसंछेदकः | स्मराननविवर्धनः प्रियवसन्तसम्बायवी | विराजितमुखाम्बुजः कमलमञ्जसिंहासना || ६१-२११ || भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः | क्रियेश्वर ईलावती तरुणगाहितारावती | मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी | मुरारिहरदेहगस्त्रिभुवना विनाशक्रिया || ६१-२१२ || द्विकः कनककाकिनी कनकतुङ्गकीलालकः | कमलाकुलः कुलकलार्कमालामला | सुभक्त तमसाधकप्रकृतियोगयोग्याचीतो | विवेकगतमानसः प्रभुपरादिहस्ताचीता || ६१-२१३ || त्वमेव कुलनायकः प्रलययोगविद्येश्वरी | प्रचण्डगणगो नगाभुवनदर्पहारी हरा | चराचरसहस्रगः सकलरूपमध्यस्थितः | स्वनामगुणपूरकः स्वगुणनामसम्पूरणी || ६१-२१४ || इति ते कथितं नाथ सहस्रनाम मङ्गलम् | अत्यद्भुतं परानन्दरससिद्धान्तदायकम् || ६१-२१५ || मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम् | सिद्धविद्यामहोल्लास मानन्दगुणसाधनम् || ६१-२१६ || दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम् | तव स्नेहरसामोदमोहितानन्दभैरव || ६१-२१७ || कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया | सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तये || ६१-२१८ || प्रेमाह्लादरसेनैव दुर्लभं तत्प्रकाशितम् | येन विज्ञातमात्रेण भवेद्छ्रीभैरवेश्वरः || ६१-२१९ || एतन्नाम शुभफलं वक्तुं न च समर्थकः | कोटिवर्षशतेनापि यत्फलं लभते नरः || ६१-२२० || तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे | यः पठेत् प्रातरुत्थाय दुर्गग्रहनिवरणात् || ६१-२२१ || दुष्टेन्द्रियभयेनापि महाभयनिवारणात् | ध्यात्वा नाम जपेन्नित्यं मध्याह्ने च विशेषतः || ६१-२२२ || सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम् | योगाभ्यासे ग्रन्थिभेदे योगध्याननिरूपणे || ६१-२२३ || पठनाद् योगसिद्धिः स्याद् ग्रन्थिभेदो दिने दिने | योगज्ञानप्रसिद्धिः स्याद् योगः स्यादेकचित्ततः || ६१-२२४ || देहस्थ देववश्याय महामोहप्रशान्तये | स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः || ६१-२२५ || भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः | स्तम्भयेत् परसैन्यानि वारैकपाठमात्रतः || ६१-२२६ || वारत्रयप्रपठनाद् वशयेद् भुवनत्रयम् | वारत्रयं तु प्रपठेद् यो मूर्खः पण्डितोऽपि वा || ६१-२२७ || शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम् | प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात् || ६१-२२८ || विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने | पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत् क्षणात् || ६१-२२९ || षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत् | आकर्षयेत् परद्रव्यं सप्तवारं पठेद् यदि || ६१-२३० || एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः | स भवेद् योगिनीनाथो महाकल्पद्रुमोपमः || ६१-२३१ || ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद् यदि | दूरदर्शी महावीरो बलवान् पण्डितेश्वरः || ६१-२३२ || महाज्ञानी लोकनाथो भवत्येव न संशयः | मासैकेन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक् || ६१-२३३ || प्रपठेद् योगसिद्ध्यर्थं भावकः परमप्रियः | शून्यागारे भूमिगर्तमण्डपे शून्यदेशके || ६१-२३४ || गङ्गागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा | दुभीक्षवजीते देशे सर्वोपद्रववजीते || ६१-२३५ || श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले | इष्टकामयगेहे वा यत्र लोको न वर्तते || ६१-२३६ || तत्र तत्रानन्दरूपी महापीठस्थलेऽपि च | दृढासनस्थः प्रजपेन्नाममङ्गलमुत्तमम् || ६१-२३७ || ध्यानधारणशुद्धाङ्गो न्यासपूजापरायणः | ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद् ध्रुवम् || ६१-२३८ || अष्टाङ्गसिद्धिमाप्नोति चामरत्वमवाप्नुयात् | गुरुदेवमहामन्त्रभक्तो भवति निश्चितम् || ६१-२३९ || शरीरे तस्य दुःखानि न भवन्ति कुवृद्धयः | दुष्टग्रहाः पलायन्ते तं दृष्ट्वा योगिनं परम् || ६१-२४० || यः पठेत् सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः | तस्य हृत्पद्मलिङ्गस्था देवाः सिद्ध्यन्ति चापराः || ६१-२४१ || युगकोटिसहस्राणि चिरायुर्योगिराड् भवेत् | शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च | स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात् || ६१-२४२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने ईश्वरशक्तिकाकिन्यष्टोत्तर-- सहस्रनामस्तोत्रविन्यासो नाम एकषष्टितमः पटलः || ६१ || अथ द्विषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ नाथ प्रवक्ष्येऽहं काकिनीगुरुदेवयोः | मन्त्रोद्धारस्तव ज्ञानं येन सिद्धो भवेद् यतिः || ६२-१ || एतत्स्तवनपाठेन सहस्राख्यान्तसिद्धिषु | राजत्वं लभते सद्योऽथवा योगी च सम्पदि || ६२-२ || यथा जनकराजा च विषये गुरुभक्तिमान् | महासिद्धो महाज्ञानी तथा भवति साधकः || ६२-३ || सुरा नागा रुद्रगणाः सर्वे विद्यार्थसेवकाः | योगी ज्ञानी तथा सिद्धाः खेचरा यक्षराक्षसाः || ६२-४ || मुनयः क्रोधवेतालास्तथा चण्डेश्वरादयः | एतच्छुभस्तवेन्द्रेण स्तुत्वा सर्वत्र सिद्धिगाः || ६२-५ || पूर्णः पूर्णेन्दुबिम्बाननकमलकटाक्षादघौघापहारी | नारीन्धाता विधाता समवति न च तान् योगयोग्यान् महेन्द्रान् | सम्पत्तिप्राणयोगी निरवधिवरदानन्दगोप्ता शरीरो | बालो मृत्युञ्जयस्य प्रभुरिति भयहा पातु मे गुप्तदेहम् || ६२-६ || कामक्रोधापहन्ता जनयति भरतान् भारतान् पातु पृथ्वीं | यो योगी भावयोगी मम कुलफलदः सर्वदा शं करोतु | तत्क्रोडे लोकचक्रं तिलतुलतुलसेसन्निभं भाति सूक्ष्मं | तच्छ्रीनाथाङ्घ्रपादद्वयमजरमहं भावये हृत्प्रपञ्चे || ६२-७ || मायां मोहे विवेकी शत--कितव--रिपूच्छेदकः प्रेरकस्थ-- | कोर्षाणी गुप्ततन्द्रावनिभवमनुजो यो महामङ्गलस्थः | लोकातीतो तितीरो जय जय करुणानाथ दाता तपस्वी | मन्त्रोद्धारार्थगुप्तं समवति य इह प्राणनाथं तमीडे || ६२-८ || भावान्तो योऽतिगुर्वी हृदि जयकमलेऽतेऽमरप्रत्यथर्वो | वाग्देवी देवतायै नम इति मनुना मोहितो वाक्पतीशः | मन्त्रार्थोद्दीपनाख्यो विजयसखाकोटिभिर्वेष्टितो यो | बालार्कानन्दरश्मिप्रचयशतमखः पातु मां दुःखजालात् || ६२-९ || हृष्टाङ्गा सङ्गताङ्गाननविमलशिखाकोटिभिर्वजीतो यो | मन्त्राच्चैतन्यहर्ता प्रणवमयशिवं तत्सदान्ते शिवं च | ध्यात्वा माहेश्वरायां नम इति जपनात् ते महेन्द्राधिपः स्यात् | कालीपुत्रः स एव त्वमभयवरदः सेव्यते यैः स मुक्तः || ६२-१० || हंसः प्राणाविहन्ता त्वमखिलवरदस्त्वं निदानः प्रधानः | शान्तीशस्त्वं प्रतिष्ठः प्रणवशिवसदाभद्रमाहेश्वराय | अन्तेऽत्युच्चैर्नमोऽन्ते मनुमिह जपते सम्पदे दोषभङ्गा-- | दानन्दाब्धौ त्वमीशो गुरुरिह चपलं चापलं मां प्रपाहि || ६२-११ || आनन्दोद्रेककारी त्वमपि सकरुणासागरो भक्तिदाता | दाता विद्याधरीणां त्वमपि सुररिपुः पार्वतीप्राणनाथः | तारे बिन्द्वाधराढ्यं क्षरमथविधुमत्तं मन्त्रमेकाक्षरं ते | तारान्तं त्र्यक्षरन्तं प्रजपति यदि यो योगिराड् भूतले स्यात् || ६२-१२ || सर्पाण्डस्थं सुसिद्धो हरविधुमधरं चन्द्रबिन्दुस्वरूपं | जप्त्वा नित्यं विलोमं प्रणवमृतिहरं वह्निकान्ता तदन्ते | एतद्रूपं पदं यो भजति वरगतं हेममञ्जीरनादं | मम्रेक्षानन्दचित्तं विजयवरकुलानन्ददः प्राणगं ते || ६२-१३ || उच्चाटे मोहने वाप्यरिवशसमये शान्तिपुष्ट्यान्तवश्ये | ते मन्त्रान् योजयित्वा जपति यदि सुधीः श्रीपदाब्जावलम्बी | सिध्येत् षट्कर्मसारं परमगुरुगतः स भवेत् कल्पशाखी | राजेन्द्रः सर्वलोके धनपतिसदृशः शम्भुनाथप्रसादात् || ६२-१४ || खान्तं शक्रादिरूढं विधुनयनयुतं कामबीजं त्रिशक्तिं | चाद्येऽन्ते ओं शिवायानलवधुमिलितं यो जपेन्नाथमन्त्रम् | तेनाम्नायो जपित्वा कुलपथनिरतः साधकः श्रीवरेण्यः | किं तस्यासाध्यसिद्धिं त्रिजगति स सुखी सन्मुखी योगमार्गी || ६२-१५ || सर्वातीतो विहारी पदगतिरहितः सर्वगामी विरामी | हस्ताभावो विनेता निरवधिवरदः सर्वरूपी विरूपी | मन्त्रज्ञस्त्वं सुमन्त्री महमयसमयः संशयासारहन्ता | मन्ता विश्वेश्वरीणां परपशुपतयेऽन्ते नमः पातु नम्रम् || ६२-१६ || योगी भोगी विरागी त्वमतुलविभवः सम्भवः पञ्चचूडो | वाणी शेषः प्रियेशः शशिग्रथितमृडाशोभिताङ्गो ह्यनङ्गः | कामो माया रमेशः प्रथमदिनकरश्रेणि शोभावलिप्तः | सर्वाङ्गं यः प्रपायादमलकमलगः क्रोधगो योऽवलोकम् || ६२-१७ || एतच्छ्रीशङ्करस्तोत्रं यः पठेन्नियतः शुचिः | संवत्सराद् भवेत् सिद्धिः सर्वज्ञानप्रदायिनी || ६२-१८ || शुचौ वाप्यशुचौ स्तौति भक्त्या यः साधकोत्तमः | स सर्वयातनामुक्तो योगी ग्रन्थिविभेदकः || ६२-१९ || अकस्मात् सिद्धिमाप्नोति प्रेमानन्दसुभक्तिदाम् | शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः || ६२-२० || न स्नानं न जपः कार्यं न पूजादिविधानकम् | केवलं स्तवपाठेनानाहते सुस्थिरो भवेत् || ६२-२१ || चिरञ्जीवी वीतरागो वीतसंसारभावनः | पठित्वा धारयित्वा च योगभ्रष्टो न सम्भवेत् | अनायासे योगसिद्धिं प्राप्नोति विपुलां श्रियम् || ६२-२२ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे ईश्वरस्तोत्रविन्यासो नाम द्विषष्टितमः पटलः || ६२ || अथ त्रिषष्टितमः पटलः आनन्दभैरवी उवाच कवचं शृणु चास्यैव लोकनाथ शिवापते | ईश्वरस्य परं ब्रह्म निर्वाणयोगदायकम् || ६३-१ || कवचं दुर्लभं लोके नामसम्मोहनं परम् | कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत् || ६३-२ || अस्य किं (पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम् | केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात् || ६३-३ || सर्वेषामपि योगेन्द्र देवानां योगिनां तथा | भावादि सिद्धिलाभाय कायनिर्मलसिद्धये || ६३-४ || प्रकाशितं महाकाल तव स्नेहवशादपि | सर्वे मन्त्राः प्रसिद्ध्यन्ति सम्मोहकवचाश्रयाः || ६३-५ || कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम् | ईश्वरो देवता प्रोक्त स्तथा शक्तिश्च काकिनी || ६३-६ || कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये | हृदब्जभेदनार्थे तु विनियोगः प्रकीतीतः || ६३-७ || एतच्छ्रीसम्मोहनमहाकवचस्य ब्रह्मा ऋषिरनुष्टुप् छन्द ईश्वरो देवता काकिनी शक्तिः क्रूं कीलकं ध्यानसाधनसिद्धये हृदब्जभेदार्थे जपे विनियोगः | प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः | प्रासादो हृदयं पातु बाहुयुग्मं महेश्वरः || ६३-८ || पृष्ठं पातु महादेव उदरं कामनाशनः | पार्श्वौ पातु कामराजो बालः पृष्ठतलान्तरम् || ६३-९ || कुक्षिमूलं महावीरो ललितापतिरीश्वरः | मृत्युञ्जयो नीलकण्ठो लिङ्गदेशं सदावतु || ६३-१० || लिङ्गाधो मुद्रिका पातु पादयुग्ममुमापितः | अङ्गुष्ठं पातु सततं पार्वतीप्राणवल्लभः || ६३-११ || गुल्फं पातु त्रयम्बकश्च जानुनी युवतीपतिः | ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः || ६३-१२ || सिमनी देशमापातु भैरवः क्रोधभैरवः | लिङ्गदेशोद्गमं पातु लिङ्गरूपी जगत्पतिः || ६३-१३ || हृदयाग्रं सदा पातु महेशः काकिनीश्वरः | ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः || ६३-१४ || लम्बिकां पातु गणपो नासिकां भवनाशकः | भ्रूमध्यं पातु योगीन्द्रः महेशः पातु मस्तकम् || ६३-१५ || र्मूघ्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः | द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः || ६३-१६ || नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः | स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः || ६३-१७ || मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः | कुण्डलीं सर्वदा पातु डाकिनी योगिनीश्वरः || ६३-१८ || कुण्डली मातृका पातु वटुकेशः शिवो(रो?) हरः | राकिणीविग्रहं पातु वामदेवो महेश्वरः || ६३-१९ || पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम् | स्वस्थानं द्वादशारञ्च वीरः पातु सुकाकिनीम् || ६३-२० || वीरेन्द्रः कणीकां पातु द्वादशारं विषाशनः | षोडशारं सदा पातु क्रोधवीरः सदाशिवः || ६३-२१ || मां पातु वज्रनाथेशोऽरिभयात् क्रोधभैरवः | षट्चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः || ६३-२२ || { षोडशाम्भोरुहान्तस्थं पातु धूम्राक्षपालकः | दिङ्नाथेशो महाकायो मां पातु परमेश्वरः } | आकाशगङ्गाजटिलो द्विदलं पातु मे परम् | गङ्गाधरः सदा पातु हाकिनीं परमेश्वरः || ६३-२३ || हाकिनी परशिवो मे भूरपद्मं परिरक्षतु | दण्डपाणीश्वरः पातु मनोरूपं द्विपत्रकम् || ६३-२४ || साधुकेशः सदा पातु मनोन्मन्यादिवासिनम् | पिङ्गाक्षेशः सदा पातु भयभूमौ तनूं मम || ६३-२५ || उन्मनी स्थानकं पातु रोधिनीसहितं मम | सुधाघटः सदा पातु ममानन्दादिदेवताम् || ६३-२६ || आनन्दभैरवः पातु गूढदेशाधिदेवताम् | मायामयोपहा पातु सुषुम्नानाडिकाकलाम् || ६३-२७ || इडाकलाधरं पातु कोटिसूर्यप्रभाकरः | पिङ्गलामिहिरं पातु चन्द्रशेखर ईश्वरः || ६३-२८ || कोटिकालानलस्थानं सुषुम्नायां सदावतु | सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः || ६३-२९ || शिवनाथः सदा पातु कुण्डलीचक्रमेव मे | विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम् || ६३-३० || मृत्युजेता सदा पातु सहस्रारं सदा मम | सहस्रदलगं शम्भुं स्वयम्भूः पातु सर्वदा || ६३-३१ || सर्व रूपिणमीशानं पातु शर्वो हि सर्वदा | सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः || ६३-३२ || सर्वबीजस्वरूपो मे बीजमालां सदावतु | मातृकां सर्वबीजेशो मातृकार्णं शिवो मम || ६३-३३ || अहङ्कारं हरः पातु करमालां सदा मम | जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे || ६३-३४ || व्याघ्रभल्लूकमहिषपश्वादिभयदूषिते | महारण्ये घोरयुद्धे गगने भूतलेऽतले || ६३-३५ || अत्युत्कटे शस्त्रघाते शत्रुचौरादिभीतिषु | महासिंहभये क्रूरे मत्तहस्तिभये तथा || ६३-३६ || ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा | पिशाचभूतवेतालब्रह्मदैत्यभयादिषु || ६३-३७ || अपवादा पवादेषु मिथ्यावादेषु सर्वदा | करालकालिकानाथः प्रचण्डः प्रखरः परः || ६३-३८ || उग्रः कपर्दी भीदंष्ट्री कालाच्छन्नकरः कविः | क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत || ६३-३९ || पञ्चाननः पञ्चरश्मिः पावनः पावमानकः | शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः || ६३-४० || द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः | एते पान्तु महारुद्रा द्वाविंशतिमहाभये || ६३-४१ || एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः | अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः || ६३-४२ || चतुर्भुजा महावीराः खड्गखेटकधारकाः | कपालशङ्खमालाढ्या नानारत्नविभूषिताः || ६३-४३ || किकिंणीजालमालाढ्या हेमनूपुरराजिताः | नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः || ६३-४४ || सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम् | सर्वदा भगवान् पातु ईश्वराः पान्तु नित्यशः || ६३-४५ || ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्दलम् | रुद्रः पातु दशदलमीश्वरः पात्वनाहतम् || ६३-४६ || सदाशिवः पातु नित्यं षोडशारं सदा मम | परो द्विदलमापातु षट्शिवाः पान्तु नित्यशः || ६३-४७ || अपराः पान्तु सततं मम देहं कुलेश्वराः | पूर्णं ब्रह्म सदा पातु सर्वाङ्गं सर्वदेवताः || ६३-४८ || कालरूपी सदा पातु मनोरूपी शिरो मम | आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः || ६३-४९ || वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम् | योगिनाथः सदा पातु मम दन्तावलिं दृढम् || ६३-५० || ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः | नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः || ६३-५१ || गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः | कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम || ६३-५२ || महासेनेश्वरस्तुण्डं मम पातु निरन्तरम् | श्रीकण्ठादिमहारुद्राः स्वाङ्गग्रन्थिषु मातृकाः || ६३-५३ || मां पातु कालरुद्रश्च सर्वांङ्ग कालसंक्षयः | अकाल तारकः पातु उदरं परिपूरकः || ६३-५४ || अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः | श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः || ६३-५५ || त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः | पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु || ६३-५६ || उत्तरे चावधूतेशो भैरवः कालभैरवः | ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः || ६३-५७ || मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः | वह्निकोणे सदा पातु कालानलमुखाम्बुजः || ६३-५८ || ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु | सर्वदेवः सदा पातु सर्वदेहगतं सुखम् || ६३-५९ || इहार्हा वल्लभः पातु कालाख्येशो गुणो मम | रविनाथः सदा पातु हृदयं मानसं मम || ६३-६० || चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः | वज्रदण्डधरः पातु रक्ताङ्गेशस्त्रिलोचनम् || ६३-६१ || बुधश्यामसुन्दरेशः पातु मे हृदयस्थलम् | सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु || ६३-६२ || सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम् | नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः || ६३-६३ || राहुः पातु महावक्त्रः केवलं मुखमण्डलम् | केतुः पातु महाकायः सदा मे गुह्यदेशकम् || ६३-६४ || इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः | शिरोमण्डलदिग्रूपं पान्तु वैकुण्ठवासिनः || ६३-६५ || भैरवा भैरवीयुक्ताः सर्वदेहसमुद्भवाः | भीमदंष्ट्र महाकाया मम पान्तु निरन्तरम् || ६३-६६ || यज्ञभुङ्नीलकण्ठो मे हृदयं पातु सर्वदा | उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा || ६३-६७ || क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः | इत्येतत् कवचं तारं तारकब्रह्ममङ्गलम् || ६३-६८ || कथितं नाथ यत्नेन कुत्रापि न प्रकाशितम् | तव स्नेहवशादेव प्रसन्नहृदयान्विता || ६३-६९ || कृपां कुरु दयानाथ तवैव कवचाद्भुतम् | हिताय जगतां मोहविनाशायामृताय च || ६३-७० || पठितव्यं साधकेन्द्रैर्योगीन्द्रैरुपवन्दितम् | दुर्लभं सर्वलोकेषु सुलभं तत्त्ववेदिभिः || ६३-७१ || असाध्यं साधयेदेव पठनात् कवचस्य च | धारणात् पूजनात् साक्षात् सर्वपीठफलं लभेत् || ६३-७२ || काकचञ्चुपुटं कृत्वा सप्तधा पञ्चधापि वा | कवचं प्रपठेद्विद्वान् गूढसिद्धिनिबन्धनात् || ६३-७३ || काकिनीश्वरसंयोगं सुयोगं कवचान्वितम् | ईश्वराङ्गं विभाव्यैव कल्पवृक्षसमो भवेत् || ६३-७४ || एतत्कवचपाठेन देवत्वं लभते ध्रुवम् | आरोग्यं परमं ज्ञानं मोहनं जगतां वशम् || ६३-७५ || स्तम्भयेत् परसैन्यानि पठेद्वारत्रयं यदि | शान्तिमाप्नोति शीघ्रं स षट्कर्मकरणक्षमः || ६३-७६ || आकाङ्क्षा रसलालित्यविषयाशाविवजीतः | साधकः कामधेनुः स्यादिच्छादिसिद्धिभाग्भवेत् || ६३-७७ || सर्वत्र गतिशक्तिः स्यात् स्त्रीणां मन्मथरूपधृक् | अणिमालघिमाप्राप्तिगुणादिसिद्धिमाप्नुयात् || ६३-७८ || योगिनीवल्लभो भूत्वा विचरेत् साधकाग्रणीः | यथा गुहो गणेशश्च तथा स मे हि पुत्रकः || ६३-७९ || श्रीमान् कुलीनः सारज्ञः सर्वधर्मविवजीतः | शनैः शनैर्मुदा याति षोडशारे यतीश्वरः || ६३-८० || यत्र भाति शाकिनीशः सदाशिवगुरुः प्रभुः | क्रमेण परमं स्थानं प्राप्नोति मम योगतः || ६३-८१ || मम योगं विना नाथ तव भक्तिः कथं भवेत् | एतत्सम्मोहनाख्यस्य कवचस्य प्रपाठतः || ६३-८२ || वाणी वश्या स्थिरा लक्ष्मीः सर्वैश्वर्यसमन्वितः | त्यागिता लभ्यते पश्चान्निःसङ्गो विहरेत् शिवः | सदाशिवे मनो याति सिद्धमन्त्री मनोलयः || ६३-८३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरव संबादेऽनाहतेश्वरसम्मोहनाख्यकवचं नाम त्रिषष्टितमः पटलः || ६३ || अथ चतुष्षष्टितमः पटलः श्री आनन्दभैरवी उवाच अथ भेदान् प्रवक्ष्यामि सर्वेन्द्रियविनिग्रहान् | शृणु चैकमनाः शम्भो यदि वाञ्छाफलेच्छुकः || ६४-१ || पुनर्ज्ञानं समाप्नोति स्मृतिविज्ञानवजीतम् | यत्र वै कुरुते न्यासं मम तन्त्रोक्तसम्मतम् || ६४-२ || अनाहतोर्ध्वं श्रीपद्मं दलषोडशवेष्टितम् | कण्ठकूपमहाधूमावयवे कोटिभास्वरम् || ६४-३ || पञ्चरश्मियुतं क्षेत्रं तन्मध्ये केशवप्रभम् | तन्मध्ये कणीकास्थानं परमाह्लादवर्धनम् || ६४-४ || अप्रकाश्यं सुगोप्यन्तु शिवरूपं सदाशिवम् | पूजयेन्मतिमान् ज्ञानी साकिनीशक्तिवल्लभम् || ६४-५ || महाजनाः कामकलादिबीजै-- नीरुध्य वक्त्रं परिभावयन्ति | मेघाभमुग्रं स्थिरविद्युदाभं | श्यामं महासुन्दरविग्रहामलम् || ६४-६ || निरूपणं नास्ति गतिप्रकाश-- श्चालोकनं पञ्चमवर्णयोगः | जातेवीचारः प्रतिपादको यः | सदाशिवं शान्तजनाश्रयं भजे || ६४-७ || अकालचक्रं कुलकालचक्रं | प्रकाशमानं भजतां सुरद्रुमम् | यजन्ति चक्रं तरुणारुणायुतं | सिन्दूरशैलामलदीप्तवन्तम् || ६४-८ || ब्रह्मादिदेवाः प्रतिपूजयन्ति | तदादिदेवस्य समाधिभावम् || ६४-९ || भल्लेशी भल्लकुल्ला कलयति वलिभिर्वीरभल्लूकभाला-- | भर्गभ्रान्तिवीभान्ती भयलविलकलाकालसर्पातुरस्था | कौला कैलासमालाकुलकमलजले बिन्दुलावण्यलीला | कण्ठाम्भोजे ज्वलन्ती कनकमधुगृहे पीठपूरे समाधौ || ६४-१० || ध्येया या चिन्तनीया रुचिरविकिरणा साकिनी पीतवस्त्रा | सा पायान्नीरदाभं वरदसमददं चन्द्रचूडं सदेशम् | ब्रर्ह्मेन्द्रैर्योगिमुख्यैवीरचयति दलग्रन्थि संस्थानचित्रं | विद्युत्पुञ्जप्रकाशा मुनिगणनिलया सेव्यतां साधकेन्द्रैः || ६४-११ || आकाशाख्य प्रकाशे द्विरसदलकलाप्रोज्ज्वले ब्रह्ममार्गे | जीवानां हंसमाला विचरितपवने धूमधूमेन्दुशुभ्रे | श्रीमार्तण्डो विशुद्धे जयति कुलपथोद्दीपनः प्राणवायुः | साकिन्या योगिनीभिर्वसति सुखपदामोदचिन्तामनीशः || ६४-१२ || द्वावेव धत्तः सकलञ्च कालं | सदाशिवौ तौ मधुपूरवासिनौ | इच्छाक्रियाज्ञानविराजितौ यौ | प्रधानदेवौ भजतां सुखास्पदौ || ६४-१३ || विशुद्धपद्मे प्रकृतीश्वरौ यौ | प्रचक्रतू बाणशिवादिभेदिनौ | अकाररूपे गुरुमन्त्रदीप्तौ | कुलाकुलार्थौ पथि भावनीयौ || ६४-१४ || महाभैरव उवाच कुलजे परमे विद्ये नित्यानन्दस्वरूपिणि | भेदान् सर्वान्मम स्नेहाद्वत्तुमर्हसि सुन्दरि || ६४-१५ || कालकूटमहाभीममदोन्मादसुविस्मृतः | अहं न जाने योगार्थान् नित्यायुर्बन्धनप्रियान् || ६४-१६ || यदि मां रक्षितुं शक्ता विषाक्ताङ्गं सदावतु | कथं वा कण्ठसञ्चारः कथं वा राक्षसी क्रिया || ६४-१७ || कथं वा रिपुविद्वेषी कथं वा मङ्गलोदयः | कियद्वा विनयाह्लादं कियद्वा कालसाधनम् || ६४-१८ || नवीनत्वं कथं याति ध्यानं वा कीदृशं तव | तवाङ्गागुरुसद्भावं कुलपीठप्रदर्शनम् || ६४-१९ || कुण्डलीगमनं कुत्र साधकानां कुलं कुतः | वर्णध्यानं कुत्र पदे दलभेदः कथं भवेत् || ६४-२० || स्फूतीवीद्यावियोगो हि पूर्वज्ञानसमोदयः | कथं समरसप्राप्तिः कथं वा कायकल्पनम् || ६४-२१ || मथनं कामदेवस्य कथं देहे व्यवस्थितिः | कण्ठाम्भोजस्थिरः को वा भावज्ञानी च को जनः || ६४-२२ || भावादि त्वत्कृपादृष्ट्या वद आदौ पतिं प्रति | श्रीआनन्दभैरवी उवाच आदौ श्रीकण्ठसञ्चारः श्रूयतां परमेश्वर || ६४-२३ || श्रोतव्यं मन्त्रिभिनीत्यं कर्तच्यं प्रत्यहं प्रभो || ६४-२४ || कण्ठे षोडशकं दलं तदुदरे श्रीकणीकामण्डले | तद्बाह्ये चतुरस्रकं सुखमयं षट्कोणमन्तर्गतम् | बाह्ये द्वारचतुष्टयं नवगृहं भूबिम्बषट्कं ततः | श्रीचन्द्रातपमूर्ध्वके मधुपुरी तत्कणीकायां यजेत् || ६४-२५ || तत्कणीकामध्यनिगूढदेशे | सम्भाति नित्यं मधुपूरदेशः | तन्मध्यदेशेऽष्टपुरीप्रकाशः | कौलक्रियासाधनसिद्धये स्यात् || ६४-२६ || पूर्वादिताः प्रेमकलाधिनाथाः | प्रभान्ति माध्वीरसरसारस्निग्धाः | तेषां प्रणामः क्रियते यतीन्द्रै-- र्ध्येयाः सदा कण्ठदलप्रकाशः || ६४-२७ || वामेश्वरः पूर्वगृहं प्रयाति | राहुर्गृहं ज्येष्ठगणेश्वरीशः | रौद्रात्मको मृत्युपतेर्गृहं तथा | कालीश्वरो नैरृतिहेममन्दिरम् || ६४-२८ || सकलविकरणीशो वारुणां मन्दिरं तत् | सवनधिकरणीशो पावनः मन्दिरं तत् | सबलविमथनीशो मन्दिरं चोत्तरस्थं | समवति निजगेहं सर्वभूताधिदेवः || ६४-२९ || मध्यं मनोन्मनीनाथः सर्वालम्भस्तदूर्ध्वकम् | मन्दिरं हेमजडितं नानारत्नविनिमीतम् || ६४-३० || एतेषां शक्तयो ध्येयाः स्वस्ववामपदोज्ज्वलाः | तासां नाम्ना योजयित्वा स्वमन्त्रैः प्रणवेन वा || ६४-३१ || सम्पुटीकृत्य जप्त्वा च असाध्यं खलु सिद्ध्यति | नवकोणोर्ध्वगेहे च पूर्वस्यां दिशि राजते || ६४-३२ || वामा देवी महातेजोमयी भुजचतुष्टया | नानालङ्कारशोभाङ्गी साधकाऽभीष्टदा सदा || ६४-३३ || वह्नौ हेममन्दिरे च ज्येष्ठा देवी चतुर्भुजा | सर्वालङ्कारसंयुक्ता पद्ममालाविराजिता || ६४-३४ || ध्येया सदा योगिमुख्यैः सर्वसिद्धिसमृद्धये | यमस्वर्णमन्दिरे च रौद्री परमसिद्धिदा || ६४-३५ || चतुर्भुजा त्रिनेत्रा च ध्येयालङ्कारमण्डिता | नैरृते हेमगेहे च काली देवी चतुर्भुजा || ६४-३६ || सर्वालङ्कारशोभाढ्या त्रिनेत्रा वरदायिनी | सर्वास्त्रधारिणी देवी मुण्डमालासुशोभिता || ६४-३७ || ध्येया योगेन्द्रविद्याभिः परमा ज्ञानदायिनी | कलविकरणी देवी भाति वारुणमन्दिरे || ६४-३८ || चतुर्भुजा योगिमाता त्रिनेत्रा भरणान्विता | सा ध्येया योगिमुख्यैश्च अणिमाद्यष्टसिद्धिदा || ६४-३९ || पावने स्वर्णगेहे च ध्येया साधकसत्तमैः | बन्धूकपुष्पसङ्काशा केयूरहारमालिनी || ६४-४० || बलविकरणी देवी सर्वाभरणभूषिता | चतुर्भुजा त्रिनेत्रा च सर्वादिसिद्धिदायिनी || ६४-४१ || बलप्रमथिनी देवी धनदा मोक्षदा सदा | कुबेरहेमगेहस्था सर्वानन्दकरोद्यता || ६४-४२ || श्रीसर्वभूतदमनी ध्येया ईशानमन्दिरे | प्रथमारुणसङ्काशा करवीरस्रजान्विता || ६४-४३ || चतुर्भुजा त्रिनेत्रा च सर्वालङ्कारशोभिता | मध्ये श्रीकणीकायाश्च ध्येया सर्वजनेश्वरैः || ६४-४४ || सूर्यप्रभा सदा ध्येया देवी श्रीदा मनोन्मनी | चतुर्भुजा महादीप्तिरलङ्कारोपशोभिता || ६४-४५ || त्रिनेत्रा वरदा सर्वा सर्वान्तः करणस्थिता | सकलगुणात्मशक्तियुक्ता देवी चतुर्भुजा || ६४-४६ || अरुणायुतसङ्काशा रुण्डमालाविराजिता | अनन्तानन्तमहिमा ध्येया साद्या चतुर्भुजा || ६४-४७ || त्रिनेत्रा रक्तवसना सर्वालङ्कारमण्डिता | एतासां ध्यानमाकृत्य पूजयेद्विधिवत् ततः || ६४-४८ || मनःकल्पितद्रव्यैश्च साक्षात्कल्पितद्रव्यकैः | जप्त्वा नाम्ना योजयित्वा समर्प्य विधिवत्सुधीः || ६४-४९ || कृत्वा मांसासवैर्योगी तर्पयेन्मधुधारया | अभिषेकं कुलद्रव्यैः साधकैर्योगिभिः सह || ६४-५० || भोजयेद् योगिमुख्यांश्च ब्राह्मणान् वेदपारगान् | नानाविधकुलद्रव्यै र्भक्ष्यैर्भोज्यैश्च योगिराट् || ६४-५१ || ततः प्रकाशमाप्नोति मनोयोगेन वार्पयेत् | एतत्प्रकारः कण्ठस्य सञ्चारः परमेश्वर || ६४-५२ || लभ्यते विधिनानेन दिव्यभावेन वार्पयेत् | ततः सिद्धिमवाप्नोति साकिनीदर्शनं तथा || ६४-५३ || पत्न्या सार्धं साधकेन्द्रः सिद्धमन्त्रमवाप्नुयात् | अथ वक्ष्ये महाकाल राक्षसीं परमां क्रियाम् || ६४-५४ || येन कर्मसाधनेन शिवत्वमपि लभ्यते | चीनाचारं राक्षसीनां कुलीनानां सदाशिव || ६४-५५ || राक्षसी वेदभाषा च वेदमन्त्रविशोधिता | चीनाचारं राक्षसीनां साधनादेव सिद्ध्यति || ६४-५६ || चीनाचारं प्रवक्ष्यामि राक्षसीनां महाफलम् | अष्टादश प्रकारन्तु चीनाचारं प्रचक्षते || ६४-५७ || सर्वत्र शुद्धसद्भावः प्रयोजनविरागवित् | उत्तमोत्तमसंज्ञं चानुत्तमोत्तममेव च || ६४-५८ || अत्यन्तोत्तमसंज्ञं चात्यन्तानुत्तममेव च | अनुत्तमोत्तमं नाथ चात्युत्तममथापरम् || ६४-५९ || उत्तमं सप्तविधञ्च चीनाचारेषु योजयेत् | अत्यन्तमध्यमं चीने चातिमध्यममेव च || ६४-६० || मध्यमध्यमसञ्ज्ञञ्च मध्यमं तु चतुवीधम् | अत्यन्ताधमसञ्ज्ञञ्चात्यन्ताधममेव च || ६४-६१ || अत्यधमाधमं चैवात्यन्ताधमाधमं तथा | अत्यधमं तथा नाथाधमाधममथापरम् || ६४-६२ || अधमं सप्तमं विद्धि राक्षसीचीनसाधने | दिनपक्षमासवर्षभेदेषु कारयेत् क्रमात् || ६४-६३ || आदावुत्तमसिद्धान्तश्रवणं कुरु शङ्कर | यदा ऋतुमती पृथ्वी त्रिदिनं चाम्बुवाचिषु || ६४-६४ || तद्दनात्तु दिनं यावत्तावद्धि मांसचर्वणम् | चीनद्रुमासवानन्दपञ्चतत्त्वनिषेवणम् || ६४-६५ || अबाधतो यः करोति चोत्तमोत्तमेव तत् | अनुत्तमोत्तमं वक्ष्ये पूजाकालेषु योजयेत् || ६४-६६ || केवलं गुप्तभावेन पञ्चतत्त्वनिषेवणम् | अत्यागं स्वीयबीजं तु कुलपीठस्य मन्थनम् || ६४-६७ || तत्पीठमथनोद्धृतसुधारसनियोजनम् | आसवेषु च सर्वेषु तदासवनिषेवणम् || ६४-६८ || अष्टप्रकारमांसाढ्यं सदा चर्वणतत्परम् | पूजाकालं विना द्रव्यं नाहरेत् साधकोत्तमः || ६४-६९ || अनुत्तमोत्तमं तद्धि सर्वदेशे च सर्वदा | अत्यन्तोत्तमचीनं तु वक्ष्याम्यत्र विधानतः || ६४-७० || येन सिद्धो भवेन्मन्त्री सदाशिवादिदर्शनम् | प्रत्यहं वत्सरं व्याप्य निशायामर्धरात्रके || ६४-७१ || पञ्चतत्त्वं समानीय अष्टनायिकया सह | पूजयेत् क्रमतो मन्त्री तत्कथाश्रवणोत्सुकः || ६४-७२ || क्रमेण मथनं कृत्वाऽऽसवे संयोज्य नित्यशः | शुद्धभावेन गृह्णीयाद् ब्राह्मण्यां बीजमर्पयेत् || ६४-७३ || तद्बीजेन समासिञ्चेन्मस्तकादिषु पङ्कजे | दत्वा ताभ्यो दक्षिणादीन् स्वातन्त्र्यमपि चाचरेत् || ६४-७४ || अत्यन्तोत्तममेतद्धि न चारम्भो विशां विना | अत्यन्तानुत्तमं विद्धि येन सिद्धो भवेन्मनुः || ६४-७५ || आनन्दे त्यागमापन्ने पुनरानन्दमाश्रयेत् | सर्वदानन्दसंयुक्तः प्रजपेद्यजनादिषु || ६४-७६ || न विशेषो दिवारात्रौ सर्वदारसुसंयुतः | उक्तासनोपविष्टस्तु निर्जने कुलसाधनम् || ६४-७७ || अनुत्तमोत्तमं विद्धि मायाजालनिकृन्तनम् | कालाकालं विहायादौ स्वकुलं परमेव वा || ६४-७८ || तन्नाम्नाहूय यत्नेन दापयेदासनादिकम् | महाशङ्खं समानीय कुलद्रव्यं तथानघ || ६४-७९ || विधिना पूजनं कृत्वा कुलवारे च साधकः | दाता भोक्ता संविदश्च शोधितस्य कुलेश्वर || ६४-८० || स्वीयाङ्गे न्यासजालादीन् तासामङ्गे ततः परम् | शिवपूजां ततः कृत्वा कुलपूजां समारभेत् || ६४-८१ || पीठे संयोज्य शम्भुं चाक्षुब्धोऽयुतजपं चरेत् | जपं समर्पयेत् तस्या वामहस्ताम्बुजे सुधीः || ६४-८२ || विसर्जनं स्वबीजस्य ततो नित्याप्रतर्पणम् | आसवे योजयित्वा तु तया सार्धं पिबेन्मधु || ६४-८३ || वामभागे कुलं कृत्वा लक्षजाप्यं समापयेत् | कुलद्रव्यैश्च होमः स्यात् तद्दशांशेन तर्पणम् || ६४-८४ || तद्दशांशाभिषेकं तु दशांशं विप्रभोजनम् | ततः कुमारीभोज्यञ्च मधुमांसासवैः प्रभो || ६४-८५ || प्रत्यहं वत्सरं व्याप्य कुलवारे कुजे शनौ | वत्सरान्ते मम पदाम्भोजं पश्यति निश्चितम् || ६४-८६ || अनुत्तमोत्तमञ्चैतद् राक्षसीचीनसाधने | अत्युत्तमं प्रवक्ष्यामि सावधानावधारय || ६४-८७ || सदा जितेन्द्रियो भूत्त्वा योगाभ्यासपरायणः | मांसासवाद्यैः सन्तर्प्य कालिकां घोरनिःस्वनाम् || ६४-८८ || एकादशीव्यतीपाते कुलवारे कुले तिथौ | कुलमानीय साक्षाद्वै परंब्रह्ममयो भवन् || ६४-८९ || केवलं लयभावेन देवीपूजां समारभेत् | कुलदृष्टया च तद्बुद्ध्या तत्तद्ध्यानपरायणः || ६४-९० || मूलाधारे महाचक्रे योगिनीकोटिराजिते | कोटिब्रह्मालये सिद्धे सूक्ष्ममार्गेण साधकः || ६४-९१ || ज्योतिराकाशगङ्गाभिर्यथाधाराभिराप्लुताम् | पृथिवीं ब्रह्मजननीं ब्रह्मानन्दस्वरूपिणीम् || ६४-९२ || तथा कुलमयीं नित्यां नित्यानन्दस्वरूपिणीम् | कुलकुण्डलिनीं देवीं विश्वमातां त्रिलोचनाम् || ६४-९३ || महाघनरसोल्लासां महोन्मादादिबिन्दुभिः | गलिताभिर्महाधाराजन्याब्धिशतकोटिभिः || ६४-९४ || परिच्छिन्नाभिरुद्धते ज्योतीरन्ध्रे महापथे | अत्रैव सततं भाति सूक्ष्मात्सूक्ष्मतराऽपरा || ६४-९५ || बिन्दूद्भवा महाधारा कोटिसौदामिनीप्रभा | तस्या रूपस्य का पूजा कुलदेव्या महाप्रभो || ६४-९६ || केवलं बिन्दुधाराभिस्तर्पयामि सदानघाम् | कुलदेवीं जगद्रूपां स्थूलसूक्ष्मस्वरूपिणीम् || ६४-९७ || मूलादिब्रह्मरन्ध्रान्तं तर्पयामि सुरेश्वरीम् | इत्येवं मनसा यस्य तस्य किं बाह्यपूजया || ६४-९८ || तथापि कल्पयाम्यत्र सा(शा)रदीये महोत्सवे | यथा कुलवतीं दुर्गां तथाहं कुलनायिकाम् || ६४-९९ || मूलपद्मात्समाकृष्य नागिनीं नागकन्यकाम् | कुहकोद्भवरूपस्थां मनुष्यगणकन्यकाम् || ६४-१०० || वामेऽहं कल्पयाम्यत्र कुलपीठे मनोरमे | कुलदेवीं वामभागे पूजयाम्यधुनामुना || ६४-१०१ || तर्पयामि महाबिन्दूद्भवासवघटामृतैः | मांसाष्टकयुतैनीत्यं मुद्राभिर्मीनमिश्रितैः || ६४-१०२ || यथान्तःकरणे सा तु तथा मे बाह्यतर्पणम् | शुभं भवतु नित्यं मे महारात्रिश्च सौख्यदा || ६४-१०३ || कुलं भवतु सौख्यं मे बाह्यपूजा शुभा मम | इत्येवं मनसा यस्य तस्याः सौख्यं कुतः प्रभो || ६४-१०४ || सर्वदा पूजनं तस्य चैव कालो निरर्थकः | अभेदबुद्ध्या सर्वत्र पूजनं भावसाधने || ६४-१०५ || अत्युत्तममिति प्रोक्तं कौलानां योगसाधने | जातिवृत्तं न तत्रैव यदीच्छति फलोदयम् || ६४-१०६ || उत्तमं सम्प्रवक्ष्येऽहं यथोचितफलोदयम् | अत्र तन्त्रे क्रिया गुप्ता गुप्तमामन्त्रितं कुलम् || ६४-१०७ || गुप्तं कुलरसं नित्यं गुप्तपानं सदा प्रभो | वर्षे वर्षे पूर्णसिद्धिं प्राप्नुयान्नात्र संशयः || ६४-१०८ || मासे मासे तर्पणं तु पक्षे पक्षे कुलक्रिया | दिने दिने सदा पानं कौलानामिति लक्षणम् || ६४-१०९ || गुप्तक्रियाभिः सिद्ध्येत न प्रकाश्यं कदाचन | सर्वत्यागी तदैव स्यात् प्रकाशो जायते यदि || ६४-११० || उत्तमं भावमालम्ब्य क्षिप्रं सिद्ध्यति साधकः | तस्यैव लक्षणं नित्यं तन्त्रनाथे निरूपितम् || ६४-१११ || शिवोक्तिलक्षणे प्रोक्तं भैरवेण मया सह | तत्सर्वं ज्ञानमालम्ब्य चोत्तमस्त्वं भविष्यसि || ६४-११२ || अत्यन्तमध्यमं वक्ष्ये चीनाचारक्रमेण तु | यत्कृत्वा मुनयः सर्वे कौललक्षणभावकाः || ६४-११३ || पीठोपपीठमध्ये च महापीठे कुलार्णवे | महाचीनद्रुमलतावेष्टिते साधकान्विते || ६४-११४ || तत्रैकमासनं कृत्वा तिथित्रयदिने शुभे | उक्तासनमुपानीय तत्र निश्चयचेतसा || ६४-११५ || लक्षमेकं जपेन्नित्यं कामनाविषयस्थितः | कृष्णे वा शुक्लपक्षे वा होमादिविधिमाचरेत् || ६४-११६ || कुमारीं भोजयित्वा तु कण्ठे तौ भावयेत्सदा | मासेन सिद्धिमाप्नोति कुलद्रव्यप्रसादतः || ६४-११७ || अत्यन्तमध्यमं चीनं कथितं तव यत्नतः | अतिमध्यममावक्ष्ये यज्ज्ञात्वा योगिराड् भवेत् || ६४-११८ || कालाकालं विहायाथ सदान्तःकरणस्थितः | भावयित्वा सुधादेवीं डाकिन्यादिस्वरूपिणीम् || ६४-११९ || पञ्चशक्तिं समानीय पूजयेत्कुलजै रसैः | कुलपुष्पैः साधकेन्द्रः कुलीनं भावयेत्ततः || ६४-१२० || यथा बाह्ये तथा हृद्ये कण्ठे मणिगृहे तथा | वैकुण्ठे विष्णुकमले मूलाधारे पुनः पुनः || ६४-१२१ || ध्यात्वा ध्यात्वा तर्पयेद्यः स कामविजयी भवेत् | अतिमध्यममेतत्तु योगिनामपि दुर्लभम् || ६४-१२२ || मध्यमध्यममावक्ष्ये कुलीनफलसागरम् | वाञ्छासिद्धिकरं साक्षात् शिववद्विहरेन्मुदा || ६४-१२३ || मासमध्ये पञ्चवारं पञ्चतत्त्वनिषेवणम् | यजनं भावनं नित्यं होमकर्म समापयेत् || ६४-१२४ || बाह्यक्रियासु निपुणः श्मशाने विपिनेऽपि वा | भावयेत् कान्तं शिरसि काकिनीं साकिनीं कलाम् || ६४-१२५ || पञ्चशक्तिं द्वयं वापि गृहीत्वा तर्पणं चरेत् | तर्पणान्ते जपेद्विद्यामहनीशमनातुरः || ६४-१२६ || होमतर्पणकाले तु कुलशक्तिं प्रपूजयेत् | आसनं स्वागतं पाद्यमर्घमाचमनीयकम् || ६४-१२७ || मधुपर्कं च मनस्नानवसनाभरणानि च | गन्धपुष्पधूपदीपनैवेद्यं शीतलं जलम् || ६४-१२८ || पक्वान्नं पक्वमांसञ्च पक्वञ्च व्यञ्जनादिकम् | कर्पूरवासितं नीरं ताम्बूलं तदनन्तरम् || ६४-१२९ || लवङ्गादिसमायुक्तं दत्वा गन्धानुलेपनम् | गन्धमाल्यादिकं दत्वा प्रार्थयेत्सुहितं वरम् || ६४-१३० || तस्यै दत्वा स्वमात्मानं कुलपीठे स्थिरो भवेत् | कण्ठपद्मे मनो याति शक्तिमन्त्रप्रभावतः || ६४-१३१ || मध्यमध्यममेतद्धि कुलीनविप्रभोजनम् | क्रमशः सिद्धिमाप्नोति मध्यमं शृणु भैरव || ६४-१३२ || यथा काले कुलद्रव्यं समानीय प्रयत्नतः | नवशक्तिमेकशक्तिं त्रिशक्तिं वासमाहरेत् || ६४-१३३ || गुप्तस्थाने समानीय गुप्तद्रव्यैः प्रपूजयेत् | दशोपचारविधिना पूजयेदिष्टदेवताम् || ६४-१३४ || प्रातःकाले च मध्याह्ने सायाह्ने मध्यरात्रिके | सहस्रजपमाकृत्यार्चनं वारचतुष्टयम् || ६४-१३५ || मध्यरात्रौ शक्तिमात्रं स्थापयेदग्रतः सुधीः | साक्षान्मूर्त्तौ दिगम्बर्यां मुद्रया परिपूजयेत् || ६४-१३६ || जयन्ती मङ्गला काली भद्रकाली कपालिनी | दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोऽस्तु ते || ६४-१३७ || अनेन मनुनाभ्यर्च्य परंब्रह्मस्वरूपिणीम् | कुलद्रव्यं पिबेत् पश्चाच्छक्तिदत्तं पुनः पुनः || ६४-१३८ || शक्तिप्रसादं विधिना संशोध्य पानमाचरेत् | शोधयामि परां देवीं कुलास्यपद्मनिर्गताम् || ६४-१३९ || पिबामि परमानन्दैस्तत्प्रसादात्कुलेश्वरि | इत्यादि मध्यमं प्रोक्तं चीनाचारेषु दुर्लभम् || ६४-१४० || अत्यन्ताधमचीनं तु वक्ष्याम्यत्र विशेषतः | मासमध्ये त्रिदिनं तु तर्पणं तु त्रयं त्रयम् || ६४-१४१ || अष्टोत्तरशतं जाप्यं केवलं शक्तिशोधनम् | ऋषिमातृकराङ्गादिन्यासं स्वीयतनौ चरेत् || ६४-१४२ || कुलाङ्गेऽपि समाकृत्य पीठे शम्भुं नियोजयेत् | धर्माधर्मकलास्नेहमात्माग्नौ मनसा स्रुचा || ६४-१४३ || सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहम् | स्वाहान्तमन्त्रमुच्चार्य नियोज्य जपमाचरेत् || ६४-१४४ || जपं समर्प्य विधिना स्तोत्रं कवचमापठेत् | कवचान्ते ततो मन्त्री स्वबीजहोममाचरेत् || ६४-१४५ || कुलत्रिकोणगगनवायूज्वलकुलानले | कुलप्रकाशिते पद्मतले च मनुनामुना || ६४-१४६ || प्रकाशाकाशहस्ताभ्यामवलम्ब्योन्मनीस्रुचा | धर्माधर्मकलास्नेहपूर्णमग्नौ जुहोम्यहम् || ६४-१४७ || स्वाहेति मन्त्रमुच्चार्य ततस्तेनैव तर्पणम् | तर्पणान्ते चाभिषेकं स्वशक्तिकुलजै रसैः || ६४-१४८ || शक्तीनां ब्राह्मणस्थाने भोजनञ्च समापनम् | केवलं त्रिदिनं मासे चात्यन्ताधमलक्षणम् || ६४-१४९ || अत्यन्तात्यधमं चीनं वक्ष्यामि कुलवल्लभ | राक्षसीक्रियया व्याप्तं भुजङ्गाकारभोजनम् || ६४-१५० || अहमेव परंब्रह्म बुद्ध्यात्मानं प्रतर्पयेत् | आत्मम्भरी स्वयं नित्यं शक्तित्यागपरो नरः || ६४-१५१ || अन्तरे च न तु त्यागो मनसा कर्मसाधनम् | पञ्चतत्त्वं स्वयं पीत्वा सदानन्दस्वरूपवान् || ६४-१५२ || बीजत्यागं न करोति लिङ्गं वक्त्रे पुनः पुनः | दन्तावलियुते वक्त्रे बीजोच्चारणमुच्चकैः || ६४-१५३ || उपांशु मानसं वापि जप्त्वा ब्रह्ममयो भवेत् | न तु बाह्ये महापूजा एकादशीव्रतं विना || ६४-१५४ || एकादश्यामवश्यं तु पूजयेत्सुरसुन्दरीम् | यथाविधि विधानेन शक्तिं सन्तोषयेत् सुधीः || ६४-१५५ || सर्वदेशे सर्वपीठे तत्राशुचिर्न विद्यते | अशुचेर्भावमालब्य नरकं खलु गच्छति || ६४-१५६ || विष्ठायां गन्धनिबिडे मांसमेदादिगन्धके | सुगन्धदेशके वापि एकभावेन पूजयेत् || ६४-१५७ || पूजान्ते षट्सहस्राख्यस्तोत्रं कवचमापठेत् | तदन्ते विहरेद्वीरो मदनाह्लादवजीतः || ६४-१५८ || अन्तरे कुण्डलीयुक्तः कामकर्ता स्वयं भवेत् | न तु बाह्ये स्वबीजस्य त्याग एव सुरेश्वर || ६४-१५९ || तदा योगे स्थिरो याति चात्यन्तात्यधमादिभिः | अत्यधमाधमं वक्ष्ये कालात्मञ्छृणु सादरम् || ६४-१६० || मासमध्ये वारमेकं कुलाचारं सचीनकम् | कुलमालां समानीय कुलेन पुटितं मनुम् || ६४-१६१ || शक्तियुक्तो जपेन्मन्त्री मन्त्रध्यानपरायणः | चतुर्दण्डगतो रात्रौ जपारम्भ उदीरितः || ६४-१६२ || जपेत्तु सकलां रात्रिं वेददण्डस्थिते न तु | भयं नैव तु कर्तव्यं हास्यं तत्र विवर्जयेत् || ६४-१६३ || कालीतन्त्रविधानेन तारातन्त्रक्रमेण वा | पूजाजपं समर्प्याथ शक्तिं सम्प्रार्थयन्मुदा || ६४-१६४ || स्तोत्रं कवचमुच्चार्य विहरेच्च यथाविधिम् | मासमध्ये दिनमेकं कृत्वा योगी भवेन्नरः | पशुत्वं न समायाति वीरतन्त्रप्रसादतः | एतदन्यदिने नाथ पञ्चतत्त्वाक्ततण्डुलम् || ६४-१६५ || वदनाम्भोरुहे दत्त्वा जपेत्तद्गतमानसः | एवं वत्सरपर्यन्तं कृत्वा योगी भवेन्नरः || ६४-१६६ || अत्यधमाधमं कृत्वा पशुत्वमपि मुञ्चति | कुलेश परमानन्द वक्ष्येऽत्यन्ताधमाधमम् || ६४-१६७ || भवेयुः साधकाग्र्याश्च वीराः पशुगुणोदयाः | उच्चदेशे गृहं कृत्वा मण्डलाकारमेव च || ६४-१६८ || शक्तिं बिना चरेत्कार्यं नृणां मुण्डत्रयोदशे | आसनं तत्र संस्कृत्य जपेत्तु शङ्खमालया || ६४-१६९ || अनुकल्पितद्रव्येण साक्षात्कल्पितद्रव्यकैः | पूजयेत्परया भक्त्या स्वात्मानं शक्तिकुण्डलीम् || ६४-१७० || एकाकी निर्जने देशे तद्गतः प्रजपेन्मनुम् | कुलपूजाक्रमेणैव आत्मशक्तिं प्रतर्पयेत् || ६४-१७१ || सहस्रनामयोगाङ्गं षट्चक्रभेदनक्रमात् | पठित्वा स्तोत्रकवचं विन्यसेदात्मनो हृदि || ६४-१७२ || गुप्तजाप्यक्रमेणैव सिद्धो भवति मानवः | इत्येतत्कथितं नाथ महासिद्धिकरं परम् || ६४-१७३ || दिवारात्रौ साधकस्य विशेषो नास्ति शङ्कर | पशुभावं परित्यज्य सिद्धोऽत्यन्ताधमाधमम् || ६४-१७४ || अत्यधमं प्रवक्ष्यामि चीनाचारक्रमेण तु | येन सिद्धो भवेन्मन्त्री पशुभावं विमुञ्चति || ६४-१७५ || शृणु प्राणेश वरद सिद्धानामधिपाधिप | पातालमण्डपं कृत्वा गन्धनिर्गमवजीतम् || ६४-१७६ || तत्रासनं समाकृत्य तत्र मुण्डत्रयं त्रयम् | तन्मध्ये निवसेन्नाथ कुलविद्यासमन्वितः || ६४-१७७ || कुलीनां पण्डितां नारीं दिव्यालङ्कारमण्डिताम् | सर्वदानन्दनिलयां रसिकां क्रोधवजीताम् || ६४-१७८ || सुन्दरीं यौवनाह्लादललितां देवयोगिनीम् | एवंभूतां देवशक्तिं वामभागे नियोज्य च || ६४-१७९ || पूजयेत्परया भक्त्या यथेष्टदेवतां प्रभो | केवलं पूजनं कृत्वा त्रिदिनं कुलमन्दिरे || ६४-१८० || अथ सप्तदिनान् वापि पूजाजपविधिं चरेत् | शक्तिं सन्तर्पयेद् भक्त्या नवकन्यामथापि व || ६४-१८१ || वस्त्रालङ्कारभूषाद्यैः कुलद्रव्यैर्यथाविधि | सन्तोषयेत् सदा कामी लिङ्गध्यानपरायणः || ६४-१८२ || धूपदीपौ तथा दद्यात् सर्वदा साधकोत्तमः | यथा तत्त्वान्तनाशः स्यात्तथा तच्चित्ततामसम् || ६४-१८३ || नश्यत्येव महाकाल अत्यधमप्रसादतः | अधमाधममावक्ष्ये यथोक्तफलसिद्धये || ६४-१८४ || मन्त्री पीठे समागम्य मुक्तकेशो दिगम्बरः | घृणालज्जाविरहितो निर्जने विपिनेऽपि वा || ६४-१८५ || गङ्गागर्भे गिरौ वापि बिल्वमूले चतुष्पथे | वटमूलेऽश्वत्थमूले चीनद्रुमतलेऽपि वा || ६४-१८६ || कृष्णपक्षे चतुर्दश्यां समारभ्य प्रयत्नतः | मुण्डमेकमधः क्षिप्त्वा गन्धचन्दनलेपितम् || ६४-१८७ || हस्तार्धमानतो नाथ चाण्डालं हीनजातिगम् | तत्र स्थित्वा जपेन्मन्त्री भयमात्रं विवर्जयेत् || ६४-१८८ || चाण्डालीशक्तिमानीय कुलद्रव्यं तथा प्रभो | तद्दनात्तद्दनं यावत्तावदष्टोत्तरं शतम् || ६४-१८९ || विधिना शोधनं कृत्वा शक्त्यै दत्वा स्वयं पिबेत् | आनन्दसागरे मग्नः सर्वदर्शी निरामयः || ६४-१९० || मांसमुद्राचर्वणं तु सदानन्दमयो भवन् | प्रत्यहं साधनं कृत्वा वर्षमध्ये च मासकम् || ६४-१९१ || मासेन सिद्धिमाप्नोति राक्षसीक्रमतः प्रभो | अधमाधमकार्येण पशुश्चीनाश्रितो भवेत् || ६४-१९२ || अधमं शृणु यत्नेन कौलानामतिदुर्लभम् | अधमादिक्रमेणैव वत्सरान्मां प्रपश्यति || ६४-१९३ || पशुवत्सकलं कार्यं रात्रौ चापि कुलक्रिया | कुलदेव्यास्त्रिरात्रौ च कुलपीठे मनोरमे || ६४-१९४ || पूजयेत् परमानन्दैः कुलध्यानपरायणः | कुलपुष्पैः कुलद्रव्यैः साङ्गोपाङ्गैवीधानतः || ६४-१९५ || कुलपूजां मध्यरात्रौ ब्राह्मणौ ब्राह्मणीयुतः | क्षत्रियः क्षत्रियायुक्तौ वैश्यो वैश्यान्वितः सदा || ६४-१९६ || शूद्रः शूद्रकलायुक्तो निजाभावे परायुतः | जुहुयात् कालसपीण्या वदनाम्भोजसुन्दरे || ६४-१९७ || पुरश्चरणवत् कार्यं दिवारात्रौ प्रतर्पयेत् | अकालमृत्युजेता स्यात् परानन्दमयो भवन् || ६४-१९८ || अनायासेन सिद्धिः स्यादधमस्य प्रसादतः | रिपुविद्वेषणं वक्ष्ये देवदेव शृणु प्रभो || ६४-१९९ || यस्य प्रसादमात्रेण निःशत्रुरवरान् भवेत् | कण्ठपद्मे दृढो भूत्वा साकिनीं श्रीसदाशिवम् || ६४-२०० || पूजयित्वा विधानेन भावयेत् तद्गतो यदि | मञ्जुघोषस्य मनुना पुटीकृत्य सदाशिवम् || ६४-२०१ || तारयद्वयमुच्चार्य रक्षात्मानं युगं तथा | परपक्षं छेदयति योगशत्रून् विनाशय || ६४-२०२ || युगलं युगलं तत्र रमावह्नित्रयं त्रयम् | ततो मारययुग्मं तु खादयद्वयमेव च || ६४-२०३ || शत्रुकण्ठत्रिशूल्यन्ते निकण्ठरिपुपञ्चकान् | हारयद्वयमुच्चार्य स्वाहान्तमनुमाजपेत् || ६४-२०४ || स भवेद्रिपुविद्वेषी योगाभ्यासी स्वयं भवेत् | अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय || ६४-२०५ || अघोरमन्त्रपुटितं साकिनीनिजमन्त्रकम् | तदन्ते कामराजं तु रिपुं मे योगविघ्नदम् || ६४-२०६ || दारयद्वयमुच्चार्य विद्वेषयद्वयं वदेत् | परपक्षं छेदयेति कालजालं हरद्वयम् || ६४-२०७ || स्वाहान्तमन्त्रमुच्चार्य जपेत् कण्ठाधिदेवताम् | स भवेद्रिपुविद्वेषी योगविघ्नादिविघ्नहृत् || ६४-२०८ || मङ्गलोदयमावक्ष्ये येन योगी भवेन्नरः | रात्रिशेषे समुत्थाय जपेन्मध्यन्दिनावधि || ६४-२०९ || योगध्यानं सर्वदैव कण्ठपद्मे स्थिरो भवेत् | मङ्गलोदयमाप्नोति चिरजीवी भवेद् ध्रुवम् || ६४-२१० || विस्मयाह्लादमावक्ष्ये यत्कृत्वा योगिनीपतिः | स्वीकृत्य च कुलं द्रव्यं परानन्दमयो भवन् || ६४-२११ || ध्यानाद्विलयमाप्नोति तस्य नाशः कुतः प्रभो | क्रमेण परतां याति क्रयविक्रयवजीतः || ६४-२१२ || तस्मिन् प्रलयमापन्ने कुतो देहः कुतो मृतिः | तस्यैव सर्वदा पूजा बाह्यपूजा निरथीका || ६४-२१३ || एतस्मिन् प्रलये याते कुतः सृष्टिस्थितिर्भवेत् | सृष्टिस्थितिमयो भूत्वा विलयं याति निश्चितम् || ६४-२१४ || कालसाधनमावक्ष्ये यथा कुण्डलिनीपदम् | यदा समरमानन्दः सानन्दचेतसान्वितः || ६४-२१५ || तदैव फलदं कालं तस्मिन् काले च साधयेत् | साधनादेव सिद्धिः स्यात् तत्कालसाधनञ्चरेत् || ६४-२१६ || शृणु नाथ नवीनत्वं येन याति नरोत्तमः | प्रातःकालं समारभ्य यावद्दण्डचतुष्टयम् || ६४-२१७ || शौचं स्नानादिकं कृत्वा चासनाभ्यासमाश्रयेत् | ततो योगधारणाञ्च ततः पूजादिकं प्रभो || ६४-२१८ || ततो जपादिकं कृत्वा प्राणायामं समाचरेत् | षट्षोडशद्वादशं तु कुण्डलीवायुधारणम् || ६४-२१९ || ततो न्यासं स्तोत्रपाठं कवचं नाममङ्गलम् | पठित्वा देवतां हृद्ये पुनरानीय यत्नतः || ६४-२२० || चरणादकपानं तु पञ्चासवनिषेवणम् | दुग्धपानं ततः पश्चात् सन्ध्यावधि विधानतः || ६४-२२१ || रात्रौ ध्यानं सदा कृत्वा समाधिं क्रमतो लभेत् | एवं क्रमेण देवेश नवीनत्वं समाप्नुयात् || ६४-२२२ || मम ध्यानं प्रवक्ष्यामि सावधानोऽवधारय | अनाश्रयं सदा ध्यायेदानन्दप्रणयादिभिः || ६४-२२३ || निराश्रयं निराकारं मम ध्यानमुदीरितम् | रूपातीतं निवीकल्पं सर्वज्ञं योगवारिदम् || ६४-२२४ || कोटिसूर्यप्रतीकाशं तेजोबिम्बं निराकुलम् | ज्वालामालासहस्राढ्यं कालानलशतोपमम् || ६४-२२५ || दंष्ट्रकरालदुर्धर्षं जटामण्डलमण्डितम् | त्रिशूलं वरहस्तञ्च घोररूपं भयानकम् || ६४-२२६ || अनन्तानन्तमहिमं सर्वगामिनमीश्वरम् | सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् || ६४-२२७ || सर्वमावृत्यं तिष्ठन्तं कण्ठस्थं कण्ठवायुगम् | मम ध्यानं सदा कृत्वा परं ब्रह्ममयो भवेत् || ६४-२२८ || ममाज्ञा गुरुसद्भावं शृणु यत्नेन भैरव | कण्ठस्थं दैवतं देवगुरुरूपं महागुणम् || ६४-२२९ || आनन्दभैरवं पश्चान्महाकालं ततः परम् | ज्ञानानन्दं सदानन्दं भैरवानन्दमेव च || ६४-२३० || श्यामानन्दं शिवानन्दं कालानन्दमतः परम् | सुधानन्दं हरानन्दं सुरानन्दमतः परम् || ६४-२३१ || कुलानन्दं प्रियानन्दं यज्ञानन्दमतः परम् | ध्यानानन्दं परानन्दं योगानन्दं ततः परम् || ६४-२३२ || क्रोधानन्दं क्रियानन्दं बोधानन्दं ततः परम् | देवानन्दं जयानन्दं विजयानन्दमेव च || ६४-२३३ || ब्रह्मानन्दं प्रभानन्दं पूर्णानन्दं ततः परम् | जगदानन्दरूपं च ममाज्ञागुरुचक्रगम् || ६४-२३४ || ममाज्ञागुरुसद्भावं कृत्वाऽभ्यर्च्य विभावयेत् | कण्ठपद्मे स्थिरो याति साधकः स्थिरचेतसा || ६४-२३५ || वक्ष्येऽहं देवदेवेश कुलपीठप्रदर्शनम् | कामस्थानं कामकलावेष्टितं योगिनीपदम् || ६४-२३६ || कामरूपं महापीठं कुलपीठं प्रकीतीतम् | तस्य दर्शनमात्रेण जीवन्मुक्तो न संशयः || ६४-२३७ || तत्प्रकारविधिं वक्ष्ये सावधानोऽवधारय | कुलपीठे समागम्य यद तद्गतमानसः || ६४-२३८ || तदैव पूजनं कृत्वा किं न सिद्ध्यति भूतले | आदौ भवेत् कालरूपभूपतिः सिद्धिदर्शकः || ६४-२३९ || कूलपूजाविधानेन निजपीठे प्रपूजयेत् | कामेश्वरीं कालकन्यां कामकौतूहलोज्ज्वलाम् || ६४-२४० || कालरूपां प्रपूज्याथ सर्वभावेन पूजयेत् | सुधादानं पाद्यदानं अर्घ्यमांसादि मुद्रया || ६४-२४१ || आचमनीयं सकुलं गन्धमालिङ्गनादिकम् | नखदंष्ट्रक्षतादीनि पुष्पाणि विविधानि च || ६४-२४२ || समूहधूपदानं तु कुलपीठप्रदर्शकम् | तत्स्पर्शनं भवेद्दीपः प्रवेशो हि कुलान्तरे || ६४-२४३ || तन्नैवेद्यं महासौख्यं सर्वतन्त्रेषु गोपितम् | कुलद्रव्यं तु पानार्थं ततस्ताम्बूलभक्षणम् || ६४-२४४ || स्थापनं तर्पणं विद्धि मम पूजाक्रमादिकम् | तन्मूलेन यथा नाथ पूर्वोक्तेन प्रकारयेत् || ६४-२४५ || कुण्डलीगमनं वक्ष्ये संक्षेपाच्छृणु वल्लभ | कायशोधनमाकृत्य आसनादिकमाचरेत् || ६४-२४६ || प्राणायामं त्रिधा कृत्वा भूतन्यासं समाचरेत् | अङ्गन्यासकरन्यासौ बीजन्यासेषु षोढया || ६४-२४७ || व्यापकं पञ्चधा कृत्वा भूतशुद्धिं समाचरेत् | जीवेनैक्यं विभाव्यैव ब्रह्मरन्ध्रे निवेशयेत् || ६४-२४८ || ब्रह्मरन्ध्रे ततो गत्वा सुषुम्नामुखमाश्रयेत् | तन्मध्ये कणीकास्थानं तन्मध्ये च चतुर्दलम् || ६४-२४९ || चतुर्दलान्ते सा देवी विभाति तामुपाश्रयेत् | तामुपकुञ्च्य यत्नेन सिद्धरूपी प्रबुद्धयेत् || ६४-२५० || देवैः सार्धं ततो गच्छेत् षड्दले काकिनीस्थले | तया सार्धं कुण्डलिन्या देवैर्गच्छेद् दशच्छदे || ६४-२५१ || एवं क्रमेण हृत्पद्मं षोडशारं ततः परम् | द्विदलं भेदमाकृत्य बोधिनीचक्रमाश्रयेत् || ६४-२५२ || ततः कटाहमाभेद्य पूर्णशैलं समाश्रयेत् | ततोऽसौ ह्युन्मनीं भित्वा घटाधारे मनोलयम् || ६४-२५३ || तदूर्ध्वे प्रलयाकारं ब्रह्मचक्रं निराकुलम् | तदूर्ध्वे ब्रह्मदण्डं तु तदूर्ध्वे केवलं जलम् || ६४-२५४ || सर्वं जलं समालम्ब्य सहस्रारं प्रभामयम् | तदूर्ध्वे कणीकास्थानं सिद्धखड्गं तदूर्ध्वके || ६४-२५५ || सर्वबीजमयं नाथ मातृकामण्डलं ततः | मातृकामण्डलोर्ध्वे च प्रेतबीजं सुधामयम् || ६४-२५६ || प्रेतासनोपरि ध्यायेन्महाकालकुलेश्वरीम् | तत्रैव श्रीपदाम्भोजतले संस्थापयेन्मनः || ६४-२५७ || पूर्वोक्तदेवताभिस्तु लययोगेन लेपयेत् | तत्रैव स्थित्वा संध्यायेन्मूलेऽनलमनुं प्रभो || ६४-२५८ || वायुबीजेन प्रज्वाल्य दहेद्देहं यतीश्वरः | तन्नेत्रद्वयपर्यन्तं कर्णयुग्मावधि प्रभो || ६४-२५९ || प्रदह्य भ्रूदले नेत्रे वह्नौ वह्निलयं चरेत् | तच्छिखापटलेनैव क्षरन्ति ब्रह्मबिन्दवः || ६४-२६० || तद्बिन्दुधारया देहं वरुणैः प्लावयेत्ततः | शुद्धदेहं ततो ध्यायेद् बीजेन प्रथमाङ्कुरम् || ६४-२६१ || अधोमार्गेण सन्ध्यायेत् कुण्डलिन्या गमागमम् | इत्येतत् कथितं नाथ कुण्डलीगमनादिकम् || ६४-२६२ || साधकालम्बनं वक्ष्ये येन सिद्धो हि साधकः | प्राणविद्यासुसिद्धिः स्यादायुरारोग्यमालभेत् || ६४-२६३ || श्रीकारुणोऽकारणगुप्तभावे | विभावयामि प्रियपादपद्मम् | एवं मनोयोगमुपेत्य नित्यं | श्रीसाधकालम्बनमेव सम्पदम् || ६४-२६४ || नित्योपलब्धिविज्ञाने सुन्दरीचरणाम्बुजे | आत्मानमर्पयन् भावैः साधकालम्बनं हि तत् || ६४-२६५ || वर्णध्यानं शृणु प्रीतः शङ्कर प्राणशङ्कर | मूलादिब्रह्मरन्ध्रान्तमकारादीन् स्मरेद् बुधः || ६४-२६६ || स्मृत्वा ग्रथित्वा मनुना विलोमेन पुनः पुनः | भावयेन्मनसां योगी सत्त्वाधिष्ठानतत्परः || ६४-२६७ || कोटिसूर्यायुताभासं प्रत्येकग्रन्थिभेदतः | मन्त्राक्षरं परंब्रह्म ध्यात्वा ध्यात्वा विभाकरम् || ६४-२६८ || भित्वा सहस्रारमध्यं क्षकारं भाति चन्द्रगम् | अनुलोमविलोमेन विभाव्य ध्यानमाचरेत् || ६४-२६९ || अकारादिक्षकारान्तं वर्णध्यानं समीरितम् | दलभेदं प्रवक्ष्यामि यत्र यत्र पदे स्थितिः || ६४-२७० || विसर्गाद् बिन्दुपर्यन्तो दलभेदः प्रकीतीतः | तथापि शृणु योगेन्द्र सङ्केतार्थविनिर्णयम् || ६४-२७१ || देवतादक्षिणावर्त्या योगेन भावयेद्दलम् | एवं मूलादिपद्मानां भेदः श्रीकण्ठभूषण || ६४-२७२ || एवं सहस्रारपद्मदलभेदः प्रकीतीतः | स्फूतीविद्यां प्रवक्ष्यामि अकस्मात्सिद्धिदायिनीम् || ६४-२७३ || निरन्तरं जपेद्विद्यां समभावपरायणः | अकस्मात्स्फूतीविद्यः स्यात्काव्यवाक्पतिरीश्वरः || ६४-२७४ || वाचां सिद्धिः करे तस्य कुब्जिकासिद्धिरेव च | यदि कण्ठाम्बुजे ध्यायेत् काकचञ्चुपुटस्थितः || ६४-२७५ || इत्येताः स्फूतीविद्या हि सर्वपद्मदलस्थिताः | वियोगं सम्प्रवक्ष्यामि येन मन्त्री च निर्भयः || ६४-२७६ || स्त्रीपुत्रधनमित्रादिलोभमोहादिपातकम् | वर्जयित्वा तनुक्लेशं विवेकं समुपाश्रयेत् || ६४-२७७ || वियोगः स हि विज्ञेयो मन्त्रन्यासपरायणः | अथ वक्ष्ये त्रियोगेन्द्र पूर्वज्ञानसमोदयम् || ६४-२७८ || काले काले क्रियासिद्धिश्चण्डिकापार्श्वगो भवेत् | पूर्वस्यां दिशि पूर्वाह्णे वदनाम्भोजमण्डलः || ६४-२७९ || ज्ञानद्रव्यसमरसैरुदयं भावयेद् रविम् | पूर्व पूर्वस्वजन्मादिज्ञानसमोदयं लभेत् || ६४-२८० || आकाशे च मनो दत्वा आकाशाख्यं स्मरन्मनुम् | पूर्वजन्मादिसञ्ज्ञानं जानाति समभावकः || ६४-२८१ || इति ते कथितं नाथ पूर्वज्ञानसमोदयम् | अथात्र संप्रवक्ष्यामि सिद्धः शुद्धः फलार्थभाक् || ६४-२८२ || येन क्रमेण सम्भूयात् खेचरीमेलनं प्रभो | या या समरसप्राप्तिः सा सैव फलसिद्धिदा || ६४-२८३ || शृणु संक्षेपतो वक्ष्ये पश्चाद्वक्तव्यमेव तत् | आसनादिकमाकृत्य कायसङ्कोचमाचरन् || ६४-२८४ || कामलता क्षुद्रतरैर्भेदिता वसनाग्रकैः | तालुमूलोत्तरे मूले नियोज्य मधुपो भवेत् || ६४-२८५ || तदैव जपमाकृत्य वायुं धृत्वा मधुं पिबेत् | सा स्यात्समरसप्राप्तिः कामलिङ्गे स्थिरो भवेत् || ६४-२८६ || इत्येषा कथिता विद्या लताभेदं शृणु प्रभो | श्वेतवाट्यालसूत्रेण निमीता या लता शुभा || ६४-२८७ || अथवा पद्मसूत्रेण लतां कुर्याद्विचक्षणः | अष्टादशाङ्गुलमितं नातिसूक्ष्मं प्रमाणवत् || ६४-२८८ || जित्वाधः सन्निवेश्याथ घर्षयेत् कामसुन्दर | तदा जित्वा स्वयं याति घर्षणेन पुनः पुनः || ६४-२८९ || पश्चाज्जित्वा क्रियां कुर्यात्तालुमूले निधाय च | क्रमेणामृतमाप्नोति जिह्वाधश्छेदने ध्रुवम् || ६४-२९० || सा स्यात्समरसप्राप्तिर्यदि मन्त्राक्षरं भजेत् | जीवब्रह्मबुद्धिमन्तास्तु तिष्ठन्ति निरञ्जने || ६४-२९१ || कूष्माण्डाकारदेही च ब्रह्मसाधनतत्परः | सदा समरसप्राप्तिरनायासेन लभ्यते || ६४-२९२ || जले स्थले भूमिगर्ते शरीरं नापि नश्यति | अजरामरदेही स्याद् योगोऽयं योगिदुर्लभः || ६४-२९३ || कायकल्पनमावक्ष्ये येन सिद्धपतिर्भवेत् | शृणुष्वैकमनाः शम्भो गृहस्थानां तु दुर्लभम् || ६४-२९४ || महारण्ये पद्मवने शीतले गन्धशोभिते | कायकल्पनमाकृत्य भावयेत् कण्ठपङ्कजम् || ६४-२९५ || उदारचित्तः सर्वत्र वैष्णवाचारतत्परः | पद्मे पद्मे स्वदेहस्य कल्पना च दले दले || ६४-२९६ || क्रमशः कण्ठपद्मे च स्वीयदेहस्य कल्पना | क्रियते यदि योगेन्द्रैस्तदा देहस्य रक्षणम् || ६४-२९७ || अन्यथा मृत्युवश्यः स्याद् योगभ्रष्टो भवेन्नरः | एवं क्रमेण सर्वत्र कुर्यात् कायस्य कल्पनम् || ६४-२९८ || जरामरणदुःखाद्यैर्मुच्यते मोहसङ्कटात् | अथान्यत् सम्प्रवक्ष्यामि कायकल्पनमेव तत् || ६४-२९९ || नानापीठे त्वसाध्ये च चक्षुरिन्द्रियवजीते | मनोगम्ये स्थिरो भूत्वा स्वदेहमपि कल्पयेत् || ६४-३०० || वाराणस्यादिपीठे च महाज्वालामुखीपदे | कुरुक्षेत्रे प्रयागे च दक्षिणे द्वारकादिषु || ६४-३०१ || हरिद्वारोदये तीर्थे मार्कण्डेये च कापिले | वृन्दावने गुह्यपीठे गङ्गायमुनयोस्तटे || ६४-३०२ || पुष्करे पृथिवीतीर्थे कायतीर्थे गयादिषु | कालकल्पनमाकृत्य श्रद्धावान् पूजयेत्परम् || ६४-३०३ || सदाशिवं साकिनीशं शाकिनीयोगिनीगणैः | वेष्टितं परया भक्त्या ध्यात्वा देहं प्रकल्पयेत् || ६४-३०४ || प्रकल्प्य स्वतनुं तत्र ततो देवस्य कल्पयेत् | येषां मनसि यद्वयनं तद्धयानं कायकल्पनम् || ६४-३०५ || एतत्कायकल्पनेन मौनी वाक्सिद्धिमाप्नुयात् | इदानीं कामदेवस्य मथनं शृणु भैरव || ६४-३०६ || कामदेवस्य मथनं सुखदं मोक्षदं परम् | यावद् बिन्दुः स्थिरो देहे तावन्मृत्युभयं कुतः || ६४-३०७ || बिन्दुपाताद्भवेन्नाशस्ततो हि बिन्दुरक्षणम् | तत्तदौषधमावक्ष्ये येन बिन्दुः स्थिरो भवेत् || ६४-३०८ || नित्यं सेवनमाकुर्या देतेषां मूलमाहरन् | श्वेतापराजितामूलं सिद्धिमूलं ततः परम् || ६४-३०९ || शतपणीमूलमेकं कदम्बमूलमेव च | श्वेतकुन्दपुष्पमूलं करवीरं तथाशितम् || ६४-३१० || कृष्णधुस्तूरमूलं तु सेफालीमूलमेव च | चितामूलं तथा शम्भो निर्गुण्डीमूलमाहरन् || ६४-३११ || एकीकृत्य विधानेन रविवारेऽर्कमूलकैः | समभागेन योगेन्द्र चूर्णीकृत्य पृथक् पृथक् || ६४-३१२ || शुक्रवारे च पूर्वाह्णे मिश्रं कुर्याद्दनत्रयम् | षड्रात्रि शोधयेत् काममुद्राभिर्वामदेवताः || ६४-३१३ || मध्यमाङ्गुलिमुत्तोल्य दक्षिणेनापि मुष्टिना | धृत्वा च शोधयेदादौ द्रव्यमूलानि साधकः || ६४-३१४ || विजयाचूर्णयोगेन पिबेच्चूर्णं द्वितोलकम् | अर्धतोलकमुनैक्यं विजयाः सार्धतोलकाः || ६४-३१५ || मिश्रीकृत्य विधानेऽपि तत्तत्कुजदिने शुभे | एतत्प्रभक्षणेनैव मदनं वशमानयेत् || ६४-३१६ || यदा मनसि आयाति पुष्पधन्वा महाबली | तदा तं पूजयित्वा च कामदेवं निवारयेत् || ६४-३१७ || इति कामस्य मथनं देहे व्यवस्थितं शृणु | अङ्गुष्ठगुल्फजानूरुसिमनीलिङ्गनाभिषु || ६४-३१८ || हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां तथा नसि | भ्रूमध्ये मस्तके र्मूध्नि वायवाकाशप्रियालये || ६४-३१९ || वायुरूपं स्वदेहं तु स्थापयित्वा मनुं जपेत् | कुम्भकप्राणयोगेन निजदेहव्यवस्थितिः || ६४-३२० || कण्ठाम्भोजे स्थिरो यो हि तं जनं शृणु भैरव | योगारम्भावधिर्यो हि स्त्रीसंसर्गं विवर्जयेत् || ६४-३२१ || मातॄणां गमनं नास्ति यस्य स कण्ठसंस्थितः | नित्यं करोति योगं यो धर्मात्मा स्थिरचेतसा || ६४-३२२ || स एव कण्ठपद्मे च स्थिरो भवति निश्चितम् | भावज्ञानी च यो विद्वान् तं विदामि दयार्णव || ६४-३२३ || कुण्डलीस्पर्शमात्रेण तन्मयो जायते क्षणात् | सर्व देवे परं भावं कृत्वा ज्ञानेन पूजयेत् || ६४-३२४ || सर्वपीठे स्थिरो भूत्वा ज्ञानात्मा परिपूजयेत् | क्रमेण कण्ठभेदः स्याद् योगी भवति सत्वरम् || ६४-३२५ || धनं धान्यं धरां धर्मं कीतीमायुर्यशः श्रियम् | तुरगान् दन्तिनः पुत्रान् लोकान् सर्वस्वस्वोदयम् || ६४-३२६ || एतज्ज्ञानप्रसादेन लभ्यते परमेश्वरम् || ६४-३२७ || ज्ञात्वा योगेन्द्रचक्रं त्रिभुवनविवरध्वान्तजाल प्रकाशं | मूलाम्भोजे रसाख्ये दशदलविमले हृत्स्वपद्मे विलासम् | कण्ठाम्भोजे मनोज्ञे द्विदलस्वकमले भावयन्तं सुरेन्द्रैः | श्वेताम्भोजे परेशं निरवधिगगनं पूजये भावयामि || ६४-३२८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र-- प्रकाशे भैरवीभैरव संवादे कण्ठपद्मभेदविज्ञानविन्यासो | नाम चतुष्षष्टितमः पटलः || ६४ || अथ पञ्चषष्टितमः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि समुदायफलोदयम् | कण्ठाम्भोजस्य वर्णानां ध्यानं मन्त्रं शृणु प्रभो || ६५-१ || शाकिनीसहितं नित्यं पूजयित्वा सदाशिवम् | मूढोऽपि योगिनां श्रेष्ठः किमन्ये ध्यानयोगिनः || ६५-२ || ध्यात्वा सम्पूजयेद्यस्तु सोऽभीष्टं फलमाप्नुयात् | ततो ध्यानं प्रवक्ष्यामि वीरनाथ शृणु प्रभो || ६५-३ || आदौ श्रीशाकिनीध्यानं पश्चाद् ध्यानं सदाशिवे | द्वयोरभेदबुद्ध्या च कामजेता स्वयं भवेत् || ६५-४ || वन्दे नित्यां सुशीलां त्रिभुवनवरदां शाकिनीं पीतवस्त्रां | वेदाद्यां वेदमातां सुखमयललितां वेदहस्तोज्ज्वलाङ्गीम् | ध्याये पीयूषधारामलघटसुधया स्निग्धदेहां हसन्तीं | मायां शम्भोर्ललाटे विधुकिरणकरां श्रीसदानन्दयुक्ताम् || ६५-५ || अम्भोजास्त्रादिमुद्रासिवरदजटा धारयन्तीं करालं | श्यामां पीनस्तनाढ्यां त्रिनयनकमलां प्रेतलिङ्गासनस्थाम् | सर्वाङ्गालङ्कृतां श्रीं विधुशतवदनाम्भोजशोभां वहन्तीं | शम्भोरानन्दकत्रीं चरमगुणपदां स्थूलसूक्ष्मस्वरूपाम् || ६५-६ || एवं ध्यायेन्महायोगी स्थूलसूक्ष्मस्वरूपिणीम् | अभेद्यभेदकरणीं शङ्कर प्रेमवल्लभ || ६५-७ || या विद्या वाग्भवाढ्या हरिवधुकमला केवले निष्फलन्ते | मायालक्ष्मीस्त्रिकूटं शशिमुखितदधः शाकिनी क्षेत्रपालम् | वक्षद्वन्द्वं त्रिकूटं वधुमधरमिवासिद्धिमिष्टां विधेहि | स्वाहान्तोऽयं महेशत्रिभुवनभविकाह्लादहेतोः प्रकाशः || ६५-८ || प्रणवं पूर्वमुद्धृत्य वाग्भवं तदनन्तरम् | शाकिनी त्वं तदन्ते तु मम दोषान् विनाशय || ६५-९ || युगलं वह्निकान्तां च मन्त्रार्थाः सारदाः स्मृताः | कामराजं समुद्धृत्य हिरण्याक्षि सनातनि || ६५-१० || शाकिन्यन्ते महामाये मायावह्निश्रिया युतम् | एषा मन्त्रात्मिका विद्या कण्ठाम्भोजप्रकाशिनी || ६५-११ || शाकम्भरी महाविद्या तस्य वामे विभाति च | तस्य मन्त्रं प्रवक्ष्यामि ज्ञात्वैव योगवित् प्रभुः || ६५-१२ || महामन्त्रस्य माहात्म्यं कथितुं नैव शक्यते | भावमात्रेण सिद्धिः स्यात् किं पुनर्मोक्षसाधनम् || ६५-१३ || विद्यां कामकलां विचित्रवसनां पद्मासनस्थां शिवां | कामाख्यां सकलान् स्वरान् त्रिजगतां शाकैर्महायोगिनी | नित्यं या परिपाल्यते भगवतीं शाकम्भरीं तां भजे | सा योगाधिप--रक्षका निशि दिशि श्रीकण्ठपद्मे प्रभा || ६५-१४ || अद्यापि प्रियकण्ठपद्मनिकरे सम्भाति शाकम्भरी | विद्यावाक्कमलायुतं स्मितमुखि प्रान्ते च शाकम्भरि | वह्निर्वारुणवायुबीजमनलद्वन्द्वं हि वक्षद्वयं | वह्निप्रेमकलान्वितो मनुवरः साक्षाज्जगत्क्षोभकृत् || ६५-१५ || शाकम्भरीं महामायां पूजयेद् द्वारदेवताम् | तदन्ते सर्वदेवाश्च शक्रादीन् परिपूजयेत् || ६५-१६ || ध्यात्वा च शाकिनीं देवीं शाकम्भर्याश्च दक्षिणे | पूजयेत् परया भक्त्या पूर्वोक्तविधिना प्रभो || ६५-१७ || शाकम्भरीं त्रिनयनां सूर्येन्दुवह्नियोजिताम् | रक्तपद्मस्थितां श्यामां वेदबाहुश्रियोज्ज्वलाम् || ६५-१८ || वराभयकरां खड्गकपालकमलान्विताम् | नानालङ्कारशोभाङ्गी मुक्तकुन्तलभूषिताम् || ६५-१९ || प्रसन्नवदनाम्भोजस्मितहास्यविराजिताम् | साधकाभीष्टदां नित्यां महाविद्यां भजाम्यहम् || ६५-२० || ततो मानसपूजाञ्च ध्यानान्ते तु समाचरेत् | पुनर्ध्यानं ततः कृत्वा चित्तावाहनमाचरेत् || ६५-२१ || पाद्याद्यैः पूजयेन्नित्यं भक्त्या च योगसिद्धये | ततो जपेच्छतं वापि चाष्टोत्तरसहस्रकम् || ६५-२२ || एवं लक्षसमाप्ते तु कण्ठे देवीं प्रपश्यति | होमादीन् क्रमशः कुर्याद् ब्राह्मणानां तु भोजनम् || ६५-२३ || तदन्ते शाकिनीपूजा प्रथमे वापि कारयेत् | तत्प्रकारं शृणु प्राणवल्लभे कामसुन्दरि || ६५-२४ || आदौ जलं शोधयित्वा हस्तौ पादौ च विग्रहम् | क्षालयित्वा द्विराचम्य मूलमन्त्रेण साधकः || ६५-२५ || शिखाबन्धनमाकृत्य चासनं परिशोधयेत् | ततोऽर्घ्यस्थापनं कृत्वा पीठं निर्माय यत्नतः || ६५-२६ || पीठचक्रं शोधयित्वा पीठपूजां समाचरेत् | ततो ध्यानं भूतशुद्धिं न्यासजालं समाचरेत् || ६५-२७ || पुनः प्राणायामयुग्मं कृत्वा देहं दृढं नयेत् | ततो ध्यानं मानसार्चा मुद्रादर्शनमेव च || ६५-२८ || ततः पाद्यं तथार्घ्यं तु चारुशङ्खेन कारयेत् | आचमनीयं ततः स्नानं पुनराचमनं तथा || ६५-२९ || गन्धं पुष्पाणि सर्वाणि बिल्वपत्राणि दापयेत् | निजावरणदेवांश्च पूजयित्वा क्रमेण तु || ६५-३० || धूपदीपौ निवेद्याथ नैवेद्यं पानकं ततः | पुनराचमनं दत्वा बलिद्रव्याणि दापयेत् || ६५-३१ || बलिं दत्वा जपेन्मन्त्रं सहस्रं वा शताष्टकम् | दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् || ६५-३२ || जपं समर्पयेद् विद्वान् गुह्यातिगुह्यमन्त्रकैः | प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम् || ६५-३३ || स्तोत्रञ्च कवचं नित्यं सहस्रनाममङ्गलम् | पठेद् भक्त्या कण्ठपद्मे कायकल्पनकृन्नरः || ६५-३४ || एवं विधिविधानेन पूजयित्वा सदाशिवम् | अस्मिञ्छास्त्रे क्रिया गुप्ता गुप्तनारी प्रपूजनम् || ६५-३५ || अथवा मनसा सर्वं पूजायागजपं चरेत् | यथा देव्यास्तथा शम्भोर्जपयागः समीरितः || ६५-३६ || एवं क्रमेण पूज्याश्च बाह्यस्था मुनयः क्रमात् | पूज्या वर्णकला नाथ तद्बाह्यस्थानं प्रपूजयेत् || ६५-३७ || एवं हि मासकार्येण वरं सिद्धिं समाप्नुयात् || ६५-३८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे शाकिनीसदाशिवार्चनं नाम पञ्चषष्टितमः पटलः || ६५ || अथ षष्टषष्टितमः पटलः | आनन्दभैरवी उवाच कैलासशिखरारूढ पञ्चवक्त्र त्रिलोचन | सर्वभूतप्रपूज्याथ शाकिनीयजनं शृणु || ६६-१ || पूजनं त्रिविधं प्रोक्तं मनः साक्षाद्वचोमयम् | मानसं योगिनां प्रोक्तं साक्षात् पूजागृहं प्रभो || ६६-२ || वाचामयं तामसानां नृपाणां कामिनां प्रभो | एका पूजा च त्रिविधा कथिता परमेश्वर || ६६-३ || सा पूजा सिद्धिदा काले त्रिकाले सर्वकालके | काले सिद्धिर्गृहस्थानां त्रिकाले ब्रह्मचारिणाम् || ६६-४ || योगिनां सर्वकालेऽपि विफला दुष्टचेतसाम् | भावत्रयं हि पूजानां रजः सत्त्वतमोमयम् || ६६-५ || त्रिशक्तिपूजनं नाथ सर्वत्र परिकीतीतम् | ब्रह्माणीं वैष्णवीं तत्र पूजयेत् तां महेश्वरीम् || ६६-६ || त्रिभावेन पूजयित्वा शक्तिं ब्रह्मत्रयेण च | पशुरूपवीररूपदिव्यरूपेण पूजयेत् || ६६-७ || बलिदानं हि सर्वत्र परं मोक्षाय केवलम् | क्रमेण शृणु योगेश सर्वाविद्यादिपूजनम् || ६६-८ || यत्कृत्वा सम्भवेद् योगी परं ब्रह्ममयोऽचिरात् || ६६-९ || स्थानं वीक्ष्य महेन्द्र कोटिसदृशं श्रीलक्षणैर्लक्षितं | देवानां दिवि वीरनाथ रुचिरं पुण्यं पवित्रं सुखम् | रम्यं देवगृहान्वितं परजलैर्व्याप्तं तरुच्छायया | सौगन्धादिषु मान्यशैलपवनं काले वसन्तेऽपि वा || ६६-१० || शून्ये देवगृहे तले वरतरोश्चित्तापीतात्मा यति-- | श्चाम्भोजासनसंस्थितो मृदुकटे व्याघ्राजिने वारणे | आदौ पादयुगं भुवि स्थितमिति व्याशोध्य हस्तौ तथा | नीरं निर्मलगन्धराजमिलितं संक्षाल्य पद्मासनः || ६६-११ || जलशोधनमन्त्रस्तु श्रूयतां परमेश्वर | प्रणवं स्तरणप्रान्ते वज्रोदकमतः परम् || ६६-१२ || शोधयामि ततः स्वाहा जलमन्त्र उदाहृतः | प्रक्षिपेत्तज्जलं भिन्नजले भैरवशङ्कर || ६६-१३ || हस्तौ पादौ तज्जलेन क्षालयेत् काममायया | विग्रहं मूलमन्त्रेण चाचमने द्वे उदाहृते || ६६-१४ || शिखाबन्धनमन्त्रस्तु शृणून्मत्तकुमारक | अप्रकाश्यं महामन्त्रं शिखाबन्धनमासनम् || ६६-१५ || शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल | आसनं शोधयाम्यद्य द्वारपालो भवानिशम् || ६६-१६ || प्रणवाद्यैर्नमोऽन्तेन शोधयेत् परमेश्वर | शोधयेत् त्रिपुरानाथ कालाग्निशिखयोज्ज्वल || ६६-१७ || शिखाग्रं बन्धयाम्यद्य द्वारपालो भवानिशम् | ततोऽर्घ्य स्थापयेद् विद्वान् शङ्खाधारे मनोरमे || ६६-१८ || मूलमन्त्रेण संक्षाल्य ततो मूलेन पूरयेत् | रक्तचन्दनयुक्तेन जलेन चन्दनेन च || ६६-१९ || ततो दूर्वार्घ्यं पुष्पाणि साधारे दापयेत् सुधीः | दशधा मूलमन्त्रं तु तत्र जप्त्वा सुधामयम् || ६६-२० || धेनमुद्रां मत्स्यमुद्रां योनिमुद्रां प्रदर्शयेत् | जपेत् तत्र सारमन्त्रमाच्छाद्य मत्स्यमुद्रया || ६६-२१ || आत्मानं प्रोक्षयेदादौ ततो द्रव्याणि प्रोक्षयेत् | ततः पीठं सुनिर्माय ताम्रे हेमशलाकया || ६६-२२ || नवकोणं विलिख्याथ षट्कोणञ्च तदन्तरे | बाह्ये च मण्डलद्वन्द्वं षोडशार्णं ततो लिखेत् || ६६-२३ || तद्बाह्ये च चतुर्द्वारं भूबिम्बद्वितयं पुनः | एवं पीठं विनिर्माय दलेऽर्णान् विलिखेत्ततः || ६६-२४ || ओं सुरेखायै नमः स्वाहा मन्त्रेण परिलेखयेत् | प्रणवञ्च महारेखाशब्दान्ते शोधयामि युक् || ६६-२५ || वह्निबीजायादिमनून् शोधयेत् पीठचक्रकम् | पीठपूजां ततः कुर्यात् प्रणवादिनमोऽन्तकैः || ६६-२६ || सांपदं पूर्वमुच्चार्य हृदयाय नमस्ततः | षड्दीर्घभाजा बीजेन पूजयेद् वामतः सुधीः || ६६-२७ || पूर्वादीशानपर्यन्तं चतुदीक्षु च मध्यके | पूजयित्वा च तन्मध्ये वर्णोच्चारणपूर्वकैः || ६६-२८ || पीठशक्तिं पूजयित्वा पीठनायकमर्चयेत् | प्रणवादिनमोऽन्तेन सर्वत्र प्रतिपूजयेत् || ६६-२९ || पीठशक्तिं शाकिनीं तु तथा शाकम्भरीं शिवाम् | लक्ष्मीं सरस्वतीं दुर्गां चण्डिकां गणनायिकाम् || ६६-३० || भद्रकालीं विशालाक्षीं श्रद्धां मायां दयां कलाम् | रणचण्डां मधुमतीं प्रसन्नां रत्नमालिनीम् || ६६-३१ || हिरण्यवर्णां कौमारीं वाग्देवीं त्रिजटां महीम् | त्रिशूलिनीं वेदमातां सिद्धाद्यां मधुनायिकाम् || ६६-३२ || मधुपुरेश्वरीं कुब्जां तथा मधुमतीं यजेत् | शाकाख्यां शाकचक्षाञ्च वरहस्तां हसन्मुखीम् || ६६-३३ || कपालिनीं खड्गहस्तां वनमालाञ्च माधवीम् | विचित्राङ्गी ललज्जिह्वां चेकितानां प्रभामयीम् || ६६-३४ || सर्वां सर्वाकषीणीञ्च बहुरूपां सुरां सुधाम् | सर्वमयीं वर्णमयीं मुण्डमालां त्रिकालिकाम् || ६६-३५ || विश्वेश्वरीं विश्वमातां महाविद्यां सनातनीम् | एता विद्याः पूजनीयाः प्रणवादिनमोऽन्तिकाः || ६६-३६ || ततो ध्यानं प्रवक्ष्यामि संक्षेपतः शृणु प्रिये | शाकिनीं श्रीवेदविद्यां स्थूलसूक्ष्मस्वरूपिणीम् || ६६-३७ || पीतवर्णां त्रिनयनां वेदहस्तां हसन्मुखीम् | सदाशिवयुतां गौरीं सर्वालङ्कारमण्डिताम् || ६६-३८ || त्रिलोचनां सूर्यचन्द्रवह्निमण्डलमण्डिताम् | कपालपद्मविमलवराभयकराम्बुजाम् || ६६-३९ || देवदानवगन्धर्वयोगिसिद्धप्रपूजिताम् | षोडशारमहापद्मसंस्थितां वनमालिनीम् || ६६-४० || शाकम्भरीदेवविद्यामाधवीशक्तिशोभिताम् | मुनिदेव महेन्द्रादिब्रह्मविष्णुशिवाश्रयाम् || ६६-४१ || ध्यायेऽहं कण्ठपद्मस्थां सर्वसिद्धिसमृद्धिदाम् | एवं ध्यात्वा कण्ठपद्मे भूतशुद्धिं ततश्चरेत् || ६६-४२ || भूतशुद्धिं प्रवक्ष्यामि येन कण्ठे स्थिरो भवेत् | आकाशगामिनी सिद्धिर्लभ्यते नात्र संशयः || ६६-४३ || संयोज्य जीवं कुलवस्त्रमध्ये | श्री कुण्डलिन्या सह मूलपद्मम् | क्रमेण भित्वा समयोर्ध्वतुण्डो | विशुद्धपद्मे लयमाचरेद् बुधः || ६६-४४ || शाकिनीपार्श्वभागे तु जीवं संस्थापयेत् सुधीः | कुण्डलिन्या लयं कृत्वा वह्निबीजेन भस्मसात् || ६६-४५ || देहं तदा विदधीत वायुबीजेन शोषयेत् | वरुणेनामृतं कृत्वा वेदनारहितो भवेत् || ६६-४६ || धैर्येण भावयेद्देवं शाकिनीशं सदाशिवम् | त्रैलोक्यान्वितमीशानं पञ्चवक्त्रं त्रिलोचनम् || ६६-४७ || पूर्वोक्तध्यानमाकुर्यान्मन्त्राक्षराणि भावयेत् | चिच्छक्तौ परमात्मानं भावयित्वा पुनः पुनः || ६६-४८ || आत्मलग्नं तत्र पदे कृत्वा चिन्तामणिं भजेत् | धूम्राकारं महाकाशं विचिन्त्य तेजसावृतम् || ६६-४९ || लीलामयं देवताया रूपं सम्पूज्य मानसैः | क्रमेण नासिकाद्वारात् सोऽहंबीजेन चालयेत् || ६६-५० || आनीय संमुखे पीठे संस्थाप्य जीवमर्पयेत् | तत्रैव संस्थिरो भूत्वा तत्प्राणान् तत्र स्थापयेत् || ६६-५१ || आं ह्रीं क्रों शब्दमुच्चार्य यं रं लं वं ततः परम् | इत्याद्यैः स्थापयेत् प्राणान् ततोऽर्चविधिमाचरेत् || ६६-५२ || न्यासजालं ततः कुर्यात् शृणु तत्त्वासनादिकम् | सदाशिव ऋषिश्चास्य मस्तके संन्यसेत् सुधीः || ६६-५३ || सदाशिवाय ऋषये नमः प्रणवमाद्यके | मुखे प्रणवमुच्चार्य चानुष्टुप्छन्दसे नमः || ६६-५४ || हृदि प्रणवमुच्चार्य शाकिन्यै तदनन्तरम् | सदाशिवप्रयुक्तायै देवतायै नमस्ततः || ६६-५५ || कराङ्गन्यासौ सङ्कुर्यात् षड्दीर्घस्वरसंयुतैः | सकारैर्देवदेवेश मातृकां बीजसम्पुटाम् || ६६-५६ || मातृकास्थानमालम्ब्य सांबीजेन तु वा चरेत् | व्यापकषोडशवारं प्राणयामयुगं चरे || ६६-५७ || पुनर्ध्यानं मानसार्चा योनिमुद्रां प्रदर्शयेत् | पद्ममुद्रां ततः कृत्वा पाद्याद्यैः परिपूजयेत् || ६६-५८ || आदौ मूलं समुच्चार्य एतत्पाद्यं ततः स्मरेत् | सदाशिवप्रयुक्तायै शाकिन्यै नम इत्यपि || ६६-५९ || एवं क्रमेण पूर्वार्घ्यमाचमनीयं निवेदयेत् | स्नानीयं क्रमतो दद्यात् पुनराचमनीयकम् || ६६-६० || गन्धं पुष्पाणि मूलेन दद्याद् भक्त्या सदाशिवे | बिल्वपत्राणि मूलेन दत्वा वरुणमर्चयेत् || ६६-६१ || धेनुमुद्रां मत्स्यमुद्रां सिंहमुद्रां प्रदर्शयेत् | प्रणवं सां हृदयाय नमश्चाग्नौ प्रपूजयेत् || ६६-६२ || प्रणवञ्च सीं शिरसे स्वाहया नैरृते यजेत् | प्रणवं सूं शिखायै वषड् वायौ यजेत् क्रमात् || ६६-६३ || प्रणवं सैं कवचाय कूर्चमीशे प्रपूजयेत् | मध्ये सौं नेत्रत्रयाय वौषट् प्रणवमाद्यके || ६६-६४ || चतुदीक्षु ततः पश्चात् सः अस्त्राय ततो हि फट् | प्रणवाद्यं पूजयित्वा मस्तके ऋषिमर्चयेत् || ६६-६५ || प्रणवं मूलऋषये सदाशिवाय कृत्ततः | पूर्वादिवामतः पूज्याः परिवारादिदेवताः || ६६-६६ || आनन्दभैरवं पश्चान्महाकालं समर्चयेत् | ( ज्ञानानन्दं सदानन्दं भैरवानन्दमेव च | श्यामानन्दं शिवानन्दं कालानन्दं ततः परम् ) सुधानन्दं हरानन्दं सुरानन्दं समर्चयेत् || ६६-६७ || कुलानन्दं प्रियानन्दं यज्ञानन्दमतः परम् | ध्यानानन्दं परानन्दं योगानन्दं समर्चयेत् || ६६-६८ || क्रोधानन्दं क्रियानन्दं बोधानन्दं तथार्चयेत् | देवानन्दं जयानन्दं विजयानन्दमेव च || ६६-६९ || ब्रह्मानन्दं प्रभानन्दं पूर्णानन्दं समर्चयेत् | जगदानन्दरूपं तु ममाज्ञागुरुचक्रगम् || ६६-७० || पूजयित्वा देहशक्तिमेतेषां पार्श्वके यजेत् | कल्याणीं कामकन्यां त्रिपुरां षोडशीं तथा || ६६-७१ || विद्याधरीं नीलवर्णां श्यामां सिंहासनस्थिताम् | चण्डिकामुपकन्याञ्च चन्द्रचूडसरस्वतीम् || ६६-७२ || कपिलां मेघदूताञ्च धूम्रवर्णां जटाधराम् | त्रिलोचनां खेचरीञ्च गगनां कामरूपिणीम् || ६६-७३ || पीनकुचां व्याघ्रमुखीं मधुपानां मदोन्मदाम् | रम्यां स्नेहकलां धर्मां तथा मधुमतीं हराम् || ६६-७४ || हारमालां वनमालां चकोरां कुलकामिनीम् | पूजितां गुरुसर्वाणीं सर्वतत्त्वस्वरूपिणीम् || ६६-७५ || पूजयेत् सर्वतः शक्त्या ईशानान्तं क्रमेण तु | तन्मध्ये केशवं ध्यात्वा दलस्वरमुपार्चयेत् || ६६-७६ || अकारादिषोडशार्णान् प्रणवादिनमोऽन्तिकान् | नीलवर्णान् सरक्ताढ्यान् कुङ्कुमालक्तवेष्टितान् || ६६-७७ || विद्युत्कोटिसमाभासपद्मरागसमोज्ज्वलान् | मनोरथपूर्णकरान् जगदानन्दवर्धकान् || ६६-७८ || सुप्रियाकण्ठताल्वादिपरमात्मप्रदर्शकान् | तेषां नाम्ना पूजयित्वा यथा मार्तण्डमण्डले || ६६-७९ || तथाऽत्र ते पूजिताः स्युः स्वस्वनामप्रचोदिताः | शृणु नाथ महाकाय मदोन्मत्त दिगम्बर || ६६-८० || स्थिरचेताः सदा भूत्वा पूजय त्वं हि शाकिनीम् | तत्र पद्मकणीकायां शवरूपं सदाशिवम् || ६६-८१ || ध्यात्वा तद्गतमध्ये तु पीठचक्रं प्रपूजयेत् | मूलाधारे कामरूपं कामचक्रं त्रिलक्षणम् || ६६-८२ || पीठाय नम उच्चार्य चाद्यतारकमुच्चरेत् | हृदि जालन्धरं पीठं सिद्धपीठं त्रिचक्रकम् || ६६-८३ || ललाटे पूर्णगिर्याख्यं हिङ्गुलादं सुपीठकम् | उड्डियानं तदूर्ध्वे तु मेघकुञ्जं स्वपीठकम् || ६६-८४ || महापीठं भ्रुवोर्मध्ये वाराणसीञ्च लिङ्गक | लोचनत्रयमध्ये तु ज्वलन्तीसिद्धपीठकम् || ६६-८५ || ज्वालामुखी त्रिवेणी च पीठत्रयमुदाहृतम् | त्रिलोचने त्रिपीठं मे अवश्यं परिपूजयेत् || ६६-८६ || मुखाम्बुजे पूजयेद् वै मायारतिं सुभद्रिकाम् | कम्पिल्लनगरं वंशनगरं कामभञ्जनम् || ६६-८७ || हिरण्यनगरं तत्र एकदन्तारसायनाम् | कपालपीठं ताल्वाख्यं फणिपीठं मुखे यजेत् || ६६-८८ || कण्ठे मधुपुरीपीठं सुधापीठं तदन्तिके | आह्लादपीठं श्रीपीठं शून्यपीठं प्रियाञ्जलम् || ६६-८९ || पुरञ्जनाख्यं भद्राख्यं कण्ठे अम्भपुरी मम | नाभौ महापीठराजमयोध्याभवपीठकम् || ६६-९० || लक्ष्मीपीठं ब्रह्मपीठं लाङ्गलीपीठमेव च | मानपीठं ज्ञानपीठं रुद्रपीठं तदन्तिके || ६६-९१ || लाकिनी कुलपापीठं वलाकापीठमेव च | रौद्रप्रभामहापीठं म्लेच्छवासिसुपीठकम् || ६६-९२ || मक्कासिद्धकरीपीठं निरञ्जनस्वपीठकम् | ब्राह्मीपीठं दत्तपीठमभयापीठमेव च || ६६-९३ || रंगिणीपीठमेवं हि फेत्कारीपीठमर्चयेत् | गर्गरीसिद्धपीठं च चन्द्रशेखरशैलकम् || ६६-९४ || हरिद्वाराख्यपीठं तु समुद्रपीठमर्चयेत् | कट्यां सङ्केतपीठं च काञ्चीपीठं त्रिघर्घरम् || ६६-९५ || शूलिनीपीठमभ्यर्च्य लङ्कापीठं समर्चयेत् | वारुणीपीठमभ्यर्च्य वज्रपीठं समर्चयेत् || ६६-९६ || सिद्धकटाहपीठञ्च महासंहारपीठकम् | षट्पीठं द्राविडापीठं विष्णुपीठं रसान्वितम् || ६६-९७ || दलपीठं तथा राधापीठं पञ्चनलाख्यकम् | कुण्डलीचक्रपीठं तु कामपीठं समर्चयेत् || ६६-९८ || महावायवाकाशपीठं त्रिकालचक्रपीठकम् | ब्रह्मपीठं धरापीठं शत्रुपीठं समर्चयेत् || ६६-९९ || कुञ्जराख्यं महापीठं कालधर्माख्यपीठकम् | तद्वामे डाकिनीपीठं गर्भपीठं तदन्तिके || ६६-१०० || मयूरपीठमभ्यर्च्य गारुडीपीठमर्चयेत् | प्रणवं पूर्वमुच्चार्य चात्र पीठस्थितान् स्वरान् || ६६-१०१ || पूजयामि पद्मपुष्पैः प्रसन्नाः प्रभवन्तु ते | पूजयित्वा पीठलोकं शिवलोकं समर्चयेत् || ६६-१०२ || क्षेत्रपाललोकमेवं धूम्रलोकं त्रिलोककम् | पूजयेत् सागरान् सप्त भुवनानि चतुर्दश || ६६-१०३ || ताराग्रहगणक्रान्तलोकपालयुतानि च | पूजयित्वा तद्बाह्ये च शक्तिविद्याः प्रपूजयेत् || ६६-१०४ || डाकिनी राकिणी पूज्या लाकिनी काकिनी तथा | शाकिनी हाकिनी पश्चात् प्रभा नीला च बोधिनी || ६६-१०५ || उन्मनी भाविनी चिन्ता प्रियाङ्गी मानसेश्वरी | उल्कामुखी क्रोधमुखी विप्रचित्ता सुभद्रिका || ६६-१०६ || नागिनी नागमाला च पृथिवीतीर्थवासिनी | अकलङ्का जाह्नवी च स्वर्गगङ्गा मनोन्मनी || ६६-१०७ || सं सत्वस्था रं रजःस्था तं तमः स्था प्रपूजयेत् | सर्वां देवीं पूजयेद् वै प्रणवादिनमोऽन्तिकाम् || ६६-१०८ || धूपदीपौ स्वमूलेन दद्यात् साधकयोगिराट् | नैवेद्यं शोधयित्वा च दद्यात् पानार्थकं प्रभो || ६६-१०९ || पुनराचमनं दत्वा विशेषबलिमर्पयेत् | पूर्वोक्तस्तु मामानेन पञ्चतत्त्वक्रियादिभिः || ६६-११० || अनेन मनुना दद्यात् बलित्रयमनुत्तमम् | प्रणवं कालमायेऽन्ते सर्वपीठनिवासिनि || ६६-१११ || तदन्ते कालिकाबीजं स्वबीजं तदनन्तरम् | आकाशवाहिनीत्यन्ते बलिं गृह्ण ततः परम् || ६६-११२ || पञ्चतत्त्वादिमिलितं कपाले तदनन्तरम् | परिगृह्णयुगं पश्चात् शब्दबीजं ततो द्विजः || ६६-११३ || अनेन मनुना दद्याद् बलित्रयमनुत्तमम् | सर्वत्र मानसैर्योगी ददाति पूजनं बलिम् || ६६-११४ || प्राणायामं त्रिधा कृत्वा जपेन्मन्त्रं यथाविधि | सहस्रं वा शतं वापि चाष्टोत्तरसमन्वितम् || ६६-११५ || दिवसे यज्जपं कुर्याद्रात्रौ तज्जाप्यमाश्रयेत् | जपं समर्पयेद् देव्या वामहस्ते तु मन्त्रकैः || ६६-११६ || गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देवि त्वत्प्रसादात् सुरेश्वरि || ६६-११७ || प्राणायामं त्रिषट्कृत्वा वन्दनं च प्रदक्षिणम् | संवन्दे वरदे देवि त्रैलोक्यकुलपावनि || ६६-११८ || सर्वसिद्धिप्रदे देवि शाकिनी त्वां नमाम्यहम् | वेदविद्याप्रकाशे त्वं नानाविद्याविनोदिनि || ६६-११९ || भवानि सिद्धिदे देवि वरदा भव सर्वदा | सर्वदानवहन्त्री त्वं मम शत्रून् विनाशय || ६६-१२० || अकालमृत्युहरणं कुलकौमारिशाकिनि | सदाशिवयुते नित्ये सदाशिवविहारिणि || ६६-१२१ || अमरत्वं सदा देहि भक्तिं मुक्तिं प्रयच्छ मे | शाकिनी प्राणदे देवि देवानां प्राणरक्षिणि || ६६-१२२ || शाकम्भरि नमस्तेऽस्तु मम देहं समाश्रय | वाञ्छाकल्पतरोर्मूले स्थायिनि प्रेमदायिनि || ६६-१२३ || सर्वलोकाचीते सिद्धिकण्ठपद्मे स्थिरा भव || ६६-१२४ || कण्ठाम्भोरुहमण्डले सुविमले वाञ्छाफले ज्वालिनी | कामाख्ये प्रणमामि शाकिनि पदं मातही शाकम्भरि | देवानां जगतां हिताय विनये सम्यग्वरश्रीप्रदे | स्थित्यादिक्रमसंस्थिता भव महाकाशप्रभाचञ्चले || ६६-१२५ || इति प्रणम्य भावेन भुक्तिमुक्ती लभेद् ध्रुवम् | पूजाफलमवाप्नोति प्रदक्षिणरतो नरः || ६६-१२६ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे शाकिनीयजनं नाम षष्ठषष्टितमः पटलः || ६६ || अथ सप्तषष्टितमः पटलः श्रीआनन्दभैरवी उवाच कुरु नाथ वन्दनं भो पूजनं कवचं पठ | वर्णाध्यानं कण्ठपद्मे स्थिरो भव जगत्पते || ६७-१ || परमा शाकिनी विद्या महामोहनिवारिणी | योगिनीकोटिभिः सार्धं राजते सूर्यवत् सदा || ६७-२ || वाराणसीपुरे स्थित्वा कण्ठपद्मस्थितां भज | स्तोत्रेणानेन विधिना भक्तिं कुरु महाशिवे || ६७-३ || अखण्डे नीलपङ्केरुहविमलकरे स्थापितां षोडशारे | हेमाभां विद्युताभां सुकणकवलयां चन्द्रकोटिप्रभावाम् | श्रीकन्यां शाकिनीशां त्रिपुरहरकराम्भोजपूजाविनोदीं | कामाख्यां रुद्रमायां वधुनयनयुतां शक्रकान्तप्रकाशाम् || ६७-४ || सिन्धुस्थां भावयामि प्रमथगणवधूप्रोज्ज्वलां वेदयुक्तां | योगेन्द्रानन्दकर्त्रीं कमलवलयां नीलजीमूतनेत्राम् | ओङ्कारां कारणाख्यां मधुगृहनिकरामष्टगेहप्रकाशा-- | मानन्दज्ञाननित्यां द्विविनदलकलां कण्ठवैकुण्ठशोभाम् || ६७-५ || धर्मार्थज्ञानदात्रीं त्रिभुवनभुविकाह्लादहेतोः प्रकाश्यां | विन्ध्यस्थां पीठकन्यां त्रिकमलनयनां वेदहस्तां प्रसन्नाम् | स्मेरास्यां चन्द्रवक्त्रां हरिहरविधिभिर्ध्यानगम्यां कदाचि-- | च्छम्भुस्थां चारुरूपां भवभयहरणीं तारिणीं भावयामि || ६७-६ || सूक्ष्मां स्थूलप्रभाढ्यां चरणतलविभाकोटिबन्धूककान्तिं | कान्तानां कामकान्तां जयरतिभवतीं शाकिनीं शोकहन्त्रीम् | शब्दान्तःप्रान्तरस्थां स्थितिलयगगनां पद्मरागस्रजाढ्यां | कान्त्या विश्वं ज्वलन्तीं मदनवधुरमाबीजमालां स्मरामि || ६७-७ || व्याघ्रस्थां व्याघ्रवस्त्रां हरिणनयनकैः केवलानन्दरूपां | वामां शक्तिं प्रवालां त्रिकुलजलकलां कालराजेश्वरीं याम् | आनन्दाब्धौ प्रभान्तीं प्रभुगणभयहां मातृकाबीजभूषां | घोरामट्टाट्टहास्यां दशनसुहसनां चारुनेत्रां भजामि || ६७-८ || बालादित्यायुताभां चरमपदमदां मद्यमाधुर्यभक्षां | क्षोणीसिंहासनस्थां मणिमयजपमालाभिर्वरानन्दहस्ताम् | मातल्लीलाकलापां तरतनुविमलां चामले कण्ठपमे | नित्यज्ञानप्रकाशां भजति मम सदानन्दचित्तावसन्नाम् || ६७-९ || हालापानोद्यताङ्गीं परमसुखमयीं वेदसन्तानकर्त्रीं | योगानन्दादिकर्त्रीं तरुणघनघटाघोररूपां करालाम् | आकाशाम्भोजमध्येऽविकलकरयुषा व्यापकाङ्गप्रकाशां | सा माता श्रीं वहन्तीं परिसमयकलौ मोक्षभक्तिं भजे त्वाम् || ६७-१० || सा विद्याधर्मचिन्तामणिगुणजनिता योजिता जातु भीतौ | शब्दब्रह्मैकहेतुस्थलनिलयमहाज्ञानसाक्षिप्रतीता | त्वं माता वेदमाता हर हर कलुषं बालिशं तारयन्ती | जीवात्मानं द्विरक्षक्षयमरणभयभ्रान्तिमाभञ्जयन्ती || ६७-११ || ज्वाला मालाविलोला कलयति कलुषं शाकिनी सैव माता | यातायातप्रभातोदयदिवसनिशाभ्रान्तिमोहारिनाशा | दासानामामवासा वसति शशिगृहे कातीकेशासुवंशा | संसारेऽशादिहंसा चल चल चपलं त्वं कलाषोडशारे || ६७-१२ || बीजात्मा यज्ञकुण्डे रचयति चरणाच्छन्दसां गद्यपद्यैः | पाताले भूकराले कुलयुगदलके निर्गता वेदशक्तिः | पश्यन्ती मध्यमाद्या नयनवचनगा वैखरी वाक्स्वरूपा | कण्ठे हृत्पद्ममूले कथयति कविता स्तम्भितास्त्वां प्रयामि || ६७-१३ || परा सा पर्वा सा रहितमतहासा प्रविश मे | घनश्यामे वामे द्विकमलललाटेऽतिशिखया | वहन्ती सिन्दूरं त्रिजपपरयानामपरया मुखाम्भोजे वश्या भवभवयुगं षोडशदले || ६७-१४ || रमा लज्जा माया वधुमदनकूर्च्चास्त्रसहिते | हिते मातः शाकम्भरि धरणि बाला कमलया | निशार्धे शत्र्वङ्गं हन हन करे संहर रिपुं | त्रितारी षट्कूटा मदनवधुजाह्निजाया हर अघम् || ६७-१५ || योगेन्द्रानन्दमुद्रां तरतनुतपनां तापिनीं तप्तदेहां | मुग्धानां मोहमुग्धां मुकुटशशिमणिच्छाययाच्छन्नवेशाम् | कामाख्यां ब्रह्मबीजध्वनिमदनकुलाद्यादिबीजप्रतिष्ठां | स्वाहान्तां भावयामि क्षितिसुरपतिहंसाख्यब्रह्मास्त्रविद्याम् || ६७-१६ || सायाह्ने कामलक्ष्मीः पवनविधुयुता दीर्घनेत्रा त्रिनेत्रा | सावित्री मध्यकाले न चलति चलति श्रद्धया मस्तकोर्ध्वे | कोट्यर्काभासमाना न नमति कुटिलं तेजसा व्याकुलालं | कालोल्काकोटिकूटं रमयति धवलास्यारुणाङ्गी प्रभाते || ६७-१७ || गायत्री वर्णमात्रामितवनवनिता मानिता भालकूपे | हालाकालानलाङ्गी तिमिरहरपदालीढपादारविन्दा | त्वं विद्या वाग्भवाद्या प्रणवतनुमयी देवलक्ष्मीः प्रसादा | नादाद्याचार्धचन्द्रोज्ज्वलयुगलं षोडशारे ममारे || ६७-१८ || जाया माया विमाया हयमुखि विमले केवले तारहारे | हारार्कचित्रिताङ्गि स्ववधुयुगयुगे तारयद्वन्द्वचन्द्रे | स्वाहा मेधा स्वधा त्वं श्रुतिनुतिसुनतिग्रन्थिवाग्वादिनी त्वं | मामेकं रक्षयुग्मं धरणिधरसुखं सञ्चयाग्निप्रियान्ता || ६७-१९ || एतत् स्तववरं पठेद्यदि सदा ध्यात्वा नरेन्द्रः सुखी | धन्यः पुण्यमुपैति देवविलयं पीठादिसन्दर्शनम् | योगानामपि सिद्धिभाक्प्रियतरं ज्ञानं धनं लभ्यते | राजानं वशयन्ति ते च सहसा साक्षात् कटाक्षै रमाम् || ६७-२० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीस्तोत्रविन्यासो नाम सप्तषष्टितमः पटलः || ६७ || अथाष्टषष्टितमः पटलः श्रीआनन्दभैरव उवाच त्रैलोक्यरक्षणार्थाय पूजयामि तवानघे | संसारविलयार्थाय तव श्रीचरणाम्बुजम् || ६८-१ || महादेवि जगद्धात्रि परमानन्दवधीनि | भवानि भैरवि प्राणे वर्णध्यानं वदामलम् || ६८-२ || श्रीआनन्दभैरवी उवाच अथ कामेश गौराङ्ग धर्माधर्मप्रदर्शक | इदानीं शृणु सर्वज्ञ महाज्ञाननिरूपणम् || ६८-३ || वर्णध्यानं तव स्नेहात् कथये मम रूपकम् | अकस्मात् सिद्धिदं ध्यानं ज्ञानमात्रेण सिद्ध्यति || ६८-४ || अकारं ध्यायेऽहं हरिहरचतुर्वक्त्रविबुधैः | सदा ध्येयं शुक्लं विधुमुखिवधुश्रीश्रुतिभुजम् | विधेयं कौमारं त्रिनयनमलङ्कारजडितं | कपालाब्जास्त्राहिमहितशितांशुप्रभकरम् || ६८-५ || आं बीजाढ्यां प्रभासां कनकघटमधुप्रीतिमानां विमानां | शुक्लच्छायां वहन्तीं श्रुतिभुजसहितां पद्मनालाख्यमालाम् | खड्गं तां धारयन्तीं मुकुटमणिरुचिं क्रोधमाकाशदेशं | नानालङ्कारदीप्तिं हिमकरकपिलावाहनीं भावयामि || ६८-६ || इं मायां भुवनस्थितां वधुयुतां श्रीषोडशीसंयुतां | मायालक्षणलक्षितां त्रिजगतां विद्याभयश्रीपदाम् | हस्ताम्भोजचतुष्टयां त्रिनयनां शूलासिमालाम्बुजां | नानारत्नजनूपुरां सुरनतां ध्याये विशुद्धाम्बुजे || ६८-७ || कोट्यर्काभासमानां कनकमयमहालङ्कृतां ध्यानगम्यां | ईकाराकारमूतीं त्रिनयनकमलां वेदहास्योज्ज्वलाङ्गीम् | शङ्खाम्भोजासिघण्टासहिततनुवरां देवसिंहासनस्थां | वेदस्थां वेदसिद्धां रुधिरशितयुतां बाललीलां भजामि || ६८-८ || उकारं ब्रह्माणं त्रिमुनिसहितं काञ्चनरसं | हयं हंसारूढं इवरसनयुतं मन्दिराजालवाद्यम् | विशालं वेदास्यं शतरविसुवर्णं त्रिनयनं | जटाकुण्डाह्लादं तरुणपुरुषं नौमि सततम् || ६८-९ || उं****कारं सर्वरूपं विधुशतजटितं काञ्चनाभं त्रिसर्गं | मन्दारैर्मानसाप्तं प्रचयघनरसं शुद्धसूत्राक्षमालम् | हस्तौ द्वौ संवहन्तं फणिगणललनामालयानन्दरूपं | सिद्धानामिष्टसिद्धिं कुलकमलघनं भावये षोडशारे || ६८-१० || ऋंकारं सप्तरेखासहितविमलया मालया शोभिताङ्गं | मायाविस्थं प्रसन्नाननकमलवरं वारणाकारदेहम् | पुण्यं यज्ञादिसिद्धं मदनशशिकलामादनं षड्भुजाढ्यं | घण्टाचार्वस्त्रखड्गामलकमलकपालाङ्गमेकं भजामि || ६८-११ || ॠं बीजं चातिथीशं शितकमलमुखं शुक्लवर्णं त्रिनेत्रं | मायालक्ष्मीस्वरान्तं तरुणरविकरं षड्भुजं नीलवस्त्रम् | नानालङ्कारशोभातरमुकुटतटं चन्द्रबिम्बस्वभावं | खड्गाब्जज्ञानमुद्रामधुधर--सुगदा पाशपाणिं भजामि || ६८-१२ || ऌंकारं स्थाणुकेशं त्रिनयनवदनाम्भोजतेजःप्रकाशं | पूर्णात्मानं परेशं त्रिगुणघनमयं नीलवर्णं त्रिभावम् | षड्बाहुं पिङ्गकेशामलगलितशिरोमण्डलं मालयाढ्यं | वेदासिज्ञानमालाम्बुजवरगदया शोभितं भावयामि || ६८-१३ || ऌंकारं शितवसनयुक्शुक्लकिरणं | सुधामग्नं ध्याये हरिणनयनं वेदभुजगम् | भुजङ्गाम्भोजासिप्रियवरदभावं शुभकरं | करालं भूपालं सुरमुनिगणैः सेव्यमनिशम् || ६८-१४ || एंबीजं कालवर्णं शतयुवतिगतं वेष्टितं देवमुख्यैः | सूर्याभं बिन्दुसर्गं भुजयुगसहितं पद्मभालं करालम् | सालङ्कारं किरीटं त्रिनयनममरं नूपुरेन्दुप्रकाशं | झिण्टीशं शम्बरीशं प्रमथसुतगणैर्व्यापितं भावयामि || ६८-१५ || शुक्लाभं वा भवार्णं त्रिवलितनयनं शुद्धबन्धूकवस्त्रं | रत्नालङ्कारहारं त्रिभुवनवचनं षड्भुजं बीजसारम् | ध्यायेऽहं षोडशारे त्रिमदनरमणे भावितं पञ्चरश्ंमि | योगाद्यं भौतिकेशं गगनपथकरं वह्निजायास्वरान्तम् || ६८-१६ || भजे प्रणवलक्षणं शितकरं चलत्कुण्डलं | चतुर्भुजविभाकरं कमलशङ्खशूलाभयम् | अलङ्कृतकलेवरं विमलपीतवस्त्रं मुखं | शुक्लांशुशतवेष्टितं मुकुटनूपुराढ्यं परम् || ६८-१७ || ध्याये चानुग्रहेशं प्रणवधवल औङ्काररूपं सुसूक्ष्मं | ब्रह्माद्वारप्रभेदं श्रुतिभुजललितं खड्गबाणास्त्रमालम् | जन्तूनां कोटिकान्तिं शतरविमुकुटं क्रोधराजं महेशं | रत्नालङ्कारशोभं चरलतलरिभामण्डलं सारुणाभम् || ६८-१८ || अङ्कारं बिन्दुभावं ललितदशभुजं व्याघ्रचर्माम्बराढ्यं | पञ्चास्यं तं त्रिनेत्रं स्वकणकवलयं चन्द्रकोटिप्रकाशम् | शूलास्त्रासीषु चक्रप्रतनफलगदाखेटकाम्भोजमालं | ध्याये चाक्रूरदेवं परशुखरपदं सारदं स्थूलसूक्ष्मम् || ६८-१९ || अःकारं श्रीविसर्गं कमलदलगतं दीनदातारमेकं | शुक्लाभं कोटिसूर्यं शतभुजललितं वेदविद्यास्त्रखड्गम् | सर्वांङ्गारक्तधारं त्रिनयनकमलानन्दितं मन्दहास्यं | पञ्चाशद्वक्त्रशोभाभवतनुकिरणं कारणं भावयामि || ६८-२० || एवं ध्यात्वा षोडशारे स्थिरचेताः प्रपूजयेत् | वर्णरूपं शक्तियुतं लोकनाथं सदाशिवम् || ६८-२१ || तदा प्रसन्ना बुद्धिः स्यादमरो जायतेऽचिरात् | खेचरत्वं वाक्यसिद्धिं जलस्तम्भादिसिद्धिभाक् || ६८-२२ || पूर्वादिवामतो ध्यायेत् कामनाभयवजीतः | गुप्तस्थाने ध्यानकार्यं यत्र विद्याः स्फुरन्ति ताः || ६८-२३ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे विशुद्धवर्णध्यानं नाम अष्टषष्टितमः पटलः || ६८ || अथैकोनसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच कैलासशिखरारूढ पञ्चवक्त्र त्रिलोचन | अभेद्यभेदकप्राणवल्लभ श्रीसदाशिव || ६९-१ || भवप्राणप्ररक्षाय कालकूटहराय च | प्रत्यङ्गिरापादुकाय दान्तं शब्दमयं प्रियम् || ६९-२ || इच्छामि रक्षणार्थाय भक्तानां योगिनां सताम् | अवश्यं कथयाम्यत्र सर्वमङ्गललक्षणम् || ६९-३ || अष्टोत्तरसहस्राख्यं सदाशिवसमन्वितम् | महाप्रभावजननं दमनं दुष्टचेतसाम् || ६९-४ || सर्वरक्षाकरं लोके कण्ठपद्मप्रसिद्धये | अकालमृत्युहरणं सर्वव्याधिनिवारणम् || ६९-५ || योगसिद्धिकरं साक्षाद् अमृतानन्दकारकम् | विषज्वालादिहरणं मन्त्रसिद्धिकरं परम् || ६९-६ || नाम्नां स्मरणमात्रेण योगिनां वल्लभो भवेत् | सदाशिवयुतां देवीं सम्पूज्य संस्मरेद् यदि || ६९-७ || मासान्ते सिद्धिमाप्नोति खेचरीमेलनं भवेत् | आकाशगामिनीसिद्धिः पठित्वा लभ्यते ध्रुवम् || ६९-८ || धनं रत्नं क्रियासिद्धिं विभूतिसिद्धिमालभेत् | पठनाद् धारणाद्योगी महादेवः सदाशिवः || ६९-९ || विष्णुश्चक्रधरः साक्षाद् ब्रह्मा नित्यं तपोधनः | योगिनः सर्वदेवाश्च मुनयश्चापि योगिनः || ६९-१० || सिद्धाः सर्वे सञ्चरन्ति धृत्वा च पठनाद् यतः | ये ये पठन्ति नित्यं तु ते सिद्धा विष्णुसम्भवाः || ६९-११ || किमन्यत् कथनेनापि भुक्तिं मुक्ंति क्षणाल्लभेत् || ६९-१२ || अस्य श्रीभुवनमङ्गलमहास्तोत्राष्टोत्तरसहस्रनाम्नः सदाशिवऋषिर्गायत्रीच्छन्दः सदाशिवशाकिनीदेवता पुरुषार्थाष्टसिद्धिसमययोगसमृद्धये विनियोगः | ओं शाकिनी पीतवस्त्रा सदाशिव उमापतिः शाकम्भरी महादेवी भवानी भुवनप्रियः || ६९-१३ || योगिनी योगधर्मात्मा योगात्मा श्रीसदाशिवः | युगाद्या युगधर्मा च योगविद्या सुयोगिराट् || ६९-१४ || योगिनी योगजेताख्यः सुयोगा योगशङ्करः | योगप्रिया योगविद्वान् योगदा योगषड्भुवि || ६९-१५ || त्रियोगा जगदीशात्मा जापिका जपसिद्धिदः | यत्नी यत्नप्रियानन्दो विधिज्ञा वेदसारवित् || ६९-१६ || सुप्रतिष्ठा शुभकरो मदिरा मदनप्रियः | मधुविद्या माधवीशः क्षितिः क्षोभविनाशनः || ६९-१७ || वीतिज्ञा मन्मथघ्नश्च चमरी चारुलोचनः | एकान्तरा कल्पतरुः क्षमाबुद्धो रमासवः || ६९-१८ || वसुन्धरा वामदेवः श्रीविद्या मन्दरस्थितः | अकलङ्का निरातङ्क उतङ्का शङ्कराश्रयः || ६९-१९ || निराकारा निवीकल्पो रसदा रसिकाश्रयः | रामा रामननाथश्च लक्ष्मी नीलेषुलोचनः || ६९-२० || विद्याधरी धरानन्दः कनका काञ्चनाङ्गधृक् | शुभा शुभकरोन्मत्तः प्रचण्डा चण्डविक्रमः || ६९-२१ || सुशीला देवजनकः काकिनी कमलाननः | कज्जलाभा कृष्णदेहः शूलिनी खड्गचर्मधृक् || ६९-२२ || गतिग्राह्यः प्रभागौरः क्षमा क्षुब्धः शिवा शिवः | जवा यतिः परा हरिर्हराहरोऽक्षराक्षरः || ६९-२३ || सनातनी सनातनः श्मशानवासिनीपतिः | जयाक्षयो धराचरः समागतिः प्रमापतिः || ६९-२४ || कुलाकुलो मलाननो वलीवला मलामलः | प्रभाधरः परापरः सरासरः कराकरः || ६९-२५ || मयामयः पयापयः पलापलो दयादयः | भयाभयो जयाजयो गयागयः फलान्वयः || ६९-२६ || समागमो धमाधमो रमारमो वमावमः | वराङ्गणा धराधरः प्रभाकरो भ्रमाभ्रमः || ६९-२७ || सती सुखी सुलक्षणा कृपाकरो दयानिधिः | धरापतिः प्रियापतिवीरागिणी मनोन्मनः || ६९-२८ || प्रधाविनी सदाचलः प्रचञ्चलातिचञ्चलः | कटुप्रिया महाकटुः पटुप्रिया महापटुः || ६९-२९ || धनावली गणागणी खराखरः फणिः क्षणः | प्रियान्विता शिरोमणिस्तु शाकिनी सदाशिवः || ६९-३० || रुणारुणो घनाघनो हयी हयो लयी लयः | सुदन्तरा सुदागमः खलापहा महाशयः || ६९-३१ || चलत्कुचा जवावृतो घनान्तरा स्वरान्तकः | प्रचण्डघर्घरध्वनिः प्रिया प्रतापवह्निगः || ६९-३२ || प्रशान्तिरुन्दुरुस्थिता महेश्वरी महेश्वरः | महाशिवाविनी घनी रणेश्वरी रणेश्वरः || ६९-३३ || प्रतापिनी प्रतापनः प्रमाणिका प्रमाणवित् | विशुद्धवासिनी मुनिवीशुद्धविन्मधूत्तमा || ६९-३४ || तिलोत्तमा महोत्तमः सदामया दयामयः | विकारतारिणी तरुः सुरासुरोऽमरागुरुः || ६९-३५ || प्रकाशिका प्रकाशकः प्रचण्डिका विभाण्डकः | त्रिशूलिनी गदाधरः प्रवालिका महाबलः || ६९-३६ || क्रियावती जरापतिः प्रभाम्बरा दिगम्बरः | कुलाम्बरा मृगाम्बरा निरन्तरा जरान्तरः || ६९-३७ || श्मशाननिलया शम्भुर्भवानी भीमलोचनः | कृतान्तहारिणीकान्तः कुपिता कामनाशनः || ६९-३८ || चतुर्भुजा पद्मनेत्रो दशहस्ता महागुरुः | दशानना दशग्रीवः क्षिप्ताक्षी क्षेपनप्रियः || ६९-३९ || वाराणसी पीठवासी काशी विश्वगुरुप्रियः | कपालिनी महाकालः कालिका कलिपावनः || ६९-४० || रन्ध्रवर्त्मस्थिता वाग्मी रती रामगुरुप्रभुः | सुलक्ष्मीः प्रान्तरस्थश्च योगिकन्या कृतान्तकः || ६९-४१ || सुरान्तका पुण्यदाता तारिणी तरुणप्रियः | महाभयतरा तारास्तारिका तारकप्रभुः || ६९-४२ || तारकब्रह्मजननी महादृप्तः भवाग्रजः | लिङ्गगम्या लिङ्गरूपी चण्डिका वृषवाहनः || ६९-४३ || रुद्राणी रुद्रदेवश्च कामजा काममन्थनः | विजातीया जातितातो विधात्री धातृपोषकः || ६९-४४ || निराकारा महाकाशः सुप्रविद्या विभावसुः | वासुकी पतितत्राता त्रिवेणी तत्त्वदर्शकः || ६९-४५ || पताका पद्मवासी च त्रिवार्ता कीतीवर्धनः | धरणी धारणाव्याप्तो विमलानन्दवर्धनः || ६९-४६ || विप्रचित्ता कुण्डकारी विरजा कालकम्पनः | सूक्ष्माधारा अतिज्ञानी मन्त्रसिद्धिः प्रमाणगः || ६९-४७ || वाच्या वारणतुण्डश्च कमला कृष्णसेवकः | दुन्दुभिस्था वाद्यभाण्डो नीलाङ्गी वारणाश्रयः || ६९-४८ || वसन्ताद्या शीतरश्मिः प्रमाद्या शक्तिवल्लभः | खड्गना चक्रकुन्ताढ्यः शिशिराल्पधनप्रियः || ६९-४९ || दुर्वाच्या मन्त्रनिलयः खण्डकाली कुलाश्रयः | वानरी हस्तिहाराद्यः प्रणया लिङ्गपूजकः || ६९-५० || मानुषी मनुरूपश्च नीलवर्णा विधुप्रभः | अधश्चन्द्रधरा कालः कमला दीर्घकेशधृक् || ६९-५१ || दीर्घकेशी विश्वकेशी त्रिवर्गा खण्डनिर्णयः | गृहिणी ग्रहहर्ता च ग्रहपीडा ग्रहक्षयः || ६९-५२ || पुष्पगन्धा वारिचरः क्रोधादेवी दिवाकरः | अञ्जना क्रूरहर्ता च केवला कातरप्रियः || ६९-५३ || पद्यामयी पापहर्ता विद्याद्या शैलमर्दकः | कृष्णजिह्वा रक्तमुखो भुवनेशी परात्परः || ६९-५४ || वदरी मूलसम्पर्कः क्षेत्रपाला बलानलः | पितृभूमिस्थिताचार्यो विषया बादरायणिः || ६९-५५ || पुरोगमा पुरोगामी वीरगा रिपुनाशकः | महामाया महान्मायो वरदः कामदान्तकः || ६९-५६ || पशुलक्ष्मीः पशुपतिः पञ्चशक्तिः क्षपान्तकः | व्यापिका विजयाच्छन्नो विजातीया वराननः || ६९-५७ || कटुमूतीः शाकमूतीस्त्रिपुरा पद्मगर्भजः | अजाब्या जारकः प्रक्ष्या वातुलः क्षेत्रबान्धवा || ६९-५८ || अनन्तानन्तरूपस्थो लावण्यस्था प्रसञ्चयः | योगज्ञो ज्ञानचक्रेशो बभ्रमा भ्रमणस्थितः || ६९-५९ || शिशुपाला भूतनाशो भूतकृत्या कुटुम्बपः | तृप्ताश्वत्थो वरारोहा वटुकः प्रोटिकावशः || ६९-६० || श्रद्धा श्रद्धान्वितः पुष्टिः पुष्टो रुष्टाष्टमाधवा | मिलिता मेलनः पृथ्वी तत्त्वज्ञानी चरुप्रिया || ६९-६१ || अलब्धा भयहान्त्या दशनः प्राप्तमानसा | जीवनी परमानन्दो विद्याढ्या धर्मकर्मजः || ६९-६२ || अपवादरताकाङ्क्षी विल्वानाभद्रकम्बलः | शिविवाराहनोन्मत्तो विशालाक्षी परन्तपः || ६९-६३ || गोपनीया सुगोप्ता च पार्वती परमेश्वरः | श्रीमातङ्गी त्रिपीठस्थो विकारी ध्याननिर्मलः || ६९-६४ || चातुरी चतुरानन्दः पुत्रिणी सुतवत्सलः | वामनी विषयानन्दः किङ्करी क्रोधजीवनः || ६९-६५ || चन्द्रानना प्रियानन्दः कुशला केतकीप्रियः | प्रचला तारकज्ञानी त्रिकर्मा नर्मदापतिः || ६९-६६ || कपाटस्था कलापस्थो विद्याज्ञा वर्धमानगः | त्रिकूटा त्रिविधानन्दो नन्दना नन्दनप्रियः || ६९-६७ || विचिकित्सा समाप्ताङ्गो मन्त्रज्ञा मनुवर्धनः | मन्निका चाम्बिकानाथो विवाशी वंशवर्धनः || ६९-६८ || वज्रजिह्वा वज्रदन्तो विक्रिया क्षेत्रपालनः | विकारणी पार्वतीशः प्रियाङ्गी पञ्चचामरः || ६९-६९ || आंशिका वामदेवाद्या विमायाढ्या परापरः | पायाङ्गी परमैश्वर्या दाता भोक्त्री दिवाकरः || ६९-७० || कामदात्री विचित्राक्षो रिपुरक्षा क्षपान्तकृत् | घोरमुखी घर्घराख्यो विलज्वा ज्वालिनीपतिः || ६९-७१ || ज्वालामुखी धर्मकर्ता श्रीकर्त्री कारणात्मकः | मुण्डाली पञ्चचूडाश्च त्रिशावर्णा स्थिताग्रजः || ६९-७२ || विरूपाक्षी बृहद्गर्भो राकिनी श्रीपितामहः | वैष्णवी विष्णुभक्तश्च डाकिनी डिण्डिमप्रियः || ६९-७३ || रतिविद्या रामनाथो राधिका विष्णुलक्षणः | चतुर्भुजा वेदहस्तो लाकिनी मीनकुन्तलः || ६९-७४ || मूर्धजा लाङ्गलीदेवः स्थविरा जीर्णविग्रहः | लाकिनीशा लाकिनीशः प्रियाख्या चारुवाहनः || ६९-७५ || जटिला त्रिजटाधारी चतुराङ्गी चराचरः | त्रिश्रोता पार्वंतीनाथो भुवनेशी नरेश्वरः || ६९-७६ || पिनाकिनी पिनाकी च चन्द्रचूडा विचारवित् | जाड्यहन्त्री जडात्मा च जिह्वायुक्तो जरामरः || ६९-७७ || अनाहताख्या राजेन्द्रः काकिनी सात्त्विकस्थितः | मरुन्मूतीः पद्महस्तो विशुद्धा शुद्धवाहनः || ६९-७८ || वृषली वृषपृष्ठस्थो विभोगा भोगवर्धनः | यौवनस्था युवासाक्षी लोकाद्या लोकसाक्षिणी || ६९-७९ || बगला चन्द्रचूडाख्यो भैरवी मत्तभैरवः | क्रोधाधिपा वज्रधारी इन्द्राणी वह्निवल्लभः || ६९-८० || निवीकारा सूत्रधारी मत्तपाना दिवाश्रयः | शब्दगर्भा शब्दमयो वासवा वासवानुजः || ६९-८१ || दिक्पाला ग्रहनाथश्च ईशानी नरवाहनः | यक्षिणीशा भूतिनीशो विभूतिर्भूतिवर्धनः || ६९-८२ || जयावती कालकारी कल्क्यविद्या विधानवित् | लज्जातीता लक्षणाङ्गो विषपायी मदाश्रयः || ६९-८३ || विदेशिनी विदेशस्थोऽपापा पापवजीतः | अतिक्षोभा कलातीतो निरिन्द्रियगणोदया || ६९-८४ || वाचालो वचनग्रन्थिमन्दरो वेदमन्दिरा | पञ्चमः पञ्चमीदुर्गो दुर्गा दुर्गतिनाशनः || ६९-८५ || दुर्गन्धा गन्धराजश्च सुगन्धा गन्धचालनः | चार्वङ्गी चर्वणप्रीतो विशङ्का मरलारवित् || ६९-८६ || अतिथिस्था स्थावराद्या जपस्था जपमालिनी | वसुन्धरसुता तार्क्षी ताकीकः प्राणताकीकः || ६९-८७ || तालवृक्षावृतोन्नासा तालजाया जटाधरः | जटिलेशी जटाधारी सप्तमीशः प्रसप्तमी || ६९-८८ || अष्टमीवेशकृत् काली सर्वः सर्वेश्वरीश्वरः | शत्रुहन्त्री नित्यमन्त्री तरुणी तारकाश्रयः || ६९-८९ || धर्मगुप्तिः सारगुप्तो मनोयोगा विषापहः | वज्रावीरः सुरासौरी चन्द्रिका चन्द्रशेखरः || ६९-९० || विटपीन्द्रा वटस्थानी भद्रपालः कुलेश्वरः | चातकाद्या चन्द्रदेहः प्रियाभार्या मनोयवः || ६९-९१ || तीर्थपुण्या तीर्थयोगी जलजा जलशायकः | भूतेश्वरप्रियाभूतो भगमाला भगाननः || ६९-९२ || भगिनी भगवान् भोग्या भवती भीमलोचनः | भृगुपुत्री भार्गवेशः प्रलयालयकारणः || ६९-९३ || रुद्राणी रुद्रगणपो रौद्राक्षी क्षीणवाहनः | कुम्भान्तका निकुम्भारिः कुम्भान्ती कुम्भिनीरगः || ६९-९४ || कूष्माण्डी धनरत्नाढ्यो महोग्राग्राहकः शुभा | शिविरस्था शिवानन्दः शवासनकृतासनी || ६९-९५ || प्रसंशा समनः प्राज्ञा विभाव्या भव्यलोचनः | कुरुविद्या कौरवंशः कुलकन्या मृणालधृक् || ६९-९६ || द्विदलस्था परानन्दो नन्दिसेव्या बृहन्नला | व्याससेव्या व्यासपूज्यो धरणी धीरलोचनः || ६९-९७ || त्रिविधारण्या तुलाकोटिः कार्पासा खार्पराङ्गधृक् | वशिष्ठाराधिताविष्टो वशगा वशजीवनः || ६९-९८ || खड्गहस्ता खड्गधारी शूलहस्ता विभाकरः | अतुला तुलनाहीनो विविधा ध्याननिर्णयः || ६९-९९ || अप्रकाश्या विशोध्यश्च चामुण्डा चण्डवाहनः | गिरिजा गायनोन्मत्तो मलामाली चलाधमः || ६९-१०० || पिङ्गदेहा पिङ्गकेशोऽसमर्था शीलवाहनः | गारुडी गरुडानन्दो विशोका वंशवर्धनः || ६९-१०१ || वेणीन्द्रा चातकप्रायो विद्याद्या दोषमर्दकः | अट्टहासा अट्टहासो मधुभक्षा मधुव्रतः || ६९-१०२ || मधुरानन्दसम्पन्ना माधवो मधुनाशिका | माकरी मकरप्रेमो माघस्था मघवाहनः || ६९-१०३ || विशाखा सुसखा सूक्ष्मा ज्येष्ठो ज्येष्ठजनप्रिया | आषाढनिलयाषाढो मिथिला मैथिलीश्वरः || ६९-१०४ || शीतशैत्यगतो वाणी विमलालक्षणेश्वरः | अकार्यकार्यजनको भद्रा भाद्रपदीयकः || ६९-१०५ || प्रवरा वरहंसाख्यः पवशोभा पुराणवित् | श्रावणी हरिनाथश्च श्रवणा श्रवणाङ्कुरः || ६९-१०६ || सुकर्त्री साधनाध्यक्षो विशोध्या शुद्धभावनः | एकशेषा शशिधरो धरान्तः स्थावराधरः || ६९-१०७ || धर्मपुत्री धर्ममात्रो विजया जयदायकः | दासरक्षादि विदशकलापो विधवापतिः || ६९-१०८ || विधवाधवलो धूर्तः धूर्ताढ्यो धूर्तपालिका | शङ्करः कामगामी च देवला देवमायिका || ६९-१०९ || विनाशो मन्दराच्छन्ना मन्दरस्थो महाद्वया | अतिपुत्री त्रिमुण्डी च मुण्डमाला त्रिचण्डिका || ६९-११० || कर्कटीशः कोटरश्च सिंहिका सिंहवाहनः | नारसिंही नृसिंहश्च नर्मदा जाह्नवीपतिः || ६९-१११ || त्रिविधस्त्री त्रिसर्गास्त्रो दिगम्बरो दिगम्बरी | मुञ्चानो मञ्चभेदी च मालञ्चा चञ्चलाग्रजः || ६९-११२ || कटुतुङ्गी विकाशात्मा ऋद्धिस्पष्टाक्षरोऽन्तरा | विरिञ्चः प्रभवानन्दो नन्दिनी मन्दराद्रिधृक् || ६९-११३ || कालिकाभा काञ्चनाभो मदिराद्या मदोदयः | द्रविडस्था दाडिमस्थो मज्जातीता मरुद्गतिः || ६९-११४ || क्षान्तिप्रज्ञो विधिप्रज्ञा वीतिज्ञोत्सुकनिश्चया | अभावो मलिनाकारा कारागारा विचारहा || ६९-११५ || शब्दः कटाहभेदात्मा शिशुलोकप्रपालिका | अतिविस्तारवदनो विभवानन्दमानसा || ६९-११६ || आकाशवसनोन्मादी मेपुरा मांसचर्वणः | अतिकान्ता प्रशान्तात्मा नित्यगुह्या गभीरगः || ६९-११७ || त्रिगम्भीरा तत्त्ववासी राक्षसी पूतनाक्षरः | अभोगगणिका हस्ती गणेशजननीश्वरः || ६९-११८ || कुण्डपालककर्ता च त्रिरूण्डा रुण्डभालधृक् | अतिशक्ता विशक्तात्मा देव्याङ्गी नन्दनाश्रयः || ६९-११९ || भावनीया भ्रान्तिहरः कापिलाभा मनोहरः | आर्यादेवी नीलवर्णा सायको बलवीर्यदा || ६९-१२० || सुखदो मोक्षदाताऽतो जननी वाञ्छितप्रदः | चातिरूपा विरूपस्थो वाच्या वाच्यविवजीतः || ६९-१२१ || महालिङ्गसमुत्पन्ना काकभेरी नदस्थितः | आत्मारामकलाकायः सिद्धिदाता गणेश्वरी || ६९-१२२ || कल्पद्रुमः कल्पलता कुलवृक्षः कुलद्रुमा | सुमना श्रीगुरुमयी गुरुमन्त्रप्रदायकः || ६९-१२३ || अनन्तशयनाऽनन्तो जलेशी जह्नजेश्वरः | गङ्गा गङ्गाधरः श्रीदा भास्करेशो महाबला || ६९-१२४ || गुप्ताक्षरो विधिरता विधानपुरुषेश्वरः | सिद्धकलङ्का कुण्डाली वाग्देवः पञ्चदेवता || ६९-१२५ || अल्पातीता मनोहारी त्रिविधा तत्त्वलोचना | अमायापतिर्भूभ्रान्तिः पाञ्चजन्यधरोऽग्रजा || ६९-१२६ || अतितप्तः कामतप्ता मायामोहविवजीतः | आर्या पुत्रीश्वरः स्थाणुः कृशानुस्था जलाप्लुतः || ६९-१२७ || वारुणी मदिरामत्तो मांसप्रेमदिगम्बरा | अन्तरस्थो देहसिद्धा कलानलसुराद्रिपः || ६९-१२८ || आकाशवाहिनी देवः काकिनीशो दिगम्बरी | काकचञ्चुपुटमधुहरो गगनमाब्धिपा || ६९-१२९ || मुद्राहारी महामुद्रा मीनपो मीनभक्षिणी | शाकिनी शिवनाथेशः काकोर्ध्वेशी सदाशिवः || ६९-१३० || कमला कण्ठकमलः स्थायुकः प्रेमनायिका | मृणालमालाधारी च मृणालमालमालिनी || ६९-१३१ || अनादिनिधना तारा दुर्गतारा निराक्षरा | सर्वाक्षरा सर्ववर्णा सर्वमन्त्राक्षमालिका || ६९-१३२ || आनन्दभैरवो नीलकण्ठो ब्रह्माण्डमण्डितः | शिवो विश्वेश्वरोऽनन्तः सर्वातीतो निरञ्जनः || ६९-१३३ || इति ते कथितं नाथ त्रैलोक्यसारमङ्गलम् | भुवनमङ्गलं नाम महापातकनाशनम् || ६९-१३४ || अस्य प्रपठनेऽपि च यत्फलं लभते नरः | तत्सर्वं कथितुं नालं कोटिवर्षशतैरपि || ६९-१३५ || तथापि तव यत्नेन फलं शृणु दयार्णव | राजद्वारे नदीतीरे सङ्ग्रामे विजनेऽनले || ६९-१३६ || शून्यागारे निर्जने वा घोरान्धकाररात्रिके | चतुष्टये श्मशाने वा पठित्वा षोडशे दले || ६९-१३७ || रक्ताम्भोजैः पूजयित्वा मनसा कामचिन्तयन् | घृताक्तैर्जुहुयान्नित्यं नाम प्रत्येकमुच्चरन् || ६९-१३८ || मूलमन्त्रेण पुटितमाज्यं वह्नौ समर्पयेत् | अन्तरे स्वसुखे होमः सर्वसिद्धिसुखप्रदः || ६९-१३९ || सद्योमधुयुतैर्मांसैः सुसुखे मन्त्रमुच्चरन् | प्रत्येकं नामपुटितं हुत्वा पुनर्मुखाम्बुजे || ६९-१४० || कुण्डलीरसजिह्वायां जीवन्मुक्तो भवेन्नरः | धृत्वा वापि पठित्वा वा स्तुत्वा वा विधिना प्रभो || ६९-१४१ || महारुद्रो भवेत्साक्षान्मम देहान्वितो भवेत् | योगी ज्ञानी भवेत् सिद्धः सारसङ्केतदर्शकः || ६९-१४२ || अपराजितः सर्वलोके किमन्यत् फलसाधनम् | धृत्वा राजत्वमाप्नोति कण्ठे पृथ्वीश्वरो भवेत् || ६९-१४३ || दक्षहस्ते तथा धृत्वा धनवान् गुणवान् भवेत् | अकालमृत्युहरणं सर्वव्याधिनिवारणम् || ६९-१४४ || हुत्वा रोजेन्द्रनाथश्च महावाग्मी सदाऽभयः | सर्वेषां मथनं कृत्वा गणेशो मम कातीकः || ६९-१४५ || देवनामधिपो भूत्वा सर्वज्ञो भवति प्रभो | यथा तथा महायोगी भ्रमत्येव न संशयः || ६९-१४६ || प्रातःकाले पठेद् यस्तु मस्तके स्तुतिधारकः | जलस्तम्भं करोत्येव रसस्तम्भं तथैव च || ६९-१४७ || राज्यस्तम्भं नरस्तम्भं वीर्यस्तम्भं तथैव च विद्यास्तम्भं सुखस्तम्भं क्षेत्रस्तम्भं तथैव च || ६९-१४८ || राजस्तम्भं धनस्तम्भं ग्रामस्तम्भं तथैव च मध्याह्ने च पठेद् यस्तु वह्निस्तम्भं करोत्यपि || ६९-१४९ || कालस्तम्भं वयःस्तम्भं श्वासस्तम्भं तथैव च | रसस्तम्भं वायुस्तम्भं बाहुस्तम्भं करोत्यपि || ६९-१५० || सायाह्ने च पठेद् यस्तु कण्ठोदरे च धारयन् | मन्त्रस्तम्भं शिलास्तम्भं शास्त्रस्तम्भं करोत्यपि || ६९-१५१ || हिरण्यरजतस्तम्भं वज्रस्तम्भं तथैव च | अकालत्वादिसंस्तम्भं वातस्तम्भं करोत्यपि || ६९-१५२ || पारदस्तम्भनं शिल्पकल्पना ज्ञानस्तम्भनम् | आसनस्तम्भनं व्याधिस्तम्भनं बन्धनं रिपोः || ६९-१५३ || षट्पद्मस्तम्भनं कृत्वा योगी भवति निश्चितम् | वन्ध्या नारी लभेत् पुत्रं सुन्दरं सुमनोहरम् || ६९-१५४ || भ्रष्टो मनुष्यो राजेन्द्रः किमन्ये साधवो जनाः | श्रवणान्मकरे लग्ने चित्रायोगे च पर्वणि || ६९-१५५ || हिरण्ययोगे वायव्यां लिखित्वा माघमासके | वैशाखे राजयोगे वा रोहिण्याख्या विशेषतः || ६९-१५६ || श्रीमद्भुवनमगलं नाम यशोदातृ भवेद् ध्रुवम् | जायन्ते राजवल्लभा अमराः खेचरा लिखनेन || ६९-१५७ || धर्मार्थकाममोक्षं च प्राप्नुवन्ति च पाठकाः | कीतीरात्मदृष्टिपातं लभते नात्र संशयः || ६९-१५८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे शाकिनीसदाशिवस्तवनमङ्गलाष्टोत्तरसहस्रनाम-- विन्यासो नाम एकोनसप्ततितमः पटलः || ६९ || अथ सप्ततितमः पटलः श्रीआनन्दभैरव उवाच कथितं शाकिनीसारं सदाशिवफलोदयम् | श्रुतं परमकल्याणं भेदभाषाक्रमोदयम् || ७०-१ || इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् | यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः || ७०-२ || वद कान्ते शब्दमयि यदि स्नेहोऽस्ति मां प्रति | आनन्दभैरवं नत्वा सोवाचानन्दभैरवी || ७०-३ || श्रीआनन्दभैरवी उवाच गुरोः परमकल्याणं कवचं कथये तव | सदाशिवस्य शाकिन्या भैरवानन्दविग्रह || ७०-४ || शृणुष्व कामदं नामाद्भुतं कवचमङ्गलम् | त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् || ७०-५ || सर्वमन्त्रौघनिकरं ज्ञानमात्रेण सिद्ध्यति | सर्वगूढप्रियानन्दं सामरस्यं कुलान्तरम् || ७०-६ || प्रचण्डचण्डिकातुल्यं सर्वनिर्णयसाक्षिणम् | सर्वबुद्धिकरानन्दं कुलयोगिमनोगतम् || ७०-७ || रामसेव्यं शिवं शम्भुसेवितं विषनाशनम् | अप्रकाश्यं महायोगं धनारोग्यविवर्धनम् || ७०-८ || सर्वसौभाग्यजननं सर्वानन्दकरं परम् | सर्वतन्त्रदुर्लभं यत् कथितं रुद्रयामले || ७०-९ || अस्य श्रीशाकिनीसदाशिवकामनानाममहाकवचस्य सदाशिवऋषिर्गायत्रीच्छन्दः शाकिनी देवता सकलहरीं जीवबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रं दंष्ट्रघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रसिद्धये विनियोगः | ओं प्रभावा सदा पातु महाकाशाधिशाकिनी | त्रिगुणा चण्डिका पातु क्रोधद्रंष्ट्र करालिनी || ७०-१० || अनन्ताऽनन्तमहिमा महास्त्रदलपङ्कजम् | पूर्वाह्णं पातु सततं गायत्री सविता मम || ७०-११ || आकाशवाहिनी देवी शिरोमङ्गलमद्भुतम् | सर्वदा पातु मे गुह्यं लिङ्गं चक्रं सुधामयम् || ७०-१२ || महामण्डलमध्यस्था पातु मे भालमण्डलम् | सहस्रशतकोटीन्दुयोगिनीगणमण्डलम् || ७०-१३ || महाचक्रेश्वरी पातु महाचक्रेश्वरो मम | मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः || ७०-१४ || जिह्वाग्रं तालुमूलस्था तालुमूलं मनोजवः | तीक्ष्णदंष्ट्र दन्तमध्यं कण्ठाग्रं चिबुकं शिवः || ७०-१५ || सदा पातु षोडशारं शाकिनी श्रीसदाशिवः | कण्ठमध्यस्थितं पातु महामोहविनाशिनी || ७०-१६ || प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् | विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः || ७०-१७ || महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी | कौमुदी पटलाङ्गी मे वर्णषोडशसंज्ञकम् || ७०-१८ || अकारादिकान्तवर्णान् श्रीदेवी परिपातु मे | हेमचित्ररथस्था मे चित्रिणी पातु मे मधु || ७०-१९ || अपर्णा या विशुद्धं मे षोडशी षोडशाक्ष्यकम् | पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् || ७०-२० || दीपमासहल्कीं मे प्रवरा पातु मे बला | व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् || ७०-२१ || अकालतारिणी दुर्गा शुक्रं चक्रं सदावतु | शाकिनीशो महामाया परिवारान्विताऽवतु || ७०-२२ || पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् | सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि || ७०-२३ || कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः | शाकिनी शाकविभवा शाकेशी शाकसम्भवा || ७०-२४ || शाकम्भरीश्वरा पातु सुमना दलषोडशम् | सदाशिवः सदा पातु परिवारगणैः सह || ७०-२५ || हृदयं शाकिनी देवी शिरःस्थानं सदावतु | काकिनीसहितं पातु द्वादशारं कुलेश्वरी || ७०-२६ || दलद्वादशकं पातु कामनाथः सदाशिवः | अभेदरूपिणी पातु कादिठान्ताक्षरं मम || ७०-२७ || वाणी मे हृदयग्रन्थिर्देशं तु कपिलेश्वरः | पायान्मेघं च सूर्यास्या विमाया हृत्सु कणीकाम् || ७०-२८ || तालहस्ता महावाणी पातु मे हृदयान्तरम् | शोषिणी मोहिनी वह्निः पातु मे हृदयाम्बुजम् || ७०-२९ || पिलापिप्पलादेशो रतिर्मे हृदयेप्सितम् | योगिनीकुलदन्तश्च पातु मे हृत्स्वरानपि || ७०-३० || केकरेशो गूढसंज्ञा वज्रधारी हृदम्बुजम् | एकलिङ्गी सदा पातु हृदयान्तः शिवं मम || ७०-३१ || तदधो मण्डलं पातु भेदाभेदविवजीता | अकाललक्षणः पातु पाशिनी नाभिमण्डलम् || ७०-३२ || कालकूटस्वरूपो मे नाभिपद्मं प्रपातु मे | चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् || ७०-३३ || त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् | त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि || ७०-३४ || कालिका कपिला कृष्णा घनावाला कपालिनी | ललिता तारिणी सर्वां महामाया दशच्छदम् || ७०-३५ || परिपातु कामदुर्गा लाकिनी पातु मे सदा | सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् || ७०-३६ || जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता | मां पातु सप्तरोधात्मा केशवेशी महापदम् || ७०-३७ || अभया चण्डिका कृष्णा कालिका कुलपण्डिता | वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा || ७०-३८ || वासुकी वसुधा वाच्या सर्वाणी सर्वमङ्गला | पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् || ७०-३९ || रणे राजकुले द्यूते वादे मानापमानके | गेहेऽरण्ये प्रान्तरे च जले चानलमध्यके || ७०-४० || सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता | विजया पद्मनी जाया जानकी कमलावती || ७०-४१ || एताः पान्तु दिग्विदिक्षु महापातकनाशनाः | अन्तरं पातु लिङ्गस्था लिङ्गमूलाम्बुजं मम || ७०-४२ || कणीकां पातु सततं काञ्चीपीठस्थिता शिवा | अतिवेगान्विता पातु वह्निमण्डलमेव मे || ७०-४३ || राक्षसीशा सदा पातु जम्बुद्वीपनिवासिनी | जाह्नवी भास्करा मौना मलयस्था मलाङ्गजा || ७०-४४ || मतितप्ता पापहन्त्री परिपातु विभाकरी | लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता || ७०-४५ || विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली | मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी || ७०-४६ || अनन्तशयना पातु वटमूलनिवासिनी | प्रलये मां काली पातु वटपत्रनिवासिनी || ७०-४७ || केवलाख्या सदा पातु महाकूर्चस्वरूपिणी | आयुरारोग्यदात्री मे धनं राज्यं सदावतु || ७०-४८ || कामरूपं गृहं पीठं परिपातु महाबला | बलाका घोरदंष्ट्र मे उदरं पातु सर्वदा || ७०-४९ || सर्वरोगहरा पातु मुण्डमालाविभूषिता | आनन्दो नन्दनाथो मे हृदूर्ध्वाब्जं सदाऽवतु || ७०-५० || षट्पद्मं सर्वदा पातु नानारूपविहारिणी | अकलङ्का निराधारा नित्यपुष्टा निरिन्द्रिया || ७०-५१ || षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा | दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः || ७०-५२ || अतिगुप्तस्थलं पातु पापनाशकरी परा | क्षालनाख्या लिङ्गगुह्ये पातु मे पावनं प्रभा || ७०-५३ || विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती | चतुर्दलं सदा पातु विभूतिः कामया सह || ७०-५४ || पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः | कटिदेशं सदा पातु चामुण्डा शूलधारिणी || ७०-५५ || त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वःस्वरूपिणी | वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी || ७०-५६ || षड्भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् | अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् || ७०-५७ || वारुणी मदिरा पातु सर्वाङ्ग शाकिनी मम | गृहोदरी सदा पातु सर्वाङ्गं वज्रधारिणी || ७०-५८ || उल्कामुखी सदा पातु भृगुवंशसमुद्भवा | अकालतारिणी दुर्गा ललिता धर्मधारिणी || ७०-५९ || विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु | हसकलहरीं विद्या परिपातु सदाशिवा || ७०-६० || सहस्रवदना वाणी परिपातु जलोदरी | जलरूपा सदा पातु महोज्ज्वलकलेवरा || ७०-६१ || षोडशी सकलहरीं सर्वाणी पातु पार्वती | महामत्ता सदा पातु कामनाथप्रपूरका || ७०-६२ || वामदेवी सदा पातु सर्वाङ्गे देहदेवता | कामपीठस्थिता दुर्गा परिवारगणावृता || ७०-६३ || सदाशिवः सदा पातु सामवेदस्वरूपगा | श्मशानवासिनी देवी महाकालसमन्विता || ७०-६४ || आर्या देवी सदा पातु माता पातु महाकला | सर्वत्र कपिला पातु महाभगवतीश्वरी || ७०-६५ || इति ते कथितं नाथ महाविद्याफलप्रदम् | कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् || ७०-६६ || अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् | अमलोदारचित्तः सन् पूजयित्वा सदाशिवम् || ७०-६७ || तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् | राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् || ७०-६८ || वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् | काकिनीदर्शनं प्राप्य शाकिनीदर्शनं भवेत् || ७०-६९ || मन्त्रसिद्धिं तन्त्रसिद्धिं क्रियासिद्धिं लभेद् ध्रुवम् | आकाशगामिनी सिद्धिः करे तस्य विराजते || ७०-७० || पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा | धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् || ७०-७१ || महापातककोटीश्च हत्वा राजत्वमालभेत् | वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि || ७०-७२ || त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्रधा | स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः || ७०-७३ || कोटिवर्षसहस्राणि चिरजीवी स योगिराट् | महासिद्धो भवेद् धीमान् महापातकनाशकृत् || ७०-७४ || मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः | वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्टये || ७०-७५ || शूद्रो द्वादशवर्षेण योगी भवति पाठतः | एवं महाफलं नित्यं कवचं यः पठेत् सुधीः || ७०-७६ || भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः || ७०-७७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो | नाम सप्ततितमः पटलः || ७० || अथैकसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच श्रूयतां देव कल्याण त्रैलोक्यविजयात्मक | सदाशिवमनुं नाथ महापातकनाशनम् || ७१-१ || आयुरारोग्यफलदं सर्वशत्रुनिवारणम् | अतिगुह्यतमं ध्यानं बालिशानां सुखावहम् || ७१-२ || आद्याबीजं समुद्धृत्य कामबीजं तदन्तरम् | रुद्रबीजं रमाबीजं कालबीजं ततः सदा || ७१-३ || शिवनाथप्रियानन्दं ज्ञानं देहि युगं द्विठः | फणिबीजं समुद्धृत्य राजराजेश्वरीमनुम् || ७१-४ || वैष्णवीबीजमुद्धृत्य शिवबीजं तदन्तिके | सदाशिवाय शब्दान्ते हृल्लेखा वह्निसुन्दरी || ७१-५ || आदिबीजं समुद्धृत्य ततो वामतनुस्थिता | शब्दबीजं मूलबीजं सदाशिव नमोऽस्तु ते || ७१-६ || द्विठान्तोऽयं मनुः श्रेष्ठः सर्वरत्नसमृद्धिदः | वासुदेवसमो विद्वान् स भवेन्नात्र संशयः || ७१-७ || वैष्णवो वा महाशाक्तो महाशैवोऽथवा पुनः | गृह्णीयान्मनुराजेन्द्रं यत्प्रसादाच्छिवो भवेत् || ७१-८ || विमला वाक्यसिद्धिः स्यात्कार्य सिद्धिर्न संशयः | शिवमन्त्रं प्रवक्ष्यामि येन सर्वार्थपारगः || ७१-९ || अकालेऽपि च योगी स्यात् कामधेनुस्वरूपवान् | हालाहलं समुद्धृत्य ततो माहेशबीजकम् || ७१-१० || श्रीबीजं धर्मबीजञ्च क्षेत्रपालमनुं तथा | नीलकण्ठमनुं पश्चात् प्रियागुं बीजमुद्धरेत् || ७१-११ || शिवबीजं तदन्ते तु सदाशिवाय धीमहि | तन्नः शिवः प्रचोशब्दाद्दयादेवं द्विठो मनुः || ७१-१२ || आवाहनं पाद्यमर्घ्यमाचमनीयमनन्तरम् | गन्धपुष्पबिल्वपत्रकोटिभिः परिपूजयेत् || ७१-१३ || स्तोषणं पोषणं पुष्टं दारणं मारणं तथा | सुप्तं कलहमुक्तानां पूजनं सुमहत्फलम् || ७१-१४ || शर्वादीन् परिपूज्याथ सद्योजातादिमर्चयेत् | प्राणायामत्रयं कृत्वा जपेत् तद्गतमानसः || ७१-१५ || देवं पिनाकपाणिं च पञ्चवक्त्रं त्रिलोचनम् | शूलखट्वाङ्गमुशलगदापाणिं महाभुजम् || ७१-१६ || देवदेवं महादेवं सर्वभूतात्मकं गुरुम् | त्रैलोक्यरक्षकं शम्भुं भुजङ्गहारभूषितम् || ७१-१७ || अट्टहासादिशक्तीनां सहस्रगणमण्डितम् | वृषासनस्थं नीलेशं नीलकण्ठं सदाशिवम् || ७१-१८ || एवं ध्यात्वा जपेन्मन्त्रं सहस्रं प्रत्यहं शुचिः | विशेषेण दिवारात्रौ समभागेन सञ्जपेत् || ७१-१९ || तत्रैव त्र्यम्बकं ध्यात्वा तत्तद्रूपेण साधकः | तद्बुध्वा पूजयित्वा च त्र्यम्बकं यो जपेन्नरः || ७१-२० || तस्य हस्ते त्रिभुवनं हस्तामलकवद् भवेत् | भोगमोक्षौ करे तस्य किमन्यत् साधनेन च || ७१-२१ || सदाशिवेन मनुना सम्पुटीकृत्य यो जपेत् | तस्य सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते || ७१-२२ || प्रणवं पूर्वमुच्चार्य त्र्यम्बकं तदनन्तरम् | यजामहे समुद्धृत्य सुगन्धिं पुष्टिवर्धनम् || ७१-२३ || उर्वारुकमिवान्ते तु बन्धनात् पदमुद्धरेत् | मृत्योर्मुक्षीयशब्दान्ते मामृताद्वह्निसुन्दरी || ७१-२४ || सदाशिवेन पुटितं मन्त्रं यो जपते नरः | स भवेत् कल्पतरुपः पूजनेनामृतं लभेत् || ७१-२५ || सर्वकालं सुखी भूत्वा मोक्षमाप्नोति निश्चितम् | अन्यं त्र्यम्बकमन्त्रं तु शृणुष्व सर्वकामदम् || ७१-२६ || राज्यदं घनदं मन्त्रं महापातकनाशनम् | शब्दब्रह्ममयं साक्षात् सर्वज्ञानं लभेद् ध्रुवम् || ७१-२७ || कालकूटं समुद्धृत्य मृत्युञ्जयं समुद्धरेत् | महापातकराशिं मे हरयुग्मं ततो द्विठः || ७१-२८ || अन्यमन्त्रं प्रवक्ष्यामि सावधानोऽवधारय | विद्याद्ये प्रणवं दत्वा कामबीजद्वयं द्वयम् || ७१-२९ || मृत्युञ्जयं क्षेत्रपालं विशुद्धेशं स्थिरं कुरु | युगलं कामबीजान्तं देव्यन्ते वह्निसुन्दरी || ७१-३० || अन्यं मन्त्रं प्रवक्ष्यामि सावधानोऽवधारय | कामकालीयुगं पश्चात् संज्ञाबीजद्वयं ततः || ७१-३१ || वटुकं कामबीजञ्च षोडशारं प्रकाशय | युगलं शक्तिकूटञ्च शिवबीजं ततो द्विठः || ७१-३२ || पूर्ववत् सकलं कुर्याज्जपपूजादिकं प्रभो | सदाशिवपूजनं च ध्यानहोमादितर्पणम् || ७१-३३ || अन्यं मन्त्रं प्रवक्ष्यामि महादेवं समुद्धरेत् | वटुकं क्षेत्रपालं च गणेशस्य मनुं ततः || ७१-३४ || कण्ठाब्जं मे सदानन्द प्रकाश युगं द्विठः | अस्यापि ध्यानमाकृत्य जप्त्वा लक्षं समापयेत् || ७१-३५ || करकलितकपालः कुण्डली दण्डपाणि-- | स्तरुणतिमिरनीलो व्यालयज्ञोपवीती | क्रमसमयसपर्याविघ्नविच्छेदहेतु-- | र्जयति वटुकनाथः सिद्धिदः कौलिकानाम् || ७१-३६ || वन्दे बालं स्फटिकसदृशं कुण्डलोल्लासिवक्त्रं | दिव्याकल्पैर्नवमणिमयैः किङ्किणीनूपुराद्यैः | दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं | हस्ताब्जाभ्यां दधतमनिशं शूलदण्डौ दधानम् || ७१-३७ || उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागोज्ज्वलं | स्मेरास्यं वरदं कपालमभयं शूलं दधानं करैः | नीलग्रीवमुदारकौस्तुभधरं शीतांशुखण्डोज्ज्वलं | बन्धूकारुणवाससं भयहरं देवं सदा भावये || ७१-३८ || देवेशं वटुकं सदाशिवगुरुं त्रैलोक्यरक्षाकरं | नानालङ्कृतभूषणं शशधरं बन्धूकपुष्पोज्ज्वलम् | श्वेताश्वेतविभूषणं मणिमयं कृष्णं सनीलं शिवं | देवानामधिदैवतं सुखकरं नाथं सदा भावये || ७१-३९ || एवं ध्यात्वा महायोगी नीलकण्ठं सदाशिवम् | कण्ठपद्मे स्थिरो भूत्वा शाकिनीदर्शनं लभेत् || ७१-४० || भूत्वा महावीरनाथो मनोयोगमवाप्नुयात् | सिद्धमन्त्रं प्रवक्ष्यामि येन सर्वत्र पारगः || ७१-४१ || आकाशगामिनी सिद्धिः स्तम्भनादिसुसिद्धिभाक् | वाक्सिद्धिं कायसिद्धिञ्च जरामरणवजीतः || ७१-४२ || शिवबीजं समुद्धृत्य विजयाबीजमुद्धरेत् | कामकालीयुगान्ते तु रमात्रिकूटमुद्धरेत् || ७१-४३ || बीजत्रयं समुद्धृत्य (स्फें स्फें स्फें) कामनाथाय शब्दतः | सदाशिवाय शब्दान्ते वरदाय नमो द्विठः || ७१-४४ || एतन्मन्त्रप्रसादेन योगी स्यान्नात्र संशयः | अन्यं मन्त्रं प्रवक्ष्यामि यथावदवधारय || ७१-४५ || क्षान्तबीजं समुद्धृत्य लान्तबीजत्रयं तथा | भवानीबीजमुद्धृत्य सङ्घट्टयुगलं ततः || ७१-४६ || क्रोधराजबीजयुग्मं लक्ष्मीशपतये ततः | वरदाय हृत्पदान्ते कामदाय ततो द्विठः || ७१-४७ || अन्यं मन्त्रं प्रवक्ष्यामि येन योगी भवेन्नरः | गगनाबीजमुद्धृत्य कामराजं समुद्धरेत् || ७१-४८ || मायान्ते देवदेवाय हृच्छिवाय द्विठो मनुः | एतन्मन्त्रप्रसादेन किन्न सिद्ध्यति भूतले || ७१-४९ || अनायासेन योगी स्यात् किं पुनः साधनेन च | केवलं जपमात्रेण योगी स्यान्नात्र संशयः || ७१-५० || अन्यं वक्ष्ये भैरवेन्द्र प्रणवं कामराजकम् | श्रीबीजं वह्नियुगलं रिपुहरयुगं ततः || ७१-५१ || सिद्धिं देहि ततः स्वाहा मन्त्रोऽयं योगिदुर्लभः | पूर्ववद्ध्यानमेवं हि कृत्वाऽमरत्वमश्नुते || ७१-५२ || अन्यं मन्त्रं प्रवक्ष्यामि येन पीठस्थिरो भवेत् | अमादिबीजमाभाष्य ततो महापदं स्मरेत् || ७१-५३ || कालाय विकरणाय कलान्ते तु समुद्धरेत् | बलाय बलविकरणाय षोडशारदलं ततः || ७१-५४ || निवेशाय युगं वित्तं स्थापयान्ते सदाशिव | काकिनीशाभावह्निसुन्दरीकामदो मनुः || ७१-५५ || एकाक्षरं प्रवक्ष्यामि येन सिद्धो मनुर्भवेत् | क्षान्तबीजं बिन्दुयुक्तं चन्द्रबीजं तथोद्धरेत् || ७१-५६ || अधो दन्तयुतं कृत्वा जपेत् तद्गतमानसः | प्रत्येकदलमध्ये तु ध्यात्वा देवं सदाशिवम् || ७१-५७ || अनायासेन सिद्धिः स्यात् प्राणरक्षा सदा भवेत् | पुनरेकाक्षरं वक्ष्ये येन सिद्ध्यन्ति मानवाः || ७१-५८ || न देयं पाश्वेभ्यश्च निन्दकेभ्यो विशेषतः | शिवं चन्द्रबिन्दुयुक्तं महामन्त्रं प्रकीतीतम् || ७१-५९ || अस्य साधनमात्रेण योगिनां वल्लभो भवेत् || ७१-६० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे एकसप्ततितमः पटलः || ७१ || अथ द्विसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच महाकाल शिवानन्द परमानन्दनिर्भर | त्रैलोक्यसिद्धिद प्राणवल्लभ श्रूयतां स्तवः || ७२-१ || शाकिनी हृदये भाति सा देवी जननी शिवा | कालीति जगति ख्याता सा देवी हृदयस्थिता || ७२-२ || निरञ्जना निराकारा नीलाञ्जनविकासिनी | आद्या देवी कालिकाख्या केवला निष्कला शिवा || ७२-३ || अनन्ताऽनन्तरूपस्था शाकिनी हृदयस्थिता | तामसी तारिणी तारा महोग्रा नीलविग्रहा || ७२-४ || कपाला मुण्डमालाढ्या शववाहनवाहना | ललज्जिह्वा सरोजाक्षी चन्द्रकोटिसमोदया || ७२-५ || वायवग्निभूजलान्तस्था भवानी शून्यवासिनी | तस्मात् स्तोत्रमप्रकाश्यं कृष्णकाल्याः कुलोदयम् || ७२-६ || श्रीकृष्णभगवत्याश्च नीलदेव्या कुलार्णवम् | गोपनीयं प्रयत्नेन सावधानोऽवधारय || ७२-७ || महाभैरवी उवाच श्रीकालीचरणं चराचरगुणं सौदामिनीस्तम्भनं | गुञ्जद्गर्वगुरुप्रभानखमुखाह्लादैककृष्णासनम् | प्रेतारण्यासननिमीतामलकजा नन्दोपरिश्वासनं | श्रीमन्नाथ करारविन्दमिलनं नेत्राञ्जनं राजते || ७२-८ || दीप्तिः प्राप्तिः समाप्तिः प्रियमतिसुगतिः सङ्गतिः शीतनीतौ | मिथ्यामिथ्यासुरथ्या नतिररतिसती जातिवृत्तिर्गुणोक्तिः | व्यापारार्थी क्षुधार्थी वसति रतिपतिर्ज्योतिराकाशगङ्गा | श्रीदुर्गाशम्भुकालीचरणकमलकं सर्वदा भाति सूक्ष्मम् || ७२-९ || देवेन्द्राः पञ्चभूता रविशशिमुकुटाः क्रोधवेतालकोलाः | कैलासस्थाः प्रशस्ताः स्तवनमपि तत्प्रत्यहं सम्पठन्ति | आत्मानं श्रीदकालीकुलचरणतलं हृत्कुलानन्दपद्मे | ध्यात्वा ध्यात्वा प्रवीरा अहमनुबहुधीः स्तौमि किं ध्याननिष्ठः || ७२-१० || श्रुत्वा स्तोत्रगुणं तवैव चरणाम्भोजस्य वाच्छाफलं | प्रेच्छामीहयति प्रियाय कुरुते मोक्षाय तत्त्वार्थतः | मातर्मोहिनिदानमानतरुणी कातीति मन्यामहे | योग्यश्रीचरणाम्बुजे त्रिजगतामानन्दपुञ्जे सुखम् || ७२-११ || पुत्रौ श्रीदेवपूज्यौ प्रकुरुत इतिहासादिगूढार्थगुप्तिं | श्यामे मातः प्रसन्ना भव वरदकरी कारणं देहि नित्यम् | योगानन्दं शिवान्तः सुरतरुफलदं सर्ववेदान्तभाष्यं | सत्सङ्गं सद्विवेकं कुरु कुरु कवितापञ्चभूतप्रकाशम् || ७२-१२ || आह्लादोद्रेककारी परमपदविदां प्रोल्बणार्थप्रकाशः | प्रेष्यः पारार्थचिन्तामणिगुण सरलः पारणः प्रेमगानः | सारात्मा श्रीस्तवोऽयं जयसुरवसतां शुक्रसंस्कारगन्ता | मन्ता मोहादिकानां सुरगणतरुणी कोटिभिर्ध्येय इन्द्रैः || ७२-१३ || नामग्रहणविमलपावनपुण्यजलनिधिमन्थनेन | निर्मलचित्तगसुरगुणपारग सुखसुधाकरस्थितहास्येन | योगधराधरनरवर कुञ्जरभुजयुगदीर्घपद्ममृणालेन || ७२-१४ || हरिविधिहर अपरपरसरभावकपाल सेवनेन | सुन्दरी काली चरणेन || ७२-१५ || भास्वत्कोटिप्रचण्डानलगुणललिताभाविता सिद्धकाली | प्रोक्तं यद्योगगीतावचनसुरचनामङ्गलं योगिनाद्या | श्यामानन्दद्रुमाख्ये भजनयजनगङ्गाङ्गतीरप्रकाशं | सर्वानन्दोत्सवत्वं वरदसुरवदासम्भवे मययभावे || ७२-१६ || एतत्प्रथमे कुलं गुरुकुलं लावण्यलीलाकुलं | प्राणानन्दकुलं कुलाकुलकुलं कालीकुलं सङ्कुलम् | मातः कालियुगादि कौलिनि शिवे सर्वन्तराङ्गस्थितं | नित्यं तत्र नियोजय श्रुतिगिरा श्रीधर्मपुत्रं भवे || ७२-१७ || हेरम्बादि कुलेशयोगजननि त्वं योगतत्त्वप्रिया | यद्येवं कुरुते पदाम्बुजरजो योगं तवानन्ददम् | सः स्यात्सङ्कटपाटलारिसदनं जित्वा स्वयं मन्मथं | श्रीमान्मन्मथमन्मथः प्रचयति ह्यष्टाङ्गयोगं परम् || ७२-१८ || योगी याति परं पदं सुखपदं वाञ्छास्पदं सम्पदं | त्रैलोक्यं परमेश्वरं यदि पुनः पारं भवाम्भोनिधेः | भावं भूधरराजराजदुहिते ज्ञातं विचारं तव | श्रीपादाम्बुजपूजनं प्रकुरुते ते नीरदप्रोज्ज्वले || ७२-१९ || आदावष्टाङ्गयोगं वदति भवसुखं भक्तिसिद्धान्तमेकं | भूलोके पावनाख्यं पवनगमनगं श्रीनगेन्द्राङ्गजायाः | सिद्धीनामष्टसिद्धिं यमनियमवशादासनप्राणयोगात् | प्रत्याहारं विभोर्ध्वारुणगुणवसनं ध्यानमेवं समाधिम् || ७२-२० || मातः शान्तिगुणावलम्बिनि शिवे शान्तिप्रदे योगिनां | दारे देवगुणे विधेहि सकलं शान्तिक्रियामङ्गलम् | यज्ञानामुदयं प्रयाति सहसा यस्याः प्रसादाद् भुवं | तां सर्वां प्रवदामि कामदहनस्तम्भाय मोहक्षयात् || ७२-२१ || एको जीवति योगिराडतिसुखी जीवन्ति न श्रीसुताः | ससर्वं योगभवं भवे विभवगाः पश्यन् स्वकीयायुषम् | इत्येवं परिभाव्य सर्वविषयं शान्तिं समालम्ब्यकौ | मूले वेददलोज्ज्वले कुलपथे श्रीकुण्डली भावय || ७२-२२ || शान्तिभ्रान्तिनिकृन्तनी स्वरमणी प्रेमोद्गता भक्तिदा | लावण्याम्बुधिरत्नकोटिकिरणाह्लादैकमूतीप्रभा | एकाकारपराक्रमादपयमा क्रोधक्रमक्षोभिणी | या मूलामलपङ्कजे रचयति श्रीमाधुरी तां भजे || ७२-२३ || रे रे पामर दुर्भग प्रतिदिनं किं कर्म वा राधसे | व्यापारं विषयाश्रयं प्रकुरुषे न ध्यायसे श्रीपदम् | मिथ्यैतत्क्षणभङ्गुरं त्यज मुदा संसारभावं विषं | श्रीकालीं कुलपण्डितां गुणवतीं शान्तिं समाराधय || ७२-२४ || शिवस्त्री या शान्तिः परमसुखदा भावजनिका | विवेकः संजातो वहसि च तया भाति नियतम् | विवेकोऽसौ त्यागी जनयति सुधासिन्धुसुन्दर-- | मदो ब्रह्मज्ञानं परमममले योगिनि परे || ७२-२५ || द्वयं ब्रह्मज्ञानं परमममले चागममयं | विवेकोद्भूतं स्यादमलपरमं शब्दमपरम् | द्वयोर्मूलीभूता हृदि सपदि शान्तिः प्रियतमा | प्रभा कालीपादाम्बुजयुगलभक्तिप्रलयदा || ७२-२६ || कुलश्रीकुण्डल्याः परमरसभावं नवमयं | पदं मातुः काल्याः प्रथमरविकान्त्याः सुखमयम् | वदामि प्रोत्साहे वशषसशुभे हाटकनिभे | विधिः श्रीडाकिन्याऽमरपतिधरित्रीति च भजेत् || ७२-२७ || त्रयं स्थानं नित्यं रविशशिकलावह्निघटितं | महातीर्थं सम्यक् पवनगगनस्थं भवकरम् | विभिन्नं सङ्कृत्य द्वयमपि कुलग्रन्थिसहितं | सुषुम्नाश्रीतीर्थे महति गगने पूर्णलयवान् || ७२-२८ || त्रयं संशोध्यादौ परमपदवीं गच्छति महान् | सुदृष्टाङ्गैर्योगैः परिभवति शुद्धं मम तनुम् | अतो योगाष्टाङ्गं कलुषसुखमुक्तं वितनुते | क्रियादौ सङ्कुर्याद्यमनियमकार्यं यतिवरः || ७२-२९ || अहिंसासत्यार्थी प्रचयति सुयोगं तव पदं | धनस्ते यद्योगी शुचिधृतिदयादाननिपुणः | क्षमालध्वाहारी समगुणपरानन्दनिपुणः | स्वयं सिद्धः सद्ब्राह्मणकुलपताकी सुखमयी || ७२-३० || तपः सन्तोषाढ्यो हरयजन आस्तिक्यमतिमान् | यतीनां सिद्धान्तश्रवणहृदयप्राणविलयः | जयानन्दामग्नो हवनमनलेपः प्रकुरुते | महाभक्तः श्रीह्रीर्मतिरकुलीनस्तव पदः || ७२-३१ || सुषुम्नामुखाम्भोरुहाग्रे च पद्मं | दलं चेदहेमाक्षरं मूलदेशे | स्थिरापृष्ठवंशस्य मध्ये सुषुम्ना-- न्तरे वजिरणी चित्रिणीभासिपद्मैः || ७२-३२ || सुषुम्नादिनाड्या युगात् कर्णमूला | त्प्रकाशप्रकाशा बहिर्युग्मनाडी | इडा पिङ्गला वामभागे च दक्षे | सुधांशूरवी राजसे तत्र नित्यम् || ७२-३३ || विसर्गं बिन्द्वन्तं स्वगुणनिलयं त्वं जनयसि | त्वमेका कल्याणी गिरिशजननी कालिकलया | परानन्दं कृत्वा यदि परिजपन्ति प्रियतमाः | परिक्षाल्य ज्ञानैरिह परिजयन्ति प्रियपदम् || ७२-३४ || अष्टादशाङ्गुलगतं ऋजुदन्तकाष्ठं | स्वीयाङ्गुलार्धघटितं प्रशरं शनैर्यः | संयोज्य तालुरसनागलरन्ध्रमध्ये | दन्तीक्रियामुपचरेत् तव भावनाय || ७२-३५ || नाडीक्षालनमाकरोति यतिराड् दण्डे त्रयं धारयन् | युष्मच्छ्रीचरणार्पणो नवमदण्डस्यानिलस्तम्भनात् | प्राणायामफलं यतिः प्रतिदिनं संवर्धते सुश्रमा-- दानन्दाम्बुधिमज्जनं कुलरसैर्मुक्तो भवेत् तत्क्षणात् || ७२-३६ || वदामि परमश्रिये पदपद्मयोगं शुभं | हिताय जगतां मम प्रियगणस्य भागश्रिये | सदा हि कुरुते नरः सकलयोगसिद्धिं मुदा | तदैव तव सेवको जननि मातरेकाक्षरम् || ७२-३७ || करुणासागरे मग्नः सदा निर्मलतेजसा | तवाङ्घिरकोमलाम्भोजं ध्वात्वा योगीश्वरो भवेत् || ७२-३८ || करुणासागरे मग्नो येन योगेन निर्मलः | तद्योगं तव पादाब्जं को मूर्खः कः सुपण्डितः || ७२-३९ || यमनियमसुकाले नेउलीयोगशिक्षा | प्रभवति कफनाशा नाशरन्ध्रे त्रिसूत्री | हृदयकफविनाशा धोतिका योगशिक्षा | गलविलगलवस्त्रं षष्टिहस्तं वहन्ती || ७२-४० || सुसूक्ष्मरसनस्य च स्वभुजषष्टिहस्तं गल | प्रमाणमिति सन्ततप्रसरपञ्चयुग्माङ्गुलम् | पवित्रशुचिधोतिकारं भवसि सर्वपीडापहा | स्वकण्ठकमलोदयाममलभीतदामा भजे || ७२-४१ || भजति यदि कुमारीं नेउली योगदृष्ट्या | स भवति परवेत्ता मोहजालं छिनत्ति | स्मितमुखि भवति त्वां मूढ एवातिजीवो | भ्रमितमुदवधूर्ना कारसिद्धिं ददासि || ७२-४२ || शनैर्दन्ती योगं स्वपदयुगपद्मे वितनुते | शिवे योगी मासादपि भवति वायुं स्थगयति | असौ मन्त्री चाम्रातकदलं सुदण्डं गलविले | नियोज्यादौ ध्यात्वा तव चरणपङ्केरुहतलम् || ७२-४३ || कुलाकुलचेतता परिकरोषि विल्वच्छदी | सुशान्तिगुणदा जया परमभक्तिनिर्गुण्डिका | मुकुन्दतुलसी प्रिया गुणिनि मुक्तिदा योगिनी | ददास्यमरसम्पदं दलवियोगमूर्ध्वोदरीम् || ७२-४४ || पञ्चामरासाधनयोगकर्त्री पञ्चामरानाम महौषधिः स्थिता | त्वमेव सर्वेश्वररूपधारिणी यैः पूज्यते सोऽहिकपारमेष्ठी || ७२-४५ || पठति यदि भवान्याः शाकिनीदेहदेव्याः | स्तवनमरुणवर्णामार्कलक्ष्म्याः प्रकाशम् | व्रजति परमराज्यं देवपूज्यः प्रतिष्ठो | मनुजपनसुशीलो लीलया शम्भुरूपम् || ७२-४६ || प्रातर्मध्याह्नकाले च सायाह्ने च त्रिसप्तके | शतं पठित्वा मोक्षः स्यात् पुरश्चर्याफलं लभेत् || ७२-४७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र-- | प्रकाशे भैरवीभैरवसंवादे शाकिनीकृत कालीस्तवनं नाम द्विसप्ततितमः पटलः || ७२ || अथ त्रिसप्ततितमः पटलः श्रूयतां कोमलाम्भोजस्थितवक्त्रविराजिते | अत्यद्भुतं महागीतं शृणोति साधको हि यत् || ७३-१ || ध्वनिरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः | तन्मनो विलयं याति ध्वनिषु ज्ञानकोटिषु || ७३-२ || तद्ध्वनिज्ञानसंज्ञानं शृण्वन्ति योगिनो जनाः || ७३-३ || परमगुणगभीरे धीरनीरे शरीरे | भवनवभवकान्तौ संप्रशात्मा नितान्तम् | विमलमधुरवाक्यालङ्कृतज्ञानसिन्धौ | सकलवचनरत्नं स्थापयामास वाणी || ७३-४ || ओं तुण्डोग्रस्थिरवचनगा मोहयञ्जीववर्णं | शङ्कातङ्कारहितचरिता मोहिता ज्ञानतन्द्रे | सालङ्कारा खरतरकरा वाक्यमालां वहन्ती | सा पश्यन्ती विमलकरुणा राध्यतां मूलचक्रे || ७३-५ || संसारे सारभागे सयुवतिसुकृपालक्षणैर्लक्षिताङ्गे | सिद्धान्तज्ञानजीवं चरमसमगुणं भूपतेर्योगिनो वा | विप्रेन्द्राणामनन्तं ध्वनिगुरुमधुरं व्यापितं पार्वतीशे | हे हे कालप्रकालप्रियतनुशिखरे वेशमासं चयत्वम् || ७३-६ || सञ्चारे परमस्थिरे हरिहरे विद्याधरे भूधरे | साकारे करुणाकरे स्वविलये ते पादपङ्केरुहे | नित्यज्ञानमयं जयं सुरतरुच्छायालयं पूजये | मातः कालि कलाधरे गलबिले शाकम्भरि शाकिनि || ७३-७ || भास्वत्कोटिरविच्छटाभरसुखश्रीकण्ठवीरालये | हृत्पङ्केरुहमध्यसारघटितं सारस्वतोत्पत्तिदम् | श्रीदेवीगुरुरूपिणीचरणपद्मान्तःप्रभामण्डलं | शैलेन्द्रोदयकारिणीमणिगृहं मापद्मनाभेरधः || ७३-८ || वाञ्छाकल्पद्रुमस्था स्थितिलयफलदा योगिनी योगमाता | सूक्ष्मानन्दप्रशंसा तरुणरविकला कोकिलालापमुग्धा | स्निग्धा स्निग्धाङ्गसङ्गा नवशशिमुकुटा चारुवर्णा विशाला | सा दुर्गा दुःखहन्त्री भवतु शिवगृहे कामनासिद्धिदात्री || ७३-९ || निराश्रयमहं पदं भवति कालि भक्त्याश्रये | श्रिये विमलभावदे सकलभावगो गोगणः | मयि प्रियधनं मुदा वितर चारुदृष्ट्या सुखं | तदैव गलभागकृद्गगनपद्ममध्यस्थले || ७३-१० || नित्ये निष्फलरूपभूतिनिकरे त्रैलोक्यरक्षाकरे | धर्मध्वान्तनिकेतने गणयति ज्ञानप्रयोगान्तरम् | ते पादाम्बुजसम्भवः प्रियगणः प्राणाश्रितः पाथीवो | मातः पर्वतराजराजदुहिते पुण्यं पवित्राप्तये || ७३-११ || भीभर्गो भारसर्गो भवरवविभवो भूतिभारावलम्बी | भावाभावः प्रभावः प्रभवति भुवने भीमभक्तिप्रकाशः | भूभूतोद्भूतभीतिप्रभृतिभयभवासम्भवानन्दभावो | मातस्ते पादपङ्केरुहविमलतलानन्दसेवाभिवृद्ध्या || ७३-१२ || नित्यं पातु गणेश्वरी गणपतेर्माता रमे मातरं | प्राणं प्रत्यय पूर्वसिद्धिकरणी सिद्धासने रक्षतु | आनन्दाम्बुधिमज्जनैकसुखदा भालस्थलस्थापिनी | कण्ठाम्भोरुहकणीका सुरगणान् गीता परा सुस्वरान् || ७३-१३ || कृपापारावारा विमलपुरुषं गौरिवपुषं | धरावक्षे मुख्ये धरणिसुतबुद्ध्याऽधमनरम् | न जाने त्वत्कामं तनुविरहचिन्तामणिमयं | तव स्नेहाध्वीनां गमयति न पारं सुरवरः || ७३-१४ || जयति जय जयाज्योतिराधारजेता | सुरनरगणपूज्यः खेटचक्रस्य मध्ये | भवकमलकराढ्यं नम्रभावं प्रतापं | गमयति तव पादाम्भोजसेवाबलेन || ७३-१५ || इत्येतैः श्लोकमुख्यैस्तु स्तुत्वा गीतरसान्तरैः | परब्रह्ममयीं ध्यात्वा स्वयं ब्रह्मतनुं गतः || ७३-१६ || अकस्माद् भोगसम्पत्तिर्मोक्षपद्धतयः शुभाः | प्रभवन्ति स्वयं विद्या अष्टादश गुणोदयाः || ७३-१७ || नीलजीमूतसङ्काशं चन्द्रशेखरमीश्वरम् | सदाशिवं महाशक्तिशाकिनीवामसंस्थितम् || ७३-१८ || चतुर्भुजं देवदेवमनन्तमक्षरं हरम् | भावगीतं पुनर्गीत्वा परं ब्रह्मसमो भवेत् || ७३-१९ || कण्ठषोडशसम्पूर्णमध्ये योगी स्थिराशयः | अष्टसिद्धीश्वरो भूत्वा भावसिद्धिं लभेद् ध्रुवम् || ७३-२० || त्वया सह समाह्लाददर्शनं सिद्धिमाप्नुयात् || ७३-२१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र-- प्रकाशे भैरवीभैरवसंवादे वाणीगीतविन्यासो नाम त्रिसप्ततितमः पटलः || ७३ || अथ चतुःसप्ततितमः पटलः श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते | सर्वं मे कथितं देवि कवचं न प्रकाशितम् || ७४-१ || प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय | सदाशिवमहादेवभावितं सिद्धिदायकम् || ७४-२ || अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् | सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति || ७४-३ || श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव | प्रासादमन्त्रकवचं सदाशिवकुलोदयम् || ७४-४ || प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः | पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता || ७४-५ || साधकाभीष्टसिद्धौ च विनियोगः प्रकीतीतः | शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः || ७४-६ || षडक्षरस्वरूपो मे वदनं तु महेश्वरः | अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु || ७४-७ || पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु | मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा || ७४-८ || वटमूलसमासीनो दक्षिणामूतीरव्ययः | सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् || ७४-९ || द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु | त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा || ७४-१० || चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः | सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः || ७४-११ || एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः | मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु || ७४-१२ || तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः | सदा मारणभूमौ च रक्षतु त्रिदशाधिपः || ७४-१३ || ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा | दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः || ७४-१४ || अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु | वामदेवः पश्चिमास्यं सदा मे परिरक्षतु || ७४-१५ || उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् | मृत्युजेता सदा पातु जलेऽरण्ये महाभये || ७४-१६ || पर्वते विषमस्थाने विषहर्ता सदाऽवतु | कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता || ७४-१७ || कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु | अकालतारकः पातु खड्गधारी सदाशिवः || ७४-१८ || कवची वामदेवश्च सदा पातु महाभये | कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः || ७४-१९ || मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः | चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा || ७४-२० || सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु | भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः || ७४-२१ || निरूपकः सदा पातु खेचरीखेचरप्रियः | रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु || ७४-२२ || वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम | वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम || ७४-२३ || कपालधारकः पातु गण्डयुग्मं युगान्तकृत् | रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम् || ७४-२४ || दन्तावलियुगं पातु भृगुरामेश्वरः शिवः | तालुमूलं सदा पातु विश्वभोजी रसामृतम् || ७४-२५ || जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम | मुखवृत्तं सदा पातु महासेनः कवीश्वरः || ७४-२६ || क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् | दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः || ७४-२७ || चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् | अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः || ७४-२८ || विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् | पातु वामकूर्परं मे वामकेश्वर ईश्वरः || ७४-२९ || कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः | वेदमातृपतिः पातु कामधेनुपतिः प्रभुः || ७४-३० || ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम | वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः || ७४-३१ || तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः | शाकिनीवल्लभः पातु दक्षाङ्घिरमध्यदेशकम् || ७४-३२ || गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता | अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम् || ७४-३३ || पातु स्मरहरो योगी वामोरुमूलदेशकम् | वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु || ७४-३४ || पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् | मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम् || ७४-३५ || कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः | अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः || ७४-३६ || महारुद्रेश्वरः पातु मम नाभिमनोभवम् | उदरं गगनाधारः कामहर्ता हृदम्बुजम् || ७४-३७ || सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः | हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा || ७४-३८ || हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः | हृदयान्मम दक्षाङ्घ्रनखान्तं मे शिवोऽवतु || ७४-३९ || सदानन्दा सदा पातु हृदाद्यङ्घिरं तु उन्मदः | वासुकीवल्लभः पातु हृदादिगुददेशकम् || ७४-४० || अनन्तनाथ आपातु हृदादिमूर्धदेशकम् | व्यापकः सर्वदा पातु सदाशिव उमापतिः || ७४-४१ || तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता | पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम् || ७४-४२ || शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु | जलेऽरण्ये घोरवने सङ्कटे च महापथे || ७४-४३ || प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः | अर्धनारीश्वरः पातु मातृकापरमेश्वरः || ७४-४४ || मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु | धर्मात्मा धर्मसन्ंधिं मे पिङ्गलां पातु चण्डिकाम् || ७४-४५ || विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु | सर्वदेशे सर्वपीठे कामरूपे विशेषतः || ७४-४६ || सर्वदा योगिनीनाथः परमात्मा सदाऽवतु | कामरूपाख्यपीठादि पञ्चाशत् पीठदेवताः || ७४-४७ || पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः | भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः || ७४-४८ || गुह्यकेशः पापहर्ता कपाली शूलधारकः | पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः || ७४-४९ || महाकालो महारुद्रो महावीरो हृदि स्थितः | महादेवो महागुह्यो महामाया महागुणः || ७४-५० || पशुपतिवीरूपाक्षो हरीशो धवलेश्वरः | वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः || ७४-५१ || उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः | सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः || ७४-५२ || क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः | श्यामकः क्रूरहर्ता च गणेशः कालमाघवः || ७४-५३ || ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः | कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः || ७४-५४ || सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः | आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके || ७४-५५ || अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् | जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके || ७४-५६ || कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके | अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः || ७४-५७ || सदा पातु महावीरः कालधर्मी परात्परः | मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् || ७४-५८ || मायावतीमहापीठं तदूर्ध्वे परिकीतीतम् | वाराणसीमहापीठं धर्मपीठं तदन्तिके || ७४-५९ || ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीतीतम् | तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च || ७४-६० || तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके | उड्डयानं तदूर्ध्वे तु कमलापीठमेव च || ७४-६१ || हरिद्वारं महापीठं बदरीपीठमेव च | व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् || ७४-६२ || हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके | तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके || ७४-६३ || लिङ्गपीठं कलापीठं द्वारकापीठमेव च | कपालपीठं हर्याख्ये वरदापीठमुत्तरे || ७४-६४ || कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके | उग्रतारामहापीठं महोग्रापीठमेव च || ७४-६५ || नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके | तदूर्ध्वे गगनापीठं खेचरीपीठमेव च || ७४-६६ || तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके | कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके || ७४-६७ || राजराजेश्वरीपीठं षोडशीपीठमेव च | सहस्रदलमध्ये तु सहस्रपीठमेव च || ७४-६८ || मध्ये एकजटापीठं कर्त्रीतीरकलोपरि | षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला || ७४-६९ || काली नीला महाविद्या त्वरिता छिन्नमस्तका | वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः || ७४-७० || कामाख्या वासली बाला मातङ्गी शैलवासिनी | षोडशी भुवनेशानी भैरवी बगलामुखी || ७४-७१ || धूमावती वेदमाता हरसिद्धा च दक्षिणा | एता विद्या महाविद्याः शिवसेवनशोभिताः || ७४-७२ || द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् | महापीठे सहस्रारे सर्वदा पान्तु मां कलाः || ७४-७३ || सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः | पञ्चामराधरः पातु देवीनाथः सदाऽवतु || ७४-७४ || पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा | अघोरनाथ ईशानो वरदो मदनान्तकः || ७४-७५ || यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः | अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः || ७४-७६ || त्रिलोचनः कालकामो महारुद्रो गणेश्वरः | काकिनीवल्लभः शूली योगकर्ता महेश्वरः || ७४-७७ || वागीश्वरः स्मरहरो महामन्त्रो हलायुधः | श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः || ७४-७८ || बलरामः कृष्णरामो गोविन्दो माधवीश्वरः | जितामित्रेश्वरश्चूडामणीशो मानदः सुखी || ७४-७९ || मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् | वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली || ७४-८० || विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः | ज्वालामालाधरः पातु कालानलधरोऽवतु || ७४-८१ || काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः | महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् || ७४-८२ || सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः | महारुद्रो नीलकण्ठो महाविष्णुं सदावतु || ७४-८३ || राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् | सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम् || ७४-८४ || ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् | सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः || ७४-८५ || हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु | तारानाथविधिः पातु सहस्रारनिवासिनीम् || ७४-८६ || महाकाशं सदा पातु तदधो वायुमण्डलम् | वह्निमण्डलमापातु तदधः शाकिनीश्वरः || ७४-८७ || तदात्मकः सदा पातु कीलालं कौलदेवता | पृथिवीं पाथीवः पातु सर्वदैकं सदाशिवः || ७४-८८ || इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् | प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् || ७४-८९ || पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः | कीतीश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् || ७४-९० || अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् | ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् || ७४-९१ || अस्य धारणमात्रेण कालसूत्रान्तको भवेत् | अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् || ७४-९२ || सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः | पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः || ७४-९३ || कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् | मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् || ७४-९४ || युद्धे विजयमाप्नोति द्यूते वादे च साधकः | कवचं धारयेद्यस्तु साधको दक्षिणे भुजे || ७४-९५ || देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः | कवचं शिरसा यस्तु धारयेद् यतमानसः || ७४-९६ || करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः | भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् || ७४-९७ || रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः | सम्प्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् || ७४-९८ || यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन | शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् || ७४-९९ || योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा | अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः || ७४-१०० || तव स्नेहान्महादेव कथितं कवचं शुभम् | न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् || ७४-१०१ || यदि भाग्यफलेनापि कवचं यदि लभ्यते | धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः || ७४-१०२ || निजकर्मफलत्यागमवश्यं खलु कारयेत् | तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् || ७४-१०३ || सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः | धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च || ७४-१०४ || राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः | योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् || ७४-१०५ || तेनाचीता महादेव सर्वदेवा न संशयः | राजसिकं मानसिकं तामसिकं परन्तपः || ७४-१०६ || हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् | तामसिकं लोकमध्ये कवचार्चा त्रिधा मता || ७४-१०७ || सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये | मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर || ७४-१०८ || तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् | अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् || ७४-१०९ || राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये | इति ते कथितं नाथ परमात्मनि मङ्गलम् || ७४-११० || यस्याराधनमात्रेण शिवत्वमुत किं प्रभो || ७४-१११ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे | षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो | नाम चतुःसप्ततितमः पटलः || ७४ || अथ पञ्चसप्ततितमः पटलः आनन्दभैरव उवाच कथितं शारदं धाम अप्रकाश्यं फलोदयम् | इदानीं कथय प्राणवल्लभे वरदा भव || ७५-१ || कण्ठाभोजे कीदृशी या सभा परममोहिनी | गायन्ती योगिभिनीत्यं परमानन्दवधीनी || ७५-२ || सभोत्कृष्टां सिद्धसभां वर्तय ब्रह्मवादिनि | तदा मे सफलं ज्ञानं सफलं सारनिर्णयम् || ७५-३ || यदि सा कथ्यते देवि सभा सर्वप्रतिष्ठिता | श्रीआनन्दभैरवी उवाच श्रूयतां देवदेवेश सर्वानन्दप्रपूरक || ७५-४ || सभा ज्ञानमयी नित्या षोडशारप्रकाशिनी | विस्तीर्णा सप्ततिं चैव योजनानां शितप्रभा || ७५-५ || तपसा निमीता लक्ष्मीर्ज्ञानमङ्गलमण्डिता | राशिप्रभा खेचरी सा कैलासशिखरोपमा || ७५-६ || गुह्यकैरूह्यमाना सा मधुरध्वनिपूरणी | दिव्यहेममयैरुच्चैः पादपैरुपशोभिता || ७५-७ || रश्मिमती भास्वती च दिव्यगन्धमनोरमा | शिताभ्रशिखराकारा हेमतोरणशोभिता || ७५-८ || दिव्यहेममयैः शृङ्गैवीद्युद्भरिव चित्रिता | षोडशारकणीकायां प्रतिभा विश्वजित्वरी || ७५-९ || तस्यां सदाशिवो नाथो विचित्राभरणायुधः | स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः || ७५-१० || दिवाकरनिभे रम्ये दिव्यास्तरणसंयुते | दिव्यपादोपधाने च निषण्णः परमासने || ७५-११ || मन्दाराणामुदाराणां वनानि सुरभीणि च | सौगन्धिकानां चादाय गन्धान् गन्धवहः शुचिः || ७५-१२ || नलिन्याश्चाणकाख्यायाश्चन्दनानां वनस्य च | मनोहृदयसंह्लादी वायुस्तमुपसेवते || ७५-१३ || तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः | दिव्यतालेन गायन्ति गीतानि परमेश्वर || ७५-१४ || मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता | चारुनेत्रा घृताची च मेनका मुञ्जिकस्तनी || ७५-१५ || विश्वाचा सहजन्या च प्रम्लोचा उर्वशी इरा | वर्गा च सौरभेयी च समीची बुद्धिदा लता || ७५-१६ || रत्नावती महामाया कमला गन्धकेशिका | बाणमाता महाभर्गा ज्योतिः प्रज्ञा भवाऽभवा || ७५-१७ || प्रभवा सम्भवा गुञ्जा साराङ्गी सारविक्रमा | त्रिलोचनी त्रिवेदिस्था अम्बिका सप्तशायका || ७५-१८ || विरला वरदा माया सिद्धा कात्यायनी तथा | योगिनी खेचरी सिद्धा जीवाङ्गी दीर्घलोचनी || ७५-१९ || रमणी च हिरण्याक्षी पद्मवक्त्रा हिरण्मयी | एताः सहस्रश्चान्या नृत्यगीतविशारदाः || ७५-२० || ईशानमुपतिष्ठन्ति गन्धर्वाप्सरसाङ्गणाः | अनिशं दिव्यवादित्रैर्नृत्यगीतैश्च सा स्रभा || ७५-२१ || अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः | किन्नरोरगगन्धर्वा नरा नाम तथा परे || ७५-२२ || मानभद्रोऽथ धनदः श्वेतभद्रोऽथ गुह्यकः | काशवलो गण्डकण्डूः पत्योद्रश्च महाबलः || ७५-२३ || कुस्तुम्बुरुः पिशाचाश्च गजकर्णे विशानकः | वराहकर्णस्ताम्रौष्ठः फलभक्षः फलोदकः || ७५-२४ || अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः | पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः || ७५-२५ || वृकवांश्चानिकेतश्च चीरवासाश्च भावतः | भरद्वाजो वारिधरी महामायो धनञ्जयः || ७५-२६ || कपिलः कपिलाचार्यो महायोगी क्षमाधरः | एते चान्ये च बहवो यक्षा शतसहस्रशः || ७५-२७ || सदा भगवती लक्ष्मीस्तथैव नलकूबरः | तयोः परिजनाः सर्वे वारुणीमद्यकारकाः || ७५-२८ || अतो मधुपुरी नाम चाष्टपूरं मधुस्थलम् | तद्बाह्ये सा सभा भाति चन्द्रकोटिसमोदया || ७५-२९ || अहञ्च निवसाम्यस्यां भवन्त्यन्ये च मद्विधाः | ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयो परे || ७५-३० || क्रव्यादा राक्षसाश्चान्ये गन्धर्वाश्च महाबलाः | उपासन्ते महात्मानं तस्यां शिवदमीश्वरम् || ७५-३१ || भगवान् भूतसङ्घैश्च वृतः शतसहस्रशः | उमापतिः पशुपतिः शूलधृग् भगनेत्रहा || ७५-३२ || त्र्यम्बको राजशार्दूलो देवी च विगतक्रमाः वामनैवीकटैः कुब्जैः प्रिययक्षैर्महाबलैः || ७५-३३ || मेदोमांसासवैरुग्रैरुग्रधन्वा महाबलः | नानाप्रहरणैर्घोरैर्घातैरिव महाजवैः || ७५-३४ || वृतः सहायैस्तत्रास्ते सदैव श्रीसदाशिवः | प्रकृष्टाः सततञ्चा(पि?)प्यवन्तु शम्भुपरिच्छदाः || ७५-३५ || गन्धर्वाणाञ्च पतयो विश्वावसुर्हाहा हुहूः | तुम्बुरुः पर्वतश्चैव शैलूरश्च तथापरः || ७५-३६ || चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि च | एते चान्ये च गन्धर्वाः सदाशिवमुपासते || ७५-३७ || विद्याधराधिपश्चैव चक्रवर्मा (हि)मानुगः | उपासतुस्ततस्तस्यां प्रभुं धनदमीश्वरम् || ७५-३८ || हिमवान् पारिभद्रश्च विन्ध्यकैलासमन्दराः | किन्नराः शतशस्तत्र ज्ञानिनामीश्वरं प्रभुम् || ७५-३९ || गणाश्च शतशस्तत्र भगदत्तपुरोगमाः | द्रुमः किंपुरुषश्चैव उपास्ते वरदेश्वरम् || ७५-४० || राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः | सह यज्ञैः सगन्धर्वैः सह सर्वैनीशाचरैः || ७५-४१ || विभीषणश्च धमीष्ठ उपास्ते श्रीसदाशिवम् | मलयो मन्दरश्चैव महेन्द्रो गन्धमादनः || ७५-४२ || इन्द्रकीलः सनाभश्च तथा दिव्यौ च पर्वतौ | एते चान्ये च बहवः सर्वे मेरुपुरोगमाः || ७५-४३ || उपासते महात्मानं सदाशिवमधीश्वरम् | नन्दीश्वरश्च भगवान् महाकालस्तथैव च || ७५-४४ || शक्तं कर्णमुखाः सर्वे देव्याः पारिषदास्तथा | काष्ठभृकुटी मुखोदन्ती विजया च तपोऽधिका || ७५-४५ || श्वेतश्च वृषभश्चैव नर्दन्नास्ते महाबलः | वरदं राक्षसाश्चान्ये पिशाचाश्च समासते || ७५-४६ || पार्षदैः संपरिवृतमुमया च महेश्वरम् | सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम् || ७५-४७ || प्रणम्य मूर्ध्ना पौलस्त्यो बन्धुरूपमुमापतिम् | ततोऽभ्यनुज्ञां सम्प्राप्य महादेवात् कुलेश्वरात् || ७५-४८ || आस्ते कदाचिद् भगवान् भवो धनपतेः सखा | निधिप्रवरमुख्यौ च शङ्खपद्मधनेश्वरौ || ७५-४९ || सर्वान्निधीन् प्रगृह्याथ उपास्ताद्वै सदाशिवम् | समता तादृशी रम्या मया गुप्तान्तरीक्षगा || ७५-५० || पितामहसभा तस्या ऊर्ध्वे भाति विभाविता | दिक्पालानां सभाग्रे तु स्थिरविद्युत्समोदया || ७५-५१ || महादेवं कीर्तयिष्ये सतां कण्ठसरोरुहे | योगिनां मौनशीलानां ध्यानसिद्धिप्रदा सभाम् || ७५-५२ || महापातककोटिघ्नी वर्णना नास्ति ब्रह्मणः | सभाया वर्णने शक्तो नाहं वर्षशतैरपि || ७५-५३ || तथापि तव सिद्ध्यर्थं संक्षेपाद् वर्ण्यते प्रभो | पितामहसभां नाथ कथ्यमानां विशुद्धये || ७५-५४ || शक्यते सा न निर्देष्टुमेवं रूपेति सोज्ज्वला | सर्वदा संस्थिरा तत्र यथा नारायणे स्थिरा || ७५-५५ || समरूपं संविभाव्य सभया श्रीपितामहः | उपासते महात्मानं शाकिनी परमेश्वरम् || ७५-५६ || अप्रमेयां सभां दिव्यां मानुषीं नित्यरूपिणीम् | अनिदीश्यां प्रभावेण सर्वभूतमनोरमाम् || ७५-५७ || औषधैर्वा तथा युक्तैरुत्तमा या अनाशिनी | मन्मथा सा सभा देवी न शीता न च घर्मदा || ७५-५८ || न क्षुत्पिपाशे न ग्लानिं न भूतां नापि भाविताम् | नानारूपैरिव कृता मणिभिः सहितायुधैः || ७५-५९ || स्तम्भैर्न च धृता सा तु शाश्वती न च साक्षरा | दिव्यैर्नानाविधैर्भावैर्भास्वद्भरमितप्रभैः || ७५-६० || अतिचन्द्रञ्च सूर्यञ्च भासते सा प्रभा स्वयम् | प्रदीप्ता नाकपृष्ठस्था भासयन्तीव भास्करम् || ७५-६१ || तस्यां स भगवानास्ते विदधद् देवमानुषान् | स्वयमेकोऽनिशं नाथ सर्वलोकपितामहः || ७५-६२ || उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् | दक्षः प्रचेता पुलहो मरीचिः कश्यपो यतिः || ७५-६३ || भृगुरत्रिर्वशिष्ठश्च गौतमोऽथाङ्गिरास्तथा | पुलस्त्यश्च क्रतुश्चैव प्रह्लादः कर्दमस्तथा || ७५-६४ || अथर्वाङ्गिरसश्चैव बालखिल्या मरीचिपाः | मनोऽन्तरीक्षं विद्याश्च वायुस्तेजो जलं मही || ७५-६५ || शब्दस्पर्शौ तथा रूपं रसो गन्धश्च धामीकः | प्रकृतिश्चाहङ्कारश्च यच्चान्यत्कारणं भुवः || ७५-६६ || अगस्त्यश्च महातेजा मार्कण्डेयो मुनीश्वरः | जमदग्निर्भरद्वाजः संवर्तश्च्यवनस्तथा || ७५-६७ || दुर्वासाश्चामरिर्जेता ऋष्यशृङ्गस्तपोधनः | सनत्कुमारो भगवान् योगाचार्यो महातपाः || ७५-६८ || असितो देवलश्चैव जैगीषव्यश्च तत्त्ववित् | ऋषभो जितशक्रश्च महावीर्यस्तपोमुनिः || ७५-६९ || आयुर्वेदस्तथाष्टाङ्गो देहवान् वीर्यधारकः | ऊर्ध्वरेता महायोगी देवदत्तो भगीरथः || ७५-७० || कपिलाचार्य ईशाप्तो धनदः सारसङ्गतः | महावाग्मीश्वरः कालः प्रियकर्मा च सुव्रतः || ७५-७१ || वरुणः सार्वभौमश्च देवाचार्यो धनञ्जयः | कामपुत्रो वशिष्ठश्च मन्दारोऽश्वत्थ एव च || ७५-७२ || रविमुख्यो विधाता च नैरृतो यम एव च | अग्निः शक्रो विभाण्डश्च महावीरो गणेश्वरः || ७५-७३ || कातीकेयो जीवनाथो ग्रहचक्रः शुभङ्करः | वेदज्ञाता धर्मवेत्ता वारेन्द्रो नन्दनः प्रभुः || ७५-७४ || बृहस्पतिः शुक्रदेवो विज्ञानी भास्वरास्त्रधृक् | अन्ये च बहवः सन्ति ऊर्ध्वरेतार ईशगाः || ७५-७५ || तस्यां भान्ति महाकाल ! केवलानन्दविग्रहाः | चन्द्रमा सह नक्षत्रैरादित्यैश्च गभस्तिभिः || ७५-७६ || वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च | मूतीमन्तो महात्मानो महाव्रतपरायणाः || ७५-७७ || एते चान्ये च बहवः सदाशिवमुपासते | अर्थो धर्मश्च कामश्च हर्षोऽद्वेषस्तपो दमः || ७५-७८ || आयान्ति तस्यां गन्धर्वाः सहिताप्सरसस्तथा | विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः || ७५-७९ || नवग्रहास्तत्र सन्ति नानोपचारपण्डिताः | मन्त्रो रथन्तरश्चैव हरिमान् वसुमानपि || ७५-८० || आदित्याः साधिराजानो नानावृन्दैरुपागताः | मरुतो विश्वकर्मा च वसवश्च दिगीश्वराः || ७५-८१ || तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ | ऋग्वेदश्च सामवेदो यजुर्वेदः सदाशिवः || ७५-८२ || अथर्ववेदस्तस्यान्तः सर्वशास्त्राणि चैव ह | इतिहासोपदेशाश्च वेदाङ्गानि च सर्वशः || ७५-८३ || ग्रहा यक्षाश्च सोमाश्च दैवतानि च सर्वशः | सावित्री दुर्गतरणी वाणी सप्तविधा तथा || ७५-८४ || स्मृतिर्मेधा धृतिश्चैव बुद्धिः प्रज्ञा क्षमा यशः | स्तुतिशास्त्राणि सामानि गाथास्तु विविधास्तथा || ७५-८५ || भाष्याणि तर्कवक्त्राणि देहवन्ति विभान्ति च | नाटका विविधाः काव्याः कथाख्याधिककारिकाः || ७५-८६ || तत्र तिष्ठन्ति ये पुण्या ये चान्ये गुरुपूजकाः | क्षणा लवा मुहूर्ताश्च दिवारात्रिः प्रभातगा || ७५-८७ || अर्धमासास्तथा मासा ऋतवः षट् च भैरव | संवत्सराः पञ्च युगं मासा रात्रिश्चतुवीधाः || ७५-८८ || कालचक्रञ्च यद्दव्यं नित्यमक्षयमव्ययम् | धर्मचक्रं तथा चापि नित्यमन्तेषु विग्रहाः || ७५-८९ || अदितिर्दक्षकश्चैव सुरसा विनता इरा | कालका सुरभी देवी सरमा चाथ गौतमी || ७५-९० || प्रधा कद्रूश्च वै देव्यो देवतानाञ्च मातरः | रुद्राणी श्रीश्च लक्ष्मीश्च भद्रा षष्ठी तथापरा || ७५-९१ || पृथिवी गाङ्गता देवी ह्रीः स्वाहा कीतीरेव च | सुरा देवी शची चैव तथा पुष्टिरुन्धती || ७५-९२ || संवृद्धिराशा नियतिरिडा देवी रतिस्तथा | कामिनी परमानन्दा देवी श्रीत्रिपुरेश्वरी || ७५-९३ || काममाता महाबाला वरदाद्या सरस्वती | मन्दाकिनी वियद्गङ्गा स्वर्गगङ्गा मनोजवा || ७५-९४ || त्रिस्रोता चन्द्रभागा च महावेगवती नदी | पञ्चतीर्थकलापद्माः सागराः सागरोदयाः || ७५-९५ || कालिन्दी वैष्णवी सिद्धा तरला पुष्करोदयाः | भानुमती महावेगा चण्डशुक्रा महानदी || ७५-९६ || वेत्रवती च कावेरी महाभर्गा वसुन्धरा | विभावती पद्मलक्ष्मीः प्रभा भद्रा किरातिनी || ७५-९७ || अम्बालिका त्वहल्या च त्रितुण्डा मण्डलेश्वरी | मन्दोदरी मन्दवेगा मदिरा शारदा नदी || ७५-९८ || निर्मला मन्दरग्रन्थिः प्रज्ञा ज्वालावती रतिः | अवन्ती च रटन्ती च युगाद्या माघसप्तमी || ७५-९९ || पञ्चतुण्डा घोरनादा सन्तोषी तुष्टव्ंशिनी | भरद्वाजेश्वरी धर्मा शतधारा धरावती || ७५-१०० || मल्लिका मालिनी मन्दा हिन्दोला लिङ्गवाहिनी | वर्तुला सिद्धलङ्का च कुरुक्षेत्रस्थिता नदी || ७५-१०१ || आकाशगङ्गा सिद्धाङ्गी गौतमी बालिका गया | दैत्यजिह्वा कालजिह्वा चतुष्कोटिकलाऽमला || ७५-१०२ || नाडिका सार्धवह्निस्था प्रत्येकस्थान संस्थिताः | मूतीमत्यो विभान्त्यस्यां सिन्धुदेव्यस्तथा पराः || ७५-१०३ || सभायां कृष्णनाम्नी च नदी कुलवती बला | तस्यां प्रधाना त्रिनदी वामदक्षिणमध्यतः || ७५-१०४ || इडावती पिङ्गलाख्या सुषुम्नाद्या सरस्वती | त्रिमध्ये पूजिता देवी सुषुम्ना बहुरूपिणी || ७५-१०५ || नदाश्चापि च तत्सङ्ख्याः सार्धत्रिकोटयः स्मृताः | नदः शोणो महाशोणो वटुको बलवान् हरः || ७५-१०६ || तरुणस्तारको भद्रो विभद्रो नर्मदापतिः | प्रभानाथो वीरमुख्यो विशालो बलदेवकः || ७५-१०७ || पद्मरागो मारकेतस्त्रिवृत्तो नन्दनो घनः | अकालजिह्मो हिंसाढ्यो विधृतो ह्यवधूतकः || ७५-१०८ || ब्रह्मपुत्रो विभाकारः कपिलोऽञ्जन एव च | साम्ब एको महासंख्यो मण्डलाख्यो बृहन्नलः || ७५-१०९ || शतनालाधरो रुद्रो विश्वगामी धनञ्जयः | सहस्रवदनो वाक्यो घर्घरो दमनस्तथा || ७५-११० || सिताख्यो मानवो गर्तः कुलाख्यो विसमापतिः | भवकुण्डो विसर्गाख्यो ज्योतिष्टोम्ः फलाकरः || ७५-१११ || धवलो बदराख्यश्च वीरभद्रो मखस्तथा | मर्महन्ता शूलगर्तो मानभङ्गो दिवागमः || ७५-११२ || शूरश्चैव कालकूटो मधुगामी जलान्तकः | दधिधारो घृताख्यश्च सुधाधारो महानदः || ७५-११३ || हिङ्गुलाख्यो मालकेतुः पयस्वान् पयसः पतिः | लवणाख्यो धर्मपुत्रो जीवपुत्रो धनाकरः || ७५-११४ || मायापतिः कलानाथो विन्ध्यलो लवणाश्रयः | इक्षुधाराधरो मानो विधुवर्णो धराजलः || ७५-११५ || पुष्करो दुष्कराख्यश्च शङ्करश्च सदाइशव | एते चान्ये च बहवः पुष्करं समुपासते || ७५-११६ || त्रयाणां पुष्करः श्रेष्ठः सुषुम्नानाडिकाश्रयः | इडायां पुष्कराख्यश्च पिङ्गलायाञ्च शङ्करः || ७५-११७ || नदाश्चापि बहुतरा मूतीमन्तो विभान्ति च | नद्यश्च मूतीमत्यश्च सदाशिवमुपाश्रिताः || ७५-११८ || पूजयन्ति कणीकायां सभायां ब्रह्मणः प्रभो | सदाशिवसभामध्ये ब्रह्मणः सभयोज्ज्वला || ७५-११९ || तस्यां देवसभा भाति शक्रस्यापि मनोहरा | पूर्वादिक्रमयोगेन ध्येया च खेचरीव वा || ७५-१२० || वह्निकोणेऽनलसभा महातेजोमयी परा | कणीकाया दक्षिणे च धर्मराजमहासभा || ७५-१२१ || नैरृते राक्षसेन्द्रस्य सभा सकलमोहिनी | वरुणे भाति दीप्ताख्या वारुणीया सभाऽपरा || ७५-१२२ || वायुकोणे वायुसभा कौबेरी चोत्तरे सभा | अधो नन्दसभा भाति चोर्ध्वं ब्रह्मसभा प्रभो || ७५-१२३ || मध्ये च भाति सूर्याभां शतायुतसमोदयाम् | सदाशिवसभां नाथ ब्रह्माण्डे मण्डलोद्भवाम् || ७५-१२४ || सूक्ष्ममार्गे सदा भान्तीमीश्वरस्यापि रूपिणीम् | आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि || ७५-१२५ || विश्वेदेवाश्च साध्याश्च पितरश्च महर्षयः | एक एव तु राजषीः प्रधानस्तत्र भाति हि || ७५-१२६ || त्रयोदशगुणोपेता भान्ति राजर्षयस्तथा | पृथुश्चैव धर्मराजो हरिश्चन्द्रो युधिष्ठिरः || ७५-१२७ || रामचन्द्रो रमानाथो भगीरथ इलापतिः | प्रह्लादः कर्दमश्चैव विभीषणश्च धामीकः || ७५-१२८ || नलश्चैव रुक्ममाली विक्रमोद्धततापसाः | वामपार्श्वे अधोभागे प्रदीप्ता ह्यासनावनौ || ७५-१२९ || अन्ये च मुनयः सन्ति समावेष्ट्य सदाशिवम् | महाभक्ताः प्रपश्यन्ति सदाशिवपरं पदम् || ७५-१३० || अकालमृत्युहरणं सर्वव्याधिविनाशनम् | स्मरणात् पठनाद्ध्यानात् सदाशिवपतेः प्रभोः || ७५-१३१ || अनायासेन सिद्ध्यन्ति ये ये भक्ता महीतले | वृद्धा वा बालका वापि यौवनस्था नरा अपि || ७५-१३२ || अनायासं फलं लब्ध्वा प्रपश्यन्ति सदाशिवम् | एतेषां ध्यानमाकृत्य चार्चयन्ति सदाशिवम् || ७५-१३३ || स याति सहसा नाथ सदाशिवपरं पदम् | देवीनां यजनं कृत्वा ये ध्यायन्ति सदाशिवम् || ७५-१३४ || त्रैलोक्यं सहसा दृष्ट्वा प्रपश्यन्ति सदाशिवम् | यथाकाले निर्जने च गवीनां कुहरेऽपि वा || ७५-१३५ || स्थित्वा चैकमना ध्यायेत् सदाशिवपरं पदम् | शिवत्वं याति सहसा ध्यानाद् ब्रह्मागतस्य च || ७५-१३६ || ब्राह्मणः सहसा याति सदाशिवपरं पदम् | एवंभूतं ध्यायतीह सदाशिवपदाम्बुजम् || ७५-१३७ || रत्ननूपुरनादाढ्यं चलद्भूषणमण्डितम् | पद्मरागस्याङ्गुलीभिर्मण्डितं रक्तपङ्कजम् || ७५-१३८ || सिद्धसभासेवितञ्च सिद्धानामाश्रयाकरम् | देवदानव गन्धर्वसिद्धचारणसेवितम् || ७५-१३९ || मुनीन्द्रगणपूज्यञ्च धर्मसिन्धुमयं ध्रुवम् | वाञ्छादिफलदं कान्तं शतारुणसमप्रभम् || ७५-१४० || सर्वविद्यामयं ध्यायेद् हंसमार्गे निरञ्जने || ७५-१४१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र-- प्रकाशे भैरवभैरवी संवादेऽकालमृत्युहरणसभावर्णनं नाम पञ्चसप्ततितमः पटलः || ७५ || अथ षष्ठसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच कथयामि महाकाल! चात्यन्ताद्भुतमसाधनम् | कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् || ७६-१ || यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके | भुजमध्ये च कट्यां वा धारयित्वा महीतले || ७६-२ || किं न सिद्धिं करोत्येव साधको योगिनीपतिः | योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा || ७६-३ || महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव च | फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका || ७६-४ || जङ्घासिद्धिः परासिद्धिः खड्गसिद्धिः सुसूक्ष्मगा | अणिमाद्यष्टसिद्धिश्च करे तस्य स्थिरा भवेत् || ७६-५ || कवचं काकिनीदेव्याः सर्वसिद्धिप्रदायकम् | अकाले वा सुकाले वा पठनाद् धर्मसञ्चयम् || ७६-६ || जयी धर्मसञ्चयेन जयो यत्र शिवस्ततः | यत्र शिवा तत्र शिवः कवचात्मा द्वयं प्रियौ || ७६-७ || कर्तारौ तौ सदा तारौ पार्वतीपरमेश्वरौ | कार्यकारणस्रष्टारौ उभौ तत्र परात्परौ || ७६-८ || कवचात्मकमूर्त्तौ च स्थातारौ प्रभवात्मकौ | तस्य नामाक्षरं वक्ष्ये शृष्णुष्व भैरवेश्वर || ७६-९ || भैरवी भीमरूपा च विरूपा रूपविवजीता | सूक्ष्मातिसूक्ष्मरूपा च स्वप्रकाशा च शाकिनी || ७६-१० || जपला जञ्चला भीमा चन्द्रदेवी परापरा | कमलाक्षी देवमाता खड्गकपालधारिणी || ७६-११ || गुर्वी गौरी घनच्छाया ओंकाराद्या चरुप्रिया | छाया जया जाञ्जना च ओङ्कारात्मा कलावती || ७६-१२ || अङ्कारिणी डाकिनी च टक्कादेवी रुणप्रिया | तारिणी स्थूलपुष्टा च दयाधर्मप्रिया नुतिः || ७६-१३ || परमा बुद्धिशक्तिश्च फलदा फाल्गुनी कला | बसुधारा वासुकी च भद्रकाली भवाभवा || ७६-१४ || मनसा मोहिनी माता यशोदा याज्ञिका यशा | रूपेश्वरी रणप्राणा लक्ष्मीर्लक्षणशोभिता || ७६-१५ || वसुप्रिया वसुरता बालरक्षा शशिप्रभा | षडक्षरी शारदा च हरिद्रा हारमालिनी || ७६-१६ || लावण्यनिरता लङ्का क्षयरोगविनाशिनी | क्षेत्रपाला च क्षेत्री च क्षत्रिया क्षेमदा क्षमा || ७६-१७ || क्षुन्निवृत्तिकरी क्षुब्धा क्षालनाख्या क्षराक्षरा | अनन्ताख्या उमा दुर्गा ऋषभा ईश्वरप्रिया || ७६-१८ || ऌकारबीजकुटस्था ऌकारदीर्घजीविका | एरण्डरणचामुण्डा एन्द्री डट्टप्रियान्तरा || ७६-१९ || तुनुतुण्डा ओषधी च उत्तमाधममध्यमा | औद्वेषिणी औषधस्था अट्टहासात्मसङ्गता || ७६-२० || अर्थदा अष्टहस्ता च अर्ककोटिमयूखगा | अर्धनारीश्वरा अर्च्या अर्बुदास्त्रधरा समा || ७६-२१ || अष्टैश्वर्यप्रदा अर्घा अम्भस्था चाप्यरुन्धती | अर्पणाख्या अर्कमुनी अर्पणा अस्खलस्थिता || ७६-२२ || अर्चनाढ्या अर्चनास्था अराती अरुणाधरा | अष्टोत्तराख्यममृतं पठित्वा कवचं पठेत् || ७६-२३ || तदा फलसमृद्धिः स्यादायुरारोग्यसाधनम् | शाकिनीकवचस्यास्य सदाशिव ऋषिः स्मृतः || ७६-२४ || गायत्रीच्छन्द एवापि शाकिनी देहदेवता | ओं श्रीं क्लीं मे शिरः पातु ब्लू ह्लू मे ललाटकम् || ७६-२५ || चक्षुषी खेचरी पातु कर्णौ मे शिवशाकिनी | गण्डयुग्मं सदा पातु देवशाकम्भरी रमा || ७६-२६ || स्वाहा पातु युग्मनासां ओष्ठाऽधरं शिरोऽवतु | द्रीं हीं श्रीं मे दन्तपङ्क्तिं जिह्वाग्रं देहदेवता || ७६-२७ || चिबुकं कमला देवी वाग्दात्री मे कपालकम् | वदनं कालिका पातु शब्दबीजात्मिका गलम् || ७६-२८ || कण्ठदेवी शाकिनी च पातु मे कण्ठपङ्कजम् | सुरादेवी सदा पातु हृत्पद्मं कामरूपिणी || ७६-२९ || कलावती कामकामा काममाला विशुद्धकम् | सदाशिवपथं पातु लक्ष्मीर्मे नाभिपङ्कजम् || ७६-३० || उल्कामुखी सदा पातु देवमाता षडक्षरम् | सदा पातु विष्णुपद्मं राकिणी पातु मे दलम् || ७६-३१ || कटिदेशं सदा पातु भेगदा ज्ञानमोक्षदा | मूलाधारं सदा पातु काकिनी परमेश्वरी || ७६-३२ || एकरूपा सदा पातु लिङ्गाधारं विरूपिणी | मार्कण्डपूजिता देवी मृकुण्डा मूलवासिनी || ७६-३३ || सदा मे पातु देवेशि अभया चारुदेशकम् | दर्शनाख्या महादेवी लिङ्गाधारं पदान्तरम् || ७६-३४ || पातु देवी हिरण्याक्षी सर्वाङ्गं सर्वदेवता | विधात्री सूक्ष्मरूपस्था स्थूलाङ्गी च कृशोदरी || ७६-३५ || सर्वत्र सर्वदा पातु देवी शाकम्भरी मम | हृत्कालिका सदा पातु सर्वाङ्गं सर्वदेशके || ७६-३६ || इति ते कथितं नाथ कवचं देवदुर्लभम् | पठित्वा सिद्धिप्राप्नोति राजत्वं लभते नरः || ७६-३७ || अकस्मात् सूर्यतुल्यः स्यात् कामजेता स्वयं भवेत् | धारणाद् देहवृद्धिः स्यादायुरारोग्यसम्पदम् || ७६-३८ || वायुसिद्धिकरं साक्षादमृतानन्दविग्रहम् | अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं करोति हि || ७६-३९ || खेचरो योगजेता स्यादाशाक्षयकरो भवेत् | ततः पठेत् काममन्त्रं तदन्ते ध्यानमाचरेत् || ७६-४० || ओंश्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे | नक्षत्राणि रूपमश्विनौ व्यात्तम् | इष्णन्निषाणा-- मुम्म इषाण सर्वलोकम्म इषाण || ७६-४१ || जपित्वा काममन्त्रं हि सर्वकामफलं लभेत् | ततो ध्यात्वा च कवचं ध्यायेद्यः शाकिनीशिवम् || ७६-४२ || स वेदपारमायाति शाकिनीध्यानयोगतः || ७६-४३ || प्राणाख्यां शुक्लपद्मे निरवधिनिलयां शाकिनीं पीतवस्त्रां सूक्ष्मां भूषातिरुदोद्भतनुचपलां चञ्चलां सिद्धिलोलाम् | हस्तैः पद्मैश्चतुभीः सुनयनकमलैर्भासमानां शिवाढ्यां पद्माभीतिप्रचण्डासिचसहितां शाकमातां भजामि || ७६-४४ || ध्यात्वा योगी श्मशाने गिरिवरकुरे डाकिनीदेशमध्ये | शून्ये गर्तेवने वा गगनगृहतले शून्यगेहे सुप्रवासे | ज्ञानात्मा यो वशी वा पठति च सततं शाकिनीदेहयोगं गङ्गायां स्वीयगर्भे कवचमभयदं सर्वदं याति सिद्धिम् || ७६-४५ || कवचं कारणैर्देवीं पूजयित्वा यथाविधि | अकस्मात् कायसिद्धिः स्यादष्टैश्वर्यसमन्वितः || ७६-४६ || मोक्षमाप्नोति भावेन सुखं तस्य पदे पदे | मिरयन्तु बालका यस्याः काकवन्ध्या च या भवेत् || ७६-४७ || धारयित्वा त्विमां विद्यामेतैर्दोषैर्न लिप्यते | कण्ठे यो धारयेदेतां समरे काण्डधारिणीम् || ७६-४८ || अक्षयत्वमवाप्नोति जीवमात्रः सदाशिवः | गोरोजनाकुङ्कुमेन कालागुरुहरिद्रया || ७६-४९ || लाक्षारसैर्लेखयित्वा धारयित्वाऽमृतं लभेत् || ७६-५० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवभैरवीसंवादे शकिनीकवचं नाम षष्ठसप्ततितमः पटलः || ७६ || अथ सप्तसप्ततितमः पटलः श्रीआनन्दभैरव उवाच इदानीं वद कौमारि सुन्दरि प्राणवल्लभे | अशीतितमे पटले वद योगार्थसञ्चयम् || ७७-१ || श्रीआनन्दभैरवी उवाच शृणु भैरवराजेन्द्र सदाशिवादिशाकिनीम् | द्वयोराह्लादयोगो हि भोगमोक्षफलायते || ७७-२ || आकाशपरमाणूनां विशिष्टामलचक्षुषाम् | दर्शनं विद्युज्जडितं प्राप्नोति सहसा सुधीः || ७७-३ || सदाशिवकुलस्थानोपरि श्रीशाकिनीपदम् | द्वयोर्यो हि विशिष्टज्ञो ज्ञानखेचरसिद्धये || ७७-४ || तत्कुलस्थानमावक्ष्ये यथावदवधारय | षोडशाख्यदलाग्रेषु मध्यमूलेषु सर्वतः || ७७-५ || सदाशिवकुलस्थानं चक्रराजं विचिन्तयेत् | विचिन्त्य शतधा योगीं किं न सिद्ध्यति भूतले || ७७-६ || भूतानामधिपो भूत्वा स्थिरो भवति भूतले | भगवन्तं महाकायं परदेवं सदाशिवम् || ७७-७ || चक्रस्थं चक्रबाह्यस्थं बाह्यमभ्यन्तरं परम् | पश्यत्येव महायोगी कालचक्रं ततः परम् || ७७-८ || अनायासेन गगनग्रन्थिं भित्वा परे लयम् | चक्रराजप्रसादेन सर्वसञ्चारगो भवेत् || ७७-९ || द्वात्रिंशत्कठिनग्रन्थिं भित्वाकाशे खगोर्ध्वगः | ततः परशिवानन्दचक्रं शक्त्यात्मकं ततः || ७७-१० || ततो हि शब्दनिकरं परास्थानं ततः परम् | सकलानिष्कलास्थानं बोधनीमण्डलं ततः || ७७-११ || तदूर्ध्वञ्चोन्मनीपीठं भित्वा च तदनन्तरम् | भृगुपूरं ततो भित्वा नादपूरं ततः परम् || ७७-१२ || नादान्तकं ततो भित्वा ब्रह्मविष्णुघटाकरम् | क्रियाकरं प्राणलयं यज्ञस्थानं शिखापदम् || ७७-१३ || पूर्णगिरिमुड्डयानं भित्वा च स्वपदं ततः | दुर्गस्थानं ततो भित्वा प्रकाशस्थानमेव च || ७७-१४ || तदूर्ध्वे पिङ्गलास्थानं तदूर्ध्वे तत्पदं ततः | सुषुम्नामण्डलं भित्वा धौमिरकोणं महालयम् || ७७-१५ || महाबिन्दुं तदूर्ध्वे तु षट्कोणं तु तदूर्ध्वके | तदूर्ध्वे वासनापूरं बीजपूरं तदूर्ध्वके || ७७-१६ || तदूर्ध्वे विष्णुचक्रं तु कुलालिचक्रवत्स्थितम् | तं भित्वा कामनगरं सर्वकामफलप्रदम् || ७७-१७ || तदूर्ध्वे शक्रचक्रं तु तदूर्ध्वे भूमिचक्रकम् | तदूर्ध्वे कोषचक्रं तु तदूर्ध्वे वायुचक्रकम् || ७७-१८ || तदूर्ध्वे वह्निचक्रं तु तदूर्ध्वेऽमृतचक्रकम् | तदूर्ध्वे जलचक्रं तु दिवाचक्रं तदूर्ध्वके || ७७-१९ || तदूर्ध्वे यामिनीचक्रं तदूर्ध्वे तारचक्रकम् | तदूर्ध्वे धर्मचक्रं तु कालचक्रं तदूर्ध्वके || ७७-२० || सर्वकालं सदा व्याप्य जगत्स्थावरजङ्गमम् | सदा तदूर्ध्वनिकरं सप्तसागरमण्डलम् || ७७-२१ || तदूर्ध्वे भाति सततं श्रीजलान्तकमण्डलम् | तदूर्ध्वे तु महाचक्रं महापद्मवनाकरम् || ७७-२२ || टङ्कारोपरि संध्यायेत् सहस्रारे सुपङ्कजम् | तं भित्वा ज्ञानपद्मं तु कणीकायां प्रपश्यति || ७७-२३ || प्रेतरूपमहादेवशवाकारं तु निष्क्रियम् | अस्योरसि प्रेतबीजं सूर्यायुतसमप्रभम् || ७७-२४ || ऊरुमूले च तस्यापि क्रोधबीजं शतारुणम् | तस्योपरि महाकालीमवश्यं परिपश्यति || ७७-२५ || प्रत्यालीढपदामम्बामम्बुजाक्षीं हसन्मुखीम् | चतुर्भुजां खड्गमुण्डवराभयकराम्बुजाम् || ७७-२६ || त्रैलोक्यजननीं ब्रह्मरूपिणीं मुकुटोज्ज्वलाम् | मुण्डमालां संवहन्तीं सर्वास्त्रां सर्वकारणाम् || ७७-२७ || अनन्तकोटिब्रह्माण्डब्रह्मव्यापकरूपिणीम् | प्रसन्नवदनां घोरां शवकर्णां करालिनीम् || ७७-२८ || योगीन्द्रजननीं नित्यां भवानीं भवमोचिनीम् | विमलां निर्मलानन्दां ज्ञानानन्दस्वरूपिणीम् || ७७-२९ || धर्मार्थकाममोक्षस्थां मुक्तकेशीं दिगम्बरीम् | ललितां सुन्दरीं श्यामां महाकालनिषेविताम् || ७७-३० || महोग्रां चन्द्रघण्टाढ्यनितम्बरत्नमेखलाम् | सहस्रानन्तसूर्योग्रतेजोरूपां कुलप्रियाम् || ७७-३१ || श्मशानावासिनीं दुर्गां श्मशानालयवासिनीम् | घोररावां महारौद्रीं कालिकां दक्षिणां पराम् || ७७-३२ || कर्णावतंसतां नीतशवयुग्मभयानकाम् | घोरदंष्ट्रं करालास्यां पीनोन्नतपयोधराम् || ७७-३३ || शवानां करसङ्घातैः कृतकाञ्चीं प्रियंवदाम् | सृक्कद्वय गलद्रक्तधाराविस्फुरिताननाम् || ७७-३४ || बालार्क मण्डलाम्भोजनयनत्रयभूषिताम् | दन्तुरां दक्षिणव्यापिमुक्तालम्बिकुचश्रियम् || ७७-३५ || शवरूपमहादेवहृदयोपरि संस्थिताम् | शिवाभिर्घोररावाभिश्चतुदीक्षु समन्विताम् || ७७-३६ || महाकालव्यापकेन विपरीतरतातुराम् | सुखप्रसन्नवदनां स्मेरारुणसरोरुहाम् || ७७-३७ || मधुमांसचर्बणाढ्यां वरदां मदनातुराम् | वेदवेदाङ्गविद्याभिरुदारगुणसम्भवाम् || ७७-३८ || दैत्यदानवदर्पघ्नीं भगमालाकलेवराम् || ७७-३९ || चिन्तयेत् कौलिकां कालीं कुलवृक्षतलस्थिताम् | श्रीकल्पलतिकां विद्युत्कोटिमण्डितकुण्डलाम् || ७७-४० || नागयज्ञोपवीताढ्यां चन्द्रार्धकृतशेखराम् | सर्वालङ्कारयुक्ताञ्च वह्नयर्कशशिलोचनाम् || ७७-४१ || ललज्जिह्वां कामरूपां कामपीठनिवासिनीम् | अतिसौन्दर्यवदनां धाराविस्फुरितप्रभाम् || ७७-४२ || कामदां सिद्धगन्धर्वदेवचारणनाटकैः | स्तूयमानां ब्रह्मविष्णुशिवशक्रमहषीभिः || ७७-४३ || सर्वदा वन्दितां कोटिजलदाभतनुप्रभाम् | संसारतारिणीं तारां तारब्रह्मस्वरूपिणीम् || ७७-४४ || इन्दुनीलमणिश्रेणिशोभाविद्युत्प्रकाशिनीम् | श्रीवासमधुरानन्दप्रियप्रेमदिगम्बरीम् || ७७-४५ || लज्जातीतां कुलातीतां ज्ञानातीतां निरञ्जनाम् | क्रोधपुञ्ज समुद्भूतद्वीपिचर्मकटिप्रभाम् || ७७-४६ || नीला--घना--बला--माया--मात्रा--मुद्रा--कलादिभिः | सर्वदा पूजितां ध्यायेत् सहस्रारवराम्बुजे || ७७-४७ || एवं ध्यात्वा महाकालीं श्यामां कामदुघां शिवाम् | आकाशगामिनीं सिद्धिमवश्यं लभते वशी || ७७-४८ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे सदाशिवकुलचक्रक्रमनिरूपणे भैरवीभैरवसंवादे योगार्थसञ्चयनं नाम सप्तसप्ततितमः पटलः || ७७ || अथाष्टसप्ततितमः पटलः श्रीआनन्दभैरवी उवाच शृणु भैरव वक्ष्यामि सङ्केतार्थविनिर्णयम् | कुलचक्रक्रमं सिद्धं शक्तिसदाशिवस्य च || ७८-१ || अस्य विज्ञानमात्रेण कण्ठपद्मे स्थिरो भवेत् | पद्माग्रे च सारचक्रं योगिनामतिसुप्रियम् || ७८-२ || ध्यानादेव महाबाहो सर्वचक्रप्रदर्शकम् | ऊर्ध्वरेता कामजेता ज्ञानी मौनी दिगम्बरः || ७८-३ || खेचरो धारकः श्रीमान् कौलिकः साधको भवेत् | तच्चक्रध्यानमेवं तु द्विद्वारमग्रतो मुखे || ७८-४ || तदन्ते चापि द्विद्वारं तिलार्धं भिन्नरेखया | रेखाद्वये नैकद्वारमेवं द्वारद्वयं पुनः || ७८-५ || अग्रादुत्तरपर्यन्तं ध्यायेद् वारद्वयं सुधीः | द्वयोर्मध्ये चतुर्वेदरेखामण्डलमेव च || ७८-६ || तदन्तरे च षट्कोणं द्विषट्कोणं तदन्तरे | तन्मध्येऽष्टदलं पद्मं तन्मध्ये चन्द्रमण्डलम् || ७८-७ || तन्मध्ये शून्यरूपं तु निराकारं निरञ्जनम् | तत्त्वज्ञानाश्रितानन्दविद्यात्मानं ममास्पदम् || ७८-८ || स्थूलसूक्ष्ममयं शुद्धं वाच्यवाचकभावनम् | अभेदं तु ममात्मानं कोटिसूर्यसमप्रभम् || ७८-९ || कोटिविद्युत्प्रभाकारं चन्द्रकोटिसुशीतलम् | सर्वव्यापक मीशानमभेदज्ञानकारणम् || ७८-१० || विधातारं परब्रह्म सर्वज्ञं सर्वदशीनम् | सर्वशास्त्रप्रवक्तारं ज्ञानज्ञेयं चराचरम् || ७८-११ || अष्टहस्तं विशालाक्षं शूलिनं मुण्डमालिनम् | जरातीतं निवीकल्पं तरुणं तारकं हरम् || ७८-१२ || हरिं ब्रह्माणमीशानं त्रिलोकानां प्रभामयम् | अभेद्यभेदकं सिद्धं सिद्धासनकरं सुरम् || ७८-१३ || गन्धर्वनगरं देशं विशेषं सर्वतोमुखम् | अकालतारकं स्वाहास्वधाशक्तिसमन्वितम् || ७८-१४ || कोटिकालानलाकारं रौद्रं रुद्रात्मकं भवम् | कन्याश्रीसुन्दरीकाटिमण्डलान्तःप्रकाशकम् || ७८-१५ || तेजोबिम्बं भासमानं सर्वव्याधिनिकृन्तनम् | हृषीकेशानन्दसिद्धं त्रिविक्रमफलोदयम् || ७८-१६ || नृसिंहक्रोधनिलयं सर्वदैत्यविनाशनम् | मीनावतारवेदार्थसमुद्धरणकारणम् || ७८-१७ || कूर्मपृष्ठाधारचक्रं वराहदन्तभूषणम् | नरसिंहाकारभक्तरक्षकं परमेश्वरम् || ७८-१८ || महेन्द्ररक्षकं दैत्यदर्पघ्नं वामनं तनुम् | दैत्यक्षत्रियदर्पघ्नं परशुरामं द्विजाधिपम् || ७८-१९ || भृगुवंशपतिं सत्यज्ञानावतारमुत्तमम् | श्रीरामं पावनं रक्षोहन्तारं तापसं गुरुम् || ७८-२० || त्रैलोक्याधारमानन्दरूपं हलधरं परम् | अनन्तं योगिनामाद्यं सहस्राङ्कफणान्वितम् || ७८-२१ || बुद्धं निराकारधर्मं सर्वशास्त्रार्थवर्धकम् | नित्यश्रुत्युदितामोदधर्माधर्मविवजीतम् || ७८-२२ || स्वयम्भुवं स्वप्रकाशं परमात्मानं मङ्गलम् | एकाकारं धर्मचक्रवेदिनं स्वच्छसङ्गरम् || ७८-२३ || दुष्टनिग्रहकर्तारं महावीरं धनञ्जयम् | श्रीकृष्णं सर्वसेवाभिः पूजितं तन्मयं शुभम् || ७८-२४ || विमदं रक्षकं ध्यानज्ञानमोक्षप्रकाशकम् | राजराजेश्वरं वास्यं सर्वलोकनिषेवितम् || ७८-२५ || सर्वदेहस्थितं धर्मं धर्मात्मानं विनोदिनम् | व्यापकं व्यापकाधारं निवीकल्पं सुधामयम् || ७८-२६ || विशिष्टं पञ्चपाषाणमहापीठनिवासिनम् | अनन्तानन्तमहिमं कपालशूलधारिणम् || ७८-२७ || त्रिरेखामण्डलस्थानं चतुर्वेदक्रमाकरम् | एकवक्त्रं द्विपादं च द्विमुखञ्च चतुष्पदम् || ७८-२८ || त्रिमुखं षड्भुजं नाथं चतुर्वक्त्रं विधिं परम् | अष्टाम्भोजभुजाम्भोजं पञ्चवक्त्रं त्रिलोचनम् || ७८-२९ || शिवं दशभुजं सौख्यं सुन्दरं श्रीषडाननम् | नित्यं द्वादशहस्तञ्च सर्वास्त्रधारिणं ध्रुवम् || ७८-३० || सप्तमुखं महाकायं चतुर्दशभुजं प्रियम् | अष्टमुखं शिवाह्लादं भुजषोडशमण्डितम् || ७८-३१ || नवपद्ममुखाम्भोजमष्टादशभुजं विभुम् | उन्मत्तभैरवं कोटिमहाविद्याद्यवल्लभम् || ७८-३२ || अमरेशं महाकायमष्टादशभुजापतिम् | कालराशिं कृष्णवर्णं चित्रसर्पसुमालिनम् || ७८-३३ || शतवक्त्रं कोटिहस्तं सहस्रवदनाम्बुजम् | शतकोटिमुखं नित्यानन्दसन्तानमन्दिरम् || ७८-३४ || अनन्तचरणाम्भोजमनन्तजनसेवितम् | अनन्तहस्तकमलमनन्तालङ्कृतोज्ज्वलम् || ७८-३५ || अन्तःप्रकाशनिकरमनन्तगुणसम्भवम् | अनन्तसृष्टिस्रष्टारमनन्तस्थितिकारणम् || ७८-३६ || अनन्तकमलावन्ये चानन्तसंहृतिप्रियम् | अनन्तबीजनिकरमनन्तशास्त्रनिश्चयम् || ७८-३७ || अनन्ततापसन्तृप्तमनन्तजलमध्यगम् | अनन्तपरमाधारमनन्तवह्निधारिणम् || ७८-३८ || अनन्ताकाशनिकरमनन्तपृथिवीपतिम् | अनन्तज्वालामालाढ्यमनन्तबुद्धिकारणम् || ७८-३९ || अनन्तस्थानपूजाढ्यमनन्तनामसिद्धिदम् | अनन्तगतिविज्ञानमनन्तराज्यदं सुखम् || ७८-४० || अनन्तधर्मशास्त्रार्थकिरणं काव्यपूजितम् | अनन्तदेवतास्थानमनन्तकर्मसिद्धिदम् || ७८-४१ || अनन्तमालागुटिकाजापिनं नित्यसिद्धिदम् | अनन्तचित्तसञ्चारमनन्तानन्तविक्रमम् || ७८-४२ || अनन्तजीवसंज्ञानमनन्तभावनाप्रियम् | अनन्तनिर्मलानन्दमनन्तप्राणिवल्लभम् || ७८-४३ || अनन्तगाथाकर्तारमनन्तसिन्धुसंस्थितम् | सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् || ७८-४४ || सर्वमावृत्य तिष्ठन्तमपराजितमीश्वरम् | ध्यात्वाऽऽनन्दमयं देवं पीठमध्ये च साधकम् || ७८-४५ || शाकिनीदेवशक्तिश्रीप्रेमाह्लादपरायणम् | देवदेवं विश्वमयं शाक्यरूपं सनातनम् || ७८-४६ || मम रूपं यदा नाम्ना स्तौति कामविनोदिनम् | ध्यात्वा चक्रपुरे योगी निरालम्बो दिगम्बरः || ७८-४७ || गगने चक्रसारं तु कुलनाम्ना प्रतिष्ठितम् | ध्यात्वा भवति योगीन्द्रः खेचरो गतभीः प्रभुः || ७८-४८ || अनायासेन सिद्धिः स्याद् ज्ञानी च ज्ञानवान् भवेत् | ऊर्ध्वमुखं कण्ठपद्मं तदग्रे चक्रमण्डलम् || ७८-४९ || अधोमुखं नेत्रपद्मं द्विदलं चातिसुन्दरम् | तदग्रे च महाचक्रं तदाकारं महाप्रभम् || ७८-५० || द्विचक्रसङ्गमं यत्र दृश्यते रात्रियोगतः | तदा भवति देवेश चतुर्द्वारं मनोहरम् || ७८-५१ || चक्रं निरञ्जनं ज्ञानज्ञेयं मन्त्रमयं शिव | यो जानाति महादेव स भवेत् कल्पपादपः || ७८-५२ || इति कण्ठस्य माहात्म्यं संक्षेपात् कथितं मया | जानाति योगी ध्यानेन ज्ञानयुक्तेन चेतसा || ७८-५३ || पश्यत्येव महात्मानं ज्ञानज्ञेयं सुधामयम् | कोटिवर्षशतेनापि कथितुं नैव शक्यते || ७८-५४ || तव भक्त्या महादेव तवायुःक्षेत्ररक्षणात् | इदानीं कथितं कण्ठपद्मसञ्चारमङ्गलम् || ७८-५५ || अप्रकाश्यं महागुह्यं शब्दब्रह्मस्वरूपकम् | निर्जने दोषरहिते व्याधिबाधाविवजीते || ७८-५६ || सुभिक्षानिन्दारहिते स्थित्वा तत्र दृढव्रतः | भावयेत् परया भक्त्या तव रूपं विचिन्तयन् || ७८-५७ || अचिराद्योगसिद्धः स्यान्निदानज्ञानसिद्धिभाक् | श्रीमातृका महादेवी लीलावती शुभा सती || ७८-५८ || अम्बा गुर्वी गुरुशक्तिः पातु मामतिकातरम् | तामम्बामम्बुजाक्षीं च प्रणम्य च पुनः पुनः || ७८-५९ || इदानीं कथये नाथ भ्रूपद्मज्ञाननिर्णयम् || ७८-६० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र--प्रकाशे भैरवीभैरवसंवादे कण्ठाम्भोजभेदप्रकाशो नाम | अष्टसप्ततितमः पटलः || ७८ || अथैकोनाशितितमः पटलः श्रीआनन्दभैरव उवाच कथयस्व वरारोहे कामनासिद्धिमङ्गलम् | अप्रकाश्यं महाज्ञानं यदि स्नेहोऽस्ति मां प्रति || ७९-१ || अनादिशास्त्रगोप्यं तु सर्वतन्त्रेषु गोपितम् | सुखस्नेहकृपादृष्ट्या सर्वतत्त्वसुमङ्गलम् || ७९-२ || ज्ञानगम्यं शब्दजालं कोमलान्तःप्रकाशकम् | आयुरारोग्यजननं धर्मार्थकाममोक्षदम् || ७९-३ || भ्रूपद्मद्विदलं सिद्धमुनिमण्डलसङ्कुलम् | ज्ञानिनामात्मसिद्धान्तरूपज्ञानसमागमम् || ७९-४ || यामलस्य महारुद्रसेवितस्य वरानने | वद विस्तार्य यत्नेन जीवन्मुक्तिपदं यतः || ७९-५ || लभ्यते तत्क्षणादेव कृपया करुणामयि | कालकूटप्रभावेण चात्मनो विस्मृतिर्गता || ७९-६ || तां विस्मृतिं समाकृत्य स्मृतिज्ञानं विधेहि मे | परमानन्दनिर्वाहनिर्वाणप्रथमाङ्कुरम् || ७९-७ || श्री आनन्दभैरवी उवाच वक्ष्येऽहं द्विदलं विभाण्डकमलं कालानलव्याकुलं | शोभामोहनरञ्जनं सुचपलामालाकपालोज्ज्वलम् | दीप्तिश्रेणि सुकणीकान्तरगतः श्रीशाकिनीवल्लभः | प्राणिप्राणनिदानगः परशिवः सम्पातु सञ्चारगः || ७९-८ || संहारोज्ज्वलकान्तिकान्तनिकरं संहारकूपोज्ज्वलं | तेजोरूपमहाशिखासुखपदं पीयूषतैलप्रियम् | ताराधीशदिनेशतैजसमयं मायापरादोद्यमं | विद्यावल्लभभावसारविनुतं द्वे पत्रमित्रे भजे || ७९-९ || आकाशाग्रे प्रभाग्रोग्रगमनधरणीधारसारे प्रचारे | श्रीनाथेशः क्षितीशः प्रचुरविधुमणिश्रेणिमालाग्रकण्ठः | श्रीकण्ठो नीलकण्ठः प्रभवति भुवनानन्दकर्तार्थकर्ता | विद्या श्रीहाकिनीशः स्फटिकमणिगृहे रक्तशक्त्या च हंसः || ७९-१० || पुरो विभाति कणीकासुमध्यचक्रमण्डले | विशिष्टशक्तिहाकिनी तथापि दुर्गतारिणी | यदीह भाव्यते नरैः सुमन्त्रतन्त्रगायनै-- | स्तदा परत्वमाप्नुयाद्दवि स्थिरो भवेदृते || ७९-११ || द्विदलकमल मध्ये हाकिनी देवमाता | विभवनवकुमारी योगिनी योगसिद्धा | यदि चरति विलिप्ता चोर्ध्वमार्गे निषण्णा | त्रिभुवनकरुणाभिः साधकस्य प्रसन्ना || ७९-१२ || जपरटिपरमन्त्रप्राणजापी मनुष्यो | भवति विमलचेता हाकिनीहोमदेव्याः | मनुमपि हृदि नित्यं संविभाव्य प्रतिष्ठः | परपुरकुलगामी ध्यानविज्ञानपुण्यः || ७९-१३ || विषयमधुरतृष्णावजीतो निजीतारिः | कुलयुगकमलान्तः सुप्रकाशस्वरूपः | विधिकृतकुलदोषं भाति निजीत्य दोषं | रतिपतिसमकान्तः साधको निणीतान्तः || ७९-१४ || जपति मनुधनार्थं भ्रान्तिहोमोत्सवार्थं | मनुजकुलवरेण्योऽन्यानि काल्या विहाय | अयुतशतसुमन्त्रान्नाशपुञ्जाक्षराणि | प्रसवति रिपुहन्ता साधको हाकिनीशः || ७९-१५ || परशिवनवभावप्रावणान्तःप्रवेशी | द्विदलकमलशोभा कोटिसंभाषयन्ती | निजकुलपरिदेवैर्भाव्यते भावमानै-- | र्भवति चपलमाद्या हाकिनी सुप्रसन्ना || ७९-१६ || आज्ञानाम सुपङ्कजं विधुशताह्लादप्रभापाटलं | विद्युद्रश्मिभिरुन्नतं धवलपीठानन्दचिद्रूपदम् | हस्ताभ्यां कनकप्रभादीप्ताभ्यां प्रकाशोज्ज्वलं | हाकिन्याकलाभयाप्रचलितं ध्यायेत् परानन्दनम् || ७९-१७ || ध्यानज्ञानादिधाम प्रचयति जयति क्षोभितारिप्रसारी | हस्ताभ्यां हेमभाभ्यां तरुणरविशशीशोभिताभ्यां विधाय | सूक्ष्मात्सूक्ष्मातिसूक्ष्मं विरचयति सुधां हाकिनी प्राप्य नाथं | कोटीन्दुक्षेमकान्तिप्रसभधनरसा नन्दितामभ्रपीठे || ७९-१८ || ध्यायेद् देवीं पराढ्यां त्रिभुवनजननीं षण्मुखीं वेदहस्तां | विद्यामुद्राविरुण्डं जपवटिडमरुं धारयन्तीं ज्वलन्तीम् | चेतः शान्तिप्रदात्रीं विधुमणिमुकुरां भीषमानां समानां | षट्कोणे बिन्दुमूले युगदलकमले द्वारयुग्मद्वयाढ्ये || ७९-१९ || एतच्चक्रस्य मध्ये सकलसुरगणविद्युताकारदीप्ता | नित्यं संभाति पार्श्वावधिकमलमहामण्डलाकारभावे | दोषाशेषापनाशे सकलबुधजनैः शोभिता पद्ममाला | प्राणाख्या वह्निजिह्वा सुखमयाविमला योगिनी योगमुख्या || ७९-२० || मनोयोगचिन्हं प्रसिद्धं सुसूक्ष्मं | शुभे पद्ममध्ये शिखाकारचित्तम् | महायोनिचक्रे प्रिये कणीकायां | शिवस्थानमुग्रं वशी वीक्ष्य शुक्लम् || ७९-२१ || महाविद्युताकारणं भासमानं परं ब्रह्मसूत्रप्रबोधं विनोदम् | महाकौलमार्गं स्थिरप्राणबुद्धिः क्रमेणैव तच्चिन्तयेत् साधकेन्द्रः || ७९-२२ || महावेदसूत्रादिबीजप्रकाशं | शतानन्दचन्द्रप्रभं भाव्यमानम् | विभाव्याशु नाथप्रियं पञ्चचूडं | महामोक्षगामी जितक्रोधकामः || ७९-२३ || य एतत् स्वचित्तान्वितः साधकेन्द्रो | विभुध्यानयुक्तः प्रियात्मा महात्मा | पुरे शीघ्रगामी पराणां नराणां | मुनीन्द्रः क्षितीन्द्रो महावेदवक्ता || ७९-२४ || द्विधा बोधविज्ञानशून्यो वरेण्यो | भवेत् सर्वदर्शी स सर्वज्ञराजः | सदा पूर्णसिद्धिप्रसिद्धोऽरिहन्ता | महासृष्टिसंहारपालादिकर्ता || ७९-२५ || क्षणादाविभाव्य प्रभुर्दीर्घजीवी | सुधीः सर्वशास्त्रार्थवेत्ता सुमन्त्री | महाज्ञानयुक्तो भवेदेकचित्तो | बली बाणतुल्यो विधातुः प्रशस्यः || ७९-२६ || स्वचक्रमण्डलान्तरे त्रिकोणभूमिबिम्बके | तदन्तरे च षोडशच्छदा विभान्ति वामके | सुपत्रके मनोहरे प्रदीपभाशिखाकृति-- र्महोज्ज्वला स्फु(र)त्प्रभा चतुर्गृहं ततो बहिः || ७९-२७ || प्रणवविरचनाभिः शोभितं चक्रराजं | तदुपरि विलसच्छ्रीचन्द्रखण्डप्रकाशः | तदुपरि विगलद् बिन्दुकान्तो मकार-- | स्तदुपरि शितनादो भाति पीयूषपुञ्जः || ७९-२८ || ध्यायेद्यः क्रमतः सुधीः प्रियपदालीने इह क्षेत्रके | बध्वा चेतसि भावपुञ्जनिकरां श्रीनाथसेवोदिताम् | योगीन्द्रोदितयोगशासननिरालम्बां परां सादरा-- | मभ्यासान्नियतं वशी परनर उग्रां कलां पश्यति || ७९-२९ || तन्मध्यान्तः प्रकाशामतिविमलकलामादिवात्मप्रकाशा-- | माद्यक्षे स्वप्रतिष्ठामतिसुखविभवामाश्रये स्थानसिद्धाम् | हाकिन्याङ्घ्रप्रभामण्डल कमलमहारूपलावण्यधैर्यं | सौभाग्यं ध्याननिष्ठे विलसति मधुरं ध्यानमारोपयामि || ७९-३० || ज्वलत्कोटिदीपाकृतिस्नेहजालं वहन्तं रटन्तं नवीनार्ककान्तम् | स्फुरज्ज्योतिराकाशपृथ्वीन्दुमध्यं भवेद् वै महेन्द्रो विलोक्याशु योगी || ७९-३१ || इहानन्दबाह्ये परेशो हि साक्षान् महापूर्णभूतिप्रभावोऽव्ययो हि | महावह्निचन्द्रार्कसन्मण्डलो वा महाविष्णुचक्रोपरि श्रीहरिः स्यात् || ७९-३२ || महाविष्णुयोगी महायोगयोगीन्द्रसेव्यं महेन्द्रः | विलोक्याशुभन्नार्थतन्त्रप्रतापं तदा तद्विशत्यत्र पञ्चत्वकाले || ७९-३३ || लयस्थानमाकाशवायोरतीव प्रतापप्रियस्याञ्जनस्याशु पश्येत् | महानादरूपं तदूर्ध्वे शिवार्धं विशालाक्षरूपं शिवाकारमानम् || ७९-३४ || सुशान्तं महान्तं धराकान्तलान्तं वरं दातुमुत्फुल्लहस्तारविन्दम् | सभीतिप्रदं शुद्धबुद्धप्रबोधं दयादानकर्तारमापश्यतीह || ७९-३५ || गुरूणां पदाम्भोरुहाह्लादलीनो जनः पश्यति प्राणनाथं परेशम् | दिनेशं रमेशं धनेशं नरेशं स योगी निरोगी महाशुद्धवेशम् || ७९-३६ || स वाचां सुसिद्धिं समाप्नोति शुद्धिं | वरं कामलक्ष्मीश्वरत्वं महत्त्वम् | न भूयात् त्रिलोके पुनर्जन्मभावः | सदा गायति श्रीपतिर्नारदो वा || ७९-३७ || श्रीआनन्दभैरव उवाच न श्रुतं देवि कल्याणि हाकिनीकूटमन्त्रकम् | तथा पूजाविधिं ध्यानं जपं वायुविनिर्गमम् || ७९-३८ || इत्यादियोगं स्तोत्राणि सहस्रनाममङ्गलम् | तथा श्रीवरनाथस्य कृपया वद सुन्दरि || ७९-३९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवभैरवीसंवादे शाकिनीमन्त्रोद्देशो नाम एकोनाशीतितमः पटलः || ७९ || अथाशीतितमः पटलः श्रीआनन्दभैरवी उवाच शृणुष्व परमानन्दहेतुपानप्रियङ्कर अत्यद्भुतं परस्यापि हाकिन्या मन्त्रमेव च || ८०-१ || त्रयाशीतितमे नाथ पठनाह्लादसागरे | रहस्यं परमानन्दवर्धनं कामदं मनुम् || ८०-२ || अस्यापि भावकर्ता यः स योगी न तु मानुषः | अतिविद्या चातिधनं महाराज्यं सदाशिव || ८०-३ || अस्याराधनमात्रेण स्वयमेव समाप्नुयात् | इति हेतोः सङ्कथये मन्त्रोद्धारं क्रमेण तु || ८०-४ || अत्यद्भुतं ज्ञाननिदानभावदं | महामनुं मानसजापमाश्रयम् | अनल्पविज्ञाननिधिप्रदं शुभं | पुण्यं पवित्रं शृणु भैरवेन्द्र || ८०-५ || तारं ब्रह्म मनुं श्मशानसहितं शम्भुं विभुं हान्तकं | भान्तं रान्तजलं हुताशनमयं वायुञ्च वामाक्षिणम् | वायोरक्षरसंयुतं त्रिपुरया श्रीकामकूटान्वितं | चान्ते हाकिनि देवि वह्नियुवती मन्त्रोऽयमानन्ददः || ८०-६ || भाषामारकलारमावधुयुता देवी शिवप्रेयसी | विद्ये हाकिनी तारमन्त्रपुटितं मायाग्निजायान्वितम् | योगेन्द्रावनतं महेन्द्रजपितं श्वासाभिरुच्छ्वासितं | ये ध्यायन्ति महीतले प्रियमयी भार्या पतिप्रेमगा || ८०-७ || आकाशं वह्निकूटं वधुशिवदयिताशक्तिकामत्रिकूटं | हाकिन्यै परनाथभासुरगुरोः शक्त्यै नमोऽग्निप्रिया | हाकिन्याः प्रेममन्त्रं जपति यदि सुधी राजरोजेश्वरः स्यादानन्दाब्धौ निमग्नः प्रचयति किरणं भावराशिप्रकाशम् || ८०-८ || द्वे लक्षे मन्त्रसिद्धिर्भवति निजकुले कामधेनुस्वरूपः | क्षेत्रज्ञः क्षेत्रविज्ञो वशयति जगतां भावसारं नरेन्द्रः | विद्याबीजं रमाढ्यं सुरधुनिसहितं कामकूटं तदन्ते | शब्दाख्यं ब्रह्मतत्त्वं तरुणि भुवनेशि प्रेत्य हाकिनीं श्रीम् || ८०-९ || स्वाहान्तो मन्त्रराजः सकलसुरपदानन्दितो भावपूज्यः | महामन्त्रं प्रवक्ष्यामि येन सिद्धो भवेन्नरः || ८०-१० || शिवमन्त्रं हाकिनीश परनाथस्य भूपतेः | यस्याराधनमात्रेण मृत्युजेता न संशयः || ८०-११ || प्रेतबीजं समुद्धृत्य विषबीजं ततः परम् | वह्निबीजं कालकूटबीजं तु तदनन्तरम् || ८०-१२ || अत्यन्तं दुःखजालं मे हन युग्मं विदारय | युगलं कामकूटं तु संहारबीजमेव च || ८०-१३ || शिवबीजं तदन्ते तु हंसः सोऽहं ततो वदेत् | स्वाहान्तमन्त्रो जप्तो हि लक्षमात्रं महेश्वर || ८०-१४ || कुम्भकं रेचकं कृत्वा धारयेत् पवनं शुभम् | एवं कृत्वा महादेव शिवानन्दं प्रकृत्य च || ८०-१५ || महाप्रलयकालेऽपि सुस्थिरो भवति ध्रुवम् | तस्यापि हस्तकमले सदा तिष्ठन्ति सिद्धयः || ८०-१६ || जपित्वा युगलक्षं तु यत्नेन परमेश्वर | वाक्सिद्धिं देवलोके तु गमनं निजदेहतः || ८०-१७ || तस्य दर्शनमात्रेण लोकाः स्युही निरोगिणः | अष्टादशलक्षजपाद् ब्रह्माण्डभेदको भवेत् || ८०-१८ || सहस्रारे मनो याति तस्यैव नात्र संशयः | तदा संसारसंहारपालनसृजनास्पदः || ८०-१९ || तस्य संसारं सकलं कोटिब्रह्माण्डमेव च | अनयोर्मन्त्रजापेन सिद्धार्थवद् भवेत् कविः || ८०-२० || सर्वशास्त्रार्थवेदार्थसाङ्ख्यार्थादिषु पारगः | तस्य साक्षान्मूतीमन्तो विभान्ति पुरतो ध्रुवम् || ८०-२१ || वारमेकं कदाचिद्वा चायाति मुखपङ्कजे | चतुवीधा मुक्तिः कामसिद्धयः सर्वदा हृदि || ८०-२२ || विभान्ति हि किमन्यद्वा कथितुं शक्यते मया | वलान्ते रामपुत्रः स्यात् सश्रीकः कृष्ण एव सः || ८०-२३ || कृष्णान्ते रामनाम स्यात् भूपतेः पालको भवेत् | श्रीरुद्रस्य परदेवदेवस्य सुप्रियो भवेत् || ८०-२४ || नवान्ते द्वीप--राशीनां चतुर्यामलपारगः | चतुःषष्टितन्त्रवेत्ता चेत् कामनगरे स्थितः || ८०-२५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे | भैरवीभैरवसंवादे भेदोपक्रमो नाम अशीतितमः पटलः || ८० || अथैकाशीतितमः पटलः श्रीआनन्दभैरवी उवाच अथ वक्ष्यामि लोकेश मन्त्रोद्धारान्तकालके | हाकिन्याः परनाथस्य साधनं पूजनं शृणु || ८१-१ || त्रयाशीतितमान्ते तु चतुरशीतितमे मम | परनाथस्य हाकिन्या यजनं चाद्भुतं महत् || ८१-२ || अप्रकाश्यं महागोप्यं सारात्सारं परात्परम् | भ्रूपद्मभेदनादीनां क्रमं शृणु महेश्वर || ८१-३ || यो हि जानाति भ्रूमध्ये भ्रूपद्मभेदनक्रमम् | स ममाग्रे समायाति जीवन्मुक्तो भवार्णवे || ८१-४ || तत्क्रमोपक्रमज्ञानं महापातकनाशनम् | अकस्मात् सिद्धिदं नित्यं सदानन्दपदप्रदम् || ८१-५ || भार्या भवति कामेशी लक्ष्मीनाथो भवेद् ध्रुवम् | आनन्दभैरव उवाच अथ राज्यक्रियासारं केन प्राप्नोति भूतले || ८१-६ || राजत्वं शिष्यवर्गाणां भेदनं केन वा भवेत् | साक्षात् सिद्धिक्रमज्ञानं भ्रूपद्मभेदनक्रमम् || ८१-७ || कृपया वद मे शीघ्रं यदि श्रद्धा दया मयि | आनन्दभैरवी उवाच विस्तार्य कथयाम्यत्र सारसङ्केतमङ्गलम् || ८१-८ || श्रीगुरोर्वदनाम्भोजनिजमन्त्रप्रकाशितम् | श्रुत्वा योगी योगयोग्यो भवत्येव न संशयः || ८१-९ || अधोमुखे भाति महारविप्रभा | ग्रन्थिप्रचण्डोपरिवारकाभिः | शनैः शनैर्भेदनयोगकाले | प्रयत्नमाकृत्य भवेद्धि योगी || ८१-१० || बद्धमेकासनं कृत्वा चित्तमारोप्य यत्नतः | भ्रूपद्मनिकरे शोभामण्डलानन्दपूरिते || ८१-११ || सत्त्वग्रन्थिपदं भित्वा स्थिरचेता भवेद् ध्रुवम् | अकालमृत्युः कुत एव तस्य | प्रभाकरज्ञाननिकेतशोभौ | आकाशगामी भुवनाधिकारी | स्थिराशयः प्रेमकलापगामी || ८१-१२ || सप्तसु ग्रन्थिमुखेषु देवताः सप्तधा मुदा || ८१-१३ || विभान्ति योगिरक्षायै योगमायावशाय च | स्थिरमाया योगमाया कालमाया च लाकिनी || ८१-१४ || देवमाया धर्ममाया विमाया सप्त देवताः | ग्रन्थिमध्ये रत्नवर्णा निर्मलानन्ददायिकाः || ८१-१५ || सत्त्वग्रन्थिर्महादेव आकाशाग्रति भाति हि | आदौ तस्यापि भेदञ्च एकैकक्रमयोगतः || ८१-१६ || सूक्ष्मवायुक्रमेणैव भित्वा च योगिमण्डले | शीघ्रं याति मनो यस्य स वीरो न तु मानुषः || ८१-१७ || ग्रन्थिनामानि वक्ष्यामि सावधानोऽवधारय | खगिनी द्राविणी धूम्रा कठिना कर्कटी तथा || ८१-१८ || श्यामला कपिला सप्त ग्रन्थिरूपप्रतिष्ठिता | खगिनीमन्त्रमुच्चार्य सूक्ष्मश्वासक्रमेण तु || ८१-१९ || ऊर्ध्वमार्गे विहायापि ह्यष्टोत्तरशतेन च | प्रणवं भुवनेशानी खगिनीबीजमेव च || ८१-२० || भेदा भेदा भवान्ते तु पुनः खं बीजमेव च | अस्त्रान्तं मन्त्रमुच्चार्य भेदने च दृढो भवेत् || ८१-२१ || द्राविणीमन्त्रमुच्चार्य सूक्ष्ममार्गेण भैरव | जपेदष्टोत्तरेणापि शतमन्त्रेण सर्वदा || ८१-२२ || प्रणवं परमाबीजं ब्रह्मबीजं ततो बहिः | वाग्भवं द्राविणीबीजं ग्रन्थिद्रावययुग्मकम् || ८१-२३ || स्वाहास्त्र्यन्तं महामन्त्रं ध्यात्वा ध्यात्वा पुनः पुनः | जप्त्वा भ्रूदलसूक्ष्मदृष्ट्या विलोक्य भ्रूदलान्तरम् || ८१-२४ || अकस्माद् भेदमाप्नोति किं बन्धक्लेशतः प्रभो | धूम्रामन्त्रं प्रवक्ष्यामि येन सिद्धो भवेन्नरः || ८१-२५ || प्रणवं कमलाबीजं देवीबीजं ततः परम् | धूम्राबीजं तदन्ते तु मृत्युनाशिनि शब्दतः || ८१-२६ || ग्रन्थिं हनयुगान्ते तु चास्त्राय फडिति स्थितिः | इति मन्त्रं सहस्रं वा शतं वाष्टोत्तरं जपेत् || ८१-२७ || चक्रासनमुपाकृत्य भेकासनमथापि वा | भ्रुवोरन्तर्गतं पद्मं द्विदलं चारुमण्डलम् || ८१-२८ || तदन्तरे कणीकायां महापीठं विचिन्तयेत् | बिन्दुषट्कोणमालिख्य त्रिकोणस्थान्तरः सुधीः || ८१-२९ || तद्वहिः सप्तभूरेखं विचिन्त्य पङ्कजं शुभम् | दिव्यं शतदलं विद्युत्कोटिकान्तिसमप्रभम् || ८१-३० || पत्रे पत्रे महामुद्रास्थानं परमदुर्लभम् | दिव्यस्थानं परीवारस्थानं ध्यात्वा पुनः पुनः || ८१-३१ || कणीकायां ततो ध्यायेद् हाकिनीपरमेश्वरम् | कठिनामन्त्रमावक्ष्ये ग्रन्थिभेत्ता भवेदनु || ८१-३२ || येन योगक्रमेणैव शास्त्रजालं वशं नयेत् | प्रणवं वाग्भवं माया रमा कामस्ततः परम् || ८१-३३ || कठिनग्रन्थि छेदयेति युगलं परमेश्वरि | मायास्त्राय फडन्ताय महामन्त्र उदाहृतः || ८१-३४ || शतमष्टोत्तरं नित्यं सहस्रं वा जपेद् बुधः | अधो मुण्डासनं कृत्वा तत्र पद्मासने विशेत् || ८१-३५ || भ्रूपद्मे चित्तमारोप्य महापीठे मनोरमे | पीठं त्रिकोणमध्ये तु बिन्दुषट्कोणमेव च || ८१-३६ || तद्वहिः सप्तभूबिम्बं तत्र पद्मं विचिन्तयेत् | रक्तं शत दलं पद्मं चतुर्द्वारं तदुत्तरे || ८१-३७ || पत्रे पत्रे केशराणि त्रीणि त्रीणि क्रमेण तु | ब्रह्मविष्णुमहेशादिरूपाणि परिचिन्तयेत् || ८१-३८ || कर्कटीमन्त्रमावक्ष्ये साक्षाद्भूमिविभेदनात् | ब्र्रह्मबीजं मायाशब्दं मायाकर्कटीशब्दतः || ८१-३९ || कूटग्रन्थिं भेदयेति द्वयं कामकला ततः | अस्त्राय फडिति ख्यातो महामन्त्रोत्तमोत्तमः || ८१-४० || शतमष्टोत्तरं ध्यात्वा मन्त्रं चिच्छक्तिमण्डले | श्यामलामन्त्रमावक्ष्ये भैरवेश महाप्रभो || ८१-४१ || शृणुष्वाराधय ज्ञानं सार्वज्ञसिद्धिदायकम् | प्रणवं कालिकाबीजं त्रिवारमुच्चरेत् सुधीः || ८१-४२ || तदन्ते मायायुगलं श्रीबीजं तदनन्तरम् | तदन्ते श्यामलाबीजं दृढग्रन्थिविभेदिनी || ८१-४३ || विलं निर्मलं शब्दान्ते मा कुरु द्वयमेव च | कामास्त्राय फडिति च मन्त्रसारः प्रयोगदः || ८१-४४ || शतमष्टोत्तरं जाप्यं प्रत्यहं चासनस्थितः | शनैःशनैः सिद्धियुक्तो ज्ञानी मौनी महागुणी || ८१-४५ || भवेत् साधकमुख्यश्च मम देहाश्रितो भवेत् | कपिलामन्त्रमावक्ष्ये शृणुष्व भैरवेश्वर || ८१-४६ || प्रणवं बालाबीजं तु कपिलाबीजमुत्तमम् | तां तु ग्रन्थिं भेदयेति युगलं छेदयेति च || ८१-४७ || चित्तं मे भूगृहे पश्चात् समारोपय युग्मकम् | पुनस्तु कपिलाबीजं मायाबीजं ततो वदेत् || ८१-४८ || रमास्त्राय फडन्तोऽयं महामन्त्रोत्तमोत्तमः | शतमष्टोत्तरं वापि सहस्रं प्रजपेद् यदि || ८१-४९ || द्विमासा सप्तग्रन्थीनां भेत्ता स्याद् भैरवो यथा | इति ग्रन्थिभेदनस्य क्रमज्ञानमुदाहृतम् || ८१-५० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवी-- भैरवसंवादे भ्रूपद्मसप्तग्रन्थिभेदो नाम एकाशीतितमः पटलः || ८१ || अथ द्व्यशीतितमः पटलः श्रीआनन्दभैरवी उवाच अथ कान्त प्रवक्ष्यामि साधय त्वं सदा निशि | हृदि सिद्धान्तविज्ञानं सिद्धिमष्टां यदिच्छसि || ८२-१ || गोपय त्वं प्रयत्नेन सच्छिष्ये च निवेदय | दुष्टेभ्यो वञ्चकेभ्यश्च पुत्रेभ्यो न प्रकाशय || ८२-२ || निर्जने प्रातरुत्थाय प्रातः कीतीं समाचरन् | देहबाह्यस्नानमादौ कृत्वा च साधकोत्तमः || ८२-३ || आसनञ्च गोपनीयं प्रत्येकेनापि कारयेत् | पूर्वोक्तयोगचिह्नानि आसनानि समाचरेत् || ८२-४ || आदौ श्रीमत्स्यकूर्माम्बुजविकटकटस्वस्तिकेन्द्रासनानि | चित्राथर्वापवर्गानन विषमसमाचन्द्रताज्ञानदानि | कोकावाक्ताम्रचूडाशवभगमृगभीमाद्यवीरोत्कटानि | क्रोधाक्षत्राङ्गसिद्धाहिगरुमुकुटायोनिभेकासनानि || ८२-५ || चतुस्त्रिंशत्संख्याघटितकवलं चासनमिह | प्रबुद्धं देहस्य क्षयमरणशङ्काविरहितम् | महच्छब्देनाढ्यं यदि गदितसत्रत्रयमिति | प्रभाते मध्याह्ने निशि विकुरुते योगहृदयः || ८२-६ || गौरी गौरवगुवीणीन्द्रियमहागार्हाग्निदा योगदा | योगानन्तभवद्गुणानुगमनाः को वा समर्थो मखैः | यस्यास्तां सविता दधाति मतिमान् पादाम्बुजं कोमलं | हाकिन्याः परनाथदेववपुषः सम्भाव्य सम्पूज्यते || ८२-७ || एतान्यासनमूलानि कृत्वा दृढतरः सुधीः | निर्जने पूजनं कुर्याद् यदि कल्याणमिच्छति || ८२-८ || दिव्यशङ्खहस्तपद्मो योगी योगमुपाश्रयेत् | आसनान्ते महापद्मासनं कृत्वाऽर्चयेन्मुदा || ८२-९ || इति योगाभ्यासकाल इदानीं यजनं शृणु | बाह्यपूजां समाप्यादौ हृद्यन्तर्यजनं चरेत् || ८२-१० || योगाभ्यासविधिज्ञानमिति शास्त्रार्थनिश्चयम् | पूजानिर्घण्टनं नाथ शृणु संक्षेपतः प्रभो || ८२-११ || तदन्ते तु प्रवक्तव्यं पूजाविधानमन्त्रकम् | सदाभ्यासेन योगेन जीवन्मुक्तिपदं लभेत् || ८२-१२ || आदावाचमनं नाथ तदन्ते जलशोधनम् | आसनादिशोधनं तु चक्रमण्डलभावना || ८२-१३ || शिखाग्रन्थिबन्धनं तु पीठनिर्माणमेव च | पुष्पघण्टाशोधनं तु शङ्खशोधनमेव च || ८२-१४ || पीठपूजा हृदि ध्यानं भूतशुद्धिस्ततः परम् | न्यासजालं ततः सिद्धपुरुषाणाञ्च भावनम् || ८२-१५ || पुनर्ध्यानम् ऋषिध्यानं हाकिनीपरदेवयोः | जीवसंस्कारमेवं हि जीवदानं ततः परम् || ८२-१६ || महामुद्रादर्शनं तु चावाहनादिमुद्रया | पाद्यमर्घ्यस्थापनं तु कृत्वा युगलमेव च || ८२-१७ || पाद्यादिभिः पूजनञ्च मङ्गलं सोपचारकम् | दशोपचारं पञ्चोपचारं मूलेन कारयेत् || ८२-१८ || अष्टादशोपचारं तु महाभक्त्या निवेदयेत् | षोडशोपचारयुक्तैः पूजयेद् वापि साधकः || ८२-१९ || ततः प्राणायाम युग्मं कृत्वा च साधकोत्तमः | जपेत् सहस्रं शतं वा चाष्टोत्तरसमन्वितम् || ८२-२० || त्रिलक्षं लक्षमेकं वा जपेन्मन्त्रमनन्यधीः | जपसमर्पणं कृत्वा प्राणायामत्रयं चरेत् || ८२-२१ || ततो हि वन्दनं स्तोत्रकवचं सर्वदा जपेत् | सहस्रनामसन्तानं चाष्टोत्तरशतान्वितम् || ८२-२२ || पठित्वा भेदमाकृत्य नरो योगीश्वरो भवेत् | श्रवणाद्दर्शनाज्ज्ञानान्मयि भावानुकीर्तनात् || ८२-२३ || यादृशी जायते श्रद्धा सन्निकर्षं तमालभेत् | त्रिलक्षं जपमाकृत्य तद्दशांशेन होमयेत् || ८२-२४ || तद्दशांशतर्पणं तु तद्दशांशं चाभिषेकम् | तद्दशांशं विप्रभोज्यं कुमारीभोजनं तथा || ८२-२५ || कुमारीयजनं तत्र कुमारीतन्त्रमापठेत् | कुमारीसहस्रनामानि पठेदावश्यकं नरः || ८२-२६ || ततः कुलक्रियां कुर्याद्योगी योगेश्वरो भवेत् | आद्याशक्तिप्रभावः स्यात्तस्य हृत्पद्ममण्डले || ८२-२७ || यथा मूले स्वाधिष्ठाने मणिपूरे यथा मम | हृत्पङ्कजे यथा पूजा या पूजा कण्ठपङ्कजे || ८२-२८ || सा पूजा भ्रूमहापद्मे मम मन्त्रेण कारयेत् | तदायेष्वथ सन्तोषः प्रीतिवृद्धिः सदा मम || ८२-२९ || मम सन्तोषमात्रेण ग्रन्थिभेत्ता स्वयं भवेत् | त्रिराचमनं कुर्यान्मूलमन्त्रेण शङ्कर || ८२-३० || तथा चाचमनं वारमेकं कृत्वा महासुधीः | ततो जलं शोधयेद् वै मूलान्ते जलबीजकम् || ८२-३१ || निर्मलं चन्द्रखण्डेन सुगन्धिचन्दनेन च | मिलितं शोधयानन्दभैरव प्राणभैरवी || ८२-३२ || एतन्मन्त्रेण संशोध्य चासनं परिशोधयेत् | आसने संस्थिते देवि कूर्मचक्रनिवासिनी || ८२-३३ || ममासनं शोधय त्वं सिद्धिदे परहाकिनि | एवं संशोध्य मनुना भावयेच्चक्र मण्डलम् || ८२-३४ || त्रैलोक्यव्यापिनं योगिमहाविष्णुसुमण्डलम् | अत्युच्चं सर्वदा ध्यात्वा तस्योपरि निजासनम् || ८२-३५ || विभाव्य पूजयेद् देवीं भ्रूपीठचक्रमण्डले | शिखाबन्धनमन्त्रं तु शृणु भैरव भूपते || ८२-३६ || यस्यापि कारणेनापि पलायन्तेऽतिविघ्नदाः | प्रणवञ्च शिखाबन्धवालं बन्धयद्वयम् || ८२-३७ || तारं मायास्त्राय फट् च मन्त्रोऽयं ज्ञानिदुर्लभः | प्रणवान्ते वासग्रन्थिं बन्धयामि नमो द्विठः || ८२-३८ || पीठनिर्माणमावक्ष्ये सावधानोऽवधारय | त्रिकोणाभ्यन्तरे बिन्दुषट्कोणं संल्लिखेत् सुधीः || ८२-३९ || तदन्ते सप्तभूबिम्बं ततः शतदलायुत | चतुर्द्वारं समालिख्य मन्त्रसंस्कारमाचरेत् || ८२-४० || विस्तीर्णताम्रपात्रे तु लिखेत् स्वर्णशलाकया | अथवा रौप्यलेखन्या चाथवा बिल्वकण्टकैः || ८२-४१ || यन्त्रं निर्माय संस्कारं कुर्याच्छ्रीतत्त्वमुद्रया | प्रणवं यन्त्रराजं तु रुचिरेखासमाकुलम् || ८२-४२ || योषित्प्रियतराकारं कुलपीठं प्रशोधये | स्वाहान्तं मूलमुच्चार्य रक्तवर्णं विचिन्तयेत् || ८२-४३ || शुक्लचन्दनसारेण रक्तचन्दनकेन वा | कुङ्कुमेनापि संल्लिख्य चानेन संस्क्रियां चरेत् || ८२-४४ || पुष्पशोधनमावक्ष्ये प्रणवं भुवनेश्वरीम् | शोधयामि वरं पुष्पं सुगन्धं रक्तपाटलम् || ८२-४५ || श्वेतं पीतं नीलकृष्णं कुसुमं गन्धसागरम् | शोधयामि युगं स्वाहा मन्त्रेणानेन शोधयेत् || ८२-४६ || प्रणवं शब्दबीजं तु चाकाशबीजसेचनम् | घं घण्टां शोधयाम्यद्य वरदा भव हाकिनी || ८२-४७ || पीठे सम्पूजयेद् भक्त्या साधकेन्द्रो न चान्यधीः | षड्दले च रक्तवर्णां पूजयेत् पीठनायिकाम् || ८२-४८ || कमला सुन्दरी रम्या मोहिनी हरमेखला | तेजोरूपा शिखावह्निज्वालाकालानलेश्वरी || ८२-४९ || समया रमणी भीमा रतिः कामसरस्वती | वीणावती मधुमती वामनाकषीणी तथा || ८२-५० || ईरा शुद्धात्मिका भद्रा शान्तिनीर्माल्यवासिनी | अरुन्धती च सावित्री किरणाच्छादिनी तथा || ८२-५१ || स्वाहा स्वधा विशालाक्षी मदना मदनातुरा | भ्रान्तिः प्रभावती ज्ञानदात्री विज्ञानदायिनी || ८२-५२ || कोकिलाक्षी कुरङ्गाक्षी बोधिनी सप्तमण्डली | हिरण्या मन्दिरा चेतः शुद्धिदा सिद्धिदा तथा || ८२-५३ || मन्दाकिनी बृहद्गङ्गा सिद्धा भोगवती तथा | तरश्मिनी च मोहा च त्रिवेणी मूर्तधारिणी || ८२-५४ || गुर्वी तरङ्गपूज्या च विमला त्रिपुरा परा | त्रितारी तारिणी भद्रकालिका ग्रन्थिभेदिनी || ८२-५५ || रत्नमाला पापहरा पार्वती मानसीश्वरा | भगमालिन्युमा देवी देवमाता कलावती || ८२-५६ || पञ्चानना कालजित्वा दृप्ता पञ्चशिखा तथा | मदीनी रणमातङ्गी खड्गहस्ता हसन्मुखी || ८२-५७ || पद्ममाला किङ्किणी च धरित्री च वसुन्धरा | फाल्गुनी पञ्चपीठस्था दीप्ता घोषयसालसा || ८२-५८ || पवित्रा धूमिनी दीर्घजङ्घा व्याघ्रमुखी तथा | कातरा तरुणी हक्षा हाकिनीन्द्रावती जया || ८२-५९ || जयदा पूजिता एताः शतच्छदनिकेतने | पराशक्तिं पूजयित्वा मन्त्रशक्तिं प्रपूजयेत् || ८२-६० || तरला चञ्चला धात्री चारुणा सूर्यगा दया | स्मृतिर्दीक्षा धारणाक्षा दंशिनी भद्रकालिका || ८२-६१ || षट्कालतारिणी रुद्रवलिता वर्णरूपिणी | एताः पूज्या महादेव योगिन्यो मन्त्रशक्तयः || ८२-६२ || हृदि ध्यानं प्रवक्ष्यामि ध्यानात्मा साधको यतः | महाबीजं रक्तवर्णं विभावय न ... ... ... || ८२-६३ || महासुन्दररूपं तु कोटिसूर्यसमप्रभम् | विभाव्य मनसा योगी भूतशुद्धिं समाचरेत् || ८२-६४ || वह्निना दह्यमानं तु देहं ध्यात्वा पुनः पुनः | वायुना शोष्य देहं तु जलेनाप्लावयन् पुनः || ८२-६५ || मूलमन्त्रेण सर्वाङ्गं सुधासागरसम्भवम् | ध्यात्वा दिव्यमयं पश्चान्मनःपूजां समाचरेत् || ८२-६६ || न्यासजालं प्रवक्ष्यामि साधकानां हिताय च | न्यासजालप्रभावेण साधको योगिराड् भवेत् || ८२-६७ || अच्छेद्याभेद्यकायः स्यान्मृत्युजेता स्वयं भवेत् | ऋषिमातृकरन्यासं चाङ्गन्यासं ततः परम् || ८२-६८ || आचरेत् पूर्ववद् भक्त्या मूलं चाद्याक्षरेण च | सदाशिव ऋषिः प्रोक्तो गायत्रीच्छन्द एव च || ८२-६९ || देवता हाकिनी देवी परनाथप्रियङ्करी | देवता क्लीं बीजसारं कीलकं मूलमेव च || ८२-७० || शीर्षे मुखे हृदि ग्रन्थौ मूलाधारे च विग्रहे | ऋषिन्यासं सदा कुर्याद्धाकिनी प्रीतिवर्धनम् || ८२-७१ || ओं पदान्ते च शिरसि सदाशिवाय शब्दतः | ऋषये नम उच्चार्य मुखे शब्दं ततो वदेत् || ८२-७२ || गायत्रीच्छन्दसे पश्चान्नमःशब्दं ततो वदेत् | हृदि श्रीहाकिनीदेव्यै परशक्त्यै ततो वदेत् || ८२-७३ || देवतायै नमः पश्चान्मूलाधारे ततो वदेत् | क्लीं बीजाय नमः पश्चात् सर्वाङ्गे च ततो वदेत् || ८२-७४ || मूलमार्यदेवतायै नमः शब्दं ततो वदेत् | ततः कुर्यान्महादेव शृणु सर्वाङ्गसिद्धये || ८२-७५ || हृदये हस्तमारोप्य श्रीतत्त्वमुद्रया सुधीः | बिन्दुयुक्तं न्यसेदादौ ततो दक्षभुजे न्यसेत् || ८२-७६ || एकारादि चतुर्वर्ण्यं मूलेन पुटितं प्रभो | बिन्दुयुक्तं दक्षहस्ते विन्यसेत् साधकोत्तमः || ८२-७७ || तथा वामभुजे न्यासमाचरेन्मनु सम्पुटम् | ठादिढान्ताक्षरैबीन्द्युक्तैर्न्यासं समाचरेत् || ८२-७८ || नादिभान्ताक्षरैंबीन्दुयुक्तैः स्वमनुसम्पुटैः | दक्षपादे न्यसेद्धीमान् ततो वामपदे न्यसेत् || ८२-७९ || मादिक्षान्ताक्षरैबीन्दुसंयुतैर्मनुसम्पुटैः | मातृकान्यासमाकृत्य करन्यासं समाचरेत् || ८२-८० || ह्रींबीजेन करन्यासं षड्दीर्घभाक्स्वरेण च | एवं चाङ्गन्यासं कार्यं विधानेन कुलेश्वर || ८२-८१ || पूर्वोक्तेनापि सकलं न्यासजालं समापयेत् | ततः षोढा समाकुर्याद्धाकिनीपरदेवयोः || ८२-८२ || मूलाख्यां मातृकास्थाने न्यासस्थानं सुलक्षणम् | रुद्रैस्तु प्रथमो न्यासो द्वितीयस्तु ग्रहैर्युतः || ८२-८३ || लोकपालैस्तृतीयः स्याच्छिवशक्त्या चतुर्थकः | शक्त्यादिभिः पञ्चमः स्यात् षष्ठः पीठैनीगद्यते || ८२-८४ || मन्त्रेण पुटितं रुद्रं मातृस्थाने प्रविन्यसेत् | श्रीकण्ठोऽनन्तसूक्ष्मेश त्रिमूर्तीशामरेशकौ || ८२-८५ || अर्घीशो भारभूतीशोऽतिथीशो हि ततः परम् | स्थाणुकेशो हरेशश्च झिण्टीशो भौतिकेश्वरः || ८२-८६ || सद्योजातेश्वरः पश्चादनुग्राहेश्वरस्ततः | अक्रूरेशो महासेनः सूराणामधिपेश्वरः || ८२-८७ || क्रोधीशश्चापि चण्डेशः पञ्चान्तकेश एव च | शिवोक्तमेशश्चात्रापि चैकरुद्रेश्वरस्ततः || ८२-८८ || कूर्मेश एकनेत्रेशश्चतुरानन एव च | अजेशश्चापि सर्वेशः सोमेशस्तदनन्तरम् || ८२-८९ || लाङ्गलीशो दारूकेशोऽर्धनारीश्वर एव च | उमाकान्तेश्वरः पश्चादाषाढीशस्ततः परम् || ८२-९० || दण्डीशो द्रीशमीनेशौ मेघेशस्तदनन्तरम् | लोहितेशः शिखीशश्च छागलण्डेश एव च || ८२-९१ || द्विरण्डेशो महाकालेश्वरो वाणीश एव च | भुजङ्गेशः पिनाकीशः खड्गीशस्तदनन्तरम् || ८२-९२ || बकेश्वरश्च श्वेतेशो भृग्वीशस्तदनन्तरम् | नकुलीशः शिवेशश्च संवर्तकेश एव च || ८२-९३ || पञ्चाशदेकयुक्ताः स्यू रुद्राद्याः क्रोधभैरवाः | आदौ मूलं ततो मातृवर्णमेकं क्रमेण तु || ८२-९४ || मातृकास्थानमध्ये तु श्रीकण्ठादीश्वरास्ततः | चतुर्थ्यन्ते नमः शब्दं ततो मूलं पुनः पुनः || ८२-९५ || इति श्री कण्ठविन्यासः कथितः कुलभैरव | तदिदानी ग्रहन्यासं शृणु वक्ष्यामि तत्त्वतः || ८२-९६ || हृदये च भ्रुवोर्मध्ये लोचनत्रितये ततः | हृदये च कण्ठकूपे गलदेशे ततः परम् || ८२-९७ || नाभिमूले मुखाम्भोजे गुह्ये च विन्यसेद् ग्रहान् | रविसोमौ मङ्गलश्च बुधो बृहस्पतिस्तथा || ८२-९८ || शुक्रः शनैश्चरः पश्चाद् राहुः केतुस्ततः परम् | न्यसेत्तु स्वस्वमुद्रया ममोक्तस्थानमण्डले || ८२-९९ || स्वरैः सूर्यं यादिरान्तैः सोमं कादिशरैः कुजम् | चादिपञ्चाक्षरं नाथ बुधं टादिशरैर्गुरुम् || ८२-१०० || डादिहान्तैस्तथा शुक्रं पादिमान्तैः शनैश्चरम् | शादिहान्तैस्तथा राहुं लक्षाद्यां केतुमेव च || ८२-१०१ || लोकपालन्यासमादौ वक्ष्यामि कुलभैरव | शिरोमण्डलमध्ये तु दक्षिणावर्तयोगतः || ८२-१०२ || अधःपर्यन्तमाल्यस्य मूलेन पुटितं सदा | इन्द्राय शक्तिहस्ताय सवाहनाय ओं नमः || ८२-१०३ || ह्रस्वपञ्चस्वरेणापि मूलान्ते संन्यसेत् सुधीः | एकादशस्वरेणापि युक्ताय वह्नये नमः || ८२-१०४ || सवाहनाय सर्वास्त्रधारिणे तादृशाय च | यमाय वाहनस्थाय शूलास्त्रधारिणे नमः || ८२-१०५ || कादिपञ्चवर्णसारैर्मूलेन पुटितैरपि | कर्णे दक्षिणमूलोर्ध्वे हस्तस्य तत्त्वमुद्रया || ८२-१०६ || यमन्यासं प्रकृत्याशु नैरृत्ये न्यासमाचरेत् | आदौ बीजं चादिपञ्चबीजान्ते नैरृताय च || ८२-१०७ || वसोऽधिपतये सर्वास्त्रादिवाहनवाहिने | नमोऽन्ते मूलमन्त्रं तु इति सर्वत्र भावना || ८२-१०८ || मूलं टादिपञ्चवर्णं वरुणाय ततः परम् | सवाहनाय सर्वास्त्रधारिणे नम एव च || ८२-१०९ || तदन्ते मूलमन्त्रं तु वरुणाय समाचरेत् | मूलान्ते तादिपञ्चार्ण सवाहनाय वायवे || ८२-११० || सर्वास्त्रधारिणे पश्चान्नमो मूलं ततः परम् | ततः कुर्यात् कुबेरस्य न्यासं परमदुर्लभम् || ८२-१११ || आदौ मूलं पादिपञ्चाक्षरमुच्चार्य साधकः | कुबेराय सर्वास्त्रधारिणे नरवाहिने || ८२-११२ || नमोऽन्ते मूलमन्त्रं तु वामकर्णोपरि न्यसेत् | आदौ मूलं पादिवान्तमीशानाय ततः परम् || ८२-११३ || सवाहनाय सर्वास्त्रधारिणे नम उच्चरेत् | तदन्ते बीजविन्यासमीशानन्यास ईरितः || ८२-११४ || आदौ मूलं शादिहान्तं शक्रोर्ध्वे हस्तमर्पयन् | अधोऽनन्ताय देवाय सर्वास्त्रधारिणे ततः || ८२-११५ || सवाहनाय हृच्छब्दं मूलं चापि तदन्तरे | आदौ मूलं ततो लक्षं ब्रह्मणेऽस्त्रादिधारिणे || ८२-११६ || सवाहनाय हृच्छब्दं मूलञ्च तदनन्तरम् | ब्रह्मरन्ध्रे प्रविन्यस्य ब्रह्मज्ञानमवाप्नुयात् || ८२-११७ || इति दिक्पालविन्यासः कथितः कालभैरव | शिवशक्तिन्यासजालं शृणुष्व परमाद्भुतम् || ८२-११८ || यस्य करणमात्रेण षट्चक्रभेदको भवेत् | आदौ स्थानं प्रवक्ष्यामि यत्र न्यासं स्वमुद्रया || ८२-११९ || मूलाधारपद्ममध्ये स्वाधिष्ठानाम्बुजे ततः | मणिपूरे महापद्मे हृदयाम्भोजमण्डले || ८२-१२० || कण्ठे विशुद्धपद्मे च तथा भ्रूपद्मण्डले | एतेषु षट्सु पद्मेषु शक्तियुक्तं शिवं न्यसेत् || ८२-१२१ || आदौ मूलं वादिसान्तं डाकिनीसहिताय च | ब्रह्मणे नम उच्चार्य मूलमन्त्रं ततः परम् || ८२-१२२ || आदौ मूलं बादिलान्तं राकिणीसहिताय च | विष्णवे नम उच्चार्य मूलविद्यां ततो वदेत् || ८२-१२३ || आदौ मूलं डादिफान्तं लाकिनीसहिताय च | रुद्राय नम उच्चार्य ततो मूलं प्रविन्यसेत् || ८२-१२४ || आदौ मूलं कादिठान्तं काकिनीसहिताय च | ईश्वराय नमो मूलं विन्यसेत् साधकाग्रणीः || ८२-१२५ || आदौ मूलं स्वरान् पश्चात् शाकिनीसहिताय च | सदाशिवाय हृच्छब्दं मूलमुच्चार्य विन्यसेत् || ८२-१२६ || आदौ मूलं ततो हं क्षं हाकिनीसहिताय च | ततः परशिवायान्ते नमो मूलं प्रविन्यसेत् || ८२-१२७ || शिवशक्तिन्यासमेवं कथितं तव यत्नतः | इदानीं शक्तिविन्यासं कथयामि शृणुष्व तत् || ८२-१२८ || ब्रह्मरन्ध्रे ललाटे च भ्रूमध्ये कण्ठगह्वरे | हृदये नाभिमूले च लिङ्गमूले स्वमूलके || ८२-१२९ || ऊरुमूले तथा जङ्घायुगले विन्यसेत् सुधीः | पादद्वये तथा गुह्ये युगले पादयोस्तले || ८२-१३० || क्रमेण विन्यसेद्धीमान् मूलमन्त्रेण सम्पुटम् | शक्तिनाम शृणु प्राणवल्लभ प्राणरक्षक || ८२-१३१ || शक्तिर्माया रमादेवी भवानी दीनवत्सला | सुमना काकिनी हंसी तथा संसारतारिणी || ८२-१३२ || योगिनी गोपिका माला वज्राख्या चित्रिणी तथा | नटिनी भारवी दुर्गा रतिर्महिषमदीनी || ८२-१३३ || एता अष्टादश(श)क्तिमुख्याः संन्यासकर्मणि | आदौ मूलं स्वरं चैकं षोडशादिक्रमेण तु || ८२-१३४ || तदन्ते शक्तिमुच्चार्य चतुर्थ्यन्तपदान्वितम् | नमः शब्दं तदन्ते तु ततो मूलं वदेत् सुधीः || ८२-१३५ || कादिनान्ताक्षराणां तु चाद्ये बीजं निधाय च | रत्यै नमो मूलमन्त्रं चाङ्गुष्ठं युगले न्यसेत् || ८२-१३६ || आदौ मूलं पादिक्षान्तं शक्तिञ्च तदनन्तरम् | चतुर्थ्यन्तं नमो मूलं शक्तिन्यासः समीरितः || ८२-१३७ || पीठन्यासं प्रवक्ष्यामि सावधानोऽवधारय | मूलाधारे कामरूपं कामाख्यं लिङ्गमूलके || ८२-१३८ || कामराजं त्रिकोणे तु हृदि ज्वालन्धरं तथा | हृद्यूर्ध्वे मधुकरस्थानं तदूर्ध्वे गगनाख्यकम् || ८२-१३९ || ललाटे पूर्णगिर्याख्यमुड्डयानं तदूर्ध्वके | तदूर्ध्वे शाङ्करीपीठं रुद्रपीठं तदूर्ध्वके || ८२-१४० || तदूर्ध्वे करुणापीठं चोन्मनीपीठमेव च | रोधनीपीठमेवं तु बिन्दुपीठं तदूर्ध्वके || ८२-१४१ || तदूर्ध्वे रत्नपीठं तु तदूर्ध्वे शुक्रपीठकम् | तदूर्ध्वे वासनापीठं विसर्गपीठमेव च || ८२-१४२ || ब्रह्मपीठं तदूर्ध्वे तु कालीपीठं तदूर्ध्वके | तदूर्ध्वे तारिणीपीठं एकपीठं तदूर्ध्वके || ८२-१४३ || तदूर्ध्वे च जटापीठं पिङ्गलापीठमेव च | वाराणसीमहापीठं भ्रुवोर्मध्ये प्रविन्यसेत् || ८२-१४४ || लोचनत्रयमध्ये तु अवन्तीपीठमेव च | मायावतीं मुखवृत्ते जिह्वाग्रे तु मधूत्तमम् || ८२-१४५ || तन्मध्ये रसनापीठं दंष्ट्रपीठं तदन्तिके | विद्यापीठं तदग्रे तु योगिनीपीठमेव च || ८२-१४६ || कण्ठे चाष्टपुरीपीठं तथा मधुपुरीत्रयम् | भुजद्वये भोगपीठं श्रीपीठं पार्श्वयुग्मके || ८२-१४७ || उदरे रह्नलापीठं धर्मपीठं निवीतके | काञ्चीपीठं कटितटे देवपीठं तदुत्तरे || ८२-१४८ || तदधः श्यामलापीठं गोपीपीठं तदन्तिके | अयोध्यापीठचक्रं तु नाभिमूले प्रविन्यसेत् || ८२-१४९ || श्मशानपीठं गुह्ये तु शिवापीठं तथा तले | ऊरुयुग्मे शीतले वा पीठयुग्मं प्रविन्यसेत् || ८२-१५० || रङ्किणीपीठनगरं जङ्घायुग्मे उदाहृतम् | स्तनयुग्मे क्षीरपीठमङ्गुष्ठे द्वे प्रविन्यसेत् || ८२-१५१ || कालपीठं क्रोधपीठं विन्यसेत् साधकाग्रणीः | पञ्चाशदेकपीठं तु केशाग्रे राज्यपीठकम् || ८२-१५२ || आदौ मूलं ततो वर्णं स्थाननाम ततः परम् | पीठनाम चतुर्थ्यतं नमोमूलं ततः परम् || ८२-१५३ || इति पीठन्यासमूलं कथितं तव यत्नतः | अस्य करणमात्रेण योगी सिद्धिमवाप्नुयात् || ८२-१५४ || चिरजीवी स्वयं देवः प्रभाकरसमो बली | यन्नमन्ति महेशानि षोढापुटितविग्रहाः || ८२-१५५ || अल्पायुः स भवेत् सद्यो देवता कम्पते भिया | इति ते कथितं नाथ षोडान्यासं महाशुभम् || ८२-१५६ || ततः सिद्धपुरुषाणां भावनं शृणु शङ्कर | मीननाथो गुरुः श्रीमान् आगस्त्यो देवराजकः || ८२-१५७ || कालाननः सोमराजो वीरनाथो धनञ्जयः | कृष्णः कान्तमतिर्बुद्धी धर्मावतार एव च || ८२-१५८ || वशिष्ठो नारदश्चव शुकः प्रह्लाद एव च | जनको भार्गवेशश्च कुरुक्षेत्रेश्वरस्तथा || ८२-१५९ || विश्वामित्रो भरद्वाजो मैनाको मेरुरेव च | अनन्तो योगनाथश्च महेन्द्रो मदिरेश्वरः || ८२-१६० || ब्रह्मानन्दशिवानन्दौ सनकानन्द एव च | सर्वेश्वरः कामदेवः शुक्राचार्यः कुलेश्वरः || ८२-१६१ || इति सिद्धपुरुषाणां ध्यानं कृत्वा विभावयेत् | रक्तवर्णं महासत्त्वं पुरुषं सर्वभूषणम् || ८२-१६२ || विभाव्य ध्यानमाकुर्याद् हाकिनीपरदेवयोः | आदौ श्रीपरदेवस्य ध्यानं शृणु महेश्वर || ८२-१६३ || शुक्लाभं परमेश्वरं परशिवं सूक्ष्मातिसूक्ष्मं गुरुं | सर्वाऽलङ्कृतविग्रहं त्रिजगतां सारं परं निर्मलम् | अद्वैतं दशहस्तपङ्कजतलं श्रीदं त्रिनेत्रं शिवं | देवेन्द्रैः परिपूजितं सुखमयं सच्चित्परानन्ददम् || ८२-१६४ || ध्यायेत् पञ्चमुखं महास्त्रवरदं भक्तैः सदा पूजितम् || ८२-१६५ || एवं ध्यात्वा परनाथं मानसोग्रोपचारतः | पूजयित्वा नमस्कृत्य हाकिनीध्यानमाचरेत् || ८२-१६६ || त्रैलोक्योत्सववन्दितां त्रिजगतामानन्दपूर्णोदयां | नानाऽलङ्कृतभूषणां सुमुकुटोल्लासैकबीजप्रभाम् | श्यामां मोक्षदवेदहस्तकमलां कारुण्यवारांनिधिं | शोभामण्डलमण्डितां पथि भजे श्री हाकिनीमीश्वरीम् || ८२-१६७ || अस्याः सप्तकुलध्यानं पश्चाद् वक्तव्यमेव च | महामुद्रादर्शनं तु चेदानीं शृणु भैरव || ८२-१६८ || योनिमुद्रा महामुद्रा सर्वतन्त्रेषु गोपिता | तया चावाहनं कुर्यात् साधको निश्चलात्मना || ८२-१६९ || अर्घ्यद्वयं स्थापयित्वा पूर्वचक्र क्रमेण तु | पुनर्ध्यात्वा तयोः पादाम्भोजे दद्यात् सदाशिवः || ८२-१७० || षोडशोपचारद्रव्यैस्ततः सम्पूजयेत् सुधीः | ऋषिध्यानं प्रवक्ष्यामि यस्य मूघ्नि प्रविन्यसेत् || ८२-१७१ || मूर्तं सदाशिवं देवं नानालङ्कारभूषितम् | द्विभुजं पीतवसनं धर्माधर्मप्रदर्शकम् || ८२-१७२ || वराभयकरं शान्तं हाकिनीशिरसि स्थितम् | विभाव्य पूजयेत् तत्र गन्धपुष्पादिभिः प्रभो || ८२-१७३ || जीवसंस्कारमावक्ष्ये येन जीवस्थितिर्भवेत् | स्वहृदये दक्षहस्ते तत्र मुद्राक्रमेण तु || ८२-१७४ || हाकिनीपरदेवस्य मन्त्रं स्मृत्वा पुनः पुनः | स्थापयामि स्वचित्तं मे हाकिन्या सह सम्पदैः || ८२-१७५ || स्थिरो भव महाजीव ममाज्ञां परिपालय | स्वाहान्तं मन्त्रमुच्चार्य जीवं संस्कारयेत् ततः || ८२-१७६ || जीवदानमतो वक्ष्ये हाकिनीपरदेवयोः | आदौ श्रीहाकिनीदेव्या जीवदानं शृणु प्रभो || ८२-१७७ || आं ह्रीं क्रा**** बीजमुच्चार्य पूर्ववज्जीवसंस्थितिम् | एकविंशतिवारं तु हाकिनीहृदये जपेत् || ८२-१७८ || स्वाहान्तेनापि मनुना जीवसंस्कार ईरितः | एवं श्रीपरदेवस्य प्राणदानमुदाहृतम् || ८२-१७९ || पुनर्ध्यानं प्रवक्ष्यामि शृणु भैरव बल्लभ | यां ध्यात्वा सर्वग्रन्थीनां स्वयं भेत्ता स्वयं हरिः || ८२-१८० || अर्घ्यविन्यासयुगलं शृणु भद्रोदर प्रभो || ८२-१८१ || वेदाङ्गोज्वलनप्रभां त्रिनयनानन्दैकचित्तोज्वलां | लावण्यं प्रियवाक्य मोहनिकरां श्रीसन्मुखीं हाकिनीम् | चण्डालामलभालमहाखड्गप्रभापङ्कज | छायापुत्रवरान् भवान् भयहरामश्रं हुयन्तीं भजे || ८२-१८२ || श्रीं श्रीं श्रीं भैरवेशं सुखमयपुरुषं कोटिदीपप्रकाशं | कोट्यलङ्कारभूषणं त्रिजगति वरदं व्याघ्रचर्माम्बराढ्यम् | योगीन्द्रैर्योगिमुख्यैः सुरवरतरुणैः सर्वदा पूज्यमानं | पञ्चास्यं शून्यचन्द्रायत भुजकिरणं योगिचूडामणीशम् || ८२-१८३|| ध्यायेऽहं शरणागतं प्रियतमं मायाश्रयं शङ्करं | रौप्याद्रिप्रभविग्रहं शवमुखं शून्येन्दुवक्त्राम्बुजम् | षट्स्थानात्रशतार्क चन्द्रकिरणं भास्वत्त्रिनेत्रं परं | निर्वाणाख्यपदप्रदं कुलकलानाथं भजे भ्रूदले || ८२-१८४ || एवं ध्यात्वा महादेवीं हाकिनीं श्रीपरेश्वरम | नित्यं स्वयम्भुं नागेन्द्रघण्टाडमरुनादितम् || ८२-१८५ || महाकायकराम्भोजपूजितं पञ्चचूडिनम् | अतिसौन्दर्यवदनं नागेन्द्रहारशोभितम् || ८२-१८६ || महातेजोमयं कोटिचन्द्रकान्तिस्फुरत्प्रभम् | घर्घरध्वनिमञ्जीरहंसाकारपदाम्बुजम् || ८२-१८७ || वृषासनस्थं योगीन्द्रं हाकिनीपरमेश्वरम् | हाकिनीसुन्दरीवामशोभाविद्युत्प्रकाशिनम् || ८२-१८८ || अतिसौन्दर्यलहरीं योगमायास्वरूपिणीम् | कामधेनुस्वरूपाख्यां स्वकान्त्या विश्वमोहिनीम् || ८२-१८९ || रौप्याद्रिसदृशाकारां चित्रविद्रुमसल्लताम् | मुक्तकेशीं मेघमालां रौप्याद्रयाच्छादनीं कियत् || ८२-१९० || चलद्भ्रमरकोटयर्क चन्द्र वह्नि त्रिलोचनाम् | षण्मुखीं वेदहस्तां तु पद्मरागसमप्रभाम् || ८२-१९१ || पद्मरागकान्तमालाधारिणीं हेतुसुप्रियाम् | साधकानां हितार्थाय कपालासिभयानकाम् || ८२-१९२ || सर्वसौभाग्यदां नित्यां डमरूजमालिकाम् | धारयन्तीं महाविद्यामानन्दोदयसाक्षिणीम् || ८२-१९३ || भ्रूपद्मकणीकामध्ये गतच्छदसुपङ्कजे | शोभारूपं संप्रहन्तीं काकिनीसाकिनीप्रियाम् || ८२-१९४ || लाकिनीराकिणीध्येयां डाकिनीपरिपूजिताम् | कुण्डलीबन्धुजननीं पूजयामि महीतले || ८२-१९५ || एवं ध्यात्वा चार्घ्यसारं क्रमतो युगलं चरेत् | त्रिकोणमण्डलद्वन्द्वं चाग्रे कृत्वाऽङ्गुलेन च || ८२-१९६ || तीर्थवाहनकालाद्यैः पूरयेद् गन्धकैस्ततः | तदाद्ये चापि फट्कारैः खड्गाधारञ्च शङ्खकम् || ८२-१९७ || क्षालयेन्मनुनानेन शृणुष्व कुलभैरव | ओं शङ्खस्थं शङ्ख त्वं पुण्यं मङ्गलानाञ्च मङ्गलम् || ८२-१९८ || विष्णुना विधृतो नित्यं मम शान्तिप्रदो भव | ओं शङ्खाधारं शोधयामि कूर्माकारेण भास्वता || ८२-१९९ || विसर्ग बिन्दुसर्गेऽहं त्रिकोणे स्थापयाम्यहम् | धेनुयोनिं मत्स्यमुद्रां दशधा मन्त्रमाजपेत् || ८२-२०० || आत्मानं प्रोक्षयेदादौ ततो द्रव्यादिप्रोक्षणम् | एवं क्रमेण देवेश देवदेव महेश्वर || ८२-२०१ || अर्घ्यद्वयं पुरः श्रीमान् स्थापयन् कौलिको जनः | पूजां कुर्याद्विशेषेण रात्रिशेषे विशेषतः || ८२-२०२ || महामुद्रादर्शनं तु चाधुनापि समाचरेत् | अवश्यं सिद्धिमाप्नोति हेतुयुक्तो हि साधकः || ८२-२०३ || महामुद्रा योनिमुद्रा सर्वतन्त्रे निरूपिता | यो जानाति महादेव स योगी नात्र संशयः || ८२-२०४ || महापूजां समाकुर्याद् देवदेव मयोदिताम् | ध्यानयुक्तस्य या पूजा सा पूजा सफला भुवि || ८२-२०५ || सदा कालीपूजनवत् पूजां कुर्यात् समाहितः | तच्च देशे समागम्य गन्धर्वनगरेऽपि वा || ८२-२०६ || पर्वते निर्जने वापि शून्यागरे श्मशानके | महाविद्यां कामधेनुं हाकिनीं परिपूजयेत् || ८२-२०७ || पद्यमन्त्रं प्रवक्ष्यामि प्रणवं रतिसुन्दरी | रमाबीजं महादेवि तदन्ते पाद्यमुत्तमम् || ८२-२०८ || गन्धोदितं गृह्ण गृह्ण हाकिन्यै हू द्विठः प्रभो | एवं सर्वत्र कर्तव्यं नामभेदेन कारयेत् || ८२-२०९ || दापयेन्नामभेदैश्च सर्वद्रव्याणि भैरव | आसनं स्वागतं पाद्यमर्घ्यमाचमनीयकम् || ८२-२१० || मधुपर्काचमनस्नानवसनाभरणानि च | गन्धपुष्पे धूपदीपौ नैवेद्यं वन्दनं तथा || ८२-२११ || पानार्थं जलदानं तु बलिदानं ततः परम् | अष्टादशोपचाराश्च सर्वतन्त्रेषु गोपिताः || ८२-२१२ || प्राणायामत्रयं कुर्यात् साधको निर्भयः शुचिः | जपं कुर्याद् विशेषेण महामालाक्रमेण तु || ८२-२१३ || अन्यं मनुवरं नाथ शृणु भैरव ईश्वर | प्रणवं प्रेतराजं तु वह्निबीजं तदुत्तरे || ८२-२१४ || हालाहलं महाकाल परनाथाय धीमहि | कामबीजं हाकिनी च चतुर्थ्यन्तपदात्मिका || ८२-२१५ || सोऽहं हंसस्ततः स्वाहा महामन्त्रं जपेद् बुधः | लक्षजपेन सिद्धिः स्यादज्ञानी ज्ञानवान् भवेत् || ८२-२१६ || असिद्धः सिद्धरूपी स्यादाख्या कीतीः प्रवर्धते | महावाग्मी सर्वशास्त्रवेत्ता सर्वज्ञसिद्धिभाक् || ८२-२१७ || वाचां सिद्धिरष्टसिद्धिः प्रकाश्या भान्ति तत्करे | युगयुग्मपुरश्चर्याविधानेनामरो भवेत् || ८२-२१८ || योगी स्यात् प्रलयस्थायी ध्यानात्मा ज्ञानवाञ्छुचिः | अप्रकाश्यगुणी भूत्वा राजराजेश्वरो भवेत् || ८२-२१९ || गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् | सिद्धिर्भवतु मे देवि त्वप्रसादात् परमेश्वरि || ८२-२२० || इति समर्प्य तद्धस्ते हेमरूपं विचिन्तयन् | ततः प्राणायामयुतं मन्त्रं तु त्रिगतं जपेत् || ८२-२२१ || बलिदानमनुं वक्ष्ये शृणु श्रीकुलपण्डित | आदौ मूलं सिद्धबलिं सुधामांससमन्वितम् || ८२-२२२ || मीनमुद्रासमाक्रान्तमथवा मिष्टसद्बलि | गृह्णयुग्मं तथा गृह्णापयशुग्मं द्विठस्ततः || ८२-२२३ || दापये साधकेन्द्रश्च भक्त्या कामसुसिद्धये | ततः स्तोत्रं पठेद्धीमान् गद्यपद्यादिभेदतः || ८२-२२४ || पठेच्च कवचं ब्रह्मसम्मतं देहरक्षणम् | सहस्रनामसन्तानं पठेद् वा हरमुद्रया || ८२-२२५ || स्वस्थाने स्थापयेन्नाथ हाकिन्या परमेश्वरम् || ८२-२२६ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे हाकिनीपरशिवयजनं नाम द्व्यशीतितमः पटलः || ८२ || अथ त्र्यशीतितमः पटलः श्रीआनन्दभैरव उवाच कथयस्व वरारोहे हाकिनीस्तोत्रमुत्तमम् | यस्य प्रपाठनाद् वाग्मी कृपायासे दयामयि || ८३-१ || श्रीआनन्दभैरवी उवाच अत्यद्भुतं स्तोत्रवरं शृणु प्रभो सर्वेश्वरैर्भावितमादिगुह्यम् | यैः पठ्यते साधकचक्रनाथैस्तैरेव सिद्धैरतिधर्मविद्भः || ८३-२ || ब्रह्माख्यां कामविद्यां नरहरिजननीं कामकूटस्वरूपां | हाकिन्याख्यां शम्भुजायां त्रिवधुमदनशां तारिणीं स्तौमि सिद्धाम् | हेरम्बानन्दविद्यां त्रिसमनदमनीं दीर्घकेशीं त्रिनेत्रां | मन्दारारण्यमध्ये विकसितवदनाम्भोजहासप्रकाशाम् || ८३-३ || हिरण्यालङ्कारां त्रितयनयनां पट्टवसनां | महास्निग्धां शुद्धां कुलजनवरामिन्दुवदनाम् | सदा स्तौति श्रीदां भुवनकरुणां भावतरुणां | त्रिवेणीश्वेताभां वसमयतनुं भ्रूयुगदले || ८३-४ || महापद्मवनोद्रेकरम्यस्थाननिवासिनि | हाकिनि त्वां मुदा स्तौमि तद्धर्मकुरुपागताम् || ८३-५ || संसारार्णवतारिणीं नरहरिप्रेमाभिलाषोन्मनीं | भावारम्भविसर्जनैकनिलया मायां महासुन्दरीम् | भास्वत्कोटिसुरत्नसिंहवसतिंं श्रीहाकिनीं द्राविणीं | स्तौमि क्षेत्रनिरीक्षणाय नियतां श्रीभारतीभाविताम् || ८३-६ || संस्कारश्रियमातनोति सहसा श्रीपार्वतीवल्लभे | नानारत्नकलापदर्शनमहाज्ञानं निदानं धनम् | सा साक्षादखिलेश्वरी परशिवानन्दैकबिन्दूज्ज्वला | मामादौ परिरक्षतु प्रियकरी संस्तौमि पीठान्तरे || ८३-७ || आकाशवेदलिङ्गे स्थितिपथिमिलिते भाति सा रक्तबर्हा | सा मां पात्वम्ब काली कुलपथभविका क्रोधनिःक्रोधकर्त्री | तस्याः श्रीपादपद्मत्रिभुवनभक्तकेशालिमाला | युक्तं सर्वेन्द्रपूज्यं निरवधिकमले द्वे दले स्तौमि विद्याम् || ८३-८ || साङ्गं द्वयं त्वत्प्रियं पदयुगं पत्रद्वयश्रेयसं | मञ्जीराद्भुतहारपादकमलं सम्भाव्य संस्तौम्यहम् | यद् ध्यात्वा हरिरीश्वरो गुणधरो जेता महारेःक्षणा-- दाशापाशविसर्जनैकनिलयं त्रैलोक्यसंरक्षकः || ८३-९ || या यात्रा व्रतवासिनी शशिमुखी छागादिमांसप्रिया | मामेकं परिपालय त्वमखिले त्वामेकरूपां शिवाम् | स्तौमीन्द्रावनतिप्रियां वाङ्मोक्षसहितानन्दैकहेतुप्रदाम् || ८३-१० || वरं परं नमाम्यहं गिरीन्द्ररूपगर्वहं | महेश्वरं परेश्वरं श्मशानबीजगह्वरम् | हिरण्यरत्नभूषणं शतेन्दुतेजसं तथा | शिवं तनुं पुनः परप्रभाप्रभाकरम् || ८३-११ || शरेण्यं वरेण्यं महाकामधन्यं | महादेवदेवं त्रिकालादिजन्यम् | श्मशानोग्रधूलिप्रियाङ्गानुलेपं | सदा स्तौमि संसारसारं निषेकम् || ८३-१२ || परशिवं मनसा सहसा निशि | प्रतिदिनं प्रणमाम्यहमादिमम् | शशिमुखीशतचन्द्रिकयान्वितं | भजनसाधक सत्फलदायकम् || ८३-१३ || परशिवचरणाब्जं हाकिनीशक्तिसेव्यं | त्रिभुवनसुखदानं ध्यानमात्रप्रकाशम् | अतिसुललितहस्ताम्भोजशोभां वहन्तं | भुवि निजकुलसारं स्तौमि योगीन्द्रगम्यम् || ८३-१४ || शोक्कशोकावलीलामति हि कलयति प्राणदेहाभिलाषं | हाकिन्याः प्राणनाथो भवशमनकरो हीरकास्रग्धरो वा | सोऽसौ भ्रूपद्मसारे रचयित कलिकां चित्तदीपस्य नित्यां | तस्य श्रीपादपद्मं गुणगणयजितं पूजितं स्तौमि भाले || ८३-१५ || मेरुशृङ्गनिकेतनैकवसनं गोलोकसंसेवितं | यज्ञानन्दनिषेवितं परिशवं योगीन्द्रचित्तस्थलम् | हालापाननिराकुलं पशुसमां सामोदनाचर्वणां | वन्दे नन्दिमहादिभैरववरैर्वन्द्यं जगत्कारणम् || ८३-१६ || मायापथच्छलकलाकपिलापतिस्त्वं | त्वं भूरविपतिरूपापतिरेकचक्रः | आपोऽनलत्वमखिले गगनप्रकाशा-- | वायुस्थमावसिमुखं शरणं प्रपद्ये || ८३-१७ || वाञ्छाकल्पद्रुमतलगतं हेमसिंहासनस्थं | श्रीहाकिन्या रमणनिरतं कामकेलिप्रकाशम् | मायामोहं क्षयमतिसुखं विन्ध्यशैलाग्रसंस्थं वन्दे नाथं हरपरशिवं रूपजालप्रकाशम् || ८३-१८ || पठेद् यः स्तोत्रार्थं भवति स सुखी योगनिपुणः | क्षुधातृष्णानाशः श्रवणधृतयशोवासिसरसः | स योगीन्द्रो मासादतिशयपरानन्दघटकः परीतः प्राणाख्ये रचयति सुधासिन्धुसुरसम् || ८३-१९ || एतत् स्तोत्रं पठेद्विद्वान् ध्यानन्याससमन्वितम् | शुक्लं रक्तं तथा पीतं नीलं कृष्णं विभाव्य च || ८३-२० || कालचतुष्टये नित्यं पठित्वा सिद्धिमाप्नुयात् | आकाशे भूतले नाथ पाताले विघ्नकोटयः || ८३-२१ || योगिनां पठनादेव नश्यन्ति तत्क्षणादिह | सर्वत्र गामी स भवेदतिभाग्यफलोदयम् || ८३-२२ || महापापहरं स्तोत्रं हाकिनीहृदयोद्भवम् | सदाशिवप्रियं योगसिद्धिदं देवसेवितम् || ८३-२३ || सहस्रवारपाठेन पुरश्चर्याफलं लभेत् | पठित्वा स्तोत्रराजं तु श्मशाने निर्जने वने || ८३-२४ || अन्तरीक्षेऽथवा नाथ योगी स्यादमरो महान् | अस्य प्रपठनाद्वाग्मी ज्ञानवान् विजितेन्द्रियः || ८३-२५ || ध्यानात्मा संभवेत् क्षिप्रं परिवारगणैः सह | प्रातःकाले निशायां तु मध्याह्ने शेषकालके || ८३-२६ || प्रपठेत् स्तोत्रसारं तु भावात्मा साधकोत्तमः | अनायासेन भ्रूपद्मे स्थिरो भवति निश्चितम् || ८३-२७ || श्रीगुरोश्चरणाम्भोजं हृदये ध्याननिर्णयम् | यो ध्यात्वा पठ्यते स्तोत्रं स भवेत् कल्पपादपः || ८३-२८ || इदानीं कथये नाथ कवचं पटलान्तरे || ८३-२९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीपरनाथस्तोत्रविन्यासो नाम त्र्यशीतितमः पटलः || ८३ || अथ चतुरशीतितमः पटलः श्रीआनन्दभैरव उवाच अथादौ कथयानन्दभैरवि प्राणवल्लभे | कवचं हाकिनीदेव्याः परमानन्दवर्धनम् || ८४-१ || हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते | शीघ्रं विरचयानन्द कवचं सारमङ्गलम् || ८४-२ || श्रीआनन्दभैरवी उवाच आदौ शृणु महावीर परमानन्दसागर | कवचं हाकिनीदेव्याः संसारार्णवतारकम् || ८४-३ || यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत् | अन्तरिक्षे च भूलोके पाताले ये चराचराः || ८४-४ || स्तम्भिता वेपमानाः स्युवीद्याज्ञानादिपाठतः | कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः || ८४-५ || विद्रवन्ति भयार्ता वै कालरुद्रप्रभावतः | यथाऽलोको वह्निमध्ये स्थिरो भवति निश्चितम् || ८४-६ || ओं अस्याः श्रीहाकिनीदेव्याः सानन्दसारमङ्गलस्य महाकवचस्य सदाशिव ऋषि-- र्गायत्रीच्छन्दः श्रीहाकिनीपरदेवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मी-- मूलकीलकं देहान्तर्गत महाकामसिद्ध्यर्थे जपे विनियोगः | ओं पातु शीर्षचक्रं मे क्लीं पातु भालमण्डलम् | स्वमूलं पातु मे नित्यं लोचनत्रितयं मम || ८४-६ || गण्डयुग्मं सदा पातु वाग्भवाद्या मनोरमा | श्रीं ह्रीं पातु कर्णयुग्मं हाकिनी परदेवता || ८४-७ || महाविद्या सदा पातु ममोष्ठाधरसम्पुटम् | दन्तावलियुगं पातु ह्रीं श्रीं स्वाहा परेश्वरी || ८४-९ || क्लीं ह्रीं श्रीं हाकिनीदेवी स्वाहा पातु रसप्रियाम् | सृक्कनीं पातु सततं शक्तिः कामवरा मधुः || ८४-१० || स्वाहा पातु शिखा शक्तिर्भ्रूमध्यं पातु सर्वदा | हाकिनी मण्डलं पातु परानाथेश्वरी परा || ८४-११ || सुन्दरी सर्वदा पातु द्विदलं कामसुन्दरी | अमृताख्या सदा पातु भ्रूप्रकाशस्थलं मम || ८४-१२ || वह्निज्वाला सदा पातु भ्रूश्मशानस्थलं मम | सुरभी पातु मायास्त्रं स्वाहा मे भ्रूगतच्छदम् || ८४-१३ || त्रिकोणं पातु कामाख्या हाकिनी परमेश्वरी | त्रिपुरा सुन्दरी पातु द्विषट्कोणं सदा मम || ८४-१४ || हिङ्गुलादेश्वरी पातु षट्कोणबिन्दुमण्डलम् | सप्तभूबिम्बमापातु भूतलान्तःप्रकाशिनी || ८४-१५ || महाशतदलं पातु शतकोटिमरुप्रिया | गुरुविद्यामयी पातु वाणी मे मत्तगामिनी || ८४-१६ || चतुर्द्वारं सर्वचक्रं पातु मे परमेश्वरी | अत्यन्तदुःखहन्त्री मे मनश्चक्रं सदाऽवतु || ८४-१७ || शब्दब्रह्ममयी पातु चन्द्रमण्डलमेव मे | अकालतारिणी दुर्गा सर्गस्थित्यन्तकारिणी || ८४-१८ || महापुरुषसंस्थानं हाकिनी मण्डलं मम | पातु वर्णमयी तारा चन्द्रार्धं मे सुरेश्वरी || ८४-१९ || उन्मनीनगरं पातु वह्निकुण्डनिवासिनी | मदिरा पातु सततं भालं विषहरा मम || ८४-२० || धर्मदा ज्ञानदा पातु धर्मज्ञानपदं मम | तालपत्नीश्वरी पातु अमृतानन्दकारिणी || ८४-२१ || वैराग्यनिकरं पातु बिन्दुस्थानं महाबला | त्रितारी कूटशक्तिर्मे सदा पातु विशुद्धकम् || ८४-२२ || शाकिनीशं सदा पातु शाकिनी कुलभैरवी | सप्तद्वीपेश्वरी पातु मम षोडशपङ्कजम् || ८४-२३ || शाकिनी भैरवी पातु चण्डदुर्गा सरस्वती | कुमारी कुलजा लक्ष्मीः सिद्धार्थं मे सदाऽवतु || ८४-२४ || हृदयं पातु सततं शाकिनी परमेश्वरी | बीजरूपा सदा देवी महामहिषघातिनी || ८४-२५ || उदरं पातु सततं योगिनीकोटिभिः सह | उमा महेश्वरी पातु प्रचण्डा मम पृष्ठकम् || ८४-२६ || चामुण्डा भैरवी बाला पार्श्वयुग्मं सदाऽवतु | परमा चेश्वरी पातु देवमाता स्तनद्वयम् || ८४-२७ || सौभाग्यहाकिनी देवी पायात्तु यक्षसः प्रियम् | आद्या देवी शिखारूपा भुजयुग्मं सदाऽवतु || ८४-२८ || सर्वापराधहर्त्री मे कामविद्या दशच्छदम् | मणिपूरं सदा पातु दशवर्णात्मिका शिवा || ८४-२९ || नाभिचक्रं सदा पातु लाकिनी पद्मवासिनी | नित्यदेशदलं पातु पार्वती वेदपालिनी || ८४-३० || महारुद्रेश्वरी पातु पीठरूपं मणिं मम | तेजोमण्डलमापातु रुद्राणी शूलधारिणी || ८४-३१ || अभया सर्वदा पातु योगविद्या नितम्बकम् | नितम्बाधारचक्रं मे पातु शैलं नितम्बिनीं || ८४-३२ || तरुणी मन्त्रजालस्था वैष्णवी लिङ्गमण्डलम् | सदा पातु हाकिनीशा महाविष्णुस्थलं मम || ८४-३३ || वैष्णवी ललिता माया रमादेवी कटिं मम | स्वाधिष्ठानं सदा पातु गुह्यरूपा सरस्वती || ८४-३४ || भवानी भगवत्पत्नी श्मशानकालिका गुदम् | पातु मे रणमातङ्गी राकिनी कुलमण्डलम् || ८४-३५ || व्यक्ताव्यक्तस्वरूपा मे मूलाधारं सदाऽवतु | चतुर्दलं चतुर्वर्णं पातु मे ज्ञानकुण्डली || ८४-३६ || तपस्विनी सदा पातु पावनी मूलमावतु | रतिका घटिका वेश्या धरिणी कामसुन्दरी || ८४-३७ || वह्निकान्ता सदा पातु ममोरूयुगलं सदा | उल्कामुखी क्षेत्रसिद्धा जङ्घायुग्मं सदाऽवतु || ८४-३८ || बालामुखी पातु सम्पत्प्रदा श्रीकुलभैरवी | पादाम्बुजद्वयं पातु सर्वाङ्गं परहाकिनी || ८४-३९ || मदना मेदिनी धन्या चामुण्डा मुण्डमालिनी | रमा कामकला ज्येष्ठा तथाज्ञा रतिसुन्दरी || ८४-४० || मनोयोगा सदा पातु निर्मला विमलामला | काञ्चनी बगला रात्रिः पञ्चमी रतिसुन्दरी || ८४-४१ || सर्वत्र सर्वदा पातु योगाद्या प्रेमकातरा | पर्वते विपिने शून्ये रणे घोरतरे भवे || ८४-४२ || श्मशानवासिनी पातु सर्ववाहनवाहना | सर्वास्त्रधारिणी पातु पञ्चमी पञ्चमप्रिया || ८४-४३ || चतुर्भुजा सदा पातु हाकिनी देहदेवता | सहस्रायुतकोटीन्दुवदना परमेश्वरी || ८४-४४ || योगिनीभिः सदा पातु सर्वदेशे तु सर्वदा | अनन्ता सर्वदा पातु महाविघ्नविनाशिनी || ८४-४५ || जले चानलगर्ते वा व्याधिभीतौ रिपोर्भये | व्याघ्रभीतौ चौरभीतौ महोन्मादभयादिषु || ८४-४६ || ग्रहभीतौ देवभीतौ दानवाद्रिभयेषु च | अभया निर्भया भीतिहारिणी भयनाशिनी || ८४-४७ || महाभीमा भद्रकाली भैरवी मारकामला | महाभूतेश्वरी माता जगद्धात्री सदाऽवतु || ८४-४८ || सर्वदेशे सर्वपीठे मातृका पातु नित्यशः | इत्येतत् कवचं सर्वसिद्धिदं दुःखनाशनम् || ८४-४९ || कथितं तव यत्नेन महाकाल प्रभो ! हर | यः पठेत् प्रातरुत्थाय कवचं देवदुर्लभम् || ८४-५० || स भवेत् कालजेताऽपि स देवो न तु मानुषः | ध्यानात्मा साधकः श्रीमान् परमात्मा भवेत् स्वयम् || ८४-५१ || आज्ञापद्मे स्थिरो भूत्वा नित्यो भवति निश्चितम् | अकालमृत्युहरणं संसारार्णवतारणम् || ८४-५२ || कवचं देवदेवेश चानन्दसारमङ्गलम् | यः पठेदतिभक्त्या च जीवन्मुक्तो भवेद् ध्रुवम् || ८४-५३ || चतुवीधा मुक्तिमाला तद्गले संस्थिरा ध्रुवम् | भवन्ति योगमुख्यानां गुरुर्वेदान्तपारगः || ८४-५४ || सर्वशास्त्रार्थवेत्ता स्याद् यामलार्थज्ञ ईश्वरः | शान्तिं विद्यां प्रतिष्ठाञ्च निवृत्तिं प्राप्य निर्मलः || ८४-५५ || योगात्मा चेश्वरत्वं हि प्राप्नोति नात्र संशयः | कुजे वा शनिवारे वा संक्रान्त्यां रविवासरे || ८४-५६ || अमावास्यसु रिक्तायां धारयेत् कवचं शुभम् | पुरुषो दक्षिणे हस्ते वामा वामभुजे तथा || ८४-५७ || सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते | गोरोचनाकुङ्कुमेन चालक्तेन विलिख्य च || ८४-५८ || अवश्यं सिद्धिमाप्नोति हाकिनीयोगजापतः || ८४-५९ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनीकवचं नाम चतुरशीतितमः पटलः || ८४ || अथ पञ्चाशीतितमः पटलः श्रीआनन्दभैरवी उवाच वरानने वरारोहे सर्वज्ञाननिदानदे | आनन्दहृदयोल्लासे परमानन्दवधीनि || ८५-१ || कथितं कवचं पुण्यं रहस्यं चातिदुर्लभम् | न चोक्तं ज्ञानगम्यं तु महाजालनिसेवितम् || ८५-२ || परनाथस्य कवचं सार्वज्ञज्ञानसिद्धिदम् | इदानीं वद मे यत्नादानन्दकुलभैरवी || ८५-३ || श्रीआनन्दभैरवी उवाच श्रूयतां योगिनीनाथ योगविद्यापते प्रभो | परनाथस्य कवचं ज्ञानगम्यं पुरातनम् || ८५-४ || अतिगोप्यं योगसारं सर्वतन्त्रेषु दुर्लभम् | इदानीं नाथ यत्नेन कथयामि परं पदम् || ८५-५ || अस्य श्रीपरनाथमहाकवचस्य सदाशिव ऋषिः परमात्मा देवता ह्सौः बीजं ज्ञानशक्तिरानन्दं कीलकं सर्वाभीष्टसिद्ध्यर्थे विनियोगः | ओंङ्कारं वेदबीजं मे सदा पातु शिरोधनम् | ह्सौः महाप्रेतराजः कपालं पातु सर्वदा || ८५-६ || हाकिनीशः सहायाख्यः कामकेशगुणानि मे | वाराणसीपुरः पातु भ्रूमध्यपरदेवता || ८५-७ || षं रं शं वं सदा पातु हं क्षं पातु भुरवोर्दलम् | बाणलिङ्गं सदा पातु भ्रूपद्मयुवती मम || ८५-८ || कालानलः सदा पातु द्विदलस्थं परात्परम् | भ्रूगह्वरं सदानन्दं पातु त्रिपुरभैरवः || ८५-९ || अनाथलिङ्गः सर्वेशः पातु मे लोचनत्रयम् | अभयो मङ्गलः पातु ध्रुवाख्ये लोलजिह्विकाम् || ८५-१० || पञ्चाननः सदा पातु वदनं कामसुन्दरः | उन्मत्तभैरवेन्द्रोऽथ गण्डयुग्मं सदावतु || ८५-११ || हिरण्याख्यः सदा पातु दन्ताग्रालिं श्मशानगः | महादेवः सदा पातु महाकाशः श्रुती मम || ८५-१२ || विकटाख्यो मञ्जुघोषः सदा पातु हनुस्थलम् | प्रणवात्मा सदा पातु कण्ठं मे नीलकण्ठभृत् || ८५-१३ || अपराजितः शुक्लवर्णः सदा पातु महामला | गलदेशं महाकाशं त्रिपुरा परमेश्वरी || ८५-१४ || मृत्युञ्जयश्च घोराख्यो विशुद्धं सर्वदाऽवतु | स्वरानीश्वरसंयुक्तान् योगीशः सर्वदाऽवतु || ८५-१५ || वामदेवः सदा पातु हृदयं परमेश्वरः | ईश्वरः सर्वदा पातु परदेवः सदाशिवः || ८५-१६ || अट्टहासः सदा पातु योगिनीकोटिभिः सह | अकालचक्रः सर्वज्ञश्चावधूतेश्वरो भुजौ || ८५-१७ || महाकालः सदा पातु भेरुण्डापतिरीश्वरः | पार्श्वदेशं सदा पातु काकिनीपरवल्लभः || ८५-१८ || अच्युतेशः सदा पातु कुक्षियुग्मं सदा मम | अथर्वेशः सदानन्दः पातु पृष्ठं सुरेश्वरः || ८५-१९ || तपिनीपतिरीशानो वीरभद्रो यतीश्वरः | नाभिमण्डलमापातु ममोदरमुमापतिः || ८५-२० || घर्घरः पातु सततं रुद्रं राकिणिवल्लभम् | जटाजूटधरः पातु रुद्राणीं रौद्रदेवताम् || ८५-२१ || नितम्बं पातु योगेन्द्रः प्रभाद्यो मे कटिस्थलम् | स्वाधिष्ठानं सदा पातु षड्दलान्तः प्रकाशकः || ८५-२२ || अभयः सर्वदा पातु भर्गः पातु चतुर्दलम् | तरुणीशः सदा पातु कुण्डलीं डाकिनीपदम् || ८५-२३ || गुदरन्ध्रं सदा पातु पार्वतीपिरयवल्लभः | यज्ञनाथः सदा पातु ऊरुयुग्मं स्वमन्त्रवित् || ८५-२४ || जङ्घायुगं सदा पातु धर्मलक्ष्मीश्वरः प्रभुः | महाकालः पातु पादतलयुग्मं महीश्वरः || ८५-२५ || सर्वाङ्गं वरदः पातु वटुकः श्रीसदाशिवः | महारुद्रः श्रीपतीशः सदा उग्रः प्रपातु माम् || ८५-२६ || रणे द्यूते विवादे च शून्यागारे महाभये | पाताले पर्वतेऽरण्ये पातु वाग्वादिनीश्वरः || ८५-२७ || घण्टेश्वरः शङ्खनादो मुरारीशः प्रपातु माम् | परमानन्ददः पातु हितार्थी पथि पातु माम् || ८५-२८ || महाविद्यापतिः पातु प्रेतराजः प्रपातु माम् | पुत्रं मित्रं कलत्रं मे बन्धुं स्वजनमेव च || ८५-२९ || सर्वाघारः सदा पातु लिङ्गरूपी महेश्वरः | परमात्मा सदा पातु गुह्यदेशस्थदेवताम् || ८५-३० || परिवारान्वितः पातु महाचन्द्रः सदाऽवतु | मारणोच्चाटने स्तम्भे विद्वेषे पातु मोहनः || ८५-३१ || मोहने द्रावणे स्थैर्ये वश्ये शान्तौ सदाशिवः | परनाथो गुरुः पातु पारिजातवनाश्रयः || ८५-३२ || सर्वभुक् कालरुद्रो मे सर्वत्र परिपातु माम् | इत्येतत् कथितं सर्वसिद्धिदं कवचं शुभम् || ८५-३३ || परनाथस्य देवस्य सार्वज्ञज्ञानसिद्धिदम् | कवचं दुर्लभं लोके सर्वतन्त्रेषु गोपितम् || ८५-३४ || यामले देवदेवेश प्रकाशितमहनीशम् | यः पठेदेकवारं तु स रुद्रो नात्र संशयः || ८५-३५ || कीतीश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् | अस्य स्मरणमात्रेण राजत्वं योगिनां पतिः || ८५-३६ || भवेत् कामक्रोधजेता मृत्युजेता महाकविः | तस्यासाध्यं त्रिभुवने न किञ्चिदपि वर्तते || ८५-३७ || यः कण्ठे मस्तके वापि धारयेत् कवचं शुभम् | रक्तेन चन्दनेनापि कुङ्कुमेनापि वा लिखेत् || ८५-३८ || स भवेद् वीरपुत्रश्च महापातककोटिहा | अनायासेन देवेश योगसिद्धिमवाप्नुयात् || ८५-३९ || शतमष्टोत्तरं जप्त्वा पुरश्चर्याफलं लभेत् || ८५-४० || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे परशिवकवचपाठो नाम पञ्चाशीतितमः पटलः || ८५ || अथ षडशीतितमः पटलः श्रीआनन्दभैरवी उवाच आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले | कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे | स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं | हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः || ८६-१ || श्री आनन्दभैरवी उवाच साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो | नाम्नां शक्तिसहस्रनाम भविकं ज्ञानादि चाष्टोत्तरम् | योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः | सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो || ८६-२ || अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः स्तोत्रस्य सदाशिव ऋषिः गायत्रीच्छन्दः श्रीपरमेश्वरीहाकिनीमहाशक्तिर्देवता क्लीं | बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत-- | महाकायज्ञानसिद्ध्यर्थे जपे विनियोगः | ओं हाकिनी वसुधा लक्ष्मी परमात्मकला परा | परप्रिया परातीता परमा परमप्रिया || ८६-३ || परेश्वरी परप्रेमा परब्रह्मस्वरूपिणी | परन्तपा परानन्दा परनाथनिसेविनी || ८६-४ || पराकाशस्थिता पारा पारापारनिरूपिणी | पराकाङ्क्ष्या पराशक्तिः पुरातनतनुः प्रभा || ८६-५ || पञ्चाननप्रिया पूर्वा परदारा परादरा | परदेशगता नाथा परमाह्लादवधीनी || ८६-६ || पार्वती परकुलाख्या पराञ्जनसुलोचना | परंब्रह्मप्रिया माया परंब्रह्मप्रकाशिनी || ८६-७ || परंब्रह्मज्ञानगम्या परंब्रह्मेश्वरप्रिमया | पूर्वातीता परातीता अपारमहिमस्थिता || ८६-८ || अपारसागरोद्धारा अपारदुस्तरोद्धरा | परानलशिखाकारा परभ्रूमध्यवासिनी || ८६-९ || परश्रेष्ठा परक्षेत्रवासिनी परमालिनी | पर्वतेश्वरकन्या च पराग्निकोटिसम्भवा || ८६-१० || परच्छाया परच्छत्रा परच्छिद्रविनिर्गता | परदेवगतिः प्रेमा पञ्चचूडामणिप्रभा || ८६-११ || पञ्चमी पशुनाथेशी त्रिपञ्चा पञ्चसुन्दरी | पारिजातवनस्था च पारिजातस्रजप्रिया || ८६-१२ || परापरविभेदा च परलोकविमुक्तिदा | परतापानलाकारा परस्त्री परजापिनी || ८६-१३ || परास्त्रधारिणी पूरवासिनी परमेश्वरी | प्रेमोल्लासकरी प्रेमसन्तानभक्तिदायिनी || ८६-१४ || परशब्दप्रिया पौरा परामर्षणकारिणी | प्रसन्ना परयन्त्रस्था प्रसन्ना पद्ममालिनी || ८६-१५ || प्रियंवदा परत्राप्ता परधान्यार्थवधीनी | परभूमिरता पीता परकातरपूजिता || ८६-१६ || परास्यवाक्यविनता पुरुषस्था पुरञ्जना | प्रौढा मेयहरा प्रीतिवर्धनी प्रियवधीनी || ८६-१७ || प्रपञ्चदुःखहन्त्री च प्रपञ्चसारनिर्गता | पुराणनिर्गता पीना पीनस्तनभवोज्ज्वला || ८६-१८ || पट्टवस्त्रपरीधाना पट्टसूत्रप्रचालिनी | परद्रव्यप्रदा प्रीता परश्रद्धा परान्तरा || ८६-१९ || पावनीया परक्षुब्धा परसारविनाशिनी | परमेव निगूढार्थतत्त्वचिन्ताप्रकाशिनी || ८६-२० || प्रचुरार्थप्रदा पृथ्वी पद्मपत्रद्वयस्थिता | प्रसन्नहृदयानन्दा प्रसन्नासनसंस्थिता || ८६-२१ || प्रसन्नरत्नमालाढ्या प्रसन्नवनमालिनी | प्रसन्नकरुणानन्दा प्रसन्नहृदयस्थिता || ८६-२२ || पराभासरता पूर्वपश्चिमोत्तरदक्षिणा | पवनस्था पानरता पवनाधारविग्रहा || ८६-२३ || प्रभुप्रिया प्रभुरता प्रभुभक्तिप्रदायिनी | परतृष्णावधीनी च प्रचया परजन्मदा || ८६-२४ || परजन्मनिरस्ता च परसञ्चारकारिणी | परजाता पारिजाता पवित्रा पुण्यवधीनी || ८६-२५ || पापहर्त्री पापकोटिनाशिनी परमोक्षदा | परमाणुरता सूक्ष्मा परमाणुविभञ्जिनी || ८६-२६ || परमाणुस्थूलकरी परात्परतरा पथा | पूषणः प्रियकर्त्री च पूषणा पोषणत्रया || ८६-२७ || भूपपाला पाशहस्ता प्रचण्डा प्राणरक्षिणी | पयःशिलाऽपूपभक्षा पीयूषपानतत्परा || ८६-२८ || पीयूषतृप्तदेहा च पीयूषमथनक्रिया | पीयूषसागरोद्भूता पीयूषस्निग्धदोहिनी || ८६-२९ || पीयूषनिर्मलाकारा पीयूषघनविग्रहा | प्राणापानसमानादिपवनस्तम्भनप्रिया || ८६-३० || पवनांशप्रभाकारा प्रेमोद्गतस्वभक्तिदा | पाषाणतनुसंस्था च पाषाणचित्तविग्रहा || ८६-३१ || पश्चिमानन्दनिरता पश्चिमा पश्चिमप्रिया | प्रभाकारतनूग्रा च प्रभाकरमुखी प्रभा || ८६-३२ || सुप्रभा प्रान्तरस्था च प्रेयत्वसाधनप्रिया | अस्थिता पामसी पूर्वनाथपूजितपादुका || ८६-३३ || पादुकामन्त्रसिद्धा च पादुकामन्त्रजापिनी | पादुकामङ्गलस्था च पादुकाम्भोजराजिनी || ८६-३४ || प्रभाभारुणकोटिस्था प्रचण्डसूर्यकोटिगा | पालयन्ती त्रिलोकानां परमा परहाकिनी || ८६-३५ || परावरानना प्रज्ञा प्रान्तरान्तःप्रसिद्धिदा | पारिजातवनोन्मादा परमोन्मादरागिणी || ८६-३६ || परमाह्लादमोदा च परमाकाशवाहिनी | परमाकाशदेवी च प्रथात्रिपुरसुन्दरी || ८६-३७ || प्रतिकूलकरी प्राणानुकूलपरिकारिणी | प्राणरुद्रेश्वरप्रीता प्रचण्डगणनायिका || ८६-३८ || पोष्ट्री पौत्रादिरक्षत्री पुण्ड्र्का पञ्चचामरा | परयोषा परप्राया परसन्तानरक्षका || ८६-३९ || परयोगिरता पाशपशुपाशविमोहिनी | पशुपाशप्रदा पूज्या प्रसादगुणदायिनी || ८६-४० || प्रह्लादस्था प्रफुल्लाब्जमुखी परमसुन्दरी | पररामा परारामा पार्वणी पार्वणप्रिया || ८६-४१ || प्रियङ्करी पूर्वमाता पालनाख्या परासरा | पराशरसुभाग्यस्था परकान्तिनितम्बिनी || ८६-४२ || परश्मशानगम्या च प्रियचन्द्रमुखीपला | पलसानकरी प्लक्षा प्लवङ्गगणपूजिता || ८६-४३ || प्लक्षस्था पल्लवस्था च पङ्केरुहमुखी पटा | पटाकारस्थिता पाठ्या पवित्रलोकदायिनी || ८६-४४ || पवित्रमन्त्रजाप्यस्था पवित्रस्थानवासिनी | पवित्रालङ्कृताङ्गी च पवित्रदेहधारिणी || ८६-४५ || त्रिपुरा परमैश्वर्यपूजिता सर्वपूजिता | पललप्रियहृद्या च पलालचर्वणप्रिया || ८६-४६ || परगोगणगोप्या च प्रभुस्त्रीरौद्रतैजसी | प्रफुल्लाम्भोजवदना प्रफुल्लपद्ममालिनी || ८६-४७ || पुष्पप्रिया पुष्पकुला कुलपुष्पप्रियाकुला | पुष्पस्था पुष्पसङ्काशा पुष्पकोमलविग्रहा || ८६-४८ || पौष्पी पानरता पुष्पमधुपानरता प्रचा | प्रतीची प्रचयाह्लादो प्राचनाख्या च प्राञ्चिका || ८६-४९ || परोदरे गुणानन्दा परौदार्यगुणप्रिया | पारा कोटिध्वनिरता पद्मसूत्रप्रबोधिनी || ८६-५० || प्रियप्रबोधनिरता प्रचण्डनादमोहिनी | पीवरा पीवरग्रन्थिप्रभेदा प्रलयापहा || ८६-५१ || प्रलया प्रलयानन्दा प्रलयस्था प्रयोगिनी | प्रयोगकुशला पक्षा पक्षभेदप्रकाशिनी || ८६-५२ || एकपक्षा द्विपक्षा च पञ्चपक्षप्रसिद्धिदा | पलाशकुसुमानन्दा पलाशपुष्पमालिनी || ८६-५३ || पलाशपुष्पहोमस्था पलाशच्छदसंस्थिता | पात्रपक्षा पीतवस्त्रा पीतवर्णप्रकाशिनी || ८६-५४ || निपीतकालकूटी च पीतसंसारसागरा | पद्मपत्रजलस्था च पद्मपत्रनिवासिनी || ८६-५५ || पद्ममाला पापहरा पट्टाम्बरधरा परा | परनिर्वाणदात्री च पराशा परशासना || ८६-५६ || अप्रियविनिहन्त्री च परसंस्कारपालिनी | प्रतिष्ठा पूजिता सिद्धा प्रसिद्धप्रभुवादिनी || ८६-५७ || प्रयाससिद्धिदा क्षुब्धा प्रपञ्चगुणनाशिनी | प्रणिपत्या प्राणिशिष्या प्रतिष्ठिततनूप्रिया || ८६-५८ || अप्रतिष्ठा निहन्त्री च पादपद्मद्वयान्विता | पादाम्बुजप्रेमभक्तिपूज्यप्राणप्रदायिनी || ८६-५९ || पैशाची च प्रक्षपिता पितृश्रद्धा पितामही | प्रपितामहपूज्या च पितृलोकस्वधापरा || ८६-६० || पुनर्भवा पुनर्जीवा पौनःपुन्यगतिस्थिता | प्रधानबलिभक्षादिसुप्रिया प्रियसाक्षिणी || ८६-६१ || पतङ्गकोटिजीवाख्या पावकस्था च पावनी | परज्ञानार्थदात्री च परतन्त्रार्थसाधिनी || ८६-६२ || प्रत्यग्ज्योतिः स्वरूपा च प्रथमाप्रथमारुणा | प्रातःसन्ध्या पार्थसन्ध्या परसन्ध्यास्वरूपिणी || ८६-६३ || प्रधानवरदा प्राणज्ञाननिर्णयकारिणी | प्रभञ्जना प्राञ्जनेशी प्रयोगोद्रेककारिणी || ८६-६४ || प्रफुल्लपददात्री च प्रसमाया पुरोदया | पर्वतप्राणरक्षत्री पर्वताधारसाक्षिणी || ८६-६५ || पर्वतप्राणशोभा च पर्वतच्छत्रकारिणी | पर्वता ज्ञानहर्त्री च प्रलयोदयसाक्षिणी || ८६-६६ || प्रारब्धजननी काली प्रद्युम्नजननी सुरा | प्राक्सुरेश्वरपत्नी च परवीरकुलापहा || ८६-६७ || परवीरनियन्त्री च परप्रणवमालिनी | प्रणवेशी प्रणवगा प्रणवाद्याक्षरप्रिया || ८६-६८ || प्रणवार्णजपप्रीता प्राणमृत्युञ्जयप्रदा | प्रणवालङ्कृता व्यूढा पशुभक्षणतर्पणा || ८६-६९ || पशुदोषहरा पाशुपतास्त्रकोटिधारिणी | प्रवेशिनी प्रवेशाख्या पद्मपत्रत्रिलोचना || ८६-७० || पशुमांसासवानन्दा पशुकोटिबलिप्रिया | पशुधर्मक्षया प्रार्या पशुतर्पणकारिणी || ८६-७१ || पशुश्रद्धाकरी पूज्या पशुमुण्डसुमालिनी | परवीरयोगशिक्षा परसिद्धान्तयोगिनी || ८६-७२ || परशुक्रोधमुख्यास्त्रा परशुप्रलयप्रदा | पद्मरागमालधरा पद्मरागासनस्थिता || ८६-७३ || पद्मरागमणिश्रेणीहारालङ्कारशोभिता | परमधूलिसौन्दर्यमञ्जीरपादुकाम्बुजा || ८६-७४ || हर्त्री समस्तदुःखानां हिरण्यहारशोभिता | हरिणाक्षी हरिस्था च हरा हारावती हिरा || ८६-७५ || हारकुण्डलशोभाढ्या हारकेयूरमण्डिता | हरणस्था हाकिनी च होमकर्मप्रकाशिनी || ८६-७६ || हरिद्रा हरिपूज्या च हरमाला हरेश्वरी | हरातीता हरसिद्धा ह्रींकारी हंसमालिनी || ८६-७७ || हंसमन्त्रस्वरूपा च हंसमण्डलभेदिनी | हंसः सोऽहं मणिकरा हंसराजोपरिस्थिता || ८६-७८ || हीरकाभा हीरकसूकधारिणी हरमेखला | हरकुण्डमेखला च होमदण्डसुमेखला || ८६-७९ || हरधरप्रियानन्दा हलीशानी हरोदया | हरपत्नी हररता संहारविग्रहोज्ज्वला || ८६-८० || संहारनिलया हाला ह्लींबीजप्रणवप्रिया | हलक्षा हक्षवर्णस्था हाकिनी हरमोहिनी || ८६-८१ || हाहा--हूहू--प्रियानन्दगायनप्रेमसुप्रिया | हरभूतिप्रदा हारप्रिया हीरकमालिनी || ८६-८२ || हीरकाभा हीरकस्था हराधारा हरस्थिता | हालानिषेविता हिन्ता हिन्तालवनसिद्धिदा || ८६-८३ || महामाया महारौद्री महादेवनिषेविता | महानया महादेवी महासिद्धा महोदया || ८६-८४ || महायोगा महाभद्रा महायोगेन्द्रतारिणी | महादीपशिखाकारा महादीपप्रकाशिनी || ८६-८५ || महादीपप्रकाशाख्या महाश्रद्धा महामतिः | महामहीयसी मोहनाशिनी महती महा || ८६-८६ || महाकालपूजिता च महाकालकुलेश्वरी | महायोगीन्द्रजननी मोहसिद्धिप्रदायिनी || ८६-८७ || आहुतिस्थाहुतिरता होतृवेदमनुप्रिया | हैयङ्गबीजभोक्त्री च हैयङ्गबीजसुप्रिया || ८६-८८ || हे सम्बोधनरूपा च हे हेतोः परमात्मजा | हलनाथप्रिया देवी हिताहितविनाशिनी || ८६-८९ || हन्त्री समस्तपापानां हलहेतुप्रदाप्रदा | हलहेतुच्छलस्था च हिलिहिलिप्रयागिनी || ८६-९० || हुतासनमुखी शून्या हरिणी हरतन्त्रदा | हठात्कारगतिप्रीता सुण्टकालङ्कृता इला || ८६-९१ || हलायुधाद्यजननी हिल्लोला हेमबहीणी | हैमी हिमसुता हेमपर्वतशृङ्गसंस्थिरा || ८६-९२ || हरणाख्या हरिप्रेमवधीनी हरमोहिनी | हरमाता हरप्रज्ञा हुङ्कारी हरपावनी || ८६-९३ || हेरम्बजननी हट्टमध्यस्थलनिवासिनी | हिमकुन्देन्दुधवला हिमपर्वतवासिनी || ८६-९४ || होतृस्था हरहाला च हेलातीता अहर्गणा | अहङ्कारा हेतुगर्ता हेतुस्था हितकारिणी || ८६-९५ || हतभाग्यनिहन्त्री च हतासद्बुद्धिजीविका | हेतुप्रिया महारात्री अहोराख्या हरोद्गमा || ८६-९६ || अर्हणादिप्रिया चार्हा हाहाकारनिनादिनी | हनुमत्कल्पसंस्थाना हनुमत्सिद्धिदायिनी || ८६-९७ || हलाहलप्रियाघोरा महाभीमा हलायुधा | हसौः बीजस्वरूपा च हसौं प्रेताख्यजापिनी || ८६-९८ || आह्लादिनी इहानन्दा अर्घ्यक्रान्ता हरार्चना | हरभीतिहराहःका बीजहःकामहक्षरा || ८६-९९ || हेरम्बयोगसिद्धिस्था हेरम्बादिसुतप्रिया | हननाख्या हेतुनाम्नी हठात् सिद्धिप्रयोगदा || ८६-१०० || उमा महेश्वरी आद्या अनन्तानन्तशक्तिदा | आधारार्हसुरक्षा च ईश्वरी उग्रतारिणी || ८६-१०१ || उषेश्वरी उत्तमा च ऊर्ध्वपद्मविभेदिनी | ऋद्धिसिद्धिप्रदा क्षुल्लाकाशबीजसुसिद्धिदा || ८६-१०२ || तृतकस्थातृतकस्था तृस्वराखर्वबीजगा | एरण्डपुष्पहोमाढ्या एश्वर्यदानतत्परा || ८६-१०३ || ओड्र्पुष्पप्रिया ओंकाराक्षरा औषधप्रिया | अर्वणासारः अंशाख्या अःस्था च कपिला कला || ८६-१०४ || कैलासस्था कामधेनुः खर्वा खेटकधारिणी | खरपुष्पप्रिया खड्गधारिणी खरगामिनी || ८६-१०५ || गभीरा गीतगायत्री गुर्वा गुरुतरा गया | घनकोटिनादकरी घर्घरा घोरनादिनी || ८६-१०६ || घनच्छाया चारुवर्णा चण्डिका चारुहासिनी | चारुचन्द्रमुखी चारुचित्तभावार्थगामिनी || ८६-१०७ || छत्राकिनी छलच्छिन्ना छागमांसविनोदिनी | जयदा जीवी जन्या च जीमूतैरुपशोभिता || ८६-१०८ || जयित्री जयमुण्डाली झङ्कारी झञ्जनादिका | टङ्कारधारिणी टङ्कबाणकार्मुकधारिणी || ८६-१०९ || ठकुराणी ठठङ्कारी डामरेशी च डिण्डिमा | ढक्कानादप्रिया ढक्का तवमाला तलातला || ८६-११० || तिमिरा तारिणी तारा तरुणा तालसिद्धिदा | तृप्ता च तैजसी चैव तुलनातलवासिनी || ८६-१११ || तोषणा तौलिनी तैलगन्धामोदितदिङ्मुखी | स्थूलप्रिया थकाराद्या स्थितिरूपा च संस्थिरा || ८६-११२ || दक्षिणदेहनादाक्षा दक्षपत्नी च दक्षजा | दारिद्र्यदोषहन्त्री च दारुणास्त्रविभञ्जिनी || ८६-११३ || दंष्ट्रकरालवदनी दीर्घमात्रादलान्विता | देवमाता देवसेना देवपूज्या दयादशा || ८६-११४ || दीक्षादानप्रदा दैन्यहन्त्री दीर्घसुकुन्तला | दनुजेन्द्रनिहन्त्री च दनुजारिविमदीनी || ८६-११५ || देशपूज्या दायदात्री दशनास्त्रप्रधारिणी | दासरक्षा देशरक्षा दिगम्बरदिगम्बरी || ८६-११६ || दिक्प्रभापाटलव्याप्ता दरीगृहनिवासिनी | दर्शनस्था दार्शनिका दत्तभार्या च दुर्गहा || ८६-११७ || दुर्गा दीर्घमुखी दुःखनाशिनी दिविसंस्थिता | धन्या धनप्रदा धारा धरणी धारिणी धरा || ८६-११८ || धृतसौन्दर्यवदना धनदा धान्यवधीनी | ध्यानप्राप्ता ध्यानगम्या ध्यानज्ञानप्रकाशिनी || ८६-११९ || ध्येया धीरपूजिता च धूमेशी च धुरन्धरा | धूमकेतुहरा धूमा ध्येया सर्वसुरेश्वरैः || ८६-१२० || धर्मार्थमोक्षदा धर्मचिन्ता धर्मप्रकाशिनी | धूलिरूपा च धवला धवलच्छत्रधारिणी || ८६-१२१ || धवलाम्बरधात्री च धवलासनसंस्थिता | धवला हिमालयधरा धरणी साधनक्रिया || ८६-१२२ || धवलेश्वरकन्या च धवलाध्वाधलामुखी | धीरकन्या धर्मकन्या ध्रुवसिद्धिप्रदायिनी || ८६-१२३ || ध्रुवानन्दा ध्रुवश्रद्धा ध्रुवसन्तोषवधीनी | नारिकेलजलस्नाता नारिकेलफलासना || ८६-१२४ || नारी नारायणीशाना नम्रपूजनसुप्रिया | नरदेवरता नित्यगणगन्धर्वपूजिता || ८६-१२५ || नरकविहारिणी चैव नरकान्तककारिणी | नरक्षेत्रकलादेवी नवकोशनिवासिनी || ८६-१२६ || नाक्षत्रविद्या नाक्षत्री नक्षत्रमण्डलस्थिता | नृपोन्नाशकरी नारायणी नूपुरधारिणी || ८६-१२७ || नृत्यगीतप्रियानीता नवीना नामशायिनी | नौनूतनास्त्रधरा नित्या नवपुष्पवनस्थिता || ८६-१२८ || नवपुष्पप्रेमरता नवचम्पकमालिनी | नवरत्नहारमाला नवजाम्बूनदप्रभा || ८६-१२९ || नमस्कारप्रिया निन्दा वादनादप्रणाशिनी | पवनाक्षरमाला च पवनाक्षरमालिनी || ८६-१३० || परदोषभयङ्कारा प्रचरद्रूपसंस्थिता | प्रस्फुटिताम्भोजमालाधारिणी प्रेमवासिनी || ८६-१३१ || परमानन्दसप्तानहरी पृथुनितम्बिनी | प्रवालमाला लोभाङ्गी पयोदा शतविग्रहा || ८६-१३२ || पयोदकरुणाकारा पारम्पर्याप्रसादिनी | प्रारम्भकर्मनिरता प्रारब्धभोगदायिनी || ८६-१३३ || प्रेमसिद्धिकरी प्रेमधारा गङ्गाम्बुशोभिनी | फेरुपुण्यवरानन्दा फेरुभोजनतोषणी || ८६-१३४ || फलदा फलवर्धा च फलाह्लादविनोदिनी | फणिमालाधरा देवी फणिहारादिशोभिनी || ८६-१३५ || फणा फणीकारमुखी फणस्था फणिमण्डला | सहस्रफणिसम्प्राप्ता फुल्लारविन्दमालिनी || ८६-१३६ || वासुकी व्यासपूज्या च वासुदेवार्चनप्रिया | वासुदेवकलावाच्या वाचकस्था वसुस्थिता || ८६-१३७ || वज्रदण्डधराधारा विरदा वादसाधिनी | वसन्तकालनिलया वसोर्द्धारा वसुन्धरा || ८६-१३८ || वेपमानरक्षका च वपूरक्षा वृषासना | विवस्वत्प्रेमकुशला विद्यावाद्यविनोदिनी || ८६-१३९ || विधिविद्याप्रकाशा च विधिसिद्धान्तदायिनी | विधिज्ञा वेदकुशला वेदवाक्यविवासिनी || ८६-१४० || बलदेवपूजिता च बालभावप्रपूजिता | बाला वसुमती वेद्या वृद्धमाता बुधप्रिया || ८६-१४१ || बृहस्पतिप्रिया वीरपूजिता बालचन्द्रिका | विग्रहज्ञानरक्षा च व्याघ्रचर्मधरावरा || ८६-१४२ || व्यथाबोधापहन्त्री च विसर्गमण्डलस्थिता | बाणभूषापूजिता वनमाला विहायसी || ८६-१४३ || वामदेवप्रिया वामपूजाजापपरायणा | भद्रा भ्रमरवर्णा च भ्रामरी भ्रमरप्रभा || ८६-१४४ || भालचन्द्रधरा भीमा भीमनेत्राभवाभवा | भीममुखी भीमदेहा भीमविक्रमकारिणी || ८६-१४५ || भीमश्रद्धा भीमपूज्या भीमाकारातिसुन्दरी | भीमसङ्ग्रामजयदा भीमाद्या भीमभैरवी || ८६-१४६ || भैरवेशी भैरवी च सदानन्दादिभैरवी | सदानन्दभैरवी च भैरवेन्द्रप्रियङ्करी || ८६-१४७ || भल्लास्त्रधारिणी भैमी भृगुवंशप्रकाशिनी | भर्गपत्नी भर्गमाता भङ्गस्था भङ्गभक्षिणी || ८६-१४८ || भक्षप्रिया भक्षरता भृकुण्डा भावभैरवी | भावदा भवदा भावप्रभावा भावनाशिनी || ८६-१४९ || भालसिन्दूरतिलका भाललोकसुकुण्डला | भालमालालकाशोभा भासयन्ती भवार्णवा || ८६-१५० || भवभीतिहरा भालचन्द्रमण्डलवासिनी | मद्भ्रमरनेत्राब्जसुन्दरी भीमसुन्दरी || ८६-१५१ || भजनप्रियरूपा च भावभोजनसिद्धिदा | भ्रूचन्द्रनिरता बिन्दुचक्रभ्रूपद्मभेदिनी || ८६-१५२ || भवपाशहरा भीमभावकन्दनिवासिनी | मनोयोगसिद्धिदात्री मानसी मनसो मही || ८६-१५३ || महती मीनभक्षा च मीनचर्वणतत्परा | मीनावतारनिरता मांसचर्वणतत्परा || ८६-१५४ || मांसप्रिया मांससिद्धा सिद्धमांसविनोदिनी | माया महावीरपूज्या मधुप्रेमदिगम्बरी || ८६-१५५ || माधवी मदिरामध्या मधुमांसनिषेविता | मीनमुद्राभक्षिणी च मीनमुद्राप्रतपीणी || ८६-१५६ || मुद्रामैथुनसंतृप्ता मैथुनानन्दवधीनी | मैथुनज्ञानमोक्षस्था महामहिषमदीनी || ८६-१५७ || यज्ञश्रद्धा योगसिद्धा यत्नी यत्नप्रकाशिनी | यशोदा यशसि प्रीता यौवनस्था यमापहा || ८६-१५८ || रासश्रद्धातुरारामरमणीरमणप्रिया | राज्यदा रजनीराजवल्लभा रामसुन्दरी || ८६-१५९ || रतिश्चारतिरूपा च रुद्रलोकसरस्वती | रुद्राणी रणचामुण्डा रघुवंशप्रकाशिनी || ८६-१६० || लक्ष्मीर्लीलावती लोका लावण्यकोटिसम्भवा | लोकातीता लक्षणाख्या लिङ्गधारा लवङ्गदा || ८६-१६१ || लवङ्गपुष्पनिरता लवङ्गतरुसंस्थिता | लेलिहाना लयकरी लीलादेहप्रकाशिनी || ८६-१६२ || लाक्षाशोभाधरा लङ्का रत्नमासवधारिणी | लक्षजापसिद्धिकरी लक्षमन्त्रप्रकाशिनी || ८६-१६३ || वशिनी वशकर्त्री च वश्यकर्मनिवासिनी | वेशावेश्या वेशवेश्या वंशिनी वंशवधीनी || ८६-१६४ || वंशमाया वज्रशब्दमोहिनी शब्दरूपिणी | शिवा शिवमयी शिक्षा शशिचूडामणिप्रभा || ८६-१६५ || शवयुग्मभीतिदा च शवयुग्मभयानका | शवस्था शववक्षस्था शाब्दबोधप्रकाशिनी || ८६-१६६ || षट्पद्मभेदिनी षट्का षट्कोणयन्त्रमध्यगा | षट्चक्रसारदा सारा सारात्सारसरोरुहा || ८६-१६७ || समनादिनिहन्त्री च सिद्धिदा संशयापहा | संसारपूजिता धन्या सप्तमण्डलसाक्षिणी || ८६-१६८ || सुन्दरी सुन्दरप्रीता सुन्दरानन्दवधीनी | सुन्दरास्या सुनवस्त्री सौन्दर्यसिद्धिदायिनी || ८६-१६९ || त्रिसुन्दरी सर्वरी च सर्वा त्रिपुरसुन्दरी | श्यामला सर्वमाता च सख्यभावप्रिया स्वरा || ८६-१७० || साक्षात्कारस्थिता साक्षात्साक्षिणी सर्वसाक्षिणी | हाकिनी शाकिनीमाता शाकिनी काकिनीप्रिया || ८६-१७१ || हाकिनी लाकिनीमाता हाकिनी राकिणीप्रिया | हाकिनी डाकिनीमाता हरा कुण्डलिनी हया || ८६-१७२ || हयस्था हयतेजःस्था हसौंबीजप्रकाशिनी | लवणाम्बुस्थिता लक्षग्रन्थिभेदनकारिणी || ८६-१७३ || लक्षकोटिभास्कराभा लक्षब्रह्माण्डकारिणी | क्षणदण्डपलाकारा क्षपाक्षोभविनाशिनी || ८६-१७४ || क्षेत्रपालादिवटुकगणेशयोगिनीप्रिया | क्षयरोगहरा क्षौणी क्षालनस्थाक्षरप्रिया || ८६-१७५ || क्षाद्यस्वरान्तसिद्धिस्था क्षादिकान्तप्रकाशिनी | क्षाराम्बुतिक्तनिकरा क्षितिदुःखविनाशिनी || ८६-१७६ || क्षुन्निवृत्तिः क्षणज्ञानी वल्लभा क्षणभङ्गुरा | इत्येतत् कथितं नाथ हाकिन्याः कुलशेखर || ८६-१७७ || सहस्रनामयोगाङ्गमष्टोत्तरशतान्वितम् | यः पठेन्नियतः श्रीमान् स योगी नात्र संशयः || ८६-१७८ || अस्य स्मरणमात्रेण वीरो योगेश्वरो भवेत् | अस्यापि च फलं वक्तुं कोटिवर्षशतैरपि || ८६-१७९ || शक्यते नापि सहसा संक्षेपात् शृणु सत्फलम् | आयुरारोग्यमाप्नोति विश्वासं श्रीगुरोः पदैः || ८६-१८० || सारसिद्धिकरं पुण्यं पवित्रं पापनाशनम् | अत्यन्तदुःखदहनं सर्वसौभाग्यदायकम् || ८६-१८१ || पठनात् सर्वदा योगसिद्धिमाप्नोति योगिराट् | देहसिद्धिः काव्यसिद्धिर्ज्ञानसिद्धिर्भवेद् ध्रुवम् || ८६-१८२ || वाचां सिद्धिः खड्गसिद्धिः खेचरत्वमवाप्नुयात् | त्रैलोक्यवल्लभो योगी सर्वकामार्थसिद्धिभाक् || ८६-१८३ || अप्रकाश्यं महारत्नं पठित्वा सिद्धिमाप्नुयात् | अस्य प्रपठनेनापि भ्रूपद्मे चित्तमर्पयन् || ८६-१८४ || यशोभाग्यमवाप्नोतिराजराजेश्वरो भवेत् | डाकिनीसिद्धिमाप्नोति कुण्डलीवशमानयेत् || ८६-१८५ || ध्यानात्मा साधकेन्द्रश्च यतिर्भूत्वा शुभे दिने | ध्यानं कुर्यात् पद्ममध्यकणीकायां शिखालये || ८६-१८६ || भ्रूमध्ये चक्रसारे च ध्यात्वा ध्यात्वा पठेद् यदि | राकिणीसिद्धिमाप्नोति देवतादर्शनं लभेत् || ८६-१८७ || भाग्यसिद्धिमवाप्नोति नित्यं प्रपठनाद्यतः | साक्षात्सिद्धिमवाप्नोति शक्तियुक्तः पठेद्यदि || ८६-१८८ || हिरण्याक्षी लाकिनीशा वशमाप्नोति धैर्यवान् | रात्रिशेषे समुत्थाय पठेद् यदि शिवालये || ८६-१८९ || पूजान्ते वा जपान्ते वा वारमेकं पठेद्यदि | वीरसिद्धिमवाप्नोति काकिनीवशमानयेत् || ८६-१९० || रात्रिं व्याप्य पठेद्यस्तु शुद्धचेता जितेन्द्रियः | शययायां चण्डिकागेहे मधुगेहेऽथवा पुनः || ८६-१९१ || शाकिनीसिद्धिमाप्नोति सर्वदेशे च सर्वदा | प्रभाते च समुत्थाय शुद्धात्मा पञ्चमे दिने || ८६-१९२ || अमावास्यासु विज्ञायां श्रवणायां विशेषतः | शुक्लपक्षे नवम्यां तु कृष्णपक्षेऽष्टमीदिने || ८६-१९३ || भार्यायुक्तः पठेद्यस्तु वशमाप्नोति भूपतिम् | एकाकी निर्जने देशे कामजेता महाबली || ८६-१९४ || प्रपठेद् रात्रिशेषे च स भवेत् साधकोत्तमः | कल्पद्रुमसमो दाता देवजेता न संशयः || ८६-१९५ || शिवशक्तिमध्यभागे यन्त्रं संस्थाप्य यत्नतः | प्रपठेत् साधकेन्द्रश्च सर्वज्ञाता स्थिराशयः || ८६-१९६ || एकान्तनिर्जने रम्ये तपःसिद्धिफलोदये | देशे स्थित्वा पठेद्यस्तु जीवन्मुक्ति फलं लभेत् || ८६-१९७ || अकालेऽपि सकालेऽपि पठित्वा सिद्धिमाप्नुयात् | त्रिकालं यस्तु पठति प्रान्तरे वा चतुष्पथे || ८६-१९८ || योगिनीनां पतिः साक्षादायुर्वृद्धिदीने दिने | वारमेकं पठेद्यस्तु मूर्खो वा पण्डितोऽपि वा || ८६-१९९ || वाचामीशो भवेत् क्षिप्रं योगयुक्तो भवेद् ध्रुवम् | सम्भावितो भवेदेकं वारपाठेन भैरव || ८६-२०० || जित्वा कालमहामृत्युं देवीभक्तिमवाप्नुयात् | पठित्वा वारमेकं तु यात्रां कुर्वन्ति ये जनाः || ८६-२०१ || देवीदर्शनसिद्धिञ्च प्राप्तो योगमवाप्नुयात् | प्रत्येकं नाममुच्चार्य यो यागमनुसञ्चरेत् || ८६-२०२ || स भवेन्मम पुत्रो हि सर्वकामफलं लभेत् | सर्वयज्ञफलं ज्ञानसिद्धिमाप्नोति योगिराट् || ८६-२०३ || भूतले भूभृतांनाथो महासिद्धो महाकविः | कण्ठे शीर्षे दक्षभुजे पुरुषो धारयेद्यदि || ८६-२०४ || योषिद्वामभुजे धृत्वा सर्वसिद्धिमवाप्नुयात् | गोरोचनाकुङ्कुमेन रक्तचन्दनकेन च || ८६-२०५ || यावकैर्वा महेशानि लिखेन्मन्त्रं समाहितः | आद्या देवी परप्राणसिद्धिमाप्नोति निश्चितम् || ८६-२०६ || लिङ्गं पीठे पूणीमायां कृष्णचतुर्दशीदिने | भौमवारे मध्यरात्रौ पठित्वा कामसिद्धिभाक् || ८६-२०७ || किं न सिद्ध्यति भूखण्डे अजरामर एव सः | रमणीकोटिभर्ता स्याद् वर्षद्वादशपाठतः || ८६-२०८ || अष्टवर्षप्रपाठेन कायप्रवेशसिद्धिभाक् | षड्वर्षमात्रपाठेन कुबेरसदृशो धनी || ८६-२०९ || वारैकमात्रपाठेन वर्षे वर्षे दिने दिने | स भवेत् पञ्चतत्त्वज्ञो तत्त्वज्ञानी न संशयः || ८६-२१० || सर्वपापविनिर्मुक्तो वसेत् कल्पत्रयं भुवि | यः पठेत् सप्तधा नाथ सप्ताहनि दिने दिने || ८६-२११ || रात्रौ वारत्रयं धीमान् पठित्वा खेचरो भवेत् | अश्विनी शुक्लपक्षे च रोहिण्यसितपक्षके || ८६-२१२ || अष्टम्यां हि नवम्यां तु पठेद् वारत्रयं निशि | दिवसे वारमेकं तु स भवेत् पञ्चतत्त्ववित् || ८६-२१३ || अनायासेन देवेश पञ्चामरादिसिद्धिभाक् | खेचरीमेलनं तस्य नित्यं भवति निश्चितम् || ८६-२१४ || स्वर्गे मर्त्ये च पाताले क्षणान्निःसरति ध्रुवम् | अग्निस्तम्भं जलस्तम्भं वातस्तम्भं करोति सः || ८६-२१५ || पञ्चतत्त्वक्रमेणैव श्मशाने यस्तु सम्पठेत् | स भवेद् देवदेवेशः सिद्धान्तसारपण्डितः || ८६-२१६ || शूकरासवसंयुक्तः कुलद्रव्येण वा पुनः | बिल्वमूले पीठमूले विधानेन प्रपूजयेत् | परेण परमा देवी तुष्टा भवति सिद्धिदा || ८६-२१७ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरण | षट्चक्रप्रकाशे भैरवभैरवीसंवादे हाकिनीसहस्रनाम-- | विन्यासो नाम षडशीतितमः पटलः || ८६ || अथ सप्ताशीतितमः पटलः श्रीआनन्दभैरव उवाच आनन्दभैरवि प्राणवल्लभे जगदीश्वरि | तव प्रसादवाक्येन श्रुतं नामसहस्रकम् || ८७-१ || हाकिन्याः कुलयोगिन्याः परमाद्भुतमङ्गलम् | इदानीं श्रोतुमिच्छामि परनाथस्य वाञ्छितम् || ८७-२ || सहस्रनामयोगाङ्गमष्टोत्तरसमाकुलम् | भ्रूपद्मभेदनार्थाय हाकिनीयोगसिद्धये || ८७-३ || परनाथस्य योगाधिसिद्धये कुलभैरवि | कृपया वद मे प्रीता धर्मसिद्धिनिबन्धनात् || ८७-४ || मम देहरक्षणाय पातिव्रात्यप्रसिद्धये | महाविषहरे शीघ्रं वद योगिनि विस्तरात् || ८७-५ || त्वत्प्रसादात् खेचराणां भैरवाणां हि योगिनाम् | नाथोऽहं जगतीखण्डे सुधाखण्डे वद प्रिये || ८७-६ || पुनः पुनः स्तौमि नित्ये त्वमेव सुप्रिया भव | श्रीआनन्दभैरवी उवाच अथ योगेश्वर प्राणनाथ योगेन्द्र सिद्धिद || ८७-७ || इदानीं कथये तेऽहं निजदेहसुसिद्धये | सर्वदा हि पठस्व त्वं कालमृत्युं वशं नय || ८७-८ || कृपया तव नाथस्य स्नेहपाशनियन्त्रिता | तवाज्ञापालनार्थाय कालकूटविनाशनात् || ८७-९ || भुक्तिमुक्तिक्रियाभक्तिसिद्धये तच्छृणु प्रभो | नित्यामृतखण्डरसोल्लासनामसहस्रकम् || ८७-१० || अष्टोत्तरं प्रयत्नेन योगिनां हि हिताय च | कथयामि सिद्धनामज्ञाननिर्णयसाधनम् || ८७-११ || ओं ह्सौ सां परेशश्च पराशक्तिः प्रियेश्वरः | शिवः परः पारिभद्रः परेशो निर्मलोऽद्वयः || ८७-१२ || स्वयंज्योतिरनाद्यन्तो निवीकारः परात्परः | परमात्मा पराकाशोऽपरोऽप्यपराजितः || ८७-१३ || पार्वतीवल्लभः श्रीमान् दीनबन्धुस्त्रिलोचनः | योगात्मा योगदः सिद्धेश्वरो वीरः स्वरान्तकः || ८७-१४ || कपिलेशो गुरुर्गीतः स्वप्रियो गीतमोहनः | गभीरो गाधनस्थश्च गीतवाद्यप्रियङ्करः || ८७-१५ || गुरुगीतापवित्रश्च गानसम्मानतोज्झितः | गयानाथो दत्तनाथो दत्तात्रेयपतिः शिवः || ८७-१६ || आकाशवाहको नीलो नीलाञ्जनशरीरधृक् | खगरूपी खेचरश्च गगनात्मा गभीरगः || ८७-१७ || गोकोटिदानकर्त्ता च गोकोटिदुग्धभोजनः | अभयावल्लभः श्रीमान् परमात्मा निराकृतिः || ८७-१८ || सङ्ख्याधारी निराकारी निराकरणवल्लभः | वायवाहारी वायुरूपी वायुगन्ता स्ववायुपाः || ८७-१९ || वातघ्नो वातसम्पत्तिर्वाताजीर्णो वसन्तवित् | वासनीशो व्यासनाथो नारदादिमुनीश्वरः || ८७-२० || नारायणप्रियानन्दो नारायणनिराकृतिः | नावमालो नावकर्ता नावसंज्ञानधारकः || ८७-२१ || जलाधारो ज्ञेय इन्द्रो निरिन्द्रियगुणोदयः | तेजोरूपी चण्डभीमो तेजोमालाधरः कुलः || ८७-२२ || कुलतेजा कुलानन्दः शोभाढ्यो वेदरश्मिधृक् | किरणात्मा कारणात्मा कल्पच्छायापतिः शशी || ८७-२३ || परज्ञानी परानन्ददायको धर्मजित्प्रभुः | त्रिलोचनाम्भोजराजो दीर्घनेत्रो मनोहरः || ८७-२४ || चामुण्डेशः प्रचण्डेशः पारिभद्रेश्वरो हरः | गोपिता मोहितो गोप्ता गुप्तिस्थो गोपपूजितः || ८७-२५ || गोपनाख्यो गोधनेशश्च चारुवक्त्रो दिगम्बरः | पञ्चाननः पञ्चमीशो विशालो गरुडेश्वरः || ८७-२६ || अर्धनारीश्वरेशश्च नायिकेशः कुलान्तकः | संहारविग्रहः प्रेतभूतकोटिपरायणः || ८७-२७ || अनन्तेशोऽप्यनन्तात्मा मणिचूडो विभावसुः | कालानलः कालरूपी वेदधर्मेश्वरः कविः || ८७-२८ || भर्गः स्मरहरः शम्भुः स्वयम्भुः पीतकुण्डलः | जायापतिर्याजजूको विलाशीशः शिखापतिः || ८७-२९ || पर्वतेशः पार्वणाख्यः क्षेत्रपालो महीश्वरः | वाराणसीपतिर्मान्यो धन्यो वृषसुवाहनः || ८७-३० || अमृतानन्दितो मुग्धो वनमालीश्वरः प्रियः | काशीपतिः प्राणपतिः कालकण्ठो महेश्वरः || ८७-३१ || कम्बुकण्ठः क्रान्तिवर्गो वर्गात्मा जलशासनः | जलबुद्बुदवक्षश्च जलरेखामयः पृथुः || ८७-३२ || पाथीवेशो महीकर्ता पृथिवीपरिपालकः | भूमिस्थो भूमिपूज्यश्च क्षौणीवृन्दारकाचीतः || ८७-३३ || शूलपाणिः शक्तिहस्तो पद्मगर्भो हिरण्यभृत् | भूगर्तसंस्थितो योगी योगसम्भवविग्रहः || ८७-३४ || पातालमूलकर्ता च पातालकुलपालकः | पातालनागमालाढ्यो दानकर्ता निराकुलः || ८७-३५ || भ्रूणहन्ता पापराधिनागकः कालनागकः | कपिलोग्रतपःप्रीतो लोकोपकारकृन्नृपः || ८७-३६ || नृपाचीतो नृपार्थस्थो नृपार्थकोटिदायकः | पाथीवार्चनसन्तुष्टो महावेगी परेश्वरः || ८७-३७ || परापारापारतरो महातरुनिवासकः | तरुमूलस्थितो रुद्रो रुद्रनामफलोदयः || ८७-३८ || रौद्रीशक्तिपतिः क्रोधी कोपनष्टो विरोचनः | असंख्येयाख्ययुक्तश्च परिणामविवजीतः || ८७-३९ || प्रतापी पवनाधारः प्रशंस्यः सर्वनिर्णयः | वेदजापी मन्त्रजापी देवता गुरुरीश्वरः || ८७-४० || श्रीनाथो गुरुदेवश्च परनाथो गुरुः प्रभुः | परापरगुरुर्ज्ञानी तन्त्रज्ञोऽर्कशतप्रभाः || ८७-४१ || तीर्क्ष्यो गमनकारी च कालभावी निरञ्जनः | कालकूटानलः श्रोतः पुञ्जपानपरायणः || ८७-४२ || परिवारगणाढ्यश्च पाराशाषिसुतस्थितः | स्थितिस्थापकरूपश्च रूपातीतोऽमलापतिः || ८७-४३ || पतीशो भागुरिश्चैव कालश्चैव हरिस्तथा | वैष्णवः प्रेमसिन्धुश्च तरलो वातवित्तहा || ८७-४४ || भावस्वरूपो भगवान् निराकाशः सनातनः | अव्ययः पुरुषः साक्षी चाच्युतो मन्दराश्रयः || ८७-४५ || मन्दराद्रिक्रियानन्दो वृन्दावनतनूद्भवः | वाच्यावाच्यस्वरूपश्च निर्मलाख्यो विवादहा || ८७-४६ || वैद्यो वेदपरो ग्रन्थो वेदशास्त्रप्रकाशकः | स्मृतिमूलो वेदयुक्तिः प्रत्यक्षकुलदेवता || ८७-४७ || परीक्षको वारणाख्यो महाशैलनिषेवितः | विरिञ्चप्रेमदाता च जन्योल्लासकरः प्रियः || ८७-४८ || प्रयागधारी पयोऽर्थी गाङ्गागङ्गाधरः स्मरः | गङ्गाबुद्धिप्रियो देवो गङ्गास्नाननिषेवितः || ८७-४९ || गङ्गासलिलसंस्थो हि गङ्गाप्रत्यक्षसाधकः | गिरो गङ्गामणिमरो मल्लिकामालधारकः || ८७-५० || मल्लिकागन्धसुप्रेमो मल्लिकापुष्पधारकः | महाद्रुमो महावीरो महाशूरो महोरगः || ८७-५१ || महातुष्टिर्महापुष्टिर्महालक्ष्मीशुभङ्करः | महाश्रमी महाध्यानी महाचण्डेश्वरो महान् || ८७-५२ || महादेवो महाह्लादो महाबुद्धिप्रकाशकः | महाभक्तो महाशक्तो महाधूर्तो महामतिः || ८७-५३ || महाच्छत्रधरो धारोधरकोटिगतप्रभा | अद्वैतानन्दवादी च मुक्तो भङ्गप्रियोऽप्रियः || ८७-५४ || अतिगन्धश्चातिमात्रो निणीतान्तः परन्तपः | निणीतोऽनिलधारी च सूक्ष्मानिलनिरूपकः || ८७-५५ || महाभयङ्करो गोलो महाविवेकभूषणः | सुधानन्दः पीठसंस्थो हिङ्गुलादेश्वरः सुरः || ८७-५६ || नरो नागपतिः क्रूरो भक्तानां कामदः प्रभुः | नागमालाधरो धर्मी नित्यकर्मी कुलीनकृत् || ८७-५७ || शिशुपालेश्वरः कीतीविकारी लिङ्गधारकः | तृप्तानन्दो हृषीकेशेश्वरः पाञ्चालवल्लभः || ८७-५८ || अक्रूरेशः पतिः प्रीतिवर्धको लोकवर्धकः | अतिपूज्यो वामदेवो दारुणो रतिसुन्दरः || ८७-५९ || महाकालः प्रियाह्लादी विनोदी पञ्चचूडधृक् | आद्याशक्तिपतिः पान्तो विभाधारी प्रभाकरः || ८७-६० || अनायासगतिर्बुद्धिप्रफुल्लो नन्दिपूजितः | शिलामूतीस्थितो रत्नमालामण्डितविग्रहः || ८७-६१ || बुधश्रीदो बुधानन्दो विबुधो बोधवर्धनः | अघोरः कालहर्ता च निष्कलङ्को निराश्रयः || ८७-६२ || पीठशक्तिपतिः प्रेमधारको मोहकारकः | असमो विसमो भावोऽभावो भावो निरिन्द्रियः || ८७-६३ || निरालोको बिलानन्दो बिलस्थो विषभुक्पतिः | दुर्गापतिर्दुर्गहर्ता दीर्घसिद्धान्तपूजितः || ८७-६४ || सर्वो दुर्गपतिवीप्रो विप्रपूजापरायणः | ब्राह्मणानन्दनिरतो ब्रह्मकर्मसमाधिवित् || ८७-६५ || विश्वात्मा विश्वभर्ता च विश्वविज्ञानपूरकः | विश्वान्तःकरणस्थश्च विश्वसंज्ञाप्रतिष्ठितः || ८७-६६ || विश्वाधारो विश्वपूज्यो विश्वस्थोऽचीत इन्द्रहा | अलाबुभक्षणः क्षान्तिरक्षो रक्षनिवारणः || ८७-६७ || तितिक्षारहितो हूतिः पुरुहूतप्रियङ्करः | पुरुषः पुरुषश्रेष्ठो विलालस्थः कुलालहा || ८७-६८ || कुटिलस्थो विधिप्राणो विषयानन्दपारगः | ब्रह्मज्ञानप्रदो ब्रह्मज्ञानी ब्रह्मगुणान्तरः || ८७-६९ || पालकेशो विराजश्च वज्रदण्डो महास्त्रधृक् | सर्वास्त्ररक्षकः श्रीदो विधिबुद्धिप्रपूरणः || ८७-७० || आर्यापुत्रो देवराजपूजितो मुनिपूजितः | गन्धर्वपूजितः पूज्यो दानवज्ञाननाशनः || ८७-७१ || अप्सरोगणपूज्यश्च मर्त्यलोकसुपूजितः | मृत्युजिद्रिपुजित् प्लक्षो मृत्युञ्जय इषुप्रियः || ८७-७२ || त्रिबीजात्मा नीलकण्ठः क्षितीशो रोगनाशनः | जितारिः प्रेमसेव्यश्च भक्तिगम्यो निरुद्यमः || ८७-७३ || निरीहो निरयाह्लादः कुमारो रिपुपूजितः | अजो देवात्मजो धर्मोऽसन्तो मन्दमासनः || ८७-७४ || मन्दहासो मन्दनष्टो मन्दगन्धसुवासितः | माणिक्यहारनिलयो मुक्ताहारविभूषितः || ८७-७५ || मुक्तिदो भक्तिदश्चैव निर्वाणपददानदः | निवीकल्पो मोदधारी निरातङ्को महाजनः || ८७-७६ || मुक्ताविद्रुममालाढ्यो मुक्तादामलसत्कटिः || ८७-७७ || रत्नेश्वरो धनेशश्च धनेशप्राणवल्लभः | धनजीवी कर्मजीवी संहारविग्रहोज्ज्वलः || ८७-७८ || संङ्केतार्थज्ञानशून्यो महासङ्केतपण्डितः | सुपण्डितः क्षेमदाता भवदाता भवान्वयः || ८७-७९ || किङ्करेशो विधाता च विधातुः प्रियवल्लभः | कर्ता हर्ता कारयिता योजनायोजनाश्रयः || ८७-८० || युक्तो योगपतिः श्रद्धापालको भूतशङ्करः | भूताध्यक्षो भूतनाथो भूतपालनतत्परः || ८७-८१ || विभूतिदाता भूतिश्च महाभूतिविवर्धनः | महालक्ष्मीश्वरः कान्तः कमनीयः कलाधरः || ८७-८२ || कमलाकान्त ईशानो यमोऽमरो मनोजवः | मनयोगी मानयोगी मानभङ्गो निरूपणः || ८७-८३ || अव्यक्तानन्दनिरतो व्यक्ताव्यक्तनिरूपितः | आत्मारामपतिः कृष्णपालको रामपालकः || ८७-८४ || लक्षणेशो लक्षभर्ता भावतीशः प्रजाभवः | भरताख्यो भारतश्च शत्रुघ्नो हनुमान् कपिः || ८७-८५ || कपिचूडामणिः क्षेत्रपालेशो दिक्करान्तरः | दिशांपतिदीशीशश्च दिक्पालो हि दिगम्बरः || ८७-८६ || अनन्तरत्नचूडाढ्यो नानारत्नासनस्थितः | संविदानन्दनिरतो विजयो विजयात्मजः || ८७-८७ || जयाजयविचारश्च भावचूडामणीश्वरः | मुण्डमालाधरस्तन्त्री सारतन्त्रप्रचारकः || ८७-८८ || संसाररक्षकः प्राणी पञ्चप्राणो महाशयः | गरुडध्वजपूज्यश्च गरुडध्वजविग्रहः || ८७-८९ || गारुडीशो मन्त्रिणीशो मैत्रप्राणहिताकरः | सिद्धिमित्रो मित्रदेवो जगन्नाथो नरेश्वरः || ८७-९० || नरेन्द्रेश्वरभावस्थो विद्याभावप्रचारवित् | कालाग्निरुद्रो भगवान् प्रचण्डेश्वरभूपतिः || ८७-९१ || अलक्ष्मीहारकः क्रुद्धो रिपूणां क्षयकारकः | सदानन्दमयो वृद्धो धर्मसाक्षी सुधांशुधृक् || ८७-९२ || साक्षरो रिपुवर्गस्थो दैत्यहा मुण्डधारकः | कपाली रुण्डमालाढ्यो महाबीजप्रकाशकः || ८७-९३ || अजेयोग्रपतिः स्वाहावल्लभो हेतुवल्लभः | हेतुप्रियानन्ददाता हेतुबीजप्रकाशकः || ८७-९४ || श्रुतिक्षिप्रमणिरतो ब्रह्मसूत्रप्रबोधकः | ब्रह्मानन्दो जयानन्दो विजयानन्द एव च || ८७-९५ || सुधानन्दो बुधानन्दो विद्यानन्दो बलीपतिः | ज्ञानानन्दो विभानन्दो भावानन्दो नृपासनः || ८७-९६ || सर्वासनोग्रानन्दश्च जगदानन्ददायकः | पूर्णानन्दो भवानन्दो ह्यमृतानन्द एव च || ८७-९७ || शीतलोऽशीतिवर्षस्थो व्यवस्थापरिचायकः | शीलाढ्यश्च सुशीलश्च शीलानन्दो पराश्रयः || ८७-९८ || सुलभो मधुरानन्दो मधुरामोदमादनः | अभेद्यो मूत्रसञ्चारी कलहाख्यो विषङ्कटः || ८७-९९ || वाशभाढ्यः परानन्दो विसमानन्द उल्बणः | अधिपो वारुणीमत्तो मत्तगन्धर्वशासनः || ८७-१०० || शतकोटिशरुश्रीदो वीरकोटिसमप्रभः | अजाविभावरीनाथो विषमापूष्णिपूजितः || ८७-१०१ || विद्यापतिर्वेदपतिरप्रमेयपराक्रमः | रक्षोपतिर्महावीरपतिः प्रेमोपकारकः || ८७-१०२ || वारणाविप्रियानन्दो वारणेशो विभुस्थितः | रणचण्डो रशेशश्च रणरामप्रियः प्रभुः || ८७-१०३ || रणनाथी रणाह्लादः संग्रामप्रेतविग्रहः | देवीभक्तो देवदेवो दिवि दारुणतत्परः || ८७-१०४ || खड्गी च कवची सिद्धः शूली धूलिस्त्रिशूलधृक् | धनुष्मान् धर्मचित्तेशोऽचिन्ननागसुमाल्यधृक् || ८७-१०५ || अर्थोऽनर्थप्रियोऽप्रायो मलातीतोऽतिसुन्दरः | काञ्चनाढ्यो हेममाली काञ्चनशृङ्गशासनः || ८७-१०६ || कन्दर्पजेता पुरुषः कपित्थेशोऽर्कशेखरः | पद्मगन्धोऽतिसद्गन्धश्चन्द्रशेखरभृत् सुखी || ८७-१०७ || पवित्राधारनिलयो विद्यावद्वरबीजभृत् | कन्दर्पसदृशाकारो मायाजिद् व्याघ्रचर्मधृक् || ८७-१०८ || अतिसौन्दर्यचूडाढ्यो नागचित्रमणिप्रियः | अतिगण्डः कुम्भकर्णः कुरुजेता कवीश्वरः || ८७-१०९ || एकमुखो द्वितुण्डश्च द्विविधो वेदशासनः | आत्माश्रयो गुरुमयो गुरुमन्त्रप्रदायकः || ८७-११० || शौरीनाथो ज्ञानमार्गी सिद्धमार्गी प्रचण्डगः | नामगः क्षेत्रगः क्षेत्रो गगनग्रन्थिभेदकः || ८७-१११ || गाणपत्यवसाच्छन्नो गाणपत्यवसादवः | गम्भीरोऽतिसुसूक्ष्मश्च गीतवाद्यप्रियंवदः || ८७-११२ || आह्लादोद्रेककारी च सदाह्लादी मनोगतिः | शिवशक्तिप्रियः श्यामवर्णः परमबान्धवः || ८७-११३ || अतिथिप्रियकरो नित्यो गोविन्देशो हरीश्वरः | सर्वेशो भाविनीनाथो विद्यागर्भो विभाण्डकः || ८७-११४ || ब्रह्माण्डरूपकर्ता च ब्रह्माण्डधर्मधारकः | धर्मार्णवो धर्ममार्गी धर्मचिन्तासुसिद्धिदः || ८७-११५ || अस्थास्थितो ह्यास्तिकश्च स्वस्तिस्वच्छन्दवाचकः | अन्नरूपी अन्नकस्थो मानदाता महामनाः || ८७-११६ || आद्याशक्तिप्रभुर्मातृवर्णजालप्रचारकः | मातृकामन्त्रपूज्यश्च मातृकामन्त्रसिद्धिदः || ८७-११७ || मातृप्रियो मातृपूज्यो मातृकामण्डलेश्वरः | भ्रान्तिहन्ता भ्रान्तिदाता भ्रान्तस्थो भ्रान्तिवल्लभः || ८७-११८ || इत्येतत् कथितं नाथ सहस्रनाममङ्गलम् | अष्टोत्तरं महापुण्यं स्वर्गीयं भुवि दुर्लभम् || ८७-११९ || यस्य श्रवणमात्रेण नरो नारायणो भवेत् | अप्रकाश्यं महागुह्यं देवानामप्यगोचरम् || ८७-१२० || फलं कोटिवर्षशतैर्वक्तुं न शक्यते बुधैः | यस्य स्मरणमाकृत्य योगिनीयोगपारगः || ८७-१२१ || सोक्षणः सर्वसिद्धीनां त्रैलोक्ये सचराचरे | देवाश्च बहवः सन्ति योगिनस्तत्त्वचिन्तकाः || ८७-१२२ || पठनाद्धारणाज्ज्ञानी महापातकनाशकः | आयुरारोग्यसम्पत्तिबृंहितो भवति ध्रुवम् || ८७-१२३ || संग्रामे ग्रहभीतौ च महारण्ये जले भये | वारमेकं पठेद्यस्तु स भवेद् देववल्लभः || ८७-१२४ || सर्वेषां मानसम्भङ्गी योगिराड् भवति क्षणात् | पूजां कृत्वा विशेषेण यः पठेन्नियतः शुचिः || ८७-१२५ || स सर्वलोकनाथः स्यात् परमानन्दमाप्नुयात् | एकपीठे जपेद्यस्तु कामरूपे विशेषतः || ८७-१२६ || त्रिकालं वाथ षट्कालं पठित्वा योगिराड् भवेत् | आकाशगामिनीं सिद्धिं गुटिकासिद्धिमेव च || ८७-१२७ || प्राप्नोति साधकेन्द्रस्तु राजत्वं हि दिने दिने | सर्वदा यः पठेन्नित्यं सर्वज्ञः सुकुशाग्रधीः || ८७-१२८ || अवश्यं योगिनां श्रेष्ठः कामजेता महीतले | अज्ञानी ज्ञानवान् सद्योऽधनी च धनवान् भवेत् || ८७-१२९ || सर्वदा राजसम्मानं पञ्चत्वं नास्ति तस्य हि | गले दक्षिणबाहौ च धारयेद्यस्तु भक्तितः || ८७-१३० || अचिरात्तस्य सिद्धिः स्यान्नात्र कार्या विचारणा | अवधूतेश्वरो भूत्त्वा राजते नात्र संशयः || ८७-१३१ || अरक्तचन्दनयुक्तेन हरिद्राकुङ्कुमेन च | सेफालिकापुष्पदण्डैर्दलसङ्कुलवजीतैः || ८७-१३२ || मिलित्वा यो लिखेत् स्तोत्रं केवलं चन्दनाम्भसा | स भवेत् पार्वतीपुत्रः क्षणाद्वा द्वादशाहनि || ८७-१३३ || एकमासं द्विमासं वा त्रिमासं वर्षमेव च | जीवन्मुक्तो धारयित्वा सहस्रनामकीर्तनम् || ८७-१३४ || पठित्वा तद्द्विगुणशः पुण्यं कोटिगुणं लभेत् | किमन्यं कथयिष्यामि सार्वभौमेश्वरो भवेत् || ८७-१३५ || त्रिभुवनगणनाथो योगिनीशो धनाढ्यो | मतिसुविमलभावो दीर्घकालं वसेत् सः | इह पठति भवानीवल्लभः स्तोत्रसारं | दशशतमभिधेयं ज्ञानमष्टोत्तरं च || ८७-१३६ | इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्कोणप्रकाशे भ्रूपद्मभेदविन्यासे भैरवीभैरवसंवादे परशिवहाकिनीश्वराष्टोत्तर-- | सहस्रनामपाठे सप्ताशीतितमः पटलः || ८७ || अथाष्टाशीतितमः पटलः श्रीआनन्दभैरवी उवाच शृणुष्व परमेश त्वं दुर्लभं योगिमण्डले | महायोगज्ञानसारं त्रैलोक्यमङ्गलं शुभम् || ८८-१ || यस्य विज्ञानमात्रेण साधकोऽसाधकोऽपि वा | मृत्युञ्जयो भवेज्ज्ञानी परमानन्दरूपभाक् || ८८-२ || होमस्थानं शिखामध्ये दीपस्य भ्रूदलान्तरे | परब्रह्मस्वरूपां तां शिखारूपां जगत्प्रियाम् || ८८-३ || स्वाहाशक्तिं तत्र नाथ विचिन्त्य मनसा सुधीः | यः स्तुत्वा प्रत्यहं होमकर्मसिद्धि समापयेत् || ८८-४ || इत्येतत् परमं ज्ञानमन्यज्ज्ञानं शृणु प्रभो | शिखोर्ध्वे च परा शक्तिः परंब्रह्मस्वरूपिणी || ८८-५ || उष्ट्र्मुखी रक्तमुखी कोटिकालानलोपमा | तां ध्यात्वा कुलपद्मस्य कणीकायां महामनाः || ८८-६ || मनोयोगस्थितां देवीं परमानन्ददायिनीम् | सूक्ष्मातिसूक्ष्मभावस्थां स्थूलातिस्थूलविग्रहाम् || ८८-७ || कालातीतां कालरूपां कालाकालप्रकाशिनीम् | धर्मोदयां भानुमतीं प्रबन्धकौशलेश्वरीम् || ८८-८ || पार्वतीं रणमातङ्गीं मतङ्गगमनां पराम् | निर्वाणसिद्धिदां धात्रीं पञ्चतत्त्वप्रकाशिनीम् || ८८-९ || पञ्चमीं पञ्चमस्थाञ्च पञ्चवक्त्रप्रियंवदाम् | पञ्चरश्ंमि पञ्चमवान् शोभितां दिक्पटाम्बराम् || ८८-१० || प्रवालस्थूलकोटीन्द्रनीलचन्द्रमणिस्रजाम् | द्विभुजां मौनशीलाञ्च ज्ञानपुस्तकधारिणीम् || ८८-११ || एकाकारस्थितां रौद्रीं परदेवीं विभाव्य च | तच्चतुदीक्षु सततं शतयोगिनीमण्डलम् || ८८-१२ || चक्रपङ्क्त्याकारशोभामण्डलं मण्डपस्थितम् | तासां नामानि वक्ष्यामि शृणु भैरववल्लभ || ८८-१३ || श्मशानवासिनी दुर्गा हरिणाक्षी प्रचण्डिका | रौद्री श्यामा योगिनी च शिवानी शिवमोहिनी || ८८-१४ || सुखिनी पञ्चमी बाला कुटिलाक्षी वसुन्धरा | सुवर्णाङ्गी पावना च पवित्रा परमानना || ८८-१५ || सिद्धिदा मङ्गला भाव्या सुरति कामदा रतिः | प्रबला विमला चमना प्रभा काञ्चनमालिनी || ८८-१६ || त्रिभङ्गदेहश्यामाङ्गी तरुणा तरलावती | सुलभा दुर्लभा सर्वा प्रफुल्लकमलापि वा || ८८-१७ || पातालमुखी गोमुण्डा घोरहासा विलासिनी | अरुणा श्रवणा मन्त्री मालती मल्लिका तथा || ८८-१८ || वैश्वानरी भरद्वाजा त्रिविभागा मतिः क्षुधा | सुभद्राभाकरी लिप्ता नर्तका चिटिसुन्दरी || ८८-१९ || बृहन्नली भागवती विशाला विरला तथा | मानसी वानरीग्रीवा क्रोधिनी मोहिनी तथा || ८८-२० || आकषीणी स्तम्भिनी व त्रिजटा रुक्ममालिनी | सप्तिका सुकला गीर्या गभीरा मुषलावती || ८८-२१ || बृहन्नितम्बा मोहाक्षी मन्दिरा चन्द्रिका तथा | सिद्धा विद्याधरा हारा रतिः कैशोरधमीणी || ८८-२२ || तप्ता शान्तिर्भद्रदा च विकारी मञ्चवासिनी | महाविद्या भवानी च तारब्रह्मस्वरूपिणी || ८८-२३ || मातङ्गी बगला कृष्णा शिवा हैमवतीश्वरा | समनापहरा काली कन्दर्पवनिता शुभा || ८८-२४ || वाराणसीश्वरी बाला कमला चारुहासिनी | अजन्ता हिमकन्या च शर्वाणी कुलचञ्चला || ८८-२५ || तपस्विनी राजपुत्री चोमापर्णा निरञ्जना | आधारभूता सावित्री वाच्यावाच्या चराचरा || ८८-२६ || कल्क्येशी शशिवदना निवीकल्पसुपाक्षणी | भुवनेशी सुन्दरी च सती सिद्धिप्रदा कला || ८८-२७ || कृपणा पद्मवदना शब्देशी भगमालिनी | आराधिता शोकहरा हरा हीरकमालिनी || ८८-२८ || हालाहलहरा हारा रती कालानलापहा | भैरवी वीरमाता च महाभाग्यवती उमा || ८८-२९ || सुलभा दुर्गमाता च सुगन्धा गन्धमालिनी | अमावास्या सिता भद्रा चारुणी सूर्यपुत्रिणी || ८८-३० || दानदा धनदा सिद्धिदायिनी भोगदायिनी | इलावती रत्नमाला मनोयोगनिवासिनी || ८८-३१ || मनस्विनी मूलमाता मूलमन्त्रस्वरूपिणी | एतासां ध्यानमाकृत्य चतुदीक्षु क्रमेण तु || ८८-३२ || विभाव्य तैजसीं सर्वां तेजोमालाविनाशिनीम् | अतिसौन्दर्यलहरीं पारिजातवनान्तरे || ८८-३३ || महामण्डलमध्ये तु रत्नसन्ताननिमीते | ग्रहस्यापि महाकालं चतुर्द्वारं विचिन्तयेत् || ८८-३४ || मणिकोटिविनिर्माणचतुस्तोरणभूषितम् | मण्डपस्योर्ध्वभागे च महाचन्द्रातपं शितम् || ८८-३५ || शतसूर्यप्रभं कान्तं मुक्तादामविभूषितम् | तथा मण्डपमध्योर्ध्वे वितालाङ्कं मनोहरम् || ८८-३६ || तदधः स्वर्णनिर्माणच्छत्रं मणिमयं रुचिम् | तदधः सिंहरूपाक्षि युक्तसिंहासनं परम् || ८८-३७ || तदूर्ध्वे प्रेतबीजं तु प्रेतलिङ्गोपमं स्मृतम् | प्रेतलिङ्गोपरि ध्यात्वा काञ्चनस्यापि मण्डलम् || ८८-३८ || महापीठं त्रिकोणं तु कणीकायां महाप्रभम् | शुक्लपद्मं महाशोभं षोडशच्छदमण्डितम् || ८८-३९ || षोडशस्वरसंयुक्तं केशकेषु च वर्णकान् | दक्षिणावर्तयोगेन विद्युद्रूपं विचिन्तयेत् || ८८-४० || चतुष्कोणत्रयं पश्चाच्चतुर्द्वारं मनोहरम् | तत्र संचिन्तयेद् देवीं वारुणीमत्तविग्रहाम् || ८८-४१ || पराम्बारूपिणीं तारां तरुणादित्यसन्निभाम् | चतुर्द्वारे सदा ध्यायेद् देवानां चापि मण्डलम् || ८८-४२ || सवाहनं दैवतं च परिवारसमन्वितम् | इन्द्रनीलप्रभं कान्तं पूर्वद्वारीन्द्रचिन्तनम् || ८८-४३ || वह्निकोणे तथा वह्निमण्डलं सर्वतोमुखम् | परिवारान्वितं ध्यात्वा यमलोकं तु दक्षिणे || ८८-४४ || यमं श्यामं महाकान्तं परिवारगणान्वितम् | सवाहनं ततो ध्यायेन्नैरृतं राक्षसीं पुरीम् || ८८-४५ || तदुत्तरे सदा ध्यायेद् वरुणं मेषवाहनम् | परिवारान्वितं शुक्लं भास्वरं तत्र चिन्तयेत् || ८८-४६ || तदुत्तरे मरुल्लोकं कृष्णसारस्ववाहनम् | परिवारान्वितं ध्यात्वा तत्पूर्वे चिन्तयेत् ततः || ८८-४७ || कुबेरमुत्तरद्वारि परिवारगणान्वितम् | सवाहनं कुत्सितञ्च सर्वरत्नोपशोभितम् || ८८-४८ || ईशाने ईशलोकञ्च परिवारगणान्वितम् | सवाहनं सर्वलोकपूजितं परमेश्वरम् || ८८-४९ || परिवारान्वितं ध्यात्वा नानावाद्यसमन्वितम् | भेरीतुरीधुधुरीणां सहस्रकोटिमेव च || ८८-५० || दुन्दुभिकुलितामोदगायनानन्दपूरितम् | नानासुन्दरवाद्याढ्यं पूर्वलोकं विचिन्तयेत् || ८८-५१ || वेणुवीणामृदङ्गानां सहस्रकोटिनादितम् | यमलोकं नैरृते च मन्त्रकोटिसमन्वितम् || ८८-५२ || करतालकांस्यढक्काध्वनिकोटिप्रपूरितम् | जलेश्वरमहालोकं दुन्दुभिध्वनिमोहितम् || ८८-५३ || यन्त्रकोटिध्वनिश्रेणिमोहितं तत्र चिन्तयेत् | झर्झरीपर्परीताङ्गीस्वनादनादितं रुचिम् || ८८-५४ || मरुल्लोकं तथा ध्यायेत् कुबेरस्थानमेव च | दुन्दुभिश्रेणिढक्कादियन्त्रनादविमोहितम् || ८८-५५ || रागतालनृत्यगीतं मूतीमन्त्रं विचिन्तयेत् | दीप्तिश्रेणिधरं कान्तं गन्धर्वनगरं ततः || ८८-५६ || अप्सरोभिः परिवृतं सर्वत्र नगरे सुधीः | विचिन्तयेद् गानरसं रसिकं सर्वमङ्गलम् || ८८-५७ || सर्वलोकस्थिता शोभा शोभा सर्वविमोहिनी | सर्वस्यान्तु समायान्तु देवषी यन्त्रगायकम् || ८८-५८ || वाद्यवादकमेवं हि चिन्तयेत् परमावृतम् | ब्रह्मषीमण्डलं तस्यां सर्वेषां गायनान्वितम् || ८८-५९ || देवषीसर्वविज्ञानवाक्यरत्नस्वगायनम् | विचिन्त्यैवं विधानेन निजपीठं विचिन्तयेत् || ८८-६० || पीठशक्तिं विचिन्त्याशु पीठनायकमेव च | विचिन्त्यानन्दमग्नः स्यादचिरात् सिद्धिमाप्नुयात् | अधो वाराणसीपीठं ध्यायेत् तत् क्रममाशृणु || ८८-६१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे पराशक्तिनिर्मूलस्थाननिर्णयो नाम अष्टाशीतितमः पटलः || ८८ || अथैकोननवतितमः पटलः श्रीआनन्दभैरवी उवाच कालरूप महादेव कालकूटासवप्रिय | इदानीं शृणु देवेश वाराणस्याः प्रियं पदम् || ८९-१ || शतकोटियोगिनीनां मण्डलं योगिसेवितम् | तं ध्यायेत् सर्वदा योगी यदि कल्याणमिच्छति || ८९-२ || भ्रूमध्ये भाति सततं मण्डलाकारशोभितम् | मातृकायन्त्ररूपं तु सर्वसारं विचिन्तयेत् || ८९-३ || कोटिस्वयम्भूलिङ्गाढ्यं पुण्यकोटिफलोदयम् | अतिसिद्धिप्रदं देशं देशनाथप्रियं पदम् || ८९-४ || अमलाकमलाशक्तिकोटिकोटिसमन्वितम् | त्रिशूलोपरि पूरं तु च्छत्राकारं फलाकरम् || ८९-५ || कोटिलिङ्गप्रधानं तु योगेश्वरशिवं प्रभुम् | अष्टोत्तरशतानन्दविग्रहं मन्मथान्तकम् || ८९-६ || वराभयकरं सिद्धं डमरुच्छत्रधारिणम् | त्रिशूलमुद्गराद्यस्त्रखेटकादिविभूषितम् || ८९-७ || पञ्चमुखं दशभुजं शङ्खमालाकपालकम् | ध्यात्वा सञ्चिन्तयेच्छम्भुं दश दिक्षु क्रमेण तु || ८९-८ || स्थाने स्थाने दश दश मूतीचिह्नं विचिन्तयेत् | शोणाभं विद्युताभञ्च पुरीरक्षणकारणम् || ८९-९ || हेतुप्रियं गजारूढं वृषारूढं द्वयं द्वयम् | अत्र चिन्तनमाकृत्य पीठविद्यावशं नयेत् || ८९-१० || दशकं व्याप्य तिष्ठन्ति मण्डलाकारसुक्रमात् | अयुतं शिवलिङ्गं तु दश दिक्षु दश स्थले || ८९-११ || विचिन्तयेच्छुक्लवर्णं काञ्चनालङ्कृतोज्ज्वलम् | पूर्वस्यां दशरूपं तु चायुतावरणं प्रभुम् || ८९-१२ || दश नाम प्रवक्ष्यामि शृणु भैरवभूपते | जटिलः काल उन्मत्तः क्रोधराजः सदाशिवः || ८९-१३ || परो दधीचिनाथश्च सुवाशी प्रमथेश्वरः | यज्ञनाथेश्वरश्चैव चायुतेश्वरवल्लभः || ८९-१४ || वह्निकोणे सदा भान्ति मूतीमन्तः शिवा दश | वज्रधरो महाकालः कपिलेश्वर एव च || ८९-१५ || पञ्चाननो योगिनाथो घर्घरेशः पिनाकधृक् | पशुपालः क्षेमदश्च ब्रह्मनाथो दश स्मृताः || ८९-१६ || एते चायुतलिङ्गेशा मूतीमन्तो विभान्ति च | एतेषां ध्यानमाकृत्य पूजयेद् घृतधारया || ८९-१७ || चिन्तयेद् दक्षिणे पश्चाद्दशमूतीं शिवस्य च | वीरः शूलेश्वरः सिद्धेश्वरः श्रीपार्वतीश्वरः || ८९-१८ || गणनाथेश्वरः शम्भुः प्रचण्डो दक्षयज्ञहा | काशीपतिः पशुपतिः शिवा एते दश स्मृताः || ८९-१९ || अयुतानन्दलिङ्गेशाः कपालशूलधारकाः | मूतीमन्तो विभान्त्यत्र शिवमण्डलमध्यगाः || ८९-२० || एतान् सञ्चिन्तयेद् भक्त्या पीठक्षेत्रे च दक्षिणे | नैरृते चिन्तयेत् पश्चात् कामाख्यः शिवलिङ्गकः || ८९-२१ || दक्षिणामूतीरीशानो वामनेशो मनोहरः | वामदेवो बाणनाथो रघुवीरेश्वरस्ततः || ८९-२२ || कामराजेश्वरः कामकलेशो दश ईश्वराः | मूतीमन्तो विभान्त्यत्रायुतलिङ्गेश्वराः प्रभो || ८९-२३ || विचिन्त्य परया भक्त्या पूजयेद् बिल्वपत्रकैः | सर्वत्र मानसार्चा च पूर्वोक्तमूतीकल्पना || ८९-२४ || वरुणे च ततो ध्यायेन्मण्डलस्थान् दश क्रमान् | अरुणेश्वरो योगेन्द्रकाशीराजसुरान्तकाः || ८९-२५ || त्रिशूली वरुणेशश्च कालाख्यः कामदायकः | कालाग्निरुद्रो भद्रेशो दश रुद्राः प्रकीतीताः || ८९-२६ || शिवलिङ्गायुतेशाश्च सर्वशक्तिसमन्विताः | वायुकोणे स्थिता एते रुद्राश्चायुतलिङ्गपाः || ८९-२७ || महारुद्रो वातनाथो रुद्रात्मा रौद्ररूपकः | रूपनाथो हि हनुमान् सूर्येशो वसुधेश्वरः || ८९-२८ || वासुकीवल्लभः सत्यपतिरेते महेश्वराः | परिवारयुताः श्रेष्ठा महारुद्रादिवल्लभाः || ८९-२९ || एते पूज्याश्चिन्तनीयाः कामनाफलसिद्धये | उत्तरे चोत्तरास्यश्च कुबेरेश्वर ईश्वरः || ८९-३० || पञ्चाधारः पारमेशः परहंसप्रभाकरः | अनन्तेशः कायरक्षो रत्नेश्वर उमापतिः || ८९-३१ || एकादशैते रुद्राश्च नित्यायुतगणेश्वराः | एते पूज्या ध्यायितव्याः पूर्वोक्तमूतीकल्पनाः || ८९-३२ || ईशाने च ततो ध्यायेदीश्वरान् परमेश्वर | ईशो वैश्वानरेशश्च विश्वामित्रेश्वरस्तथा || ८९-३३ || ईशानोऽपि च मायेशो बटुकेशो रमेश्वरः | कालान्तकेशः कामाख्यो महाकामपुरीश्वरः || ८९-३४ || श्मशानवासिदेवेशः सर्वरूपप्रकाशकः | एकादशैते रुद्राश्च कामपीठनिवासिनः || ८९-३५ || अयुतानन्दलिङ्गेशाश्चिन्तनीयाः प्रपूजिताः | वाराणसीमध्यपीठे त्रयोदश शिवेश्वराः || ८९-३६ || अधोमण्डलमध्ये तु चिन्तयित्वा प्रपूजयेत् | मृत्युञ्जयो मोक्षदश्च शिवेशो भैरवेश्वरः || ८९-३७ || भूतनाथो भूतकर्ता क्षेत्रपालः परापरः | मञ्जुघोषेश्वरः कालदमनः कौशलेश्वरः || ८९-३८ || मुनिनाथो वर्णमाली रुद्रा भैरवरूपिणः | एते त्रयोदशानन्दशिवरूपाः सुरेश्वराः || ८९-३९ || अयुतानन्दलिङ्गेशाः पूज्यमानाः सुरासुरैः | वराभयप्रदाः पञ्चतत्त्वप्रकाशकारिणः || ८९-४० || वाराणस्यूर्ध्वपीठे च त्रयोदश शिवान् यजेत् | विचिन्त्य परमानन्दसाधकः स्थिरचेतसा || ८९-४१ || ब्रह्मेशो ब्रह्मकुलेशो ब्रह्मलिङ्गो विधीश्वरः | ब्रह्माण्डभेदकश्चात्मारामो वक्रेश्वरस्तथा || ८९-४२ || बलीशो भार्गवेशश्च सदानन्देश्वरो हरः | कृष्णेश्वरो रामनाथो रुद्रास्त्रयोदश स्मृताः || ८९-४३ || अयुतानन्दलिङ्गेशा भैरवेन्द्राः प्रकीतीताः | एते पूज्या महाकाल रुद्रास्त्रिभुवनेश्वराः || ८९-४४ || कपालीशादयो ज्ञानज्ञेया निर्मलचेतसा | सर्वाऽलङ्कारशोभाढ्या रत्नकुण्डलमण्डिताः || ८९-४५ || सृष्टिसंहारकर्तारो देवकार्ये नियोजिताः | एतेषां ध्यानमाकृत्य पूजयेच्चित्तपुष्पकैः || ८९-४६ || तदा सिद्धिमवाप्नोति सत्यं सत्यं महेश्वर | अकालतारका एते सर्वसिद्धिसमृद्धिदाः || ८९-४७ || आनन्दभैरवाह्लादकारिणः कुलपण्डिताः | एते रुद्राः पूजयन्ति महाविद्याः सुलक्षणाः || ८९-४८ || तासां नाम प्रवक्ष्यामि क्रमशः शृणु भैरव | द्रां द्रीं दश महाविद्याः पञ्चतत्त्वप्रकाशिकाः || ८९-४९ || सर्वसिद्धिप्रदा नाथ पूजयन्ति महीतले | सत्यत्रेताद्वापरे च कलौ पूर्णफलप्रदाः || ८९-५० || तासां नामानि वक्ष्यामि या या हि रुद्रपूजिताः | त्रिपुरासुन्दरी देवी तथा त्रिपुरभैरवी || ८९-५१ || भुवनेशी चान्नपूर्णा मातङ्गी विन्ध्यवासिनी | छिन्नमस्ता च बगला त्रिकूटा पञ्चमी तथा || ८९-५२ || कालिका तारिणी देवी काशीनाथप्रपूजिताः | तन्त्रोक्तबाह्यपूजादिरवश्यं पूजयेत् सुधीः || ८९-५३ || साधकः सिद्धिमाप्नोति कुलपूजाक्रमेण तु | योगसिद्धिमवाप्नोति मासादेव न संशयः || ८९-५४ || भ्रूपद्मभेदने काले त्ववश्यं परिपूजयेत् || ८९-५५ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्र-- प्रकाशे भैरवीभैरवसंवादे वाराणसीपीठनाथान्तर्यजनं नाम एकोननवतितमः पटलः || ८९ || अथ नवतितमः पटलः श्रीआनन्दभैरवी उवाच शृणु कान्त प्रवक्ष्यामि हाकिनीपञ्चमण्डलम् | वाराणसीमध्यपीठे पञ्चकोणं विचिन्तयेत् || ९०-१ || तत्र श्रीहाकिनीदेव्याः पञ्चपीठं विचिन्तयेत् | पञ्चपीठे पञ्चदेवं रत्नमालाविमण्डितम् || ९०-२ || भूतप्रेतपिशाचादियक्षदानवकोटिभिः | वेष्टितं सर्वलोकाढ्यं पञ्चकोणं विचिन्तयेत् || ९०-३ || पञ्चकोणे पञ्चपीठं कामदं व्यालसिद्धिदम् | निर्वाणसिद्धिदं देव किमन्यत् कथयामि ते || ९०-४ || पञ्चकोणे पञ्चतत्त्वं पञ्चबीजं स्वमेव च | पूर्वकोणे इन्द्रबीजं पृथिव्याश्च त्रिकोणकम् || ९०-५ || तद्दक्षिणे वायुबीजं वायवीशक्तिमण्डलम् | वायुमुग्रवेगधरं धरणीभञ्जनाख्यकम् || ९०-६ || तदधो गृहपीठे च त्रिकोणमण्डलोज्ज्वले | जलबीजं वारुणाख्यं सर्वरत्नासनस्थितम् || ९०-७ || शीतलं बहुरूपं तं त्रिलोकवायुभञ्जकम् | सर्वाधस्तैजसं रूपं वह्निबीजं महाप्रभम् || ९०-८ || सर्वदा तं मूतीमन्तं तेजोमालासमाकुलम् | महोग्रं सर्वभक्षञ्च जलीयदोषभञ्जकम् || ९०-९ || आकाशं सर्वशेषाख्यं महाप्रलयसङ्गमम् | कुम्भकाधारचक्रं तु आकाशबीजरूपिणम् || ९०-१० || सर्वेषां लयसंस्थानं निर्मलं तत्त्वसिद्धिदम् | हाकिनीपञ्चपीठञ्च पञ्च प्राणान् तदन्तरे || ९०-११ || प्राणोऽपानः समानश्चोदानव्यानौ च वायवः | मूतीमन्तो विभान्त्यत्र लोकानां मृत्युनाशनात् || ९०-१२ || एतेषु वायुकुण्डेषु पूजयेत् पञ्चवायवीम् | प्राणेशी गुदगापाना समानेशी कुलान्तरा || ९०-१३ || उदानेशी व्यानमाता वायव्यः पञ्च पूजिताः | पञ्चप्राणो पञ्चयोगं यः करोति कुलेश्वर || ९०-१४ || वायवीष्वर्पयेन्नित्यं पञ्चतत्त्वं सुयोगवि | शुद्धासवं शुद्धमांसं शुद्धमीनं तथापरम् || ९०-१५ || शुद्धमुद्रां तथा शुद्धकुलचन्दनमर्पयेत् | पञ्चतत्त्वं दापयेद् यः कुलसिद्धिनिबन्धनात् || ९०-१६ || हाकिनीपरमायान्तु परमाभिः प्रतर्पयेत् | वाराणसीमध्यपीठचक्रविद्या समा शृणु || ९०-१७ || वाराणसीमण्डलञ्च त्रिकोणं षोडशच्छदम् | केशरद्वयमेवं तु पत्रे पत्रे प्रतिष्ठितम् || ९०-१८ || चतुष्कोणत्रयं तस्योर्ध्वे चतुर्द्वारमेव च | एतद्वाराणसीचक्रं सर्वकामसुसिद्धिदम् || ९०-१९ || वाराणसीचक्रमध्ये त्रिकोणस्यान्तरे सुधीः | प्रपञ्चगुणदुःखानि हरेच्च पञ्चकोणकम् || ९०-२० || त्रिकोणस्यान्तरे ध्यात्वा किन्न सिद्ध्यति भूतले | एतत्प्रकाशितं चक्रं यो ध्यायति निरन्तरम् || ९०-२१ || मनोयोगसिद्धिभावं स प्राप्नोति न संशयः | मनोयोगसिद्धिकाले सदावश्यं विचिन्तयेत् || ९०-२२ || पञ्चकोणे पञ्चतत्त्वं काशीपीठे च लिङ्गिनः | कोटिरूपधरा एते चात्रैव भान्ति नित्यशः || ९०-२३ || हाकिनीमण्डलं मध्ये काश्यास्त्रिकोणयन्त्रके | हाकिनी पञ्चतत्त्वाख्यां पञ्चभूतप्रकाशिनीम् || ९०-२४ || पृथिवीजलरूपाञ्च तेजोरूपाञ्च वायवीम् | गगनां क्रमतो ध्यायेद् दक्षिणावर्तसत्पथा || ९०-२५ || विभाव्य पञ्चमीं देवीं हाकिनीमण्डले यजेत् | सर्वत्र ह्यन्तर्यजनं कृत्वा सिद्धिमवाप्नुयात् || ९०-२६ || इति वाराणसीचक्रमध्यस्थं पञ्चकोणकम् | हाकिनीमण्डलं देवनायिकागणमण्डितम् || ९०-२७ || सर्वालङ्कारशोभाढ्यं हेममालाविराजितम् | शिवशक्त्यात्मकं चक्रं परमसिद्धिदायकम् || ९०-२८ || अप्रकाश्यं सर्वतन्त्रे काशितं रुद्रयामले | षट्कोणमण्डलं वक्ष्ये हाकिन्याः शिवशक्तिगम् || ९०-२९ || वाराणसीमण्डलाग्रे प्रतिभाति निरन्तरम् | शिवशक्तिमयं शुद्धचक्रराजं विचिन्तयेत् || ९०-३० || तदूर्ध्वे चोन्मनीदेशं तदूर्ध्वे बोधनीपुरम् | मण्डलं शृणु यत्नेन येनान्तर्यजनं लभेत् || ९०-३१ || षट्कोणं कणीकामध्ये तद्बाह्ये मण्डलाष्टकम् | तदूर्ध्वे षोडशदलं केशरद्वयसंयुतम् || ९०-३२ || चतुर्द्वारं तदूर्ध्वे तु व्याप्य तिष्ठति सर्वदा | षट्कोणमध्यदेशे तु परनाथं परान्वितम् || ९०-३३ || षट्कोणे सर्वदा भान्ति षट्चक्रस्थितिशक्तयः | पतिभिः सह देवेशी डाकिनी कुण्डलीप्रिया || ९०-३४ || राकिणी लाकिनी देवी काकिनी शाकिनी तथा | हाकिनी च दक्षिणतो ध्येया शिवसमीपगा || ९०-३५ || ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | ततः परशिवो ध्येयः स्वमुक्तिमण्डलस्थितः || ९०-३६ || ध्यात्वा सम्पूजयेच्चक्रे शिवशक्तिमयं परम् | पराशक्तिसमाक्रान्तं स्वयम्भुलिङ्गरूपिणम् || ९०-३७ || सर्वसिद्धान्तनिलयं वेदवेदाङ्गगायनम् | मायातीतं निवीकल्पं स्वप्रकाशं निरञ्जनम् || ९०-३८ || षट्कोणान्तर्गतं ध्यात्वा पराशक्तिसमन्वितम् | तदूर्ध्वेऽष्टमण्डलं तु व्याप्य कोटिसहस्रशः || ९०-३९ || योगिन्यः सन्ति नित्यं तु परमानन्दसिद्धिदाः | तदूर्ध्वे षोडशारे च भान्ति स्वरसमन्विताः || ९०-४० || परा शक्तिः प्रभाकारा चतुर्द्वारे ततो लिखेत् | अष्टवर्गक्रमेणापि सर्वसिद्धि विभावयेत् || ९०-४१ || सिद्धिपूजामवाप्नोति मण्डलाकारभावनात् | मण्डलं यो महाकालभ्रूर्ध्वे ध्यायेद्यदि प्रियम् || ९०-४२ || महासिद्धिमवाप्नोति सत्यं सत्यं कुलेश्वर | अनायासेन योगेन्द्र योगिनीसिद्धिमाप्नुयात् || ९०-४३ || एतच्चक्रं विभाव्याशु भावसिद्धिमवाप्नुयात् | भावसिद्धिस्थितं चक्रं मनोयोगसुसिद्धिदम् || ९०-४४ || अन्यच्छ्रीबोधिनीचक्रस्याधोभागे विचिन्तयेत् | उन्मनीज्ञानचक्रं तु सार्वज्ञसिद्धिदायकम् || ९०-४५ || नवकोणं बिन्दुयुक्तं प्रेतबीजं विचिन्तयेत् | तं व्याप्य नवकोणं तु मण्डलत्रयमेव च || ९०-४६ || षोडशारं तद्बहिस्तु चतुर्द्वारं तु तद्बहिः | दले दले सुरान् ध्यायेदष्टवर्गं ततो लिखेत् || ९०-४७ || अष्टकोणे चतुर्द्वारमण्डलस्य विभाव्य च | उन्मनीनगरं मध्ये तन्मध्ये पररूपिणम् || ९०-४८ || शक्तियुक्तं विभाव्याशु सिद्धिमिष्टां प्रयच्छति | पदार्थनवकं तत्र बीजयुक्तं विभावयेत् || ९०-४९ || तत्पदार्थान् प्रवक्ष्यामि शृणुष्व भैरवेश्वर | पृथिवीं जलरेखाञ्च तेजोरूपाञ्च वायवीम् || ९०-५० || आकाशगामिनीं देवीं कालरूपां दिगम्बरीम् | आत्मशक्तिं मनःशक्तिं दक्षिणावर्तयोगतः | लिखित्वा स्वस्वबीजाढ्यां भावयेत् कुलवर्त्मना || ९०-५१ || इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे | षट्चक्रप्रकाशेभैरवीभैरवसंवादे वाराणसीपञ्चपीठ-- | प्रकाशो नाम नवतितमः पटलः || ९० || ########### END OF FILE #######